Adhikarana 1 (1-2) · Śloka 2
अथातः स्वरभेदप्रतिषेधमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
श्वासकासप्रतिषेधानन्तरमूर्ध्वगतत्वसामान्यात् श्वासकासचिकित्सितसाध्यत्वाच्च स्वरभेदप्रतिषेधारम्भो युक्त इत्यत आह- अथात इत्यादि| स्वरभेदः स्वरोपघातः||१-२||
Adhikarana 2 (3) · Śloka 3
अत्युच्चभाषणविषाध्ययनातिगीतशीतादिभिः प्रकुपिताः पवनादयस्तु |
स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां हन्युः स्वरं भवति चापि हि षड्विधः सः ||३||
स्वरभेदहेतुसम्प्राप्तिसङ्ख्या आह- अत्युच्चभाषणेत्यादि| अध्ययनम् अनवरतं वेदादिपाठः| अतिगीतं निरन्तरं मङ्गलादिगानम्| शीतादिभिरित्यत्रादिशब्दात् पित्तकफकोपहेतवो गृह्यन्ते| यदत्र अत्युच्चभाषणादीनां वातकोपहेतूनामेव साक्षात् कथनं कृतं न पित्तकफकोपहेतूनां तत् स्वरोपघातकर्तृत्वे वायोः प्राधान्यख्यापनार्थम्| अन्ये तु शीतादीत्यत्र आदिशब्देन गुरुलघुस्निग्धरूक्षादीन् गुणान् गृह्णन्ति| स्वरवहेषु स्रोतःसु शब्दवाहिनीषु धमनीषु, ते वातादयः, गताः प्राप्ताः, प्रतिष्ठां स्थितिम्| षड्विधः षट्प्रकारः; पृथक् वातादिभिस्त्रयः, सन्निपातेनैकः, मेदःक्षयाभ्यां प्रत्येकमेकः; एवं षट्प्रकारः| ननु, समानतन्त्रे ‘वातात् पित्तात् कफात् कासाद्रक्तवेगात् सपीनसात्’ (च. चि. ८) इत्यत्र यथा षड्विधः स्वरभेद उक्तस्तेन सार्धं कथं न विरोधः| सत्यं, कासजप्रतिश्यायजयोर्लिङ्गत्वेनोक्तत्वाद्ग्रहणं, रक्तजस्य तु कफग्रहणेनैव ग्रहणं, यतो रक्तं कफयुक्तं स्वरभेदं करोति समानतन्त्रोक्तत्वात्| यद्येवं तर्हि कथं न सङ्ख्याधिक्यं? स्त्यं, कासजप्रतिश्यायजयोर्वातिकत्वेन ग्रहणम्| अत्युच्चभाषणेत्यादिको हेतुः, प्रकुपिताः पवनादय इत्यादिका सम्प्राप्तिः, भवति चापि हि षड्विधः स इति सङ्ख्या||३||
Adhikarana 3 (4) · Śloka 4
वातेन कृष्णनयनाननमूत्रवर्चा भिन्नं शनैर्वदति गद्गदवत् स्वरं च |४|
वातिकस्वरभेदलक्षणमाह- वातेनेत्यादि| कृष्णशब्दो नयनादिभिर्वर्चःपर्यन्तैः सम्बध्यते| भिन्नम् अनवस्थितम्| उक्तं च तन्त्रान्तरे- “स्वरभेदो भवेद्वाताद्रूक्षः क्षामश्चलः स्वरः” (च. चि. ८)- इति| ‘गद्गदवत् स्वरम्’ इत्यत्र केचित् ‘गर्दभवत् स्वरं’ इति पठन्ति|४|-
Adhikarana 4 (4) · Śloka 4
पित्तेन पीतवदनाक्षिपुरीषमूत्रो ब्रूयाद्गलेन परिदाहसमन्वितेन ||४||
पित्तजस्वरभेदलक्षणमाह- पित्तेनेत्यादि| पीतशब्दो वदनादिभिर्मूत्रान्तैः सम्बध्यते| 'स विदाहसमन्वितेन’ इति केचित् पठन्ति, तत्र स इति स्वरभेदी पुरुषः||४||
Adhikarana 5 (5) · Śloka 5
कृच्छ्रात् कफेन सततं कफरुद्धकण्ठो मन्दं शनैर्वदति चापि दिवा विशेषः |५|
कफजस्वरभेदलक्षणमाह- कृच्छ्रादित्यादि| सततम् अनवरतम्| कफरुद्धकण्ठः श्लेष्मावृतकण्ठः| मन्दं शनैरिति मन्दं मन्दमित्यर्थः| दिवा विशेष इति दिवसे विशेषो भवेत्, कफक्षयात्| ‘दिवा विशेषात्’ इति केचित् पठन्ति; रात्रौ तावत् कफरुद्धकण्ठत्वान्न वदत्येव, दिवा पुनः कफापचयाद्विशेषो भवति, तस्माच्च विशेषान्मन्दं मन्दं वदतीति व्याख्यानयन्ति|५|-
Adhikarana 6 (5) · Śloka 5
सर्वात्मके भवति सर्वविकारसम्पदव्यक्तता च वचसस्तमसाध्यमाहुः ||५||
सान्निपातिकस्वरभेदलक्षणमाह- सर्वात्मक इत्यादि| सर्वात्मके सन्निपातोत्थस्वरभेदे| सर्वविकारसम्पद् वातादिलिङ्गप्रादुर्भावः| अव्यक्तता च वचसः अस्पष्टवाक्त्वम्| तं सान्निपातिकस्वरभेदम्||५||
Adhikarana 7 (6) · Śloka 6
धूप्येत वाक् क्षयकृते क्षयमाप्नुयाच्च वागेष चा(वा)पि हतवाक् परिवर्जनीयः |६|
क्षयजस्वरभेदलक्षणमाह- धूप्येतेत्यादि| धूप्येत मुखाद्धूममिवोद्वमति, ‘ब्रुवन्’ इति वाक्यशेषः| क्षयमाप्नुयाद् वागिति वचनक्षयं प्राप्नुयात् ‘वातात्’ इति शेषः|६|-
Adhikarana 8 (6-7) · Śloka 7
अन्तर्गलं स्वरमलक्ष्यपदं चिरेण मेदश्चयाद्वदति दिग्धगलौष्ठतालुः ||६||
क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः |
मेदस्विनः सर्वसमुद्भवश्च स्वरामयो यो न स सिद्धिमेति ||७||
मेदोजस्वरभेदलक्षणमाह- अन्तर्गलमित्यादि| अन्तर्गलं गलस्यान्तरे| स्वरं वदति शब्दं करोति| ‘अन्तर्गतं’ इति केचित् पठन्ति, तत्रापि स एवार्थः| यतोऽन्तर्गलं स्वरं वदति अत एव अलक्ष्यपदमिति, न लक्ष्यन्ते पदानि यस्येत्यर्थः| भेदश्चयात् मेदोवृद्धेः| दिग्धं मेदोदिग्धं गलौष्ठतालु यस्य स तथा| ‘मेदोऽन्वयात्’ इति केचित् पठन्ति||६-७||
Adhikarana 9 (8) · Śloka 8
स्निग्धान् स्वरातुरनरानपकृष्टदोषान् न्यायेन तान् वमनरेचनबस्तिभिश्च |
नस्यावपीडमुखधावनधूमलेहैः सम्पादयेच्च विविधैः कवलग्रहैश्च ||८||
स्वरभेदस्य सामान्यचिकित्सामाह- स्निग्धानित्यादि| यद्यपि कफजमेदोजयोः स्वरभेदयोरपतर्पणसाध्यत्वात् स्नेहनं न युक्तं, तथाऽपि यथादोषप्रत्यनीकैर्यथादोषप्रत्यनीकसाधितैश्च स्नेहैः स्नेहनं युक्तमेव, अथवा मेदःकफजयोरपि वायुसद्भावात् स्नेहनोपदेशः| अपकृष्टदोषान् आकृष्टदोषान्; अत्र वमनविरेचनबस्तिभिरिति सम्बध्यते| न्यायेन यथाविधीत्यर्थः| वमनादिभिरपकृष्टदोषान् स्वरभेदातुरान् किं कुर्यादित्याह- नस्यावपीडेत्यादि| अवपीड्य दीयते इत्यवपीडो नस्यभेदः| मुखधावनं गण्डूषादि| सम्पादयेत् योजयेत्| विविधैः दोषप्रत्यनीकत्वेन नानाप्रकारैः| कवलग्रहैः गण्डूषभेदैः| तथा च- “सुखं सञ्चार्यते या तु गण्डूषे सा प्रकीर्तिता| असञ्चार्या तु या मात्रा कवले सा प्रकीर्तिता ”- इति||८||
Adhikarana 10 (9) · Śloka 9
यः श्वासकासविधिरादित एव चोक्तस्तं चाप्यशेषमवतारयितुं यतेत |९|
अन्यदपि स्वरभेदचिकित्सितमतिदेशेनाह- य इत्यादि| श्वासकासप्रतिषेधे सामान्येनादौ यः श्वासकासविधिरुद्दिष्टस्तं विधिं समस्तमपि यथादोषं कर्तुं यतेतेति पिण्डार्थः|९|
Adhikarana 11 (9) · Śloka 9
वैशेषिकं च विधिमूर्ध्वमतो वदामि तं वै स्वरातुरहितं निखिलं निबोध ||९||
वैशेषिकमित्यादि| अत इति सामान्यचिकित्सानन्तरम्| तं वै स्वरातुरहितमिति स्वरभेदातुरहितम्| निबोध जानीहि||९||
Adhikarana 12 (10) · Śloka 11
स्वरोपघातेऽनिलजे भुक्तोपरि घृतं पिबेत् |
कासमर्दकवार्ताकमार्कवस्वरसे शृतम् ||१०||
पीतं घृतं हन्त्यनिलं सिद्धमार्तगले रसे |११|
तमेव वैशेषिकविधिमाह- स्वरोपघात इत्यादि| भुक्तोपरि भोजनोपरि| मार्कवो भृङ्गराजः, शृतं पक्वम्| अनिलं वातजस्वरभेदम्, उपचारात्| आर्तगलः ककुभः||१०||-
Adhikarana 13 (11) · Śloka 12
यवक्षाराजमोदाभ्यां चित्रकामलकेषु वा ||११||
देवदार्वग्निकाभ्यां वा सिद्धमाजं समाक्षिकम् |१२|
अपरमपि वातजे घृतत्रयमाह- यवक्षाराजमोदाभ्यामित्यादि| अग्निको अजमोदा| आजं ‘घृतं’ शेषः| समाक्षिकं समधु| अत्रापि पीतमिति योज्यम्||११||-
Adhikarana 14 (12) · Śloka 12
सुखोदकानुपानो वा ससर्पिष्को गुडौदनः ||१२||
वातिके पथ्ययोगमाह- सुखोदकानुपान इत्यादि| सुखोदकम् ईषदुष्णोदकम्| केचिदमुं योगं पैत्तिके मन्यन्ते; तन्न, समानतन्त्रेषु वातिकस्वरभेद एव प्रयुक्तत्वात्||१२||
Adhikarana 15 (13) · Śloka 13
क्षीरानुपानं पित्ते तु पिबेत् सर्पिरतन्द्रितः |१३|
पैत्तिकस्वरभेदचिकित्सामाह- क्षीरानुपानमित्यादि| अतन्द्रितः अनलसः|१३|-
Adhikarana 16 (13) · Śloka 13
अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम् ||१३||
पैत्तिके पथ्ययोगमाह- अश्नीयादित्यादि| यष्टीमधुकपायसमिति यष्टीमधुकसाधितक्षीरसिद्धांस्तण्डुलान्; अथवा यष्टीमधुकान्वितं पायसं यष्टीमधुकपायसम्||१३||
Adhikarana 17 (14) · Śloka 14
लिह्यान्मधुरकाणां वा चूर्णं मधुघृताप्लुतम् |
शतावरीचूर्णयोगं बलाचूर्णमथापि वा ||१४||
लिह्यादित्यादि| मधुरकाणां काकोलीप्रभृतीनाम्| शतावरीचूर्णयोगमिति शतावरीचूर्णस्य योगः संयोगो यत्र तत्तथा, अत्रापि मधुघृताप्लुतं लिह्यादिति सम्बन्धनीयम्||१४||
Adhikarana 18 (15) · Śloka 15
पिबेत् कटूनि मूत्रेण कफजे स्वरसङ्क्षये |
लिह्याद्वा मधुतैलाभ्यां भुक्त्वा खादेत् कटूनि वा ||१५||
कफजस्वरभेदचिकित्सामाह- पिबेदित्यादि| कटूनि त्रिकटुकादीनि| मूत्रेण गोमूत्रेण प्राधान्यात्| स्वरसङ्क्षये स्वरभेदे| लिह्याद्वा मधुतैलाभ्यामित्यादि मधुतैलाभ्यां वा कटूनि त्रिकटुकप्रभृतीनि लिह्यात्, भुक्त्वा वा तानि खादेत्||१५||
Adhikarana 19 (16) · Śloka 16
स्वरोपघाते मेदोजे कफवद्विधिरिष्यते |१६|
मेदोजस्वरभेदे कफजचिकित्सामतिदिशन्नाह- स्वरोपघात इत्यादि| कफवत् कफजस्वरभेदवत्|१६|-
Adhikarana 20 (16) · Śloka 16
सर्वजे क्षयजे चापि प्रत्याख्यायाचरेत् क्रियाम् ||१६||
सान्निपातिकक्षयजयोरसाध्ययोरपि चिकित्सा कर्तव्येत्याह- सर्वज इत्यादि| प्रत्याख्याय असाध्यत्वेन निराकृत्य| आचरेत् कुर्यात्| क्रियामिति सान्निपातिके सर्वेषां वातादिस्वरभेदानां सर्वमेव चिकित्सितं कार्यं, क्षयजे तु क्षयोक्तमिति; केचिदुभयोरपि सामान्यचिकित्सितं कुर्यादित्याहुः||१६||
Adhikarana 21 (17) · Śloka 17
शर्करामधुमिश्राणि शृतानि मधुरैः सह |
पिबेत् पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः ||१७||
अत्युच्चभाषणोत्थस्वरभेदस्य वातात्मकत्वेऽपि निमित्तभेदमाश्रित्य विशिष्टां चिकित्सामाह- शर्करेत्यादि| मधुरैः काकोल्यादिभिः शृतानि पयांसि शर्करामधुमिश्राणि पिबेदिति पिण्डार्थः| पयांसीत्यत्र बहुवचनं गोमहिष्यजानां क्षीरपरिग्रहाय||१७||
Adhikarana puShpikA · Śloka 53
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छर्दिप्रतिषेधो नाम (पञ्चदशोऽध्यायः, आदितः) त्रिपञ्चाशत्तमोऽध्यायः ||५३||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे स्वरभेदप्रतिषेधो नाम त्रिपञ्चाशत्तमोऽध्यायः||५३||