Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

54. kr̥mirōgapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-6) · Śloka 6

अथातः कृमिरोगप्रतिषेधमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| अजीर्णाध्यशनासात्म्यविरुद्धमलिनाशनैः | अव्यायामदिवास्वप्नगुर्वतिस्निग्धशीतलैः ||३|| माषपिष्टान्नविदलबिसशालूकसेरुकैः | पर्णशाकसुराशुक्तदधिक्षीरगुडेक्षुभिः ||४|| पललानूपपिशितपिण्याकपृथुकादिभिः | स्वाद्वम्लद्रवपानैश्च श्लेष्मा पित्तं च कुप्यति ||५|| कृमीन् बहुविधाकारान् करोति विविधाश्रयान् | आमपक्वाशये तेषां कफविड्जन्मनां पुनः | धमन्यां रक्तजानां च प्रसवः प्रायशः स्मृतः ||६||

🔊 Audio coming soon

केषाञ्चित् कृमीणां सामान्यं हेतुमाह- अजीर्णेत्यादि| अजीर्णम् आमविदग्धादिभेदभिन्नं, अध्यशनम् अजीर्णभोजनं असात्म्यंयत् सेवितं सुखार्थं न सम्पद्यते, विरुद्धं हिताहितीयोक्तं, मलिनं समलम्| पिष्टान्नं तण्डुलपिष्टादि, विदलं मकुष्ठादि, बिसं बिसाण्डकं, शालूः पद्मकन्दः| पर्णशाकं पत्रशाकं, सूक्तं सन्धानकविशेषः| पललः तिलकल्कः , आनूपपिशितम् आनूपमांसं, पिण्याकं यन्त्रपीडिततिलखली, 'पीता' इति लोके, पृथुकः चिपिटकः आदिशब्दादेवम्प्रकारा अन्येऽपि| बहुविधाकारान् विविधाकारान्| विविधाश्रयानिति नानाप्रकाराश्रयानित्यर्थः| प्रसव उत्पत्तिः| प्रायोग्रहणादन्यत्रापि सम्भवो ज्ञातव्यः| केचिदत्र अजीर्णाध्यशनादिकं हेतुगणं न पठन्ति, तेषां च हेत्ववगतिर्वक्ष्यमाणात् 'क्षीराणि मांसानि' इत्यादिप्रतिषेधविधानात्; मया तु सुखबोधार्थं हेतुगणः पठितः| अपरे तु ‘अजीर्णभोजी मधुराम्लनित्यो द्रवप्रियः पिष्टगुडोपभोक्ता| व्यायामजातानि च वर्ज्यमानः स्वप्नादिवान् वै लभते क्रिमीन्ना' इति पठन्ति||१-६||

Adhikarana 2 (7) · Śloka 7

विंशतेः कृमिजातीनां त्रिविधः सम्भवः स्मृतः | पुरीषकफरक्तानि, तासां वक्ष्यामि विस्तरम् ||७||

🔊 Audio coming soon

इदानीं विंशतिसङ्ख्यानामपि कृमिजातीनां कारणत्रैविध्यमाह- विंशतेरित्यादि| जातिग्रहणं कृमीणामानन्त्यख्यापनार्थं; तच्चानन्त्यं विंशत्यामेवावरुद्धं, अतो विंशतिसङ्ख्याकरणं सार्थकम्| सम्भवः कारणम्| कस्त्रिविधः सम्भव इत्याह- पुरीषेत्यादि| ननु, अजीर्णाध्यशनादयो हेतव उक्ताः , कथं पुरीषादयश्च उच्यन्ते? सत्यं, अजीर्णादयः पुरीषादीनां हेतवः, पुरीषादयश्च कृमीणामिति| यद्यपि कृम्यारम्भका न पुरीषादयः , तथाऽप्युपचारात् पुरीषादीनामपि कृम्यारम्भकत्वम्| पुरीषाद्यधिष्ठिता दोषाः पुरीषादि, घृतादिदग्धवत्; एतेनाजीर्णादिभिः प्रकुपिता दोषाः पुरीषादीन्यधिष्ठाय कृमीन् जनयन्ति तासां कृमिजातीनाम्| केचित् ‘विस्तरं’ इत्यत्र ‘लक्षणं’ इति पाठान्तरं सव्याख्यानं पठन्ति; तच्च शिष्यबुद्धिव्याकुलत्वहेतुत्वात् परित्यक्तम्||७||

Adhikarana 3 (8) · Śloka 8

अजवा विजवाः किप्याश्चिप्या गण्डूपदास्तथा | चूरवो द्विमुखाश्चैव ज्ञेयाः सप्त पुरीषजाः ||८||

🔊 Audio coming soon

पुरीषजकृमिनामान्याह- अजवा इत्यादि| अजवादयो द्विमुखान्ताः सप्त पुरीषजाः कृमयः||८||

Adhikarana 4 (9-10) · Śloka 10

श्वेताः सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च | तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि ||९|| शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलसङ्क्षयाः | प्रसेकारुचिहृद्रोगविड्भेदास्तु पुरीषजैः ||१०||

🔊 Audio coming soon

पुरीषजानां लक्षणमाह- श्वेता इत्यादि| य एते पुरीषजाः कृमयः श्वेताः सूक्ष्माश्च भवन्ति, ते बाहुल्येनाद्दष्टवशाद्गुदं तुदन्ति प्रतिसरन्ति च| तेषामेव सप्तानां मध्ये अपरे पुच्छैः पृथवो भवन्ति| पुरीषजैः सप्तभिः कृमिभिः शूलाग्निमान्द्यादयो भवन्ति| विष्टम्भो गुडगुडाशब्दः| प्रसेको लालास्रावः| विड्भेदः द्रवपुरीषता||९-१०||

Adhikarana 5 (11) · Śloka 11

रक्ता गण्डूपदा दीर्घा गुदकण्डूनिपातिनः | शूलाटोपशकृद्भेदपक्तिनाशकराश्च ते ||११||

🔊 Audio coming soon

तेषामेव सप्तानां पुरीषजानां मध्ये गण्डूपदानां लक्षणं कर्म चाह- रक्ता इत्यादि| पक्तिनाशकरा अग्निनाशकराः, कारणे कार्योपचारात्||११||

Adhikarana 6 (12) · Śloka 12

दर्भपुष्पा महापुष्पाः प्रलूनाश्चिपिटास्तथा | पिपीलिका दारुणाश्च कफकोपसमुद्भवाः ||१२||

🔊 Audio coming soon

कफकृमिनामान्याह- दर्भपुष्पा इत्यादि| दर्भपुष्पादिका दारुणपर्यन्ताः कफकोपजाः षट् कृमयः||१२||

Adhikarana 7 (13) · Śloka 13

रोमशा रोममूर्धानः सपुच्छाः श्यावमण्डलाः | रूढधान्याङ्कुराकाराः शुक्लास्ते तनवस्तथा ||१३||

🔊 Audio coming soon

तेषामाकृतिमाह- रोमशा इत्यादि| रोमशाः सर्वतो रोमान्विताः| रोममूर्धानः सरोममस्तकाः| श्यावमण्डलाः श्याममण्डलयुक्ताः||१३||

Adhikarana 8 (14) · Śloka 14

मज्जादा नेत्रलेढारस्तालुश्रोत्रभुजस्तथा |१४|

🔊 Audio coming soon

तेषामेव कर्मविशेषेण सञ्ज्ञान्तरमाह- मज्जादा इत्यादि|१४|-

Adhikarana 9 (14) · Śloka 14

शिरोहृद्रोगवमथुप्रतिश्यायकराश्च ते ||१४||

🔊 Audio coming soon

तेषां सर्वेषामेव कर्माण्याह- शिरोहृद्रोगेत्यादि| रोगशब्दः शिरोहृद्भ्यां सम्बध्यते, तेन शिरोरोगो हृद्रोगश्च, वमथुः छर्दिः| चकारात् अन्यानपि कफजव्याधीन् कुर्वन्ति| ते कफजाः कृमयः||१४||

Adhikarana 10 (15) · Śloka 15

केशरोमनखादाश्च दन्तादाः किक्किशास्तथा | कुष्ठजाः सपरीसर्पा ज्ञेयाः शोणितसम्भवाः ||१५||

🔊 Audio coming soon

रक्तजकृमिनामान्याह- केशरोमेत्यादि| केशादाद्याः परीसर्पान्ताः सप्त रक्तजाः कृमयः||१५||

Adhikarana 11 (16) · Śloka 16

ते सरक्ताश्च कृष्णाश्च स्निग्धाश्च पृथवस्तथा |१६|

🔊 Audio coming soon

तेषामाकृतिमाह- त इत्यादि| ते रक्तजाः कृमयः| पृथवः स्थूलाः|१६|-

Adhikarana 12 (16) · Śloka 16

रक्ताधिष्ठानजान् प्रायो विकारान् जनयन्ति ते ||१६||

🔊 Audio coming soon

तेषां कर्माण्याह- रक्ताधिष्ठानजानित्यादि| रक्ताधिष्ठानजान् व्याधिसमुद्देशीयोक्तान् कुष्ठविसर्पपिडकादीन्||१६||

Adhikarana 13 (17-18) · Śloka 19

माषपिष्टान्नविदलपर्णशाकैः पुरीषजाः | मांसमाषगुडक्षीरदधितैलैः कफोद्भवाः ||१७|| विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि | ज्वरो विवर्णता शूलं हृद्रोगः सदनं भ्रमः ||१८|| भक्तद्वेषोऽतिसारश्च सञ्जातकृमिलक्षणम् |१९|

🔊 Audio coming soon

पुरीषजादिकृमीणां सामान्यकारणमभिधायेदानीं विशेषकारणमाह- माषपिष्टान्नविदलेत्यादि| पिष्टान्नं तण्डुलादिपिष्टजम्||१७-१८||-

Adhikarana 14 (19) · Śloka 20

दृश्यास्त्रयोदशाद्यास्तु कृमीणां परिकीर्तिताः ||१९|| केशादाद्यास्त्वदृश्यास्ते द्वावाद्यौ परिवर्जयेत् |२०|

🔊 Audio coming soon

इदानीं कृमीणां दृश्यादृश्यत्वेन साध्यासाध्यत्वेन च विभागकरणार्थमाह- दृश्या इत्यादि| आद्यास्त्रयोदशेति अजवाद्या दारुणान्ता इत्यर्थः| केशादाद्या इति केशादाद्याः परीसर्पान्ता रक्तजाः कृमय इत्यर्थः| द्वावाद्याविति रक्तजापेक्षयैव आद्यौ, तेन केशादरोमादावित्यर्थः| तथा चोक्तम्- “असाध्यौ द्वौ तु विज्ञेयौ रोमकेशादसञ्ज्ञितौ” इति||१९||-

Adhikarana 15 (20) · Śloka 21

एषामन्यतमं ज्ञात्वा जिघांसुः स्निग्धमातुरम् ||२०|| सुरसादिविपक्वेन सर्पिषा वान्तमादितः | विरेचयेत्तीक्ष्णतरैर्योगै ... |२१|

🔊 Audio coming soon

निदानमभिधायेदानीं चिकित्सावसरः- एषामन्यतममित्यादि| एषां क्रिमीणां मध्ये अन्यतममेकतमं जिघांसुः, स्निग्धमातुरं सुरसादिगणविपक्वेन सर्पिषा स्निग्धमातुरं ज्ञात्वा, आदितश्च वान्तं तीक्ष्णतरैर्योगैः कफघ्नैर्विरेचनकल्पोक्तैर्विरेचयेदिति पिण्डार्थः| ‘दुष्टे च कोष्ठे कृमिभिर्मनुष्यं न वामयेत्’ इत्यादिना कृमियुक्तस्य पुंसो वमननिषेधः, तथाऽपि कृमियुक्तस्य प्रथमावस्थायां वमनं शस्तम्, अतो वान्तमादित इत्युक्तम्||२०||-

Adhikarana 16 (21-22) · Śloka 22

... रास्थापयेच्च तम् ||२१|| यवकोलकुलत्थानां सुरसादेर्गणस्य च | विडङ्गस्नेहयुक्तेन क्वाथेन लवणेन च ||२२||

🔊 Audio coming soon

विरेकानन्तरं किं कुर्यादित्याह- आस्थापयेदित्यादि| तम् आतुरं यवकोलादीनां क्वाथेन तथा सुरसादिगणस्य क्वाथेन विडङ्गसाधितस्नेहयुक्तेन सैन्धवलवणान्वितेनास्थापयेदिति पिण्डार्थः| गणस्य चेति चकारात् सुरसादिकल्कोऽपि ग्राह्यः||२१-२२||

Adhikarana 17 (23) · Śloka 24

प्रत्यागते निरूहे तु नरं स्नातं सुखाम्बुना | युञ्ज्यात् कृमिघ्नैरशनैस्ततः शीघ्रं भिषग्वरः ||२३|| स्नेहेनोक्तेन चैनं तु योजयेत् स्नेहबस्तिना |२४|

🔊 Audio coming soon

आस्थापनानन्तरं किं कुर्यादित्याह- प्रत्यागत इत्यादि| प्रत्यागते व्याघुटिते पतिते इत्यर्थः| सुखाम्बुना उष्णोदकेन| कृमिघ्नैरशनैः कृमिघ्नद्रव्यसाधितैः स्वभावतः कृमिघ्नैश्च| स्नेहेनोक्तेन विडङ्गसाधितस्नेहेन| स्नेहबस्तिना अनुवासनेन||२३||-

Adhikarana 18 (24) · Śloka 24

ततः शिरीषकिणिहीरसं क्षौद्रयुतं पिबेत् ||२४||

🔊 Audio coming soon

अतोऽनन्तरं कृतान्नसंसर्गः किं कुर्यादित्याह- तत इत्यादि| तत इति अनुवासनानन्तरम्| किणिही कटभी||२४||

Adhikarana 19 (25) · Śloka 25

केवूकस्वरसं वाऽपि पूर्ववत्तीक्ष्णभोजनः |२५|

🔊 Audio coming soon

पानान्तरमाह- केवूकेत्यादि| केवूकः ‘केसुर ’ इति नाम्ना प्रसिद्धः| पूर्ववदिति क्षौद्रयुतमित्यर्थः| तीक्ष्णभोजनः तीक्ष्णद्रव्यसंस्कृताहारः|२५|-

Adhikarana 20 (25) · Śloka 25

पलाशबीजस्वरसं कल्कं वा तण्डुलाम्बुना ||२५||

🔊 Audio coming soon

अपरमपि पानयोगमाह- पलाशबीजेत्यादि| पलाशबीजस्वरसं कल्कं वेति पलाशबीजकल्कं वा तण्डुलाम्बुना पिबेदित्यर्थः||२५||

Adhikarana 21 (26) · Śloka 26

पारिभद्रकपत्राणां क्षौद्रेण स्वरसं पिबेत् | पत्तूरस्वरसं वाऽपि पिबेद्वा सुरसादिजम् ||२६||

🔊 Audio coming soon

अपरमपि पानयोगमाह- पारिभद्रकपत्राणामित्यादि| पारिभद्रः पर्वतनिम्बः| पत्तूरः शिरवालिका| सुरसादिकः सुरसादिगणः||२६||

Adhikarana 22 (27) · Śloka 27

लिह्यादश्वशकृच्चूर्णं वैडङ्गं वा समाक्षिकम् |२७|

🔊 Audio coming soon

कृमिघ्नमवलेहयोगमाह- लिह्यादित्यादि| अश्वशकृच्चूर्णं घोटकपुरीषचूर्णम्| वैडङ्गं विडङ्गचूम्| ‘वैडङ्गम्’ इत्यत्र ‘बैडालम्’ इति केचित् पठन्ति; तत्र बिडालविट्चूर्णमिति व्याख्यानम्|२७|-

Adhikarana 23 (27) · Śloka 28

पत्रैर्मूषिकपर्ण्या वा सुपिष्टैः पिष्टमिश्रितैः ||२७|| खादेत् पूपलिकाः पक्वा धान्याम्लं च पिबेदनु |२८|

🔊 Audio coming soon

क्रिमिघ्नपूपलिकामाह- पत्रैर्मूषिकपर्ण्या वेत्यादि| मूषिकपर्णी दन्ती, अन्ये मूषिककर्णाख्यं द्रव्यान्तरमाहुः| पिष्टमिश्रितैः यवपिष्टमिश्रितैः, तस्य विशेषेण क्रिमिहरत्वात्| धान्याम्लं काञ्जिकम्| अन्विति पूपलिकाभक्षणानन्तरम्| यद्यपि ‘क्षीराणि मांसानि घृतानि च’ इत्यादिग्रन्थोक्तादम्लवर्जनादत्र काञ्जिकस्यापि वर्जनं प्राप्नोति, तथाऽपि काञ्जिकस्य प्रायोगिकत्वात् क्रिमिहरत्वाच्चात्र काञ्जिकानुपानं, तथा हि गुणोपवर्णने काञ्जिकं कृमिघ्नत्वेन दृष्टम्||२७||-

Adhikarana 24 (28) · Śloka 29

सुरसादिगणे पक्वं तैलं वा पानमिष्यते ||२८|| विडङ्गचूर्णयुक्तैर्वा पिष्टैर्भक्ष्यांस्तु कारयेत् |२९|

🔊 Audio coming soon

कृमिघ्नतैलमाह- सुरसादिगणे इत्यादि| तैलमिति सुरसादिगणे ‘क्वाथकल्कीकृते’ इति शेषः| विडङ्गेत्यादि| पिष्टैः यवादिपिष्टैः| भक्ष्यान् लड्डूकादीन्| विकल्पविधानं पूर्वयोगापेक्षया||२८||-

Adhikarana 25 (29) · Śloka 29

तत्कषायप्रपीतानां तिलानां स्नेहमेव वा ||२९||

🔊 Audio coming soon

तत्कषायप्रपीतानामित्यादि| तत्कषायप्रपीतानां विडङ्गक्वाथभावितानाम्| अत्रापि कारयेदिति सम्बन्धनीयम्||२९||

Adhikarana 26 (31) · Śloka 31

श्वाविधः शकृतश्चूर्णं सप्तकृत्वः सुभावितम् | विडङ्गानां कषायेण त्रैफलेन तथैव च ||३०|| क्षौद्रेण लीढ्वाऽनुपिबेद्रसमामलकोद्भवम् | अक्षाभयारसं वाऽपि... |३१|

🔊 Audio coming soon

श्वाविध इत्यादि| श्वाविधः सेढायाः, शकृत् विष्ठा, तस्याश्चूर्णं सप्तवारान् विडङ्गक्वाथेन भावितं पुनस्त्रिफलाक्वाथेन तथैव भावितं, क्षौद्रेण लीढ्वा, अनु पश्चात्, आमलकोद्भवं बिभीतकोद्भवं वा हरीतकीरसं वाऽपि क्षौद्रेण पिबेदिति सम्बन्धः||३१||-

Adhikarana 27 (31) · Śloka 31

... विधिरेषोऽयसामपि ||३१||

🔊 Audio coming soon

अमुमेव विधि लौहचूर्णानामप्यतिदिशन्नाह- विधिरित्यादि| एष विधिः श्वाविधः शकृच्चूर्णविधिः| अयसामपीति त्रपुसीसताम्ररजतकृष्णलोहानामपि| एतेनैतदुक्तं भवति- प्रत्येकं लोहादिचूर्णानां श्वावित्पुरीषचूर्णविधानवद्विधिः कार्यः||३१||

Adhikarana 28 (32) · Śloka 33

पूतीकस्वरसं वाऽपि पिबेद्वा मधुना सह | पिबेद्वा पिप्पलीमूलमजामूत्रेण संयुतम् ||३२|| सप्तरात्रं पिबेद्धृष्टं त्रपु वा दधिमस्तुना |३३|

🔊 Audio coming soon

पूतीकः चिरबिल्वः| पिबेदित्यादि| अजामूत्रेण छागमूत्रेण| पिबेद्धृष्टमित्यादि| त्रपु रङ्गं, ‘कथीर’ इति लोके| दधिमस्तुग्रहणम् अन्यमस्तुनिषेधार्थं; अन्ये ‘दधिमस्तुना’ इत्यत्र दधिग्रहणं कूर्चिकामस्तुपरिहारार्थमिति व्याख्यानयन्ति| तन्न, दधिमस्तुग्रहणेन कूर्चिकामस्तुग्रहणमसम्भवं, सर्वनिबन्धविरोधात् समानतन्त्रविरोधाच्च||३२||

Adhikarana 29 (33) · Śloka 33

पुरीषजान् कफोत्थांश्च हन्यादेवं कृमीन् भिषक् ||३३||

🔊 Audio coming soon

यत् पूर्वमेतच्चिकित्सितमुक्तं तत् पुरीषकफजानां कार्यमिति दर्शयन्नाह- पुरीषजानित्यादि| एवमिति पूर्वोक्तेन विधिनेत्यर्थः||३३||

Adhikarana 30 (34) · Śloka 34

शिरोहृद्घ्राणकर्णाक्षिसंश्रितांश्च पृथग्विधान् | विशेषेणाञ्जनैर्नस्यैरवपीडैश्च साधयेत् ||३४||

🔊 Audio coming soon

पुरीषकफजानां सामान्यचिकित्सितमभिधायेदानीं कफजानामाश्रयविशेषेण चिकित्सामाह- शिरोहृद्घ्राणेत्यादि| शिरःप्रभृतिसंश्रितान् नानाप्रकारान् कृमीन् विशेषेणाञ्जनादिभिः साधयेदिति पिण्डार्थः| चकारात् गण्डूषकवलग्रहादिभिरपि| अन्ये तु यद्यप्यञ्जनादिकं सामान्येनोक्तं, तथाऽप्यञ्जनं नेत्रस्थे, नस्यावपीडौ घ्राणशिरःसंश्रिते च, विशेषेणाञ्जनादीनां नेत्रादिजकृमिहरत्वात्; हृद्गतानां कर्णगतानां चार्थवशादेव कृमिजहृद्रोगकृमिकर्णकचिकित्सितैश्चिकित्सा कार्या; चकारात् शिरःस्थितानां कृमीणां कृमिशिरोरोगचिकित्सितैश्चिकित्सा कार्येति गृह्यत इति व्याख्यानयन्ति| ‘संश्रितान्’ इत्यत्र ‘व्रणजान्’ इति केचित् पठन्ति; अन्ये ‘संश्रितान्’ इत्यत्र ‘संसृतान्’ इति पठन्ति; कर्णस्थाने च वक्त्रं पठन्ति||३४||

Adhikarana 31 (35) · Śloka 35

शकृद्रसं तुरङ्गस्य सुशुष्कं भावयेदति | निष्क्वाथेन विडङ्गानां चूर्णं प्रधमनं तु तत् ||३५||

🔊 Audio coming soon

शिरः प्रभृतिसंश्रितकृमिघ्नं प्रधमनमाह- शकृद्रसमित्यादि| शकृद्रसं तुरङ्गस्येति घोटकपुरीषस्य रसमित्यर्थः| सुशुष्कमिति पुरीषरसस्य विशेषणम्| प्रधमनमिति नासायां चूर्णप्रक्षेपणं ज्ञेयम्||३५||

Adhikarana 32 (36) · Śloka 36

अयश्चूर्णान्यनेनैव विधिना योजयेद्भिषक् | सकांस्यनीलं तैलं च नस्यं स्यात्सुरसादिके ||३६||

🔊 Audio coming soon

अमुमेव प्रधमनविधिं लोहचूर्णेष्वतिदिशन्नाह- अयश्चूर्णानीत्यादि| अनेनेति घोटपुरीषस्वरसप्रधमनविधानेन| सकांस्यनीलं कांस्यापमार्जनमसीसहितम्| ‘सुरसादिके’ इत्यत्र ‘विपक्वं’ इति शेषः| तेन सुरसादिगणक्वाथविपक्वं तैलं कांस्यमसीसहितं नस्यं स्यादिति| तथा चोक्तां,- ‘सुरसादिशृतं तैलं नस्यं कांस्यमलान्वितम्’- इति||३६||

Adhikarana 33 (37) · Śloka 37

इन्द्रलुप्तविधिश्चापि विधेयो रोमभोजिषु |३७|

🔊 Audio coming soon

रोमादादीनामतिदेशेन चिकित्सामाह- इन्द्रलुप्तेत्यादि| रोमभोजिषु रोमादेषु| चकारेण केशभोजिष्वपीन्द्रलुप्तविधिः कार्य इति समुच्चीयते|३७|-

Adhikarana 34 (37) · Śloka 37

दन्तादानां समुद्दिष्टं विधानं मुखरोगिकम् ||३७||

🔊 Audio coming soon

दन्तादानामप्यतिदेशेन चिकित्सितमाह- दन्तादानामित्यादि| मुखरोगिकं कृमिदन्तोक्तं, विशेषेण कृमिदन्तोक्तचिकित्सितस्य दन्तानां हितत्वात्| यद्यपि रोमाददन्तादानां रक्तजत्वात् रक्तजसामान्यचिकित्सानन्तरमिन्द्रलुप्तविध्यादिकं विशेषचिकित्सितं कर्तुमुचितं भवति, तथाऽपि कफजा अपि रोमदन्तभक्षणं कुर्वन्तीति प्रव्यक्तकटुकं भोजनं हितं भवेदिति प्रतिपादनार्थं रोमदन्तादानां प्रथमं चिकित्सितमुक्तम्||३७||

Adhikarana 35 (38) · Śloka 38

रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सिते |३८|

🔊 Audio coming soon

इदानीं सामान्यचिकित्सितं रक्तजानामतिदेशेनाह- रक्तजानामित्यादि| ‘कुष्ठचिकित्सिते’ इत्यत्र पूर्वोक्तमेव समुद्दिष्टमिति पदं सम्बन्धनीयम्| केचित् ‘कुष्ठचिकित्सितात्’ इति पठन्ति|३८|-

Adhikarana 36 (38) · Śloka 38

सुरसादिं तु सर्वेषु सर्वथैवोपयोजयेत् ||३८||

🔊 Audio coming soon

सुरसादिं तु सर्वेष्वित्यादि| सर्वेषु पुरीषजादिषु| सर्वथैव अन्नपानस्नानादिविधिना||३८||

Adhikarana 37 (39) · Śloka 39

प्रव्यक्ततिक्तकटुकं भोजनं च हितं भवेत् |३९|

🔊 Audio coming soon

भोजने विध्यन्तरमाह- प्रव्यक्तेत्यादि| प्रव्यक्ततिक्तकटुकमिति तिक्तकटुकोत्कटमित्यर्थः|३९|-

Adhikarana 38 (39) · Śloka 39

कुलत्थक्षारसंसृष्टं क्षारपानं च पूजितम् ||३९||

🔊 Audio coming soon

पानेऽपि विध्यन्तरमाह- कुलत्थेत्यादि| कुलत्थक्षारसंसृष्टं कुलत्थभस्मोदकसंयुक्तम्? क्षारपानं यवक्षारपानं, तथा चोक्तं विश्वामित्रेण- ‘यावशूकस्य पानं तु कुलत्थक्षारवारिणा’- इति| केचित् ‘कुलत्थक्षार...’ इत्यत्र ‘विडङ्गक्षार...’ इति पठन्ति||३९||

Adhikarana 39 (40) · Śloka 40

क्षीराणि मांसानि घृतानि चैव दधीनि शाकानि च पर्णवन्ति | समासतोऽम्लान्मधुरान् हिमांश्च कृमीन् जिघांसुः परिवर्जयेत्तु ||४०||

🔊 Audio coming soon

प्रवृत्तिलक्षणं चिकित्सितमभिधायेदानीं निवृत्तिलक्षणं चिकित्सितमाह- क्षीराणि मांसानीत्यादि| यद्यपि ‘सङ्क्षेपतः क्रियायोगो निदानपरिवर्जनम्’ इति वाक्यादेव क्षीरादीनां निषेधविधिः सिद्धः, तथाऽपि क्षीरादीनां प्रतिषेधकरणं नियमार्थं; तेन कृमीणां निदानमपि क्षीरादिकं मदात्यये मद्यवद्भेषजं मा भूदित्यर्थः||४०||

Adhikarana puShpikA · Śloka 54

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कृमिप्रतिषेधो नाम (षोडशोऽध्यायः, आदितः) चतुःपञ्चाशत्तमोऽध्यायः ||५४||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रे कृमिप्रतिषेधो नाम चतुःपञ्चाशत्तमोऽध्यायः||५४||