Adhikarana 1 (1-2) · Śloka 2
अथात उदावर्तप्रतिषेधमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
कृमिप्रतिषेधानन्तरं कृमिचिकित्सितस्य कटुतिक्तकषायादेरुदावर्तहेतुत्वादुदावर्तप्रतिषेधारम्भो युक्त इत्यत आह- अथात इत्यादि| उत् ऊर्ध्वं वातविण्मूत्रादीनां आवर्तो भ्रमणं यस्मिन् रोगे स उदावर्तः; अन्ये पुरीषं वायुना वर्तुलीकृतमुदावर्तं मन्यन्ते, लोकप्रसिद्धत्वात्||१-२||
Adhikarana 2 (3) · Śloka 3
अधश्चोर्ध्वं च भावानां प्रवृत्तानां स्वभावतः |
न वेगान् धारयेत् प्राज्ञो वातादीनां जिजीविषुः ||३||
वेगधारणस्यैकान्तेनोदावर्तहेतुत्वाद्वेगधारणनिषेधमाह- अधश्चोर्ध्व चेत्यादि| अधोभावा मूत्रादयः ऊर्ध्वभावा उद्गारादयः, तेषां भावानां वातादीनां वेगान् न धारयेत्| किम्भूतानां? स्वभावतः प्रवृत्तानां, प्रकृत्यैव स्वाशयच्युतानामित्यर्थः| एतेनैतेऽप्रवृत्ता बलान्नोदीरणीया इति सूचयति| जिजीविषुः जीवितुमिच्छुः पुरुषः| केचित् ‘प्राज्ञः’ इत्यत्र ‘प्राप्तान्’ इति पठन्ति| ते च व्याख्यानयन्ति- वेगग्रहणेनैव प्राप्तानिति प्राप्तं यस्मादप्राप्तो वेगो न भवति, अतः प्राप्तग्रहणमधिकं , तेनाधिकेन प्राप्तग्रहणेन केषाञ्चित् प्राप्ता अपि वेगा धारणीया इत्यर्थाधिक्यमावेदयति; तथा च तन्त्रान्तरे- “इमांस्तु धारयेद्वेगान् हितैषी प्रेत्य चेह च| लोभेर्ष्याद्वेषमात्सर्यरागादीनां यतेन्द्रियः ”- इति| तच्च व्याख्यानं न युक्तं, यस्माद्विशेषाभिधानादेव लोभादीनां वेगधारणं सिद्धं; तस्मात् प्राप्तान् उन्मुखीभूतानिति व्याख्यानं युक्तम्| अन्ये तु वातादीनां प्राप्तान् युक्तान् वेगान् न धारयेत्, न तु साहसादिवेगान् न धारयेदिति व्याख्यानयन्ति||३||
Adhikarana 3 (4) · Śloka 4
वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः |
व्याहन्यमानैरुदितैरुदावर्तो निरुच्यते ||४||
उदावर्तस्य निरुक्तिद्वारा कारणान्याह- वातविण्मूत्रेत्यादि| अश्रु नेत्रोदकं, क्षवः छिक्का; इन्द्रियमत्र शुक्रमभिप्रेतं, ‘शुक्राश्मरी तत्स्रवणं भवेद्वा’ इत्यादिवक्ष्यमाणवचनात्; अभिधाने चेन्द्रियशब्दः शुक्रे दृष्टः; तथाच तद्वचः- “श्रोत्रवागादि सत्त्वं च शुक्रं चेन्द्रियमुच्यते”- इति| व्याहन्यमानैः अवरुध्यमानैः| उदितैरिति ऊर्ध्वगतैः||४||
Adhikarana 4 (5) · Śloka 5
क्षुत्तृष्णाश्वासनिद्राणामुदावर्तो विधारणात् |५|
अन्येषामपि विधारणादुदावर्तसम्भवमाह- क्षुत्तृष्णेत्यादि| वातविण्मूत्रादिकात् क्षुत्तृष्णादीनां भिन्नपाठो वातादीनां सन्निहितकारणत्वं तथा क्षुदादीनां विप्रकृष्टकारणत्वं सूचयति; अथवा अनेन भिन्नपाठेन वक्ष्यमाणं हेतुमाहाराश्रितं सूचयति| यथा- “वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः” इत्यादि| ये क्षुदादीनां भिन्नपाठं न पठन्ति; तन्मते ईदृशः पाठः,- ‘वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः| क्षुत्तृष्णाश्वासनिद्राणां धृत्योदावर्तसम्भवः’ इति| धृत्या धारणेनेत्यर्थः| ननु, अधोवेगरोधादपानप्रकोपादुदावर्तसम्भवो युक्तः, अश्रुजृम्भादिवेगधारणात् कथं तस्योत्पत्तिः ? सत्यं, अश्रुजृम्भादिवेगरोधात् कोष्ठगतो वायुर्यदा भवति तदाऽपानप्रकोपादुदावर्तसम्भवः|५|-
Adhikarana 5 (5) · Śloka 5
तस्याभिधास्ये व्यासेन लक्षणं च चिकित्सितम् ||५||
तस्याभिधास्ये इत्यादि| तस्य उदावर्तस्य| अभिधास्ये कथयिष्यामि| व्यासेन विस्तरेण||५||
Adhikarana 6 (6) · Śloka 6
त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः |६|
तस्य सङ्ख्यामाह- त्रयोदशविध इत्यादि| भिन्नो भेदं गतः| एतैः कारणैः पूर्वोक्तैर्वातविण्मूत्रादिभिः|६|-
Adhikarana 7 (6) · Śloka 6
अपथ्यभोजनाच्चापि वक्ष्यते च तथाऽपरः ||६||
वातादिवेगरोधात्त्रयोदशोदावर्तानभिधायेदानीं कारणभेदादपरमप्याह- अपथ्येत्यादि| अपरो वाताद्यवरोधजेभ्योऽन्यः||६||
Adhikarana 8 (7) · Śloka 8
आध्मानशूलौ हृदयोपरोधं शिरोरुजं श्वासमतीव हिक्काम् |
कासप्रतिश्यायगलग्रहांश्च बलासपित्तप्रसरं च घोरम् ||७||
कुर्यादपानोऽभिहतः स्वमार्गे हन्यात् पुरीषं मुखतः क्षिपेद्वा |८|
वातजोदावर्तलक्षणमाह- आध्मानशूलावित्यादि| हृदयोपरोधं हृदयावरणम्| बलासपित्तप्रसरं श्लेष्मपित्तप्रसरणम्| अभिहतः अवरुद्धः| स्वमार्गे गुदे| हन्यात् पुरीषं पुरीषक्षयं कुर्यात् क्षिपेद्वेत्यत्रापि पुरीषमिति सम्बन्धनीयम्| गलग्रहांश्चेति चकारात् क्रिम्यादीनां समानतन्त्रनिर्दिष्टानां ग्रहणम्| अपानावरोधेन प्राणादीनामपि प्रकोपात् शिरोरुक्कासादिसम्भवो युक्तः||७||
Adhikarana 9 (8) · Śloka 9
आटोपशूलौ परिकर्तनं च सङ्गः पुरीषस्य तथोर्ध्ववातः ||८||
पुरीषमास्यादपि वा निरेति पुरीषवेगेऽभिहते नरस्य |९|
पुरीषजोदावर्तलक्षणमाह- आटोपशूलावित्यादि| आटोप उदरापूरः| परिकर्तनं गुदमेढ्रबस्त्यादिषु कृन्तनमिव वेदना| ऊर्ध्ववातो बहूद्गारता| आस्यात् मुखात्| निरेति निर्गच्छति| परिकर्तनं चेति चकारात् पिण्डिकोद्वेष्टनादयः||८||-
Adhikarana 10 (9-10) · Śloka 10
मूत्रस्य वेगेऽभिहते नरस्तु कृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम् ||९||
मेढ्रे गुदे वङ्क्षणबस्तिमुष्कनाभिप्रदेशेष्वथवाऽपि मूर्ध्नि |
आनद्धबस्तिश्च भवन्ति तीव्राः शूलाश्च शूलैरिव भिन्नमूर्तेः ||१०||
मूत्रोदावर्तलक्षणमाह- मूत्रस्येत्यादि| वङ्क्षणम् उदरोरुसन्धिः| मुष्कौ अण्डौ| मूर्ध्नि उत्तमाङ्गे| आनद्धबस्तिः आध्मातमूत्राधारः| ‘आनद्धबस्तेः’ इति केचित् पठन्ति, ते च आनद्धबस्तेर्मूर्ध्नि शूला भवन्तीति योजयन्ति| तन्न, समानतन्त्रविरोधात्| भिन्नमूर्तेः भिन्नशरीरस्य ||९-१०||
Adhikarana 11 (11) · Śloka 11
मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् पवनात्मकाः स्युः |
श्रोत्राननघ्राणविलोचनोत्था भवन्ति तीव्राश्च तथा विकाराः ||११||
जृम्भोदावर्तलक्षणमाह- मन्येत्यादि| स्तम्भशब्दो मन्यागलाभ्यां प्रत्येकं सम्बध्यते| गलस्तम्भो गलग्रहः| शिरोविकाराः सूर्यावर्तादयः| पवनात्मकाः कम्पसुप्त्यादयः, चकारात् अरुचिविभ्रमादयश्च||११||
Adhikarana 12 (12) · Śloka 12
आनन्दजं शोकसमुद्भवं वा नेत्रोदकं प्राप्तममुञ्चतो हि |
शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन ||१२||
अश्रुजोदावर्तलक्षणमाह- आनन्दजमित्यादि| नेत्रोदकम् अश्रु, प्राप्तं प्रवृत्त्युन्मुखम्| पीनसोऽत्र प्रतिश्यायः, समानतन्त्रदर्शनात्| चकारात् प्रतिश्यायादयः||१२||
Adhikarana 13 (13) · Śloka 13
भवन्ति गाढं क्षवथोर्विघाताच्छिरोक्षिनासाश्रवणेषु रोगाः |
कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरुत वाऽप्रवृत्तिः ||१३||
छिक्काजोदावर्तलक्षणमाह- भवन्तीत्यादि| क्षवथोर्विघातात् छिक्कावरोधात्| कण्ठास्यपूर्णत्वमिति कण्ठमुखे वायुना पूर्णे इव भवतः| अतीव तोदः अतीव व्यथा, कण्ठमुखयोरेव| केचित् ‘कण्ठस्य’ इति पठन्ति, तन्मते कण्ठस्यैव पूर्णत्वं तोदश्च| कूजः अव्यक्तवचनम्| वायोरप्रवृत्तिः उच्छ्वासावरोधः| उत वा अथवेत्यर्थः| चकारात् मन्यास्तम्भादयः||१३||
Adhikarana 14 (14) · Śloka 14
उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः |१४|
उद्गारजोदावर्तलक्षणमाह- उद्गारवेग इत्यादि| घोराः कष्टतराः| "घोराः" इत्यत्र "जन्तोः" इति केचित् पठन्ति| पवनप्रसूताः कम्पहिक्काहृद्विबन्धादयः|१४|-
Adhikarana 15 (14) · Śloka 14
छर्देर्विघातेन भवेच्च कुष्ठं येनैव दोषेण विदग्धमन्नम् ||१४||
छर्दिजोदावर्तलक्षणमाह- छर्देर्विघातेनेत्यादि| कुष्ठग्रहणमत्र शीतपित्तकोपाद्युपलक्षणार्थम्| येनैव दोषेण विदग्धमन्नमिति येनैव वाताद्यन्यतमेन दोषेण विदग्धं दुष्टमन्नं भवेत्तद्दोषाधिकमेव कुष्ठं स्यादित्यर्थः| चकारात् अरोचकादयः||१४||
Adhikarana 16 (15) · Śloka 15
मूत्राशये पायुनि मुष्कयोश्च शोफो रुजो मूत्रविनिग्रहश्च |
शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तु शुक्रे ||१५||
शुक्रजोदावर्तलक्षणमाह- मूत्राशय इत्यादि| मूत्राशये बस्तौ, पायुनि गुदे, शोफः श्वयथुः; रुजोऽपि मूत्राशयादिष्वेव भवन्ति| मूत्रविनिग्रहो मूत्राप्रवृत्तिः| तत्स्रवणं शुक्रस्रवणं, समानतन्त्रप्रत्ययात्| ते ते विकारा इति हृत्पीडाङ्गमर्दादयः शुक्रवेगविघातजाः समानतन्त्रोक्ताः||१५||
Adhikarana 17 (16) · Śloka 16
तन्द्राङ्गमर्दारुचिविभ्रमाः स्युः क्षुधोऽभिघातात् कृशता च दृष्टेः |१६|
क्षुज्जोदावर्तलक्षणमाह- तन्द्रेत्यादि| तन्द्रा वैकारिकी निद्रा; अङ्गमर्दः अङ्गोद्वेष्टनमिव वेदना, स्फुटनिकेत्यन्ये; विभ्रमः अत्यर्थं चक्रारूढस्येव भ्रमणम्| कृशता च दृष्टेः दृङ्मान्द्यम् चकारात् दौर्बल्यादयस्तन्त्रान्तरोक्ता ग्राह्याः|१६|-
Adhikarana 18 (16) · Śloka 16
कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघातद्धृदये व्यथा च ||१६||
तृष्णाजोदावर्तलक्षणमाह- कण्ठास्यशोष इत्यादि| श्रवणावरोधो बाधिर्यम्| चकारात् श्रमस्वेदादयः समानतन्त्रोक्ताः||१६||
Adhikarana 19 (17) · Śloka 17
श्रान्तस्य निःश्वासविनिग्रहेण हृद्रोगमोहावथवाऽपि गुल्मः |१७|
उच्छ्वासजोदावर्तलक्षणमाह- श्रान्तस्येत्यादि| श्रान्तस्य द्रुतगमनादिना खिन्नस्य| श्रान्तस्येत्यनेनाश्रान्तस्य श्वासधारणादपि पीडा न भवतीति सूच्यते| मोहो वैचित्त्यम्|१७|-
Adhikarana 20 (17) · Śloka 17
जृम्भाऽङ्गमर्दोऽङ्गशिरोक्षिजाड्यं निद्राभिघातादथवाऽपि तन्द्रा ||१७||
निद्राजोदावर्तलक्षणमाह- जृम्भेत्यादि| जाड्यशब्दोऽङ्गादिभिः सम्बध्यते; जाड्यम् अपाटवं, गौरवमिति तात्पर्यार्थः||१७||
Adhikarana 21 (18) · Śloka 18
तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम् |
शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत् ||१८||
परित्याज्योदावर्तलक्षणमाह- तृष्णार्दितमित्यादि| परिक्लिष्टम् अत्यर्थमवसन्नं, क्रियारहितमिति यावत्; अन्ये समन्ततो भावेन क्लेशमुपगतं परिक्लिष्टं मन्यन्ते| अभिद्रुतं पीडितम्| उत्सृजेत् परित्यजेत्||१८||
Adhikarana 22 (19) · Śloka 20
सर्वेष्वेतेषु विधिवदुदावर्तेषु कृत्स्नशः |
वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये ||१९||
सामान्यतः पृथक्त्वेन क्रियां भूयो निबोध मे |२०|
सर्वदोदावर्तेषु वायोः सद्भावात् सामान्येन वातहरीं क्रियामाह- सर्वेष्वेतेष्वित्यादि| विधिवत् यथाविधि| कृत्स्नशः सामस्त्येन| क्रियाः स्नेहस्वेदादिकाः| स्वमार्गप्रतिपत्तये वायोरात्ममार्गप्रवर्तनाय| सामान्यतः सामान्येन| ‘सर्वेषु’ इत्यत्र ‘नवसु’ इति पठित्वा वातजोदावर्तादिषु नवसङ्ख्येषु वायोः क्रिया विधातव्येति व्याख्यानयन्ति; तन्न, बुभुक्षोद्भवादिष्वपि चतुर्षूदावर्तेषु वायोः सद्भावाद्वातहरी क्रिया क्रियत इति| पृथक्त्वेन क्रियामित्यादि| पृथक्त्वेन प्रत्येकम्||१९||
Adhikarana 23 (20) · Śloka 20
आस्थापनं मारुतजे स्निग्धस्विन्ने विशिष्यते ||२०||
आस्थापनमित्यादि| आस्थापनं निरूहः, तच्चानुलोमिकवातहरद्रव्यकृतम्| स्निग्धस्विन्ने ‘आतुरे’ इति शेषः| विशिष्यते विशिष्टं भवति, विशेषेण क्रियत इति तात्पर्यार्थः||२०||
Adhikarana 24 (21) · Śloka 21
पुरीषजे तु कर्तव्यो विधिरानाहिको भवेत् |२१|
पुरीषज इत्यादि| आनाहिको विधिः फलवर्त्यादिको वातव्याध्युक्तो विसूच्यां वक्ष्यमाणो वा| तुशब्दात् अनुक्तमन्यदपि परीषानुलोमनं कर्तव्यम्|२१|-
Adhikarana 25 (21-25) · Śloka 26
सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत् ||२१||
एलां वाऽप्यथ मद्येन क्षीरं वाऽपि पिबेन्नरं |
धात्रीफलानां स्वरसं सजलं वा पिबेत्त्र्यहम् ||२२||
रसमश्वपुरीषस्य गर्दभस्याथवा पिबेत् |
मांसोपदंशं मधु वा पिबेद्वा सीधु गौडिकम् ||२३||
भद्रदारु घनं मूर्वा हरिद्रा मधुकं तथा |
कोलप्रमाणानि पिबेदान्तरिक्षेण वारिणा ||२४||
दुःस्पर्शास्वरसं वाऽपि कषायं कुङ्कुमस्य च |
एर्वारुबीजं तोयेन पिबेद्वाऽलवणीकृतम् ||२५||
पञ्चमूलीशृतं क्षीरं द्राक्षारसमथापि वा |२६|
सौवर्चलाढ्यामित्यादि| सौवर्चलाढ्यां सौवर्चलोत्कटाम्| मदिरां मद्यम्| तुशब्दात् सर्पिषोऽवपीडनादिकं समानतन्त्रोक्तं ग्राह्यम्| किं मदिरामेव पिबेदथवाऽन्यदपीत्याह- एलामित्यादि| धात्रीफलानां स्वरसं सजलं वेति न केवलं दुग्धं पिबेदामलकरसं सोदकं पिबेदित्यर्थः| ‘गर्दभस्य’ इत्यत्रापि ‘पुरीषरसम्’ इति सम्बध्यते| मांसोपदंशं मांसभक्षणसहितं, मधु मद्यम्| तच्च द्राक्षोद्भवं, समानतन्त्रदर्शनात्| तथा च तद्वचः,- “द्राक्षोद्भवं चापि पिबेन्मद्यं मांसोपदंशकम्”- इति| गौडिकं सीधु गुडकृतं सस्यकम्; अत्रापि मांसोपदंशमिति सम्बध्यते| भद्रदार्वित्यादि| भद्रदारु देवदारु| घनं मुस्ता| मूर्वा चोरस्नायुः| मधुकं यष्टीमधु| कोलप्रमाणानि अर्धकर्षप्रमाणानि| दुःस्पर्शा दुरालभा| एर्वारुः ग्रीष्मकर्कटिका| अलवणीकृतम् ईषत्सैन्धवयुक्तम्| पञ्चमूली लघुपञ्चमूलं, समानतन्त्रसंवादात्; तथा चोक्तम्- “लघुना पञ्चमूलेन शृतं क्षीरं पिबेन्नरः”- इति||२१-२५||-
Adhikarana 26 (26-27) · Śloka 27
योगांश्च वितरेदत्र पूर्वोक्तानश्मरीभिदः ||२६||
मूत्रकृच्छ्रक्रमं चापि कुर्यान्निरवशेषतः |
भूयो वक्ष्यामि योगान् यान् मूत्राघातोपशान्तये ||२७||
इदानीं मूत्रजोदावर्ते अश्मरीमूत्रकृच्छ्रमूत्राघातचिकित्सितान्यतिदिशन्नाह- योगांश्च वितरेदित्यादि| वितरेत् दद्यात्| अत्र मूत्रजोदावर्ते| पूर्वोक्तान् ‘कुशः काशः शरः’ इत्यादिनाऽश्मरीचिकित्सितोक्तान्| भूयः अतिशयेन| ‘वक्ष्यामि यान् योगान्' इत्यत्रापि ‘तान् कुर्यात्’ इति सम्बध्यते||२६-२७||
Adhikarana 27 (28) · Śloka 28
स्नैहैः स्वेदैरुदावर्तं जृम्भाजं समुपाचरेत् |२८|
जृम्भणजोदावर्तचिकित्सितमाह- स्नेहैरित्यादि| स्नेहैः स्वेदैरिति पदद्वयेऽपि बहुवचनाच्चतुर्भिः स्नेहैश्चतुर्भिश्च स्वेदैरित्यर्थः|२८|-
Adhikarana 28 (28) · Śloka 28
अश्रुमोक्षोऽश्रुजे कार्यः स्निग्धस्विन्नस्य देहिनः ||२८||
अश्रुजोदावर्तचिकित्सामाह- अश्रुमोक्ष इत्यादि| अश्रुमोक्षः अश्रुनिःसारणम्| अत्र लुप्तचकारनिर्देशात्तीक्ष्णभञ्जनादिकं वक्ष्यमाणमत्रापि सम्बन्धनीयम्||२८||
Adhikarana 29 (29) · Śloka 29
तीक्ष्णाञ्जनावपीडाभ्यां तीक्ष्णगन्धोपशिङ्घनैः |
वर्तिप्रयोगैरथवा क्षवसक्तिं प्रवर्तयेत् ||२९||
(तीक्ष्णौषधप्रधमनैरथवाऽऽदित्यरश्मिभिः||) |
क्षवजोदावर्तचिकित्सितमाह- तीक्ष्णाञ्जनावपीडाभ्यामित्यादि| तीक्ष्णशब्दोऽञ्जनावपीडाभ्यां सह सम्बध्यते| अवपीडो नस्यभेदः| तीक्ष्णगन्धोपशिङ्घनैः मरिचादिचूर्णावघ्राणैः| वर्तिप्रयोगा धूमवर्तिप्रयोगाः| अत्र लुप्तादिशब्दात् अर्करश्मिविलोकनादयो गृह्यन्ते| तथा च- “तीक्ष्णधूमाञ्जनाघ्राणनावनार्कविलोकनैः| प्रवर्तयेत् क्षुतिं सक्ताम्”- इत्यादि| क्षवसक्तिं छिक्काया अप्रवर्तनम्| केचित्तीक्ष्णाञ्जनावपीडाभ्यामिति पदमश्रुजोदावर्त एव मन्यन्ते न क्षवजे, अनौपयिकत्वात्तन्त्रान्तरविरोधाच्च||२९||-
Adhikarana 30 (30) · Śloka 31
उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् ||३०||
सुरां सौवर्चलवतीं बीजपूररसान्विताम् |३१|
उद्गारजे क्रमोपेतमित्यादि| क्रमोपेतं धूमनस्यकवलग्रहचिकित्सितोक्तक्रमसंयुक्तम्| किमुद्गारजे स्नैहिकं धूममेवाचरेदुतान्यदपीत्याह- सुरामित्यादि||३०||-
Adhikarana 31 (31) · Śloka 32
छर्द्याघातं यथादोषं सम्यक् स्नेहादिभिर्जयेत् ||३१||
सक्षारलवणोपेतमभ्यङ्गं चात्र दापयेत् |३२|
छर्द्याघातमित्यादि| छर्द्याघातं छर्द्याघातजमुदावर्तं, कारणेकार्योपचारात्| यथादोषं दोषस्यानतिक्रमेण| आदिशब्दात् वमनादयः| सक्षारलवणोपेतम् ईषद्यवक्षारसैन्धवसंयुक्तं; यद्यपि तन्त्रान्तरे तैलाभ्यङ्ग उक्तस्तथाऽप्यत्र वृद्धसम्प्रदायाद्धृताभ्यङ्गः कार्यः| चकारात् व्यायामोपवासादयो गृह्यन्ते| 'वम्याघातं' इति केचित् पठन्ति||३१||
Adhikarana 32 (32-33) · Śloka 33
बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः ||३२||
आवारिनाशात् क्वथितं पीतवन्तं प्रकामतः |
रमयेयुः प्रिया नार्यः शुक्रोदावर्तिनं नरम् ||३३||
बस्तिशुद्धिकरावापमित्यादि| बस्तिशुद्धिकरावापं कूष्माण्डकतृणपञ्चमूलादिप्रक्षेपम्| प्रक्षेपद्रव्यप्रमाणं क्षीराष्टांशेन| पयः क्षीरम्| प्रकामतः स्वेच्छया नार्यः शुक्रोदावर्तिनं नरं रमयेयुः भजेयुः| यदत्र रमणे स्त्रीणां कर्त्रीत्वेनाभिधानं तत् शुक्रोदावर्तिनो हर्षाधिक्यसञ्जननार्थम्| प्रिया मनोनुकूलाः| लुप्तचकारात् ताम्रचूडादयस्तन्त्रान्तरोक्ता ग्राह्याः||३२-३३||
Adhikarana 33 (34) · Śloka 34
क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम् |३४|
क्षुद्विघाते हितमित्यादि| चकारात् लघ्वपि|३४|-
Adhikarana 34 (34) · Śloka 34
तृष्णाघाते पिबेन्मन्थं यवागूं वाऽपि शीतलाम् ||३४||
तृष्णाघाते पिबेन्मन्थमित्यादि| मन्थः सघृतशीतलजलप्लुताः सक्तवः| यवागूरत्र पेया| अपिशब्दात् शीतलजलावगाहपानादिकं ग्राह्यम्||३४||
Adhikarana 35 (35) · Śloka 35
भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः |३५|
भोज्यो रसेनेत्यादि| भोज्यो भोजयितव्यः रसेन मांसरसेन|३५|-
Adhikarana 36 (35) · Śloka 35
निद्राघाते पिबेत् क्षीरं स्वप्याच्चेष्टकथा नरः ||३५||
निद्राघाते पिबेत् क्षीरमित्यादि| क्षीरं गोक्षीरं न माहिषं, प्रधानकल्पनाश्रयणात् समानतन्त्रदर्शनाच्च| तथा च तन्त्रान्तरम्,- “निद्राघाते पिबेत् क्षीरं गोस्तनादथवा नरः”- इति| इष्टकथा अनुकूलकथाः , ‘शृणुयात्’ इति शेषः| ‘इष्टकथारतः’ इति पाठान्तरम्| स्वप्यात् निद्रां गच्छेत्||३५||
Adhikarana 37 (36) · Śloka 36
आध्मानाद्येषु रोगेषु यथास्वं प्रयतेत हि |
यच्च यत्र भवेत्प्राप्तं तच्च तस्मिन् प्रयोजयेत् ||३६||
उदावर्तचिकित्सितमभिधायेदानीं तदुपद्रवचिकित्सितमाह- आध्मानाद्येषु रोगेष्वित्यादि| आध्मानाद्येषु वेगावरोधजातेषु| आदिशब्दात् शूलपरिकर्तिकापुरीषसङ्गादीनां ग्रहणम्| यथास्वं यस्याध्मानादेर्यदात्मीयमौषधं वातव्याध्यादिचिकित्सितोक्तं तेन प्रयतेत प्रयत्नं कुर्वीत| अन्यदप्युचितं चिकित्सितमाध्मानादिषु कार्यमित्याह- यच्चेत्यादि| यदौषधं यस्मिन् आध्मानादौ प्राप्तं युक्तम्||३६||
Adhikarana 38 (37-40) · Śloka 41
वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः |
भोजनैः कुपितः सद्य उदावर्तं करोति हि ||३७||
वातमूत्रपुरीषासृक्कफमेदोवहानि वै |
स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् ||३८||
ततो हृद्बस्तिशूलार्तो गौरवारुचिपीडितः |
वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः ||३९||
श्वासकासप्रतिश्यायदाहमोहवमिज्वरान् |
तृष्णाहिक्काशिरोरोगमनःश्रवणविभ्रमान् ||४०||
लभते च बहूनन्यान् विकारान् वातकोपजान् |४१|
‘अपथ्यभोजनाच्चापि वक्ष्यते च तथाऽपरः’ इति यदुक्तं तस्यावसरः- वायुरित्यादि| कोष्ठानुगो वायुरत्र अपानः, समानतन्त्रदर्शनात्| तस्य लक्षणमाह- वातेत्यादि| उदावर्तयति ऊर्ध्वामावर्तयति, अधोवहानि स्रोतांस्यूर्ध्ववहानि करोतीत्यर्थः| पुरीषं चातिवर्तयेदिति, उष्ट्रादिपुरीषवत् कठिनं कुर्यादित्यर्थः| ततः तस्माद्धेतोः| विभ्रमो व्यापद्विशेषः| अन्यान् आध्मानप्रत्याध्मानादीन्||३७-४०||-
Adhikarana 39 (41) · Śloka 42
तं तैललवणाभ्यक्तं स्निग्धं स्विन्नं निरूहयेत् ||४१||
दोषतो भिन्नवर्चस्कं भुक्तं चाप्यनुवासयेत् |४२|
तस्य चिकित्सितमाह- तं तैलेत्यादि| तम् उदावर्तिनम्| दोषत इत्यादि| भिन्नवर्चस्कं निरूहभिन्नपुरीषं पुरुषं दोषमपेक्ष्य भुक्तवन्तमनुवासयेदिति सम्बन्धः| केचिदत्रानुवासनं निरुहातियोगव्यापत्प्रशमनार्थं मन्यन्ते; तन्न, समानतन्त्रविरोधात्; तथा च,- “उदावर्ते त्वपथ्योत्थे सुनिरूढं ततो भिषक्| यथादोषं भुक्तवन्तमाशु चैवानुवासयेत्”- इति| केचित् ‘भिन्नवर्चस्कं’ इत्यत्र ‘भिन्नवर्चांसि’ इति पठित्वा अनुलोमनीयानि भुक्तवन्तमिति व्याख्यानयन्ति||४१||-
Adhikarana 40 (42) · Śloka 43
न चेच्छान्तिं व्रजत्येवमुदावर्तः सुदारुणः ||४२||
अथैनं बहुशः स्विन्नं युञ्ज्यात् स्नेहविरेचनैः |४३|
निरूहानुवासनाभ्यामप्यप्रशाम्यत्युदावर्ते चिकित्सितमाह- न चेच्छान्तिमित्यादि| एवं पूर्वोक्तविधिना| एनम् उदावर्तिनम्| स्विन्नं स्निग्धस्विन्नम्, आदिलोपात्| स्नेहविरेचनैरेरण्डतैलादिभिः||४२||-
Adhikarana 41 (43-44) · Śloka 44
पाययेत त्रिवृत्पीलुयवानीरम्लपाचनैः ||४३||
हिङ्गुकुष्ठवचास्वर्जिविडङ्गं वा द्विरुत्तरम् |
योगावेतावुदावर्तं शूलं चानिलजं हतः ||४४||
अपथ्यजोदावर्ते योगद्वयमाह- पाययेतेत्यादि| पीलुः उष्ट्रप्रियो गुडफलः, भादानके ‘पीलु’ इति प्रसिद्धः| अम्लपाचनैः अम्लं काञ्जिकं, पाचनानि चित्रकादीनि, तैः सह पाययेदित्यर्थः| त्रिवृदादिः एको योगः, हिङ्ग्वादिस्तु द्वितीयः| स्वर्जी स्वर्जिकाक्षारः| द्विरुत्तरमिति आद्याच्च द्रव्यादुत्तरोत्तरं द्रव्यं द्विगुणं ग्राह्यम्| द्विरुत्तरमिति पदं न पूर्वयोगे सम्बन्धनीयं, ‘द्विरुत्तरा हिङ्गुवचा सकुष्ठा’ इत्यादिना तन्त्रान्तरे दर्शितत्वात्| यवानीरित्यत्र यवागूमिति केचित् पठन्ति| अपरे ‘अम्लपाचनैः’ इत्यत्र 'अम्लपानकैः' इति पठित्वा अम्लद्रवैरिति व्याख्यानयन्ति||४३-४४||
Adhikarana 42 (45) · Śloka 46
देवदार्वग्निकौ कुष्ठं शुण्ठीं पथ्यां पलङ्कषाम् |
पौष्कराणि च मूलानि तोयस्यर्धाढके पचेत् ||४५||
पादावशिष्टं तत् पीतमुदावर्तमपोहति |४६|
देवदार्वग्निकावित्यादि| अग्निकः अजमोदा| पथ्या हरीतकी| पलङ्कषा गुग्गुलुः| अर्धाढकं द्वात्रिंशत्पलानि, पादावशिष्टम् अष्टपलप्रमितं, वृद्धवैद्यव्यवहारात्तन्त्रान्तरदर्शनाच्च| तथा च तन्त्रान्तरे उक्तम्,- "कुष्ठं पलङ्कषां पथ्यां शुण्ठीं दार्वग्निपुष्करम्| द्वात्रिंशता तोयपलैः पक्त्वा पादावशेषितम्| पाययेत्"- इत्यादि| यद्यपि ‘क्वाथस्याञ्जलिरिष्यते’ इति परिभाषा विद्यते, तथाऽपि मानानुक्तौ परिभाषाश्रयणं न पुनरुक्ते माने| केचिदर्धाढकं चतुःषष्टिपलानि मन्यन्ते, ते च षोडशपलोन्मितं क्वाथं पाययन्ति; अपरे क्वाथबाहुल्यात् क्रमशः क्वाथपानमिच्छन्ति न पुनरेकस्मिन्नेव दिवसे; तन्न, समानतन्त्रविरोधात्||४५||-
Adhikarana 43 (46-47) · Śloka 47
मूलकं शुष्कमार्द्रं च वर्षाभूः पञ्चमूलकम् ||४६||
आरेवतफलं चाप्सु पक्त्वा तेन घृतं पचेत् |
तत् पीयमानं शास्त्युग्रमुदावर्तमशेषतः ||४७||
उदावर्ते पानार्थं घृतमाह- मूलकमित्यादि| शुष्कमिति मूलार्द्रकयोर्विशेषणम्| वर्षाभूः पुनर्नवा| पञ्चमूलकं बिल्वादिपञ्चमूलम्| आरेवतफलं गिरिमालकफलम्| पक्त्वेति क्वाथपाकपरिभाषया| तेन क्वाथेन| शास्ति हन्तीत्यर्थः||४६-४७||
Adhikarana 44 (48) · Śloka 48
वचामतिविषां कुष्ठं यवक्षारं हरीतकीम् |
कृष्णां निर्दहनीं चापि पिबेदुष्णेन वारिणा ||४८||
वचामतिविषामित्यादि| निर्दहनी अग्निमन्थः, गणिकारिकेत्यन्ये||४८||
Adhikarana 45 (49) · Śloka 50
इक्ष्वाकुमूलं मदनं विशल्यातिविषे वचाम् |
कुष्ठं किण्वाग्निकौ चैव पिबेत्तुल्यानि पूर्ववत् ||४९||
मूत्रेण देवदार्वग्नित्रिफलाबृहतीः पिबेत् |५०|
इक्ष्वाकुमूलमित्यादि| इक्ष्वाकुः कटुतुम्बी| विशल्या काष्ठपाटला, इन्द्रवारुणीत्यन्ये| किण्वं सुराबीजं; अग्निकः अजमोदा| पूर्ववदिति उष्णोदकेनेत्यर्थः| मूत्रेण गोमूत्रेण| अग्निः चित्रकः||४९||
Adhikarana 46 (50) · Śloka 51
यवप्रस्थं फलैः सार्धं कण्टकार्या जलाढके ||५०||
पक्त्वाऽर्धप्रस्थशेषं तु पिबेद्धिङ्गुसमन्वितम् |५१|
यवप्रस्थमित्यादि| कण्टकारीफलयवयोः समुदितेन समभागेन प्रस्थं षोडशपलानि| जलाढकं तोयस्य चतुःषष्टिपलानि, वृद्धवैद्यव्यवहारादत्र तोयद्वैगुण्यपरिभाषा नाद्रियते| अर्धप्रस्थशेषम् अष्टौ पलानि| अत्र क्वाथस्याष्टौ पलानि बहुत्वात् कथं पातव्यानीति नाशङ्कनीयं, "ऋषयस्त्वेव जानन्ति द्र्व्यसंयोगजं फलम्"- इत्युक्तेः| ये तु पूर्वोक्तदेवदार्वादिपानवदत्रापि तोयस्य मानाधिक्यमिच्छन्ति, ते कण्टकारिफलान्यपि प्रस्थप्रमितानि गृह्णन्ति| केचित् ‘यवप्रस्थं पले द्वे च कण्टकार्या’ इति पठन्ति||५०||-
Adhikarana 47 (51) · Śloka 52
मदनालाबुबीजानि पिप्पलीं सनिदिग्धिकाम् ||५१||
सञ्चूर्ण्य प्रधमेन्नाड्या विशत्येतद्यथा गुदम् |५२|
मदनालाबुबीजानीत्यादि| मदनं मदनफलं, तस्य बीजानि वैतरणसंवादात्| तथा च तद्वचः,- "मदनालाबुनोर्बीजं कण्टकारीकणान्वितम्"- इत्यादि| निदिग्धिका कण्टकारी| एतानि सञ्चूर्ण्य नाड्या प्रधमेत् मुखादिवायुना कृत्वा गुदे प्रेरयेत्||५१||-
Adhikarana 48 (52-53) · Śloka 53
चूर्णं निकुम्भकम्पिल्लश्यामेक्ष्वाक्वग्निकोद्भवम् ||५२||
कृतवेधनमागध्योर्लवणानां च साधयेत् |
गवां मूत्रेण ता वर्तीः कारयेत्तु गुदानुगाः |
सद्यः शर्मकरावेतौ योगावमृतसम्मतौ ||५३||
चूर्णमित्यादि| निकुम्भो दन्तीवृक्षः, कम्पिल्लः रोचनिका, श्यामा अरुणमूला त्रिवृत्, इक्ष्वाकुः कटुतुम्बी, अग्निकः अजमोदा, कृतवेधनं कोशातकीभेदः, मागधी पिप्पली, लवणानि सैन्धवादीनि, गुदानुगा गुदप्रवेशयोग्यप्रमाणा| शर्मकरौ सुखकरौ| एतौ योगाविति मदनादिचूर्णप्रधमनयोगवर्तियोगौ| अमृतसम्मितौ अमृततुल्यौ, जीवनीयात्मकत्वात्| वर्तिकल्पनां कथयति- निकुम्भादीनां चूर्णं गोमूत्रेण पक्त्वा घने शीतीभूते च सति वर्तीः कारयेत्||५२-५३||
Adhikarana puShpikA · Śloka 55
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातेन्त्रे उदावर्तप्रतिषेधो नाम (सप्तदशोऽध्यायः, आदितः) पञ्चपञ्चाशत्तमोऽध्यायः ||५५||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रे उदावर्तप्रतिषेधो नाम पञ्चपञ्चाशत्तमोऽध्यायः||५५||