Adhikarana 1 (1-2) · Śloka 2
अथातः कृष्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
शुक्लगतरोगविज्ञानीयानन्तरं प्रत्यासत्त्या कृष्णमण्डलगता रोगाः प्रतिपाद्या इत्यात आह- अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः कृष्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
शुक्लगतरोगविज्ञानीयानन्तरं प्रत्यासत्त्या कृष्णमण्डलगता रोगाः प्रतिपाद्या इत्यात आह- अथात इत्यादि||१-२||
Adhikarana 2 (3) · Śloka 3
यत् सव्रणं शुक्र(क्ल)मथाव्रणं वा पाकात्ययश्चाप्यजका तथैव | चत्वार एतेऽभिहिता विकाराः कृष्णाश्रयाः सङ्ग्रहतः पुरस्तात् ||३||
🔊 Audio coming soon
तानेव कृष्णगतरोगान्नामभिः प्राह- यदित्यादि| सङ्ख्येयनिर्देशादेव चतुःसङ्ख्यायां लब्धायां चतुःसङ्ख्याकरणं तन्त्रान्तरोद्दिष्टातिरिक्तसङ्ख्यानिरासार्थम्| सङ्ग्रहतः सम्यगुपादानतः||३||
Adhikarana 3 (4) · Śloka 4
निमग्नरूपं हि भवेत्तु कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै | स्रावं स्रवेदुष्णमतीव रुक् च तत् सव्रणं शुक्र(क्ल)मुदाहरन्ति ||४||
🔊 Audio coming soon
तानेव लक्षणैर्निर्दिशन्नाह- निमग्नेत्यादि| निमग्नरूपम् अन्तःप्रविष्टरूपम्, ईषद्दृश्यरूपमित्यर्थः| सूच्येव विद्धमित्यनेन वर्तुलत्वं दर्शितं, रक्तस्याग्नेयत्वादुष्णाश्रुता अत्यर्थं च पीडा भवति| अव्रणशुक्ले मन्दरुगश्रुता वक्ष्यते, तस्मादस्मिन् सक्षते शुक्रे क्षतयोगान्नेत्रस्य सुकुमारत्वाच्चातीव वेदना युक्ता| अत्र विदेहः- “रक्तराजीनिभं कृष्णे विद्रुमाभं प्रलक्ष्यते| सूच्यग्रेणैव तच्छुक्रमुष्णाश्रुस्रावि सव्रणम्”- इति| सव्रणं सक्षतमित्यर्थः| रक्तजमिदमसाध्यं च||४||
Adhikarana 4 (5) · Śloka 5
दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि | अवेदनावन्न च युग्मशुक्रं तत्सिद्धिमाप्नोति कदाचिदेव ||५||
🔊 Audio coming soon
इदानीं तस्यैवावस्थाद्वारेण कादाचिक्तं साध्यत्वं दर्शयन्नाह- दृष्टेरित्यादि| संस्रवेद्धीत्यत्र संशब्दोऽतिशयार्थः| अवेदनावत् मन्दवेदनम्||५||
Adhikarana 5 (6-7) · Śloka 7
विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासक्तमदृष्टिकृच्च | द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम् ||६|| उष्णाश्रुपातः पिडका च कृष्णे यस्मिन् भवेन्मुद्गनिभं च शुक्रम् | तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम् ||७||
🔊 Audio coming soon
तस्यैव कदाचित्साध्यस्य लक्षणं प्रतिपाद्यासाध्यस्य लक्षणं प्रतिपादयन्नाह- विच्छिन्नेत्यादि| विच्छिन्नमध्यमिति विदीर्णमांसत्वान्मध्ये सच्छिद्रमिव| पक्षान्तरमाह- पिशितावृतं वेति, आच्छिन्नमध्यमेवोन्नतमांसेन वेष्टितं वा| चलं सिरासक्तमिति यतः सिरासक्तमत एव चलं, सिरा हि स्वभावत एव चलाः; तदाश्रितं शुक्रमपि चलमेव; अन्ये तु चलं चलदिव न तु साक्षाच्चलमेव| अदृष्टिकृत् दर्शनरोधकृत्| द्वित्वाग्गतं द्विपटलाश्रितम्| लोहितमन्ततश्चेति प्रान्तेषु लोहितमित्यर्थः| इदानीं द्विपटलाश्रितस्य लक्षणं दर्शयन्नाह- उष्णेत्यादि| कस्मिंश्चित् पुस्तके ‘पिडका च पीता’ इति पाठः, स न सङ्गच्छते | तथा च विदेहः- “चोषोष्णस्रावदाहास्तु कृष्णे च पिडिकोद्गमः| व्यक्तमुद्गफलाकारं शुक्रं द्वित्वग्गतं भवेत्” इति| एकीयमतमाह- तदित्यादि| यच्चान्यच्छुक्रं तित्तिरिपक्षतुल्यं तदप्यसाध्यं केचिद्वदन्तीति सम्बन्धः| एतत् परमतमप्यप्रतिषिद्धत्वादनुमतमेव||६-७||
Adhikarana 6 (8) · Śloka 8
सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नातिरुगश्रुयुक्तम् | विहायसीवाच्छघनानुकारि तदव्रणं साध्यतमं वदन्ति ||८||
🔊 Audio coming soon
इदानीं सव्रणं शुक्रं प्रतिपाद्याव्रणं प्रतिपादयन्नाह- सितमित्यादि| स्यन्दात्मकम् अभिष्यन्दकारणं विहायसीव आकाश इव, अच्छघनानुकारि प्रतनुमेघखण्डानुकारीत्यर्थः| रक्तजमिदं साध्यं च||८||
Adhikarana 7 (9) · Śloka 9
गम्भीरजातं बहलं च शुक्रं चिरोत्थितं चापि वदन्ति कृच्छ्रम् |९|
🔊 Audio coming soon
अस्यैवाव्रणस्य शुक्रस्यावस्थाभेदेन कृच्छ्रतां दर्शयन्नाह- गम्भीरेत्यादि| एवम्भूतमव्रणमपि शुक्रं कृच्छ्रं वदन्तीति सम्बन्धः| गम्भीरजातं द्विपटलाश्रितमित्यर्थः| जेज्जटाचार्यस्तु सव्रणाव्रणशुक्रस्य लक्षणं साध्यासाध्यत्वं च विपरीतक्रमेण पठति, मया तु पञ्जिकाकाराभिप्रायेणानेनैव क्रमेण पठितम्|९|-
Adhikarana 8 (9) · Śloka 10
सञ्च्छाद्यते श्वेतनिभेन सर्वं दोषेण यस्यासितमण्डलं तु ||९|| तमक्षिपाकात्ययमक्षिकोपसमुत्थितं तीव्ररुजं वदन्ति |१०|
🔊 Audio coming soon
इदानीं पाकात्ययमाह- सञ्च्छाद्यत इत्यादि| अक्षिकोपात् समुत्थितं स्यन्दादुत्पन्नमित्यर्थः| एष त्रिदोषजोऽसाध्यश्च||९||-
Adhikarana 9 (10) · Śloka 10
अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाश्रुः | विदार्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्यवस्येत् ||१०||
🔊 Audio coming soon
अजेत्यादि| अजापुरीषप्रतिम इति विशुष्कच्छगलीपुरीषतुल्यः| सलोहित ईषल्लोहितः| लोहितपिच्छिलाश्रुरिति लोहितं पिच्छिलं चाश्रु यस्य सः| प्रचयः सामर्थ्यान्मेदसः| एष श्लेष्मजोऽसाध्यश्च||१०||
Adhikarana puShpikA · Śloka 5
इति सुश्रुतसंहितायामुत्तरतन्त्रे कृष्णगतरोगविज्ञानीयो नाम पञ्चमोऽध्यायः ||५||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पञ्चमोऽध्यायः||५||