Adhikarana 1 (1-2) · Śloka 2
अथातः शुक्लगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
वर्त्मगतरोगविज्ञानीयानन्तरं वर्त्ममण्डलाच्छुक्लमण्डलस्यानन्तर्यात्तद्गतरोगविज्ञानीयारम्भो युक्त इत्यत आह- अथात इत्यादि||१-२||
Adhikarana 2 (3) · Śloka 4
प्रस्तारिशुक्लक्षतजाधिमांसस्नाय्वर्मसञ्ज्ञाः खलु पञ्च रोगाः |
स्युः शुक्तिका चार्जुनपिष्टकौ च जालं सिराणां पिडकाश्च याः स्युः ||३||
रोगा बलासग्रथितेन सार्धमेकादशाक्ष्णोः खलु शुक्लभागे |४|
तानेव रोगान्नामभिराह- प्रस्तारीत्यादि| अर्मशब्दः प्रस्तार्यादिभिः पञ्चभिः सह सम्बध्यते| जालं सिराणामिति सिराशब्दो जालपिडकाभ्यां सम्बध्यते; तेन सिराजालं, सिरापिडकाश्चेत्यर्थः||३||-
Adhikarana 3 (4) · Śloka 4
प्रस्तारि प्रथितमिहार्म शुक्लभागे विस्तीर्णं तनु रुधिरप्रभं सनीलम् ||४||
प्रस्तारीत्यादि| प्रथितं प्रख्यातं, विस्तीर्णं विततं, तनु विरलं, रुधिरप्रभं रक्तनिभं, सनीलम् ईषन्नीलम्, एतेनेषन्नीललोहितमित्यर्थः| जेज्जटाचार्यस्तु विदेहोक्तं प्रस्तार्यर्मलक्षणं दृष्ट्वा सनीलमित्यत्र वाशब्दो लुप्तो द्रष्टव्यः, तेन रक्तमीषन्नीलं वेत्यर्थ इति प्रतिपादयति| तथा च विदेहवाक्यं- “समन्ताद्विस्तृतः श्यावो रक्तो वा मांससञ्चयः| सन्निपातेन दोषाणां प्रस्तार्यर्म तदुच्यते”- इति| त्रिदोषजमिदं साध्यं च||४||
Adhikarana 4 (5) · Śloka 5
शुक्लाख्यं मृदु कथयन्ति शुक्लभागे सश्वेतं सममिह वर्धते चिरेण |५|
शुक्लाख्यमित्यादि| शुक्लाख्यं शुक्लनामार्म| मृदु कोमलं, सश्वेतं किञ्चिच्छ्वेतं; श्लेष्मजमिदं साध्यं च|५|-
Adhikarana 5 (5) · Śloka 5
यन्मांसं प्रचयमुपैति शुक्लभागे पद्माभं तदुपदिशन्ति लोहितार्म ||५||
यदित्यादि| प्रचयं वृद्धिम्, उपैति गच्छति, पद्माभम् अरुणपद्मप्रभं, लोहितार्म शोणितार्मेत्यार्थः| एतद्रक्तजं साध्यं च||५||
Adhikarana 6 (6) · Śloka 6
विस्तीर्णं मृदु बहलं यकृत्प्रकाशं श्यावं वा तदधिकमांसजार्म विद्यात् |६|
विस्तीर्णमिति| बहलं स्थूलम्| एतत् सन्निपातजं साध्यं च|६|-
Adhikarana 7 (6) · Śloka 6
शुक्ले यत् पिशितमुपैति वृद्धिमेतत् स्नाय्वर्मेत्यभिपठितं खरं प्रपाण्डु ||६||
शुक्ले इत्यादि| एतत्त्रिदोषजमपि साध्यम्| खरं खरस्पर्शम्| ‘स्नाय्वाभं पिशितांशमुपैति यत्तु स्नाय्वर्म’ इत्यपि पाठः| ‘खरं च शुक्लं’ इति केचित् पठन्ति||६||
Adhikarana 8 (7) · Śloka 7
श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये शुक्त्याभाः सितनयने स शुक्तिसञ्ज्ञः |७|
श्यावा इत्यादि| शुक्त्याभा इति जलशुक्तिरिव किञ्जिद्दीर्घाः शुक्लमण्डले ये बिन्दवः स शुक्तिकाविकार इति सम्बन्धः| साध्योऽयं पित्तजश्च|७|-
Adhikarana 9 (7) · Śloka 7
एको यः शशरुधिरोपमस्तु बिन्दुः शुक्लस्थो भवति तमर्जुनं वदन्ति ||७||
एक इत्यादि| रक्तजोऽयं साध्यश्च||७||
Adhikarana 10 (8) · Śloka 8
उत्सन्नः सलिलनिभोऽथ पिष्टशुक्लो बिन्दुर्यो भवति स पिष्टकः सुवृत्तः |८|
उत्सन्न इत्यादि| पिष्टशुक्लः तण्डुलपिष्टवच्छुक्लः, शुक्लत्वेऽप्यच्छत्वात् सलिलनिभः, पिष्टकः पिष्टकनामा| अयं श्लैष्मिकः साध्यश्च|८|-
Adhikarana 11 (8) · Śloka 8
जालाभः कठिनसिरो महान् सरक्तः सन्तानः स्मृत इह जालसञ्ज्ञितस्तु ||८||
जालाभ इत्यादि| अनुलोमविलोमविस्तृतसिरानिचयविरचितत्वाज्जालस्येव आभा यस्य स तथा| रक्तो लोहितो लोहितजनितश्च, सन्तानः सिरासन्तानः| एष सिराजालसञ्ज्ञितो रक्तजः साध्यश्च||८||
Adhikarana 12 (9) · Śloka 9
शुक्लस्थाः सितपिडकाः सिरावृता यास्ता विद्यादसितसमीपजाः सिराजाः |९|
शुक्लस्था इत्यादि| सिराजाः ‘पिडका’ इति शेषः| वास्तुस्थितसिरावृत्तत्वात् सिराजाः, न तु साक्षात् सिराजाः| एष सन्निपातजः साध्यश्च|९|-
Adhikarana 13 (9) · Śloka 9
कांस्याभो भवति सितेऽम्बुबिन्दुतुल्यः स ज्ञेयोऽमृदुररुजो बलासकाख्यः ||९||
कांस्याभ इत्यादि| कांस्यस्येव आभा यस्य स तथा, सित इत्यर्थः| अम्बुबिन्दुतुल्यः वारिबिन्दुरिवोद्गत्वात्| अमृदुः कठिनः| अरुजः अव्यथः| एतद्द्वयमपि कफजनितत्वात् नामान्वयेन बलासनामा विकारो बलासज एव| अत्रैव विदेहः,- “मारुतोत्पीडितः श्लेष्मा शुक्लभागे व्यवस्थितः| जलबिन्दुरिवोच्छूनो मृदुः कफसमुद्भवः”- इति| पुस्तकान्तरे चान्यथा पाठः, यथा- ‘सन्तानो भवति सिरावृतः सिते यो बिन्दुर्वा स तु निरुजो बलासकाख्यः’- इति| ईदृशस्य पाठस्य टीकाकारा व्याख्यां न कुर्वन्ति| साध्योऽयं श्लेष्मजश्च||९||
Adhikarana puShpikA · Śloka 4
इति सुश्रुतसंहितायामुत्तरतन्त्रे शुक्लगतरोगविज्ञानीयो नाम चतुर्थोऽध्यायः ||४||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे चतुर्थोऽध्यायः||४||