Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

35. mukhamaṇḍikāpratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो मुखमण्डिकाप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

शीतपूतनाप्रतिषेधानन्तरं स्त्रीग्रहसामान्यान्मुखमण्डिकाप्रतिषेधारम्भो युज्यत इत्याह- अथात इत्यादि||१-२||

Adhikarana 2 (3) · Śloka 3

कपित्थबिल्वतर्कारीवांशीगन्धर्वहस्तकाः | कुबेराक्षी च योज्याः स्युर्बालानां परिषेचने ||३||

🔊 Audio coming soon

कपित्थेत्यादि| तर्कारी अरणिका, वांशी वंशलोचना, कुबेराक्षी काष्ठपाटला, पेटिकेत्यन्ये||३||

Adhikarana 3 (4) · Śloka 4

स्वरसैर्भृङ्गवृक्षाणां तथाऽजहरिगन्धयोः | तैलं वसां च संयोज्य पचेदभ्यञ्जने शिशोः ||४||

🔊 Audio coming soon

भृङ्गवृक्षाणामिति वातहरबिल्वादिकानां भृङ्गाः पत्रभङ्गाः, तदुपयोगिका वृक्षाः| अजहरिगन्धयोरिति बस्तगन्धाश्वगन्धयोः, अजाश्वगन्धाचतुर्गुणरसेन तैलं वसां च संयोज्य यमकं पचेदिति मन्यन्ते; ‘अजहरिगन्धयोः’ इत्यत्र च ‘तथैव हरिगन्धया’ इति पठन्ति||४||

Adhikarana 4 (5) · Śloka 5

मधूलिकायां पयसि तुगाक्षीर्यां गणे तथा | मधुरे पञ्चमूले च कनीयसि घृतं पचेत् ||५||

🔊 Audio coming soon

मधूलिकायामित्यादि| मधूलिका मर्कटहस्ततृणम्| पयसि गोक्षीरे| अत्र गयी पयःस्विनीति पठति; तत्र क्षीरविदारीगणे; तथा मधुरे काकोल्यादिके, पञ्चमूले कनीयसि शालपर्ण्यादिके| मधूलिकादिकल्कक्वाथाभ्यां घृतं पचेत्||५||

Adhikarana 5 (6-8) · Śloka 8

वचा सर्जरसः कुष्ठं सर्पिश्चोद्धूपनं हितम् | धारयेदपि जिह्वाश्च चाषचीरल्लिसर्पजाः ||६|| वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा | मनःशिलां चोपहरेद्गोष्ठमध्ये बलिं तथा ||७|| पायसं सपुरोडाशं बल्यर्थमुपसंहरेत् | मन्त्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम् ||८||

🔊 Audio coming soon

वचेत्यादि| चाषः कर्णायसः, चीरल्लिः ‘चिल्ल’ इति लोके, चाषादिजिह्वां धारयेत्| वर्णको रोचनिका कम्पिल्लक इत्यर्थः, कङ्कुष्ठमित्यन्ये| माल्यं पुष्पम्| अञ्जनं रसाञ्जनं, सौवीराञ्जनमित्यन्ये| पारदं शम्भुरेतः| पूर्वकल्पेन शाल्यादिकृतमण्डले गोष्ठमध्ये वर्णकादिबलिमुपहरेत्, अन्ये तु वर्णकादिद्रव्याणि मण्डलार्थं मन्यन्ते| पायसं क्षीरसंसिद्धास्तण्डुलाः, पुरोडाशः अष्टाकपालः पिष्टमयः कपालोपरि पक्वस्तृणाग्निना| मन्त्रेत्यादि मन्त्रपूताभिः गायत्र्या अभिमन्त्रिताभिः| तत्रैव गोष्ठमध्ये||६-८||

Adhikarana 6 (9) · Śloka 9

अलङ्कृता रूपवती सुभगा कामरूपिणी | गोष्ठमध्यालयरता पातु त्वां मुखमण्डिका ||९||

🔊 Audio coming soon

रक्षामाह- अलङ्कृतेत्यादि||९||

Adhikarana puShpikA · Śloka 35

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे मुखमण्डिकाप्रतिषेधो नाम(नवमोऽध्यायः, आदितः) पञ्चत्रिंशत्तमोऽध्यायः ||३५||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे मुखमण्डिकाप्रतिषेधाध्यायः पञ्चत्रिंशत्तमः||३५||