Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

46. mūrcchāpratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो मूर्च्छाप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि||१-२||

Adhikarana 2 (3-5) · Śloka 5

क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः | वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः ||३|| करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च | निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः ||४|| हृत्पीडा जृम्भणं ग्लानिः सञ्ज्ञानाशो बलस्य च | सर्वासां पूर्वरूपाणि, यथास्वं ता विभावयेत् ||५||

🔊 Audio coming soon

इदानीं दोषजमूर्च्छाया हेतुसम्प्राप्ती आह- क्षीणस्येत्यादि| एवम्भूतस्य पुरुषस्य वेगाघातादिभिर्हेतुभिरुग्रा दोषा यदा बाह्याभ्यन्तरेषु करणायतनेषु निविशन्ते तदा मानवा मूर्च्छन्तीति पिण्डार्थः| हीनसत्त्वस्य अल्पसत्त्वस्य| करणायतनेषु बुद्धीन्द्रियकर्मेन्द्रियमनोबुद्ध्यहङ्कारस्थानेषु| उग्रा अतिप्रवृद्धाः प्रसृताश्च| बाह्येष्वाभ्यन्तरेषु चेति बाह्यकरणायतनानि कर्मेन्द्रियाणि, आभ्यन्तरकरणायतनानि मनोबुद्ध्यहङ्कारस्थानानि| आभ्यन्तरकरणायतनस्य हृदयस्यैकत्वात् कथं बहुवचनं? सत्यं, अन्तःसञ्ज्ञावहनाडीनामप्यन्तःकरणायतनत्वेनाभिमतत्वात्| निविशन्ते अवतिष्ठन्ते| अपरे करणायतनशब्देनैव करणानि कथयन्ति, उपचारात्| तेन बाह्याभ्यन्तरेषु करणेषु यदा दोषा निविशन्ते तदा मानवा मूर्च्छन्तीत्यर्थः| अन्ये त्वन्यथा व्याख्यानयन्ति- करणायतनेषु यदा दोषा निविशन्ते तथा बाह्याभ्यनरेषु करणेषु निविशन्ते तदा मानवा मूर्च्छन्तीति||३-५||

Adhikarana 3 (6) · Śloka 7

सञ्ज्ञावहासु नाडीषु पिहितास्वनिलादिभिः | तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ||६|| सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत् | मोहो मूर्च्छेति तां प्राहुः... |७|

🔊 Audio coming soon

यया प्रक्रियया मानवो मूर्च्छति तामाह- सञ्ज्ञेत्यादि| सुखदुःखव्यपोहकृत् सुखदुःखनाशकृत्, सुखदुःखनाशश्च सञ्ज्ञानाशात्; सञ्ज्ञानाशस्तु सञ्ज्ञावहनाडीपिधानात्| अन्ये सुखदुःखे सत्त्वरजसी, तयोर्व्यपोहो नाशस्तं करोतीति व्याख्यानयन्ति||६||-

Adhikarana 4 (7-8) · Śloka 8

... षड्विधा सा प्रकीर्तिता ||७|| वातादिभिः शोणितेन मद्येन च विषेण च | षट्स्वप्येतासु पित्तं हि प्रभुत्वेनावतिष्ठते ||८||

🔊 Audio coming soon

सङ्ख्यामाह- षड्विधेत्यादि| ये तन्त्रान्तरीया वातादिभिः शोणितेन च चतुर्विधां मूर्च्छामिच्छन्ति तेषामयमाशयः- मद्यविषयोस्त्वनन्तरोक्तपाण्डुरोगवत् पृथगुपादानं, तेन स्वमते षड्विधैव मूर्च्छा| सर्वास्वपि मुर्च्छासु पित्तं कर्तृत्वेन प्रधानमित्याह- षट्स्वित्यादि| प्रभुत्वेनावतिष्ठते इतरदोषावाक्रम्य वर्तत इत्यर्थः| वेगाघातादिः हेतुः; करणायतनेष्वित्यादिः सम्प्रप्तिः||७-८||

Adhikarana 5 (9) · Śloka 9

अपस्मारोक्तलिङ्गानि तासामुक्तानि तत्त्वतः |९|

🔊 Audio coming soon

वातादिजानां तिसृणां लिङ्गमपस्मारोक्तलिङ्गातिदेशेनाह- अपस्मारेत्यादि| अपस्मारोक्तलिङ्गानि यथास्वं तासां जानीयादित्यर्थः| केचित् ‘अपस्मारोक्तलिङ्गानि’ इत्यत्र ‘अपस्मारेण लिङ्गानि’ इति पठित्वा व्याख्यानयन्ति- दन्तनखखादनाक्षिवैकृतलालास्रावादिरहितान्यपस्मारेण तुल्यानि लक्षणानि यथास्वमुपलक्षयेदित्यर्थः| तथा च तन्त्रान्तरं,- “सर्वाकृतिः सन्निपातादपस्मार इवागतः| स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः”- इति|९|-

Adhikarana 6 (9) · Śloka 10

पृथिव्यम्भस्तमोरूपं रक्तगन्धश्च तन्मयः ||९|| तस्माद्रक्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः |१०|

🔊 Audio coming soon

वातजादीनां तिसृणां लिङ्गान्यतिदिश्य रक्तजायाः सम्प्राप्तिं लक्षणं चाह- पृथिवीत्यादि| पृथ्वी अम्भश्च द्वयमपि तमोरूपं तमोबहुलं; तथा चोक्तं पुरा- ‘तमोबहुला पृथिवी, सत्त्वतमोबहुला आपः’ इति, रक्तगन्धश्च तन्मय इति पृथिव्यम्भःसमुद्भवः; पाञ्चभौतिकेऽपि रक्ते पृथिव्यम्भसोः प्राधान्यात्| मूर्च्छन्ति भुवि मानवा इत्येतेन गन्धस्य तमोबहुलत्वमुक्तम्| ननु, गन्धः पार्थिवस्तत्कथं पृथिव्यम्भःसमुद्भव इत्युच्यते? सत्यं, परस्परोपकार्यत्वात् | मूर्च्छन्ति भुवि मानवा इति ये मानवा पृथिवीगुणबहुलास्तामसा इत्यर्थः| ननु, यदि रक्तगन्धो मूर्च्छाजनकः, तर्हि किमिति सर्वेषामेव न मूर्च्छामुत्पादयति? सत्यं, ये हीनसत्त्वास्तेषां मूर्च्छामुत्पादयति न सर्वेषाम्| अपरे ‘रक्तगन्धश्च तन्मय’ इत्यन्यथा व्याचक्षते, तद्यथा- तन्मयः पृथिव्यम्भोमयः; अत्र यथासम्भवं व्याख्यानं; तेन रक्तमम्भोमयं, द्रवत्वात्; गन्धश्च पृथिवीमयः, पार्थिवत्वाद्गन्धस्य; तेन तमोभूयिष्ठायाः पृथिव्याः सकाशाद्गन्धस्य जातत्वाद्गन्धोऽपि तमोबहुल एव, कारणानुरूपत्वात् कार्यस्य; शेषं समम्| अन्ये तु ‘पृथिव्यम्भस्तमोरूपं रक्तं गन्धश्च तन्मय’ इति पठन्ति; पृथिवी चाम्भश्च पृथिव्यम्भसी, तयोः सम्बन्धि यत्तमः, तद्रूपं तद्बहुलं तल्लक्षणं वा रक्तं, गन्धश्च तन्मय इति तमोमय इत्यर्थः; तमोबहुलपृथिव्युत्पन्नत्वाद्गन्धस्य| एतेन तमोभूयिष्ठपृथिव्यम्भौत्पन्नरक्तस्य धातुजनितत्वाद्गन्धस्य स्वयं तमोभूयिष्ठत्वाच्च रक्तगन्धो मानवैराघ्रातः सन् हृद्यवस्थितं तमो वर्धयन् मूर्च्छामापादयति, ‘सर्वभावानां सामान्यं वृद्धिकारणम्’ इत्युक्तत्वात्| ननु, तमोबहुलत्वाद्रक्तं मूर्च्छाजनकं तर्हि तमोभूयिष्ठे एते पृथिव्यम्भसी कुतो मूर्च्छां नोत्पादयतः? सत्यं, पृथिव्यम्भसी सात्म्यतया स्वरूपतश्च मूर्च्छां नोत्पादयतः| अन्ये तु पठन्ति- पृथिव्यम्भस्तमोरूपं रक्तगन्धेन तु त्रयम्’ इति; व्याख्यानयन्ति च- पृथिव्यम्भस्तमसां रूपं स्वलक्षणं यस्य रक्तस्य तत्पृथिव्यम्भस्तमोरूपं; रक्तगन्धेन कृत्वा तु पुनस्त्रयं सत्त्वरजस्तमसां गुणानां त्रितयं ‘रक्ते ज्ञायते’ इति वाक्यशेषः| ननु, गन्धेन कृत्वा कथं गुणानां त्रितयं रक्ते ज्ञायते इति चेत्? सत्यं, रक्ते गन्धो विस्रो वर्तते, गन्धश्च गुणविशेषः, उक्तं च,- “तेषां विशेषाः शब्दस्पर्शरूपरसगन्धाः”- इति, ते च विशेषास्त्रिगुणाः; उक्तं च,- “सर्व एवैते विशेषाः सत्त्वरजस्तमोमया भवन्ति” इति| किन्त्वत्र तमोगुणस्याधिक्यं ज्ञेयम्| एतेनैतदुक्तं भवति- पृथिव्यम्भस्तमःस्वलक्षणस्य रक्तस्य गन्धेन त्रिगुणेन तमोगुणविशिष्टेन मानवा मूर्च्छन्ति||९||-

Adhikarana 7 (10) · Śloka 10

द्रव्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यति ||१०||

🔊 Audio coming soon

स्वमतं प्रदर्श्य परमतमाह- द्रव्यस्वभाव इत्येके इत्यादि||१०||

Adhikarana 8 (11) · Śloka 11

गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः | त एव तस्माज्जायेत मोहस्ताभ्यां यथेरितः ||११||

🔊 Audio coming soon

विषमद्योत्थे आह- गुणा इत्यादि| त एव गुणा रूक्षादयः| मोहो मूर्च्छा| ताभ्यां विषमद्याभ्याम्| यथेरितो यथाकथित इत्यर्थः| अथ विषमद्यविकारयोः सामान्येनैव मूर्च्छाप्रणयनात् कथमत्र विशिष्टमभिधानम्? उच्यते- तत्र इतरलक्षणैः सह तद्ग्रहणार्थम्| ननु, यदि विषमद्ययोस्तुल्या गुणाः स्थिताः, तत् किमिति विषवन्मद्यं मारणात्मकं न स्यात्? सत्यं, मद्ये तेषां गुणानामनतितीव्रत्वेनावस्थानात्| यद्येवं तर्हि ‘गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः’ इति कथं न व्याहन्यते? सत्यं, तीव्रतरशब्दादग्रे तीव्रशब्दो मध्ये लुप्तो द्रष्टव्यः| तेन विषे तीव्रतरत्वेन ते गुणाः स्थिताः, मद्ये तीव्रत्वेनेत्यर्थः| तथा च तन्त्रान्तरम्,- “विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपणाः| त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः|| त एव तस्मात्ताभ्यां तु मोहौ स्यातां यथेरितौ” (च. चि. २४)- इति||११||

Adhikarana 9 (12) · Śloka 12

स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्च्छितः |१२|

🔊 Audio coming soon

रुधिरजमूर्च्छालक्षणमाह- स्तब्धाङ्गदृष्टिस्त्वसृजेत्यादि| स्तब्धशब्दोऽङ्गदृष्टिभ्यां सम्बध्यते| गूढोच्छ्वासः अस्पष्टश्वासः|१२|-

Adhikarana 10 (12) · Śloka 12

मद्येन विलपंश्छेते नष्टविभ्रान्तमानसः | गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् ||१२||

🔊 Audio coming soon

मद्यजमूर्च्छालक्षणमाह- मद्येनेत्यादि| विलपन्निति विलापं कुर्वन्| नष्टविभ्रान्तमानस इति नष्टमानसः अपस्मरणः विभ्रान्तमानसो विक्षिप्तचेताः| जरां पाकम्||१२||

Adhikarana 11 (13) · Śloka 13

वेपथुस्वप्नतृष्णाः स्युः स्तम्भश्च विषमूर्च्छिते | वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः ||१३||

🔊 Audio coming soon

विषजमूर्च्छालक्षणमाह- वेपथुस्वप्नतृष्णाः स्युरित्यादि| वेपथुः कम्पः| स्तम्भः स्तब्धता| वेदितव्यमित्यादि| मूलादिकन्दान्तस्य विषस्य यथास्वं यानि लक्षणानि तैः कृत्वा विषमूर्च्छितस्य पुंसो यथास्वं यथात्मीयं विषं ज्ञेयम्||१३||

Adhikarana 12 (14) · Śloka 14

सेकावगाहौ मणयः सहाराः शीताः प्रदेहा व्यजनानिलाश्च | शीतानि पानानि च गन्धवन्ति सर्वासु मूर्च्छास्वनिवारितानि ||१४||

🔊 Audio coming soon

अतः परं चिकित्सितमाह- सेकावगाहावित्यादि| मणयः सहारा इति मणयो मुक्तास्फटिकप्रभृतयः| ते च सहारा हारारोपिता हिता इत्यर्थः| व्यजनानिला व्यजनानां वायवः| शीताः प्रदेहाः चन्दनोत्पलप्रभृतिकृताः प्रलेपाः| शीतानि पानानि च गन्धवन्तीति यानि शीतानि गन्धवन्ति च पानानि तानीत्यर्थः| अनिवारितानि प्रशस्तानि||१४||

Adhikarana 13 (15) · Śloka 15

सिताप्रियालेक्षुरसप्लुतानि द्राक्षामधूकस्वरसान्वितानि | खर्जूरकाश्मर्यरसैः शृतानि पानानि सर्पींषि च जीवनानि ||१५||

🔊 Audio coming soon

तान्येव शीतानि गन्धवन्ति च पानान्याह- सिताप्रियालेक्षुरसप्लुतानीत्यादि| खर्जूरकाश्मर्यरसैः शृतानि सिताप्रियालादियुतानि पानानि पानकानि सर्वास्वनिवारितानि| न केवलं पानान्येवानिवारितानि सर्पींषि च जीवनानीति काकोल्यादिसिद्धानीत्यर्थः| केचित् पानानीत्यत्र सिद्धानीति पठन्ति, ते च घृतविशेषणं मन्यन्ते||१५||

Adhikarana 14 (16) · Śloka 16

सिद्धानि वर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च | तथा यवा लोहितशालयश्च मूर्च्छासु पथ्याश्च सदा सतीनाः ||१६||

🔊 Audio coming soon

किमेतान्येव सर्वमूर्च्छासु हितान्युतान्यान्यपीत्याह- सिद्धानीत्यादि| मधुरे वर्गे काकोल्यादौ| पयांसि सर्वाण्यपि दुग्धानि, सर्वेषां क्षीराणां मूर्च्छाहरत्वात्| सदाडिमा दाडिमेन संस्कृताः, जाङ्गलजा रसाः| मूर्च्छासु ये भोजने हितास्तानाह- तथेत्यादि| पथ्या हिताः, ‘भोजने’ इति शेषः| सतीनो वर्तुलकलायः||१६||

Adhikarana 15 (17) · Śloka 17

भुजङ्गपुष्पं मरिचान्युशीरं कोलस्य मध्यं च पिबेत् समानि | शीतेन तोयेन बिसं मृणालं क्षौद्रेण कृष्णां सितया च पथ्याम् ||१७||

🔊 Audio coming soon

भुजङ्गपुष्पमित्यादि| भुजङ्गपुष्पं नागकेशरम्| कोलस्य मध्यं बदरमज्जा| एतानि भुजङ्गपुष्पादीनि समानि तुल्यानि शीततोयेन सह पिबेत्| न केवलमेतान्येव शीततोयेन सह पिबेत् बिसं मृणालं चापि शीततोयेन पिबेत्; बिसं बिसेन्द्रकं, मृणालं पद्मनालम्| क्षौद्रेण कृष्णामिति मधुना सह पिप्पलीं पिबेदित्यर्थः; अन्ये लिहेदिति मन्यन्ते| सितया च पथ्यामिति हरीतकीं शर्करया सह पिबेदित्यर्थः||१७||

Adhikarana 16 (18) · Śloka 18

कुर्याच्च नासावदनावरोधं क्षीरं पिबेद्वाऽप्यथ मानुषीणाम् | मूर्च्छां प्रसक्तां तु शिरोविरेकैर्जयेदभीक्ष्णं वमनैश्च तीक्ष्णैः ||१८||

🔊 Audio coming soon

अतः परं किं कुर्यादित्याह- कुर्यादित्यादि| नासावक्त्रयोरवरोधेन व्याघुट्यान्तः प्रविष्टो मारुतो रुद्धानि स्रोतांसि विवृण्वन् मूर्च्छामपहन्ति; नारीक्षीरं चातिशीतलत्वात्| मूर्च्छामित्यादि| प्रसक्तां भूयो भूयोऽनुसङ्गिनीम्| शिरोविरेकैः नस्यैः| अभीक्ष्णं पुनः पुनः| यद्यपि सर्वमूर्च्छायां पित्तं प्रधानं, तीक्ष्णे नस्यवमने न युक्तेऽस्य, तथाऽपि सञ्ज्ञावहस्रोतोनिरोधशान्तिकरत्वाद् व्याधिप्रत्यनीकत्वाच्च हिते एव| केचित् ‘तीक्ष्णैः’ इत्यत्र ‘पथ्यैः’ इति पठन्ति; तत्र पित्तश्लेष्महरैरित्यर्थः||१८||

Adhikarana 17 (19) · Śloka 20

हरीतकीक्वाथशृतं घृतं वा धात्रीफलानां स्वरसैः कृतं वा | द्राक्षासितादाडिमलाजवन्ति शीतानि नीलोत्पलपद्मवन्ति ||१९|| पिबेत् कषायाणि च गन्धवन्ति पित्तज्वरं यानि शमं नयन्ति |२०|

🔊 Audio coming soon

हरीतकीक्वाथशृतमित्यादि| हरीतकीक्वाथेन शृतं सिद्धं हरीतकीक्वाथशृतम्| धात्रीफलानाम् आमलकफलानां स्वरसैः| द्राक्षासितेत्यादि| यानि कषायाणि श्रीपर्ण्यादिकृतानि पित्तज्वरं शमं नयन्ति तानि द्राक्षासितादाडिमलाजवन्ति तत्प्रधानानि पिबेत्| नीलोत्पलपद्मवन्ति नीलोत्पलपद्मप्रधानानि| गन्धवन्ति गन्धद्रव्याढ्यानि| नीलोत्पलपद्मवन्तीत्यादिकं पित्तज्वरहरकषायविशेषणम्||१९||-

Adhikarana 18 (20) · Śloka 21

प्रभूतदोषस्तमसोऽतिरेकात् सम्मूर्च्छितो नैव विबुध्यते यः ||२०|| सन्न्यस्तसञ्ज्ञो भृशदुश्चिकित्स्यो ज्ञेयस्तदा बुद्धिमता मनुष्यः |२१|

🔊 Audio coming soon

इदानीं मूर्च्छाया अवस्थायां सञ्ज्ञान्तरमाह- प्रभूतदोष इत्यादि| यः प्रभूतदोषो मनुष्यः सम्मूर्च्छितः सन् तमसोऽतिरेकान्नावबुध्यते नावबोधं प्राप्नोति स दुश्चिकित्स्यो मतिमता वैद्येन सन्न्यस्तसञ्ज्ञो ज्ञेय इति पिण्डार्थः| सन्न्यस्तसञ्ज्ञ इति मृत्युमुखे वर्तमानत्वात् सन्न्यस्त इव सन्न्यस्तः||२०||-

Adhikarana 19 (21) · Śloka 22

यथाऽऽमलोष्टं सलिले निषिक्तं समुद्धरेदाश्वविलीनमेव ||२१|| तद्वच्चिकित्सेत्त्वरया भिषक्तमस्वेदनं मृत्युवशं प्रयातम् |२२|

🔊 Audio coming soon

इदानीं सन्न्यस्तस्य शीघ्रं प्रतीकाराय दृष्टान्तमाह- यथाऽऽमलोष्टमित्यादि| आमलोष्टम् आममृत्पिण्डम्| तं सन्न्यस्तसञ्ज्ञम्| अस्वेदनं प्रस्वेदरहितम्||२१||-

Adhikarana 20 (22) · Śloka 23

तीक्ष्णाञ्जनाभ्यञ्जनधूमयोगैस्तथा नखाभ्यन्तरतोत्रपातैः ||२२|| वादित्रगीतानुनयैरपूर्वैर्विघट्टनैर्गुप्तफलावघर्षैः |२३|

🔊 Audio coming soon

कैश्चिकित्सेदित्याह- तीक्ष्णाञ्जनाभ्यञ्जनेत्यादि| तीक्ष्णशब्दोऽञ्जनादिभिः प्रत्येकं सम्बध्यते| तोत्राणि सूचिप्रकाराणि| वादित्रं वीणादि| अनुनयः सान्त्वनापूर्वकं वचनादि| विघट्टनैः विविधप्रकारेण चालनैः| गुप्तफलावघर्षैः कपिकच्छूफलावघर्षणैः| अन्ये गुप्तफलं वृषणं, तस्यावघर्षणैः पीडनैरित्यर्थः| केचिद्विघट्टनैरित्यत्र ‘विस्मापनैः’ इति पठन्ति; तत्र आश्चर्यकारकैरित्यर्थः| एतैरुपचारैः उपाचरेत् आसञ्ज्ञाप्राप्तेः||२२||-

Adhikarana 21 (23) · Śloka 23

आभिः क्रियाभिश्च न लब्धसञ्ज्ञः सानाहलालाश्वसनश्च वर्ज्यः ||२३||

🔊 Audio coming soon

आभिः क्रियाभिरित्यादि| आभिः क्रियाभिः अनन्तरोक्ताभिस्तीक्ष्णाञ्जनादिभिः| सानाहलालाश्वसनश्च आनाहादियुक्तः; श्वसनः श्वास इत्यर्थः||२३||

Adhikarana 22 (24) · Śloka 24

प्रबुद्धसञ्ज्ञं वमनानुलोम्यैस्तीक्ष्णैर्विशुद्धं लघुपथ्यभुक्तम् | फलत्रिकैश्चित्रकनागराढ्यैस्तथाऽश्मजाताज्जतुनः प्रयोगैः | सशर्करैर्मासमुपक्रमेत विशेषतो जीर्णघृतं स पाय्यः ||२४||

🔊 Audio coming soon

तीक्ष्णाञ्जनादिभिर्लब्धसञ्ज्ञे सन्न्यासिनि पश्चात्कर्माह- प्रबुद्धेत्यादि| तीक्ष्णाञ्जनादिभिः प्रबुद्धसञ्ज्ञं सन्न्यासिनं तीक्ष्णैर्वमनानुलोम्यैर्वमनविरेचनैर्विशुद्धं, अन्नसंसर्जनक्रमेण च लघुपथ्यभुक्तं, त्रिफलाचित्रकशुण्ठीभावितैः सशर्करैः शिलाजतुप्रयोगैः वज्रकवटककल्पनया कल्पितैर्मासं यावदुपक्रमेत, शेषदोषोपशमनार्थम्| जीर्णं घृतं दशाब्दिकं पाय्यः पाययितव्यः||२४||

Adhikarana 23 (25) · Śloka 25

यथास्वं च ज्वरघ्नानि कषायाण्युपयोजयेत् | सर्वमूर्च्छापरीतानां विषजायां विषापहम् ||२५||

🔊 Audio coming soon

यथास्वं च ज्वरघ्नानीति यथास्वं यथादोषं ज्वरेषु यानि कषायाण्युक्तानि तानि तद्दोषजमूर्च्छास्वपि योज्यानि| विषापहमिति कल्पस्थानोक्तं विषमोहशमनं नस्याञ्जनादिकम्||२५||

Adhikarana puShpikA · Śloka 46

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूर्च्छाप्रतिषेधो नाम (अष्टमोऽध्यायः, आदितः) षट्चत्वारिंशत्तमोऽध्यायः ||४६||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रे षट्चत्वारिंशत्तमोऽध्यायः||४६||