Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

47. pānātyayapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः पानात्ययप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

मूर्च्छाप्रतिषेधानन्तरं पित्तप्रधानसाम्यात् असंवित्तिजनकसाम्याच्च पानात्ययप्रतिषेधारम्भो युक्त इत्यत आह- अथात इत्यादि| पानात्यय इत्यत्र आदिशब्दो लुप्तो ज्ञेयः, तेन परमदादीनां ग्रहणम्||१-२||

Adhikarana 2 (3) · Śloka 3

मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव च | रूक्षमाशुकरं चैव व्यवायि च विकाशि च ||३||

🔊 Audio coming soon

तत्रादौ मद्यगुणप्रणयनं , एवङ्गुणमपि मद्यं मिथ्योपयुक्तं पानात्ययादिकं करोतीति प्रतिपादनार्थम् | मद्यमित्यादि| आशुकरं शीघ्रकारि| व्यवायि सर्वं देहं व्याप्य पश्चात् पाकं याति| विकाशि सन्धिबन्धविमोचकम्| यद्यपि सूत्रस्थाने मद्यगुणा उक्तास्तथाऽप्यधिकख्यापनार्थमत्राप्युक्ताः||३||

Adhikarana 3 (4-5) · Śloka 5

औष्ण्याच्छीतोपचारं तत्तैक्ष्ण्याद्धन्ति मनोगतिम् | विशत्यवयवान् सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत् ||४|| मारुतं कोपयेद्रौक्ष्यादाशुत्वाच्चाशुकर्मकृत् | हर्षदं च व्यवायित्वाद्विकाशित्वाद्विसर्पति ||५||

🔊 Audio coming soon

मद्यगुणानभिधाय कर्माण्याह- औष्ण्यादित्यादि| ‘औष्ण्याच्छीतोपचारम्’ इत्यनेन पित्तकोपित्वं सूचितम्| मनोगतिं बाह्याध्यात्मिकां करणप्राप्तिम्| अवयवान् हृदयौजःप्रभृतीन्| हर्षदं मनोहर्षकरं; न तु पुंस्त्वदं, शुक्रहरत्वात्||४-५||

Adhikarana 4 (6) · Śloka 6

तदम्लं रसतः प्रोक्तं लघु रोचनदीपनम् | केचिल्लवणवर्ज्यांस्तु रसानत्रादिशन्ति हि ||६||

🔊 Audio coming soon

मद्यस्य कर्माभिधाय रसमाह- तदम्लं रसत इत्यादि| तत् मद्यम्| अम्लम् अम्लरसोत्कटं, तेन इतरेऽपि पञ्चरसा अनुरसत्वेन मद्ये बोद्धव्याः| तथा चोक्तम्,- “मद्यस्य षड्रसत्वेऽपि व्यक्तोऽम्लो रस उच्यते”- इति| एकीयमतमाह- केचिल्लवणवर्ज्यानित्यादि||६||

Adhikarana 5 (7) · Śloka 7

स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम् | भवेदायुःप्रकर्षाय बलायोपचयाय च ||७||

🔊 Audio coming soon

एवङ्गुणमपि मद्यं यथा सेव्यमानं गुणाय भवति तथाऽऽह स्निग्धैस्तदन्नैरित्यादि| स्निग्धैरित्युपलक्षणं; तेन इतरेऽपि मद्यविपरीतगुणाः शीतादयो ज्ञेयाः| तत् मद्यम्| बलाय ओजसे, उपचयाय च मांसोपचयाय||७||

Adhikarana 6 (8) · Śloka 8

काम्यता मनसस्तुष्टिर्धैर्यं तेजोऽतिविक्रमः | विधिवत् सेव्यमाने तु मद्ये सन्निहिता गुणाः ||८||

🔊 Audio coming soon

अनन्तरोक्तविधिना सेव्यमानेन मद्येन काम्यतादयोऽपि गुणा भवन्तीति दर्शयन्नाह- काम्यतेत्यादि| काम्यता कमनीयत्वम्| तेजः प्रभा| सन्निहिताः सम्यगवस्थिताः||८||

Adhikarana 7 (9) · Śloka 9

तदेवानन्नमज्ञेन सेव्यमानममात्रया | कायाग्निना ह्यग्निसमं समेत्य कुरुते मदम् ||९||

🔊 Audio coming soon

विधिरहितं सेव्यमानं मद्यं यत् करोति तदाह- तदेवानन्नमित्यादि| तदेव मद्यम्, अग्निसमं वह्नितुल्यम्, अज्ञेन उक्तमद्यपानविधानानभिज्ञेन, अनन्नम् अन्नरहितम् अतिमात्रया च सेव्यमानं, कायाग्निना जठरानलेन, समेत्य मिलित्वा, मदं कुरुते इति पिण्डार्थः||९||

Adhikarana 8 (10) · Śloka 10

मदेन करणानां तु भावान्यत्वे कृते सति | निगूढमपि भावं स्वं प्रकाशीकुरुतेऽवशः ||१०||

🔊 Audio coming soon

मदेनावशः पुरुषो यत् करोति तदाह- मदेनेत्यादि| करणानां मनोबुद्धीन्द्रियाणां, भावान्यत्वे स्वरूपान्यथात्वे कृते सति, निगूढमपि संवृतमपि, भावम् अभिप्रायं, स्वम् आत्मीयं प्रकाशीकुरुते प्रकटीकुरुते, अवशो मदपरवश इति पिण्डार्थः||१०||

Adhikarana 9 (11) · Śloka 11

त्र्यवस्थश्च मदो ज्ञेयः पूर्वो मध्योऽथ पश्चिमः |११|

🔊 Audio coming soon

अथ कतिप्रकारो मद इत्याह- त्र्यवस्थश्चेत्यादि| त्र्यवस्थः त्रिप्रकारः| ते च त्रयः प्रकाराः पूर्वादयः|११|-

Adhikarana 10 (11) · Śloka 11

पूर्वे वीर्यरतिप्रीतिहर्षभाष्यादिवर्धनम् ||११||

🔊 Audio coming soon

पूर्वमदलक्षणमाह- पूर्वे इत्यादि| पूर्वे प्रथमे मदे, वीर्यम् उत्साहलक्षणं, रतिः हर्षः, प्रीतिः तृप्तिः, हर्षः तुष्टिः; आदिशब्दात् हास्यादयः||११||

Adhikarana 11 (12) · Śloka 12

प्रलापो मध्यमे मोहो युक्तायुक्तक्रियास्तथा |१२|

🔊 Audio coming soon

मध्यमदलक्षणमाह- प्रलाप इत्यादि| युक्तायुक्तक्रिया इति कदाचिदयुक्ताः कदाचिद्युक्ताः क्रिया इत्यर्थः|१२|-

Adhikarana 12 (12) · Śloka 12

विसञ्ज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः ||१२||

🔊 Audio coming soon

पश्चिममदलक्षणमाह- विसञ्ज्ञ इत्यादि| पश्चिमे पश्चिममदे| नष्टकर्मक्रियागुण इति नष्टानि कर्माणि क्रियागुणाः क्रियाफलानि च यस्य स तथा; अत्र गुणशब्दः फले वर्तते| केचित्, ‘बुद्धिस्मृतिप्रीतिकरः सुखश्च पानान्ननिद्रारुचिवृद्धिहेतुः| सम्पाठगीतस्वरवर्धनश्च प्रोक्तोऽतिरम्यः प्रथमो मदो हि|| अव्यक्तबुद्धिस्मृतिवाग्विचेष्टः सोन्मत्तलीलाक्रुतिरप्रशान्तः| आलस्यनिद्राभिहतो मुहुश्च मध्येन मत्तः पुरुषो मदेन|| गच्छेदगम्यां न गुरूंश्च मन्येत् खादेदभक्ष्याणि च नष्टसञ्ज्ञः| ब्रूयाच्च गुह्यानि हृदिस्थितानि मत्तो मदेन प्रवरेण मर्त्यः’ इति पठन्ति; व्याख्यानयन्ति च- अव्यक्तबुद्धिस्मृतिवागिति अस्पष्टबुद्धिस्मरणवचनः; विचेष्टो विगतकायपरिस्पन्दः, सोन्मत्तलीलाकृतिरिति सह उन्मत्तलीलाकृतिभ्यां वर्तते इति तथा उन्मत्तक्रीडाकार इत्यर्थः| अयं पाठः पूर्वो वा पठनीयः, न तु पाठद्वयं पठनीयम्||१२||

Adhikarana 13 (13) · Śloka 13

श्लैष्मिकानल्पपित्तांश्च स्निग्धान्मात्रोपसेविनः | पानं न बाधतेऽत्यर्थं विपरीतांस्तु बाधते ||१३||

🔊 Audio coming soon

इदानीं पुरुषविशेषेण सेव्यमानं मद्यं नातिबाधां कुरुते इत्याह- श्लैष्मिकानल्पपित्तांश्चेत्यादि| विपरीतान् पित्ताधिकरूक्षातिमात्रसेविनः||१३||

Adhikarana 14 (14) · Śloka 14

निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम् | उत्पादयेत् कष्टतमान् विकारानापादयेच्चापि शरीरमेदम् ||१४||

🔊 Audio coming soon

निर्भक्तमेकान्तत एव मद्यमित्यादि| निर्भक्तम् आहाररहितम्| शरीरभेदं देहनाशम्| यद्यप्ययमर्थस्तदेवानन्नमित्यादिनैवोक्तः तथाऽपि निर्भक्तमिति यदत्र पुनरुक्तं तन्निर्भक्तपानस्यातिगर्हितत्वख्यापनार्थम्||१४||

Adhikarana 15 (15-16) · Śloka 26

क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन | व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि ||१५|| अत्यम्लभक्ष्यावततोदरेण साजीर्णभुक्तेन तथाऽबलेन | उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान् विकारान् ||२६||

🔊 Audio coming soon

इदानीं क्रुद्धादिभिः सेव्यमानं मद्यं विकारान् जनयतीति प्रतिपादयितुमाह- क्रुद्धेनेत्यादि| व्यायामभाराध्वपरिक्षतेनेति व्यायामादिभिः परिखिन्नेनेत्यर्थः| अभिहतेन पीडितेन| अत्यम्लभक्ष्यावततोदरेण अत्यम्लभक्षणावृतजठरेण||१५-१६||

Adhikarana 16 (17) · Śloka 17

पानात्ययं परमदं पानाजीर्णमथापि वा | पानविभ्रममुग्रं च तेषां वक्ष्यमि लक्षणम् ||१७||

🔊 Audio coming soon

के ते विविधा विकारास्तानाह- पानात्ययमित्यादि||१७||

Adhikarana 17 (18) · Śloka 19

स्तम्भाङ्गमर्दहृदयग्रहतोदकम्पाः पानात्ययेऽनिलकृते शिरसो रुजश्च | स्वेदप्रलापमुखशोषणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता च ||१८|| श्लेष्मात्मके वमथुशीतकफप्रसेकाः सर्वात्मके भवति सर्वविकारसम्पत् |१९|

🔊 Audio coming soon

इदानीं पानात्ययस्य वातादिभेदेन लक्षणमाह- स्तम्भेत्यादि| स्तम्भः स्तब्धता|१८|-

Adhikarana 18 (19) · Śloka 20

ऊष्माणमङ्गगुरुतां विरसाननत्वं श्लेष्माधिकत्वमरुचिं मलमूत्रसङ्गम् ||१९|| लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णां रुजां शिरसि सन्धिषु चापि भेदम् |२०|

🔊 Audio coming soon

परमदलक्षणमाह- ऊष्माणमित्यादि| विरसाननत्वं विरसमुखत्वम्| श्लेष्माधिकत्वं कफोत्कर्षत्वम् | परस्य तु मदस्य परमदस्येत्यर्थः| भेदमिति भेद इव भेदः| परमदादीनां त्रयाणां दोषत्रयजनितत्वात् पृथग्दोषलिङ्गं नोक्तम्||१९||-

Adhikarana 19 (20) · Śloka 21

आध्मानमुद्गिरणमम्लरसो विदाहोऽजीर्णस्य पानजनितस्य वदन्ति लिङ्गम् ||२०|| ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च कारणानि |२१|

🔊 Audio coming soon

पानाजीर्णलक्षणमाह- आध्मानमित्यादि| उद्गिरणं छर्दिः| अजीर्णस्य पानजनितस्य पानाजीर्णस्य| कारणानि लक्षणानि, कारणस्यापि व्याधिलक्षणत्वात्||२०||-

Adhikarana 20 (21) · Śloka 22

हृद्गात्रतोदवमथुज्वरकण्ठधूममूर्च्छाकफस्रवणमूर्धरुजो विदाहः ||२१|| द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः |२२|

🔊 Audio coming soon

पानविभ्रमलक्षणमाह- हृदित्यादि| वमथुः छर्दिः, कण्ठधूमः कण्ठे धूमोद्वमनमिव , मूर्धरुजा शिरःपीडा||२१||-

Adhikarana 21 (22) · Śloka 23

हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभास्यमति(पि)पानहतं विजह्यात् ||२२|| जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं पीते च यस्य नयने रुधिरप्रभे च |२३|

🔊 Audio coming soon

इदानीमसाध्यलक्षणमाह- हीनोत्तरौष्ठमित्यादि| हीनोत्तरौष्ठः स्वभावौष्ठादल्पौष्ठः| अमन्ददाहं तीव्रदाहम्| कदाचिदतिशीतं कदाचित्तीव्रदाहम्| पानहतं पानपीडितम्| विजह्यात् त्यजेत्| असितं कृष्णम्| पीते पीतवर्णे||२२||-

Adhikarana 22 (23) · Śloka 23

हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते ||२३||

🔊 Audio coming soon

इदानीमुपद्रवानाह- हिक्काज्वरावित्यादि| वमथुः छर्दिः, वेपथुः कम्पः||२३||

Adhikarana 23 (24) · Śloka 24

तेषां निवारणमिदं हि मयोच्यमानं व्यक्ताभिधानमखिलेन विधिं निबोध |२४|

🔊 Audio coming soon

तेषां निवारणमित्यादि| तेषां पानात्ययादीनाम्|२४|-

Adhikarana 24 (24) · Śloka 25

मद्यं तु चुक्रमरिचार्द्रकदीप्यकुष्ठसौवर्चलायुतमलं पवनस्य शान्त्यै ||२४|| पृथ्वीकदीप्यकमहौषधहिङ्गुभिर्वा सौवर्चलेन च युतं वितरेत् सुखाय |२५|

🔊 Audio coming soon

तमेव विधिमाह- मद्यमित्यादि| दीप्यकः अजमोदा, यवानीत्यपरे| सौवर्चलायुतम् ईषत्सौवर्चलयुक्तम्| अलं समर्थम्| पवनस्य वातजमदात्ययस्य| वितरेत् दद्यात्||२४||-

Adhikarana 25 (25) · Śloka 26

आम्रातकाम्रफलदाडिममातुलुङ्गैः कुर्याच्छुभान्यपि च षाडवपानकानि ||२५|| सेवेत वा फलरसोपहितान् रसादीनानूपवर्गपिशितान्यपि गन्धवन्ति |२६|

🔊 Audio coming soon

किं मदात्यये मद्यमेव सेव्यमुतान्यदपीत्याह- आम्रातकाम्रेत्यादि| दाडिममत्र अम्लमेव| षाडवो यूषविशेषः| आम्रातकादिभिः क्वथितैरिक्षुविकारयुतैः षाडवः कार्यः| तथा च तन्त्रान्तरे षाडवकल्पना,- “युतमिक्षुविकारेण क्वथितं चूतजं फलम्| घृतशुण्ठीतिलयुतं विज्ञेयो घनषाडवः”- इति| फलरसोपहितान् मातुलुङ्गरसयुक्तान्| रसादीन् मांसरसयूषादीन्| आनूपवर्गपिशितानि कूलचरादिवर्गमांसानि| गन्धवन्तीति प्रभूतहिङ्गुजीरकादियुतानि||२५||-

Adhikarana 26 (26) · Śloka 26

पित्तात्मके मधुरवर्गकषायमिश्रं मद्यं हितं समधुशर्करमिष्टगन्धम् ||२६||

🔊 Audio coming soon

पित्तजमदात्ययचिकित्सामाह- पित्तात्मके मधुरवर्गकषायमिश्रमित्यादि| मधुरवर्गो गुडूचीवर्जितः काकोल्यादिः, तन्त्रान्तरसंवादात्| इष्टगन्धम् एलात्वक्पत्रकाद्यैः सुरभीकृतम्||२६||

Adhikarana 27 (27) · Śloka 27

पीत्वा च मद्यमपि चेक्षुरसप्रगाढं निःशेषतः क्षणमवस्थितमुल्लिखेच्च | लावैणतित्तिरिरसांश्च पिबेदनम्लान् मौद्गान् सुखाय सघृतान् ससितांश्च यूषान् ||२७||

🔊 Audio coming soon

पित्तात्मके मदात्यये वमनमाह- पीत्वेत्यादि| उल्लिखेत् वमेत्| यद्यपि पित्ते वमनं न कार्यं तथाऽपि पित्तस्य कफस्थानगतत्वाद्वमनं हितमेव, व्याधिप्रत्यनीकत्वाद्वा| किं पित्तात्मके एतदेव कार्यमुतान्यदपीत्याह- लावैणतित्तिरिरसानित्यादि| केचित् ‘मौद्गान् सुखाय सघृतान् ससितांश्च यूषान्’ इत्यत्र ‘मौद्गान् सशर्करघृतान् स हिताय यूषान्’ इति पठन्ति; स इति पित्तपानात्ययीति च व्याख्यानयन्ति||२७||

Adhikarana 28 (28) · Śloka 28

पानात्यये कफकृते कफमुल्लिखेच्च मद्येन बिम्बिविदुलोदकसंयुतेन | सेवेत तिक्तकटुकांश्च रसानुदारान् यूषांश्च तिक्तकटुकोपहितान् हिताय ||२८||

🔊 Audio coming soon

कफजमदात्ययचिकित्सामाह- पानात्यये कफकृते इत्यादि| बिम्बी ओष्ठोपमफला विदुलो वेतसः| कफमदात्ययेऽपरमप्यौषधमाह- सेवेतेत्यादि| तिक्तकटुकान् तिक्तकटुकद्रव्यसंस्कृतान्| रसान् मांसरसान्; उदारान् जाङ्गलजान्, मेदस्कानित्यर्थः| यूषान् मुद्गादियूषान्| तिक्तानि दुरालभादीनि, कटुकानि पिप्पल्यादीनि, उपहितान् संस्कृतान्||२८||

Adhikarana 29 (29) · Śloka 29

पथ्यं यवान्नविकृतानि च जाङ्गलानि श्लेष्मघ्नमन्यदपि यच्च निरत्ययं स्यात् |२९|

🔊 Audio coming soon

श्लेष्मजपानात्ययेऽपरमपि यद्धितं तदाह- पथ्यमित्यादि| पथ्यं हितम्| यवान्नविकृतानि यवान्नानि विविधप्रकारैः कृतानीत्यर्थः| अत्र अन्नशब्दः पेयलेह्यव्यवच्छेदकः| जाङ्गलानि जाङ्गलमांसानि| निरत्ययं निर्दोषम्|२९|-

Adhikarana 30 (29) · Śloka 29

कुर्याच्च सर्वमथ सर्वभवे विधानं द्वन्द्वोद्भवे द्वयमवेक्ष्य यथाप्रधानम् ||२९||

🔊 Audio coming soon

सन्निपातजद्वन्द्वजमदात्ययचिकित्सामाह- कुर्यादित्यादि| सर्वं प्रत्येकदोषजपानात्ययचिकित्सितम्| सर्वभवे सन्निपातोद्भवे| द्वन्द्वभवे द्वन्द्वजे| यथाप्रधानं योगप्रधानमित्यर्थः; एतेन समसन्निपाते सर्वप्रधानं कार्यम्, एकतमाधिके च तत्प्रधानमित्यर्थः; एवं द्वन्द्वजेऽपि||२९||

Adhikarana 31 (30) · Śloka 30

सामान्यमन्यदपि यच्च समग्रमग्र्यं वक्ष्यामि यच्च मनसो मदकृत् सुखं च |३०|

🔊 Audio coming soon

सामान्यमन्यदपीत्यादि| अन्यदपि यत् सामान्यं मनसो हर्षकृत् वक्ष्यामि तत् समग्रमपि सर्वेषामग्र्यं श्रेष्ठं सुखं च, सुखहेतुत्वादित्यर्थः|३०|-

Adhikarana 32 (30-33) · Śloka 34

त्वङ्गागपुष्पमगधैलमधूकधान्यैः श्लक्ष्णैरजाजिमरिचैश्च कृतं समांशैः ||३०|| पानं कपित्थरसवारिपरूषकाढ्यं पानात्ययेषु विधिवत्स्रुतमम्बरान्ते | ह्रीवेरपद्मपरिपेलवसम्प्रयुक्तैः पुष्पैर्विलिप्य करवीरजलोद्भवैश्च ||३१|| पिष्टैः सपद्मकयुतैरपि सारिवाद्यैः सेकं जलैश्च वितरेदमलैः सुशीतैः | त्वक्पत्रचोचमरिचैलभुजङ्गपुष्पश्लेष्मातकप्रसववल्कगुडैरुपेतम् ||३२|| द्राक्षायुतं हृतमलं मदिरामयार्तैस्तत्पानकं शुचि सुगन्धि नरैर्निषेव्यम् | पिष्ट्वा पिबेच्च मधुकं कटुरोहिणीं च द्राक्षां च मूलमसकृत् त्रपुषीभवं यत् ||३३|| कार्पासिनीमथ च नागबलां च तुल्यां पीत्वा सुखी भवति साधु सुवर्चलां च |३४|

🔊 Audio coming soon

पानात्ययचिकित्सामाह- त्वगित्यादि| नागपुष्पं नागकेशरम्, एला सूक्ष्मैला, अजाजी उत्तरापथे प्रसिद्धो जीरकविशेषः| समांशैः तुल्यभागैः| पानं पानकम्| कपित्थरसः कपित्थस्वरसः| स्रुतं गालितम्| अम्बरान्ते वस्त्रान्ते| ह्रीवेरेत्यादि| ह्रीवेरादियुक्तैः करवीरजलोद्भवैः पुष्पैः पिष्टैर्विलिप्य पद्मकयुतैः सारिवादिभिश्च प्रलिप्य, अमलैः सुशीतैश्च जलैः सेकं वितरेत् दद्यादिति पिण्डार्थः| ह्रीवेरः वालकम्| पद्मकं पद्मकाष्ठं, जलोद्भवपुष्पत्वेन पद्मस्य परिग्रहात्| कार्तिककुण्डस्तु ‘सपद्मकयुतैः’ इत्यनेन पद्मकसहितप्रियङ्ग्वाद्यभिधाय तेन युक्तैः करवीरादिपुष्पैर्ह्रीबेरादियुक्तैरिति व्याख्यानयति, पद्मकं जलजं मन्यते| परिपेलवो वन्यकः| जलोद्भवैः नीलोत्पलप्रभृतिभिः| सपद्मकयुतैरपि सारिवाद्यैरिति सपद्मकः पद्मकसहितः प्रियङ्ग्वादिः, तेन युतैः सारिवादिभिरित्यर्थः| त्वगित्यादि|- त्वक् वनवासिकात्वक्| श्लेष्मातकप्रसवं बहुवारपुष्पम्| हृतमलं वस्त्रगालितम्| मदिरामयार्तैः पानात्ययपीडितैः| सुगन्धिशोभनगन्धि| केचित् त्वक्पत्रशब्देन त्वक्पत्रिकामाहुः| पिष्ट्वेत्यादि| असकृदिति साध्विति च पदं पिष्ट्वेत्यत्र सम्बन्धनीयम्| मधुकादिस्त्रपुसीमूलान्त एको योगः| कार्पासिनीमित्यादिः साधुसुवर्चलां चेत्यन्तो द्वितीयः| कार्पासिनी वनकार्पासिनी| सुवर्चला सूर्यभक्ता| कार्पासिनीमथ चेत्यत्र कार्पासमेवमथेति केचित् पठन्ति, कार्पासं कार्पासीमूलं, एवमसकृत् पिष्ट्वेति च व्याख्यानयन्ति||३०-३३||-

Adhikarana 33 (34) · Śloka 35

काश्मर्यदारुविडदाडिमपिप्पलीषु द्राक्षान्वितासु कृतमम्बुनि पानकं यत् ||३४|| तद्बीजपूरकरसायुतमाशु पीतं शान्तिं परां परमदे त्वचिरात् करोति |३५|

🔊 Audio coming soon

परमदे चिकित्सामाह- काश्मर्येत्यादि| काश्मर्यं गम्भारीफलं, कृतं संस्कृतं, अम्बुनि पानीये||३४||-

Adhikarana 34 (35-36) · Śloka 36

द्राक्षासितामधुकजीरकधान्यकृष्णास्वेवं कृतं त्रिवृतया च पिबेत्तथैव ||३५|| सौवर्चलायुतमुदाररसं फलाम्लं भार्गीशृतेन च जलेन हितोऽवसेकः ||३६||

🔊 Audio coming soon

परमदे पानकान्तरमाह- द्राक्षेत्यादि| द्राक्षादिषु द्रव्येषु एवं बीजपूरकरससंस्कारेण कृतं पानकं त्रिवृतया त्रिजटया च कृतं पानकं पिबेत्| तथैव सौवर्चलायुतमित्यादि|- उदाररसं जाङ्गलमांसरसं, सौवर्चलायुतम् ईषत्सौवर्चलायुतं, दाडिमाद्यम्लफलेनाम्लं तथैव पिबेदित्यर्थः| अवसेकः परिषेकः||३५-३६||

Adhikarana 35 (37) · Śloka 37

इक्ष्वाकुधामार्गववृक्षकाणि काकाह्वयोदुम्बरिकाश्च दुग्धे | विपाच्य तस्याञ्जलिना वमेद्धि मद्यं पिबेच्चाह्नि गते त्वजीर्णे ||३७||

🔊 Audio coming soon

पानाजीर्णचिकित्सामाह- इक्ष्वाक्वित्यादि| इक्ष्वाक्वादीनि द्रव्याणि क्षीरपाकविधानेन दुग्धे विपाच्य तस्य कुडवेनाजीर्णे पानाजीर्णे वमेत, ततश्च अह्नि दिवसे गते अतीते सति मद्यं पिबेत् अग्निदीपनार्थम्| इक्षाकुः तिक्तालाबूः| धामार्गवः पीतघोषः| वृक्षकः कुटजफलम्| काकाह्वया उदुम्बरिकागो(का)ष्ठोदुम्बरिका| अन्ये गते त्वजीर्णे अपगते पानाजीर्णे इति व्याख्यानयन्ति||३७||

Adhikarana 36 (38) · Śloka 39

त्वक्पिप्पलीभुजगपुष्पविडैरुपेतं सेवेत हिङ्गुमरिचैलयुतं फलाम्लम् | उष्णाम्बुसैन्धवयुतास्त्वथवा विडत्वक्चव्यैलहिङ्गुमगधाफलमूलशुण्ठीः ||३८|| हृद्यैः खडैरपि च भोजनमत्र शस्तं... |३९|

🔊 Audio coming soon

किम्मयं मद्यं पानाजीर्णे पिबेदित्याह- त्वगित्यादि| त्वक्पिप्पलीप्रभृतियुतं मद्यं सेवेत, तथा हिङ्गुमरिचादियुतं मद्यं सेवेत| भुजगपुष्पं नागपुष्पम्| फलाम्लं दाडिमबीजपूरकादिभिरम्लीकृतं मद्यम्| उष्णाम्बुसैन्धवयुता इत्यादि| अत्रापि सेवेतेति सम्बध्यते| मगधाफलमूलमिति पिप्पल्याः फलमूलमित्यर्थः| भोजनमाह- हृद्यैरित्यादि| खडा यूषविशेषाः| अत्र पानाजीर्णे| ‘हृद्यैः’ इत्यत्र ‘मद्यैः’ इत्यन्ये पठन्ति| अपरे ‘खडैः’ इत्यत्र ‘फलैः’ इति पठन्ति| ‘विडत्वक्’ इत्यत्र ‘यथोक्तं’ इति केचित् पठन्ति||३८||-

Adhikarana 37 (39-41) · Śloka 41

... द्राक्षाकपित्थफलदाडिमपानकं यत् | तत् पानविभ्रमहरं मधुशर्कराढ्यमाम्रातकोलरसपानकमेव चापि ||३९|| खर्जूरवेत्रककरीरपरूषकेषु द्राक्षात्रिवृत्सु च कृतं ससितं हिमं वा | श्रीपर्णियुक्तमथवा तु पिबेदिमानि यष्ट्याह्वयोत्पलहिमाम्बुविमिश्रितानि ||४०|| क्षीरिप्रवालबिसजीरकनागपुष्पपत्रैलवालुसितसारिवपद्मकानि | आम्रातभव्यकरमर्दकपित्थकोलवृक्षाम्लवेत्रफलजीरकदाडिमानि ||४१||

🔊 Audio coming soon

पानविभ्रमचिकित्सामाह- द्राक्षाकपित्थेत्यादि| अत्र फलशब्देन विशिष्टानि मातुलुङ्गादिफलानि गृह्यन्ते| न केवलं द्राक्षादिपानकं मधुशर्कराढ्यं पानविभ्रमे शस्तम्, आम्रातकोलरसपानकमपि| अथवा खर्जूरादिषु कृतं संस्कृतं सशर्करं श्रीपर्णीयुक्तं हिमं पानकं पानविभ्रमे शस्तम्| करीरो मरुदेशजः, तस्य फलम्| श्रीपर्णीयुक्तं काश्मरीफलयुक्तम्| अथवेत्यादि|- अथवा इमानि क्षीरिप्रवालादीनि दाडिमान्तानि यष्ट्याह्वयोत्पलहिमाम्बुविमिश्रितानि अत्र पानविभ्रमे पिबेत्| यष्ट्याह्वयोत्पलहिमाम्बुविमिश्रितानीति यष्टीमधुनीलोत्पलयुक्तं यत् हिमाम्बु तेन विमिश्रितानीत्यर्थः| क्षीरिप्रवाला वटादिपल्लवाः| भव्यं तालफलप्रमाणम् उत्तरापथजम्, अन्ये कर्मरङ्गमाहुः||३९-४१||

Adhikarana 38 (42) · Śloka 42

सेवेत वा मरिचजीरकनागपुष्पत्वक्पत्रविश्वचविकैलयुतान् रसांश्च | सूक्ष्माम्बरस्रुतहिमांश्च सुगन्धिगन्धान् पानोद्भवान्नुदति सप्तगदानशेषान् ||४२||

🔊 Audio coming soon

इदानीं पानात्ययादीनां चिकित्सामाह- सेवेतेत्यादि| रसान् मांसरसान्| समग्रान् सम्पूर्णान्; सम्पूर्णत्वं चैषां मरिचादिभिः सर्वैरेवान्वितत्वम्| सूक्ष्माम्बरस्रुतहिमान् सूक्ष्मवस्त्रगालितशीतानित्यर्थः| सुगन्धिगन्धान् अत्यर्थमगुर्वादिधूपितान्| नुदति स्फोटयति| पानोद्भवान् सप्तगदान् चत्वारो मदात्ययाः, त्रयश्च परमदपानाजीर्णपानविभ्रमाः, पानात्ययप्रभवत्वात्तेषां; एवं सप्त||४२||

Adhikarana 39 (43-44) · Śloka 44

पञ्चेन्द्रियार्थविषया मृदुपानयोगा हृद्याः सुखाश्च मनसः सततं निषेव्याः | पानात्ययेषु विकटोरुनितम्बवत्यः पीनोन्नतस्तनभरानतमध्यदेशाः ||४३|| प्रौढाः स्त्रियोऽभिनवयौवनपीनगात्र्यः सेव्याश्च पञ्चविषयातिशयस्वभावाः ||४४||

🔊 Audio coming soon

एवं पानात्ययादीनां चिकित्सितमभिधायाधुना पानात्ययचिकित्सामेवाह- पञ्चेन्द्रियार्थविषया इत्यादि| पञ्चेन्द्रियार्थविषया इति पञ्चेन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धाः, तेषां विषयाः करणानि| मृदुपानयोगाः मृदुमद्ययोगाः; ते च पैष्टिकगौडिकमाध्वीकादयः| हृद्या हृदयहिता हृदयप्रियाश्च| सुखाः सुखकराः| विकटोरुनितम्बवत्यः विकटौ श्रेष्ठौ विस्तीर्णौ वा ऊरूयासां ता विकटोरवः, नितम्बवत्यः श्रेष्ठनितम्बाः; यस्मादत्र प्रशंसायां वतुप्प्रत्ययः| पीनोन्नतस्तनभरानतमध्यदेशाः पीनोन्नतस्तनभरेण आनत ईषन्नम्रो मध्यदेशो यासां तास्तथा| प्रौढाः कामक्षमाः| पञ्चविषयाः शब्दाद्यतिशयाः, त एव स्वभावो यासां तास्तथा| श्रीब्रह्मदेवस्तु पञ्चानां विषयाणामतिशयेन स्व आत्मीयो भावोऽभिप्रायो यासां तास्तथा| ‘पञ्चेन्द्रियार्थविषयातिशयस्वभावा ’ इत्यन्ये पठन्ति, व्याख्यानयन्ति च- पञ्चेन्द्रियार्थविषयाणां शब्दादीनामतिशयो यासां तास्तथेत्यर्थः||४३-४४||

Adhikarana 40 (45) · Śloka 45

पिबेद्रसं पुष्पफलोद्भवं वा सितामधूकत्रिसुगन्धियुक्तम् | सञ्चूर्ण्य संयोज्य च नागपुष्पैरजाजिकृष्णामरिचैश्च तुल्यैः ||४५||

🔊 Audio coming soon

अपरं पानात्यये किं कार्यमित्याह- पिबेद्रसं पुष्पफलोद्भवमित्यादि| पुष्पफलोद्भवं कूष्माण्डोद्भवम्| मधूको गुडपुष्पः| त्रिसुगन्धि त्रिजातकम्||४५||

Adhikarana 41 (46) · Śloka 46

वर्षाभूयष्ट्याह्वमधूकलाक्षात्वक्कर्बुदाराङ्कुरजीरकाणि | द्राक्षां च कृष्णामथ केशरं च क्षीरे समालोड्य पिबेत् सुखेप्सुः ||४६||

🔊 Audio coming soon

वर्षाभूयष्ट्याह्वेत्यादि| वर्षाभूप्रभृतीनि केशरान्तानि क्षीरे समालोड्य सुखेप्सुः पुरुषः पिबेदिति पिण्डार्थः| वर्षाभूः श्वेतपुनर्नवा, त्वक् चोचं, कर्बुदाराङ्कुराः काञ्चनाराङ्कुराः||४६||

Adhikarana 42 (47) · Śloka 47

भवेच्च मद्येन तु येन पातितः प्रकामपीतेन सुरासवादिना | तदेव तस्मै विधिवत् प्रदापयेद्विपर्यये भ्रंशमवश्यमृच्छति ||४७||

🔊 Audio coming soon

मदात्ययेषु सामान्यमद्यपाने उक्तेऽपि विशेषविधिमाह- भवेदित्यादि| येन सुरासवादिना मद्येन प्रकामपीतेन पुरुषः पातितो भवेत्, तदेव सुरासवादिकं मद्यं तस्मै पुरुषाय विधिवत् सौवर्चलादियुक्तं प्रदापयेत्| कस्मात्तदेव तस्मै प्रदापयेदित्याह- विपर्यय इत्यादि| यस्माद्विपर्यये कृते असौ पुरुषो, भ्रंशं क्लेशं, ऋच्छति प्राप्नोति, तस्मात्तदेव मद्यं तस्मै प्रदापयेदित्यर्थः||४७||

Adhikarana 43 (48) · Śloka 48

यथा नरेन्द्रोपहतस्य कस्यचिद्भवेत् प्रसादस्तत एव नान्यतः | ध्रुवं तथा मद्यहतस्य देहिनो भवेत् प्रसादस्तत एव नान्यतः ||४८||

🔊 Audio coming soon

मद्यपीडितस्य पुंसो यथा मद्यादेव स्वास्थ्यं स्यात्तथा दृष्टान्तमाह- यथेत्यादि| तत इति नरेन्द्रादित्यर्थः| द्वितीयततःशब्देन मद्यं परामृश्यते||४८||

Adhikarana 44 (49) · Śloka 49

विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते | तस्य पानात्ययोद्दिष्टा विकाराः सम्भवन्ति हि ||४९||

🔊 Audio coming soon

इदानीमनुक्तसङ्ग्रहायाह- विच्छिन्नमद्य इत्यादि| विच्छिन्नमद्यः त्यक्तमद्यः| सहसा अविमृश्यैव| पानात्ययोद्दिष्टा ध्वंसकादयः| तथा च तन्त्रान्तरम्,- “विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते| भवेतां मारुतात् कष्टौ तस्य ध्वंसकविक्षयौ”- इत्यादि||४९||

Adhikarana 45 (50) · Śloka 50

मद्यस्याग्नेयवायव्यौ गुणावम्बु(म्भो)वहानि तु | स्रोतांसि शोषयेयातां तेन तृष्णोपजायते ||५०||

🔊 Audio coming soon

मद्यपानाद्यथा तृष्णोत्पत्तिस्तथाऽऽह- मद्यस्येत्यादि| आग्नेयवायव्यौ गुणौ तैक्ष्ण्यरूक्षौ| अम्बुवहानि स्रोतांसीत्यत्राम्बुवहस्रोतःशब्देनाम्बु कथ्यते, उपचारात्| अन्ये तु व्याख्यानयन्ति- यैः स्रोतोभिरुदकं वहन्ति तान्येव स्रोतांसि तौ तीक्ष्णरूक्षौ गुणौ शोषयित्वा तत आधारस्रोतःशोषात्तदाश्रयस्याम्बुनोऽपि शोषः, तेन हेतुना मद्येनापि तृषोपजायते| ‘मद्यस्य’ इत्यादिपाठस्थाने केचित् ‘मद्यमाग्नेयभावात्’ इत्यादि पाठं पठन्ति, स चाभावान्न लिखितः||५०||

Adhikarana 46 (51) · Śloka 51

पाटलोत्पलकन्देषु मुद्गपर्ण्यां च साधितम् | पिबेन्मागधिकोन्मिश्रं तत्राम्भो हिमशीतलम् ||५१||

🔊 Audio coming soon

मद्यजतृष्णाचिकित्सामाह- पाटलेत्यादि| पाटला सुगन्धिपुष्पवृक्षः, उत्पलव्यक्तिबहुत्वात् कन्देष्विति बहुत्वमुक्तम्| तत्रेति तृष्णायाम्| हिमः तुषारः, तद्वच्छीतलं हिमशीतलम्| पाटलादिसाधितमम्भो हिमशीतलं पिप्पलीचूर्णमिश्रं तृष्णायां पिबेदिति पिण्डार्थः||५१||

Adhikarana 47 (52) · Śloka 53

सर्पिस्तैलवसामज्जदधिभृङ्गरसैर्युतम् | क्वाथेन बिल्वयवयोः सर्वगन्धैश्च पेषितैः ||५२|| पक्वमभ्यञ्जने श्रेष्ठं... |५३|

🔊 Audio coming soon

तृष्णायां क्वाथमभिधायोपचारार्थं स्नेहमाह- सर्पिस्तैलवसामज्जेत्यादि| भृङ्गरसो भृङ्गराजरसः| बिल्वं बिल्वफलम्| यवाः प्रसिद्धाः| सर्वगन्धा एलादिपठिताः| पेषिताः कल्कीकृताः| दधिभृङ्गरसैरिति द्विभेदभिन्नभृङ्गापेक्षया रसस्यापि द्विविधत्वं, ततो बहुवचनम्| दध्ना भृङ्गरसेन बिल्वयवयोः क्वाथेन प्रत्येकं चतुर्गुणेन सर्वगन्धैः कल्कीकृतैः स्नेहचतुर्थांशैः सर्पिस्तैलं वसा मज्जेति चतुःस्नेहं पक्वमभ्यञ्जने शस्तमिति सम्बन्धः| अन्येऽत्र मज्जास्थाने दुग्धं पठन्ति, व्याख्यानयन्ति च- तैलवसेति यद्यपि द्रवद्रव्यमध्ये तैलवसे पठिते तथाऽपि स्नेहस्य स्नेहान्तरेणासंस्कारात् सर्पिस्तैलवसेति स्नेहस्य त्रयं दुग्धादिचतुर्द्रवैः पक्वमभ्यञ्जने शस्तमिति||५२||-

Adhikarana 48 (53) · Śloka 53

...सेके क्वाथश्च शीतलः |५३|

🔊 Audio coming soon

अभ्यञ्जनस्नेहमभिधाय सेकमाह- सेके क्वाथ इत्यादि| सेके परिषेके| क्वाथश्च शीतल इति मधुरशीतद्रव्यकृतो हिमसन्निभः| एतावभ्यङ्गसेकौ सतृषि मदात्यये कार्यौ; अन्ये मद्यजतृष्णायामेवाभ्यङ्गसेकाविच्छन्ति|५३|

Adhikarana 49 (53) · Śloka 54

रसवन्ति च भोज्यानि यथास्वमवचारयेत् ||५३|| पानकानि सुशीतानि हृद्यानि सुरभीणि च |५४|

🔊 Audio coming soon

सतृषि मदात्यये भोज्यानि निर्दिशन्नाह- रसवन्तीत्यादि| रसवन्ति प्रचुरमधुररसानि| भोज्यानि भक्तानि| यथास्वं यथादोषप्रत्यनीकमिति; एतेन यद्भोज्यं यस्य दोषस्य प्रत्यनीकं तद्दोषजे सतृषि मदात्यये तद्भोज्यमवचारयेदित्यर्थः| पानकानि द्राक्षादाडिमादिकृतानि| हृद्यानि मनःप्रियाणि| सुरभीणि कर्पूराद्यधिवासितानि||५३||-

Adhikarana 50 (54) · Śloka 54

त्वचं प्राप्तस्तु पानोष्मा पित्तरक्ताभिमूर्च्छितः | दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् ||५४||

🔊 Audio coming soon

इदानीं मद्योष्मणो दाहकारित्वमतिदेशेन तज्जन्यदाहस्य चिकित्सितं च श्लोकेनाह- त्वचमित्यादि| पानोष्मा मद्यपानोष्मा| पित्तरक्ताभिमूर्च्छितः पित्तरक्तसम्पृक्तः| घोरं भयावहम्| पित्तवत्तत्र भेषजं मधुरशीतादि| ‘पानोष्मा’ इत्यत्र ‘मद्योष्मा’ इति केचित् पठन्ति||५४||

Adhikarana 51 (55-56) · Śloka 56

शीतं विधानमत ऊर्ध्वमहं प्रवक्ष्ये दाहप्रशान्तिकरमृद्धिमतां नराणाम् | तत्रादितो मलयजेन हितः प्रदेहश्चन्द्रांशुहारतुहिनोदकशीतलेन ||५५|| शीताम्बुशीतलतरैश्च शयानमेनं हारैर्मृणालवलयैरबलाः स्पृशेयुः | भिन्नोत्पलोज्ज्वलहिमे शयने शयीत पत्रेषु वा सजलबिन्दुषु पद्मिनीनाम् ||५६||

🔊 Audio coming soon

दाहप्रतीकारमतिदेशेनाभिधायेश्वराणां पुरुषाणां विशिष्टं प्रतीकारमाह- शीतमित्यादि| तत्रेति दाहे| आदित इति आदौ| मलयजेनेति सुरभिचन्दनेन | प्रदेहः प्रतनुर्लेपः| मलयजविशेषणमाह- चन्द्रांशुहारतुहिनोदकशीतलेनेति|- हारो मुक्ताहारः, तुहिनोदकं हिमपानीयं, तद्वच्छीतलेनेत्यर्थः| अन्ये ‘चद्रांशुहारहिमनिर्मलशीतलेन’ इति, अपरे ‘चन्द्रांशुहारकरकाहिमशीतलेन’ इति पठन्ति| करकाः स्फटिकगुटिकाकारा वृष्टिजलजाः पाषाणाः, हिमं तुषारः, शेषं समम्| शीताम्बुशीतलतरैः शीतोदकवदतिशयशीतलैः| एतद्विशेषणं हारैर्मृणालवलयैरित्यनयोः| ‘शीताम्बुशीतलकरैः’ इत्यन्ये; शीताम्बुवत् शीतलहस्तैः| शयानं विश्रान्तं न तु स्वपन्तं, तादृग्दाहार्तस्य निद्राया असम्भवात्| अन्ये ‘मृणालवलयैः’ इत्यत्र ‘तुषारविमलैः’ इति पठित्वा हारैरित्यस्य विशेषणं मन्यन्ते| अबलाः प्रौढस्त्रियः| स्पृशेयुः स्पर्शनं कुर्युः| दाहार्तस्य सुखोत्पादनाय शयनमाह- भिन्नोत्पलोज्ज्वलहिमे इति|- प्रफुल्लनीलोत्पलोज्ज्वलशीतले एवंविधे शयने शयीत| पक्षान्तरमाह- पत्रेषु वेत्यादि| सजलबिन्दुषु पद्मिनीनां पत्रेषु वा शयीतेति सम्बन्धः||५५-५६||

Adhikarana 52 (57) · Śloka 57

आसादयन् पवनमाहृतमङ्गनाभिः कह्लारपद्मदलशैवलसञ्चयेषु | कान्तैर्वनान्तपवनैः परिमृश्यमानः शक्तश्चरेद्भवनकाननदीर्घिकासु ||५७||

🔊 Audio coming soon

किं कुर्वन् शयीतेत्याह- आसादयन्नित्यादि| आसादयन् प्राप्नुवन्| कं? पवनं| किम्भूतम्? आहृतम् आनीतम्| अङ्गनाभिः स्त्रीभिः; व्यञ्जनादिभिः कृत्वेत्यूह्यम्| कह्लारपद्मदलशैवलसञ्चयेषु शयीतेति सम्बध्यते| कह्लारं सौगन्धिकोत्पलम्| अन्ये ‘सञ्चयेषु’ इत्यत्र ‘सञ्चयेभ्यः’ इति पठित्वा कह्लारपद्मदलशैवलसञ्चयेभ्योऽबलाभिराहृतमिति सम्बध्नन्ति| एवंविधैः शयनैराह्लादितः सन् किं कुर्यादित्याह- कान्तैरित्यादि| कान्तैः कमनीयैर्मृदुशीतसुगन्धिभिः, वनान्तपवनैः आम्रादिवाटिकासमीपवातैः, परिमृश्यमानः स्पृश्यमानः, शक्तः समर्थः सन्, चरेत् भ्रमेत्| कासु भवनकाननदीर्घिकासु गृहोद्यानससोपानपुष्करिणीषु| अन्ये ‘कान्तैः’ इत्यत्र ‘शीतैः’ इति, ‘वनान्तपवनैः’ इत्यत्र ‘जलान्तपवनैः’, ‘परिमृश्यमान’ इत्यत्र ‘परिमृज्यमानः,’ ‘शक्तः’ इत्यत्र ‘प्रीतः’ इति पठन्ति||५७||

Adhikarana 53 (58) · Śloka 59

दाहाभिभूतमथवा परिषेचयेत्तु लामज्जकाम्बुरुहचन्दनतोयतोयैः | विस्रावितां हृतमलां नववारिपूर्णां पद्मोत्पलाकुलजलामधिवासिताम्बुम् ||५८|| वापीं भजेत हरिचन्दनभूषिताङ्गः कान्ताकरस्पृशनकर्कशरोमकूपः |५९|

🔊 Audio coming soon

दाहाभिभूतमित्यादि| अथवा तमातुरं दाहपीडितं परिषेचयेत्| कैः? लामज्जकेत्यादिभिः; लामज्जकं पर्वतोद्भूतमूलं, अन्ये उशीरमाहुः; अम्बुरुहं पद्मोत्पलादिकं; चन्दनमत्र श्वेतं, तस्यैव दाहहरत्वात्; तोयं वालकं; एषां तोयैः क्वाथैः| विस्रावितामिति निःसारितपूर्वपानीयाम्| हृतमलाम् आकृष्टपङ्कादिकाम्, नववारिपूर्णाम् अपरनिर्मलजलभृतां; पद्मोत्पलाकुलजलां पद्मम् ईषच्छुक्लं, उत्पलानि नीलोत्पलानि, तैर्व्याप्तजलाम्| अधिवासिताम्बुं प्रचुरचन्दनादिप्रक्षेपेण सुगन्धितजलाम्| एवंविधां वापीं भजेत सेवेत, ‘दाहार्त आतुर’ इति शेषः| किम्भूतः सन्? चन्दनभूषिताङ्गः श्वेतचन्दनानुलिप्तगात्रः| पुनः किम्भूतः? कान्तेत्यादिविशेषणयुक्तः||५८||-

Adhikarana 54 (59) · Śloka 60

तत्रैनमम्बुरुहपत्रसमैः स्पृशन्त्यः शीतैः करोरुवदनैः कठिनैः स्तनैश्च ||५९|| तोयावगाहकुशला मधुरस्वभावाः संहर्षयेयुरबलाः सुकलैः प्रलापैः |६०|

🔊 Audio coming soon

तत्र तस्यां वाप्यम्| एनं दाहार्तम्| अम्बुरुहं कमलं, तस्य पत्रसमैः पत्रतुल्यैः; एतच्च शीतैः करोरुवदनैरित्यस्य विशेषणम्| ‘वदनैः’ इत्यत्र ‘जघनैः’ इत्यन्ये| मधुरस्वभावा मृदुप्रचाराः| सुकलैः प्रलापैः शोभनकलायुक्तैः प्रकृष्टवचनैः| तत्र वाप्यमेवंविधैः करोरुवदनैः स्तनैश्च कठिनैः स्पृशन्त्योऽबलाः प्रौढस्त्रियस्तोयावगाहकुशला मृदुप्रचाराः सुकलैः प्रलापैरेनं दाहार्तं संहर्षयेयुः तुष्टिमुत्पादयेयुरिति सम्बन्धः||५९||-

Adhikarana 55 (60-61) · Śloka 62

धारागृहे प्रगलितोदकदुर्दिनाभे क्लान्तः शयीत सलिलानिलशीतकुक्षौ ||६०|| गन्धोदकैः सकुसुमैरुपसिक्तभूमौ पत्राम्बुचन्दनरसैरुपलिप्तकुड्ये | जात्युत्पलप्रियककेशरपुण्डरीकपुन्नागनागकरवीरकृतोपचारे ||६१|| तस्मिन् गृहे कमलरेण्वरुणे शयीत यत्नाहृतानिलविकम्पितपुष्पदाम्नि |६२|

🔊 Audio coming soon

धारागृहे इत्यादि| प्रगलितं गलितुं प्रवृत्तं यदुदकं तेन दुर्दिनस्येव आभा यस्य तत्तथा| क्लान्तो ग्लानियुक्तः, ‘आतुर’ इति शेषः| सलिलेन मिश्रितोऽनिलः सलिलानिलस्तेन शीतः कुक्षिरभ्यन्तरं यस्य तत् तत्र| ‘सजलाम्बुदशीतकुक्षौ’ इत्यन्ये पठन्ति; तत्र सजलमेघवच्छीताभ्यन्तरप्रदेशे| गन्धोदकैः एलादिगन्धद्रव्यकषायैः| सकुसुमैः जातीकुसुमादियुतैः| अन्ये ‘सकुसुमैरुपसिक्तभूमौ’ इत्यत्र ‘पटुभिरुक्षितभूमिभागे’ इति पठन्ति; तत्र एलादिकषायैः पटुभिर्व्यक्तगन्धैः सिक्तो भूमिप्रदेशो यत्र| पत्रं पत्रकम्, अम्बु वालकं, चन्दनं श्वेतचन्दनं; रसोऽत्र क्वाथः| कुड्यं भित्तिः| एतेषामेव कल्कक्वाथाभ्यामुपलिप्तभित्तिके| ‘उपदिग्धकुड्ये’ इत्यन्ये; तत्राप्येक एवार्थः| जाती प्रसिद्धा, उत्पलं नीलोत्पलं, प्रियको बीजकः, केशरो बकुलः, पुण्डरीकं श्वेतपद्मं, पुन्नागो देववल्लभः स्वनामप्रसिद्धः, नागं नागकेशरं, करवीरोऽत्र रक्तकरवीरः, अत्रैतेषां पुष्पाणि ग्राह्याणि; तैः कृतोपचारे कृतरचनाविशेषे धारगृहे| अन्ये त्वेवं पठन्ति- ‘मांसीतमालतृणकुङ्कुमपद्मपत्रजात्युत्पलाग्रकरवीरकृतोपकारे’ इति| तमालं पत्रकं, तृणं सुगन्धितृणं, पद्मपत्रकं कमलपत्रं, जात्युत्पले पूर्ववत्, अग्रकरवीरो रक्तकरवीरः, शेषं सममिति| तस्मिन् गृहे धारागृहे| कमलरेण्वरुणे कमलधूलीवद्रक्ताङ्गे इति धारागृहविशेषणम्| यत्नाहृतानिलविकम्पितपुष्पदाम्नि प्रकारान्तरानीतवचालितपुष्पमालायुक्ते ||६०-६१||-

Adhikarana 56 (62-64) · Śloka 64

हेमन्तविन्ध्यहिमवन्मलयाचलानां शीताम्भसां सकदलीहरितद्रुमाणाम् ||६२|| उद्भिन्ननीलनलिनाम्बुरुहाकराणां चन्द्रोदयस्य च कथाः शृणुयान्मनोज्ञाः | म्लानं प्रतान्तमनसं मनसोऽनुकूलाः पीनस्तनोरुजघना हरिचन्दनाङ्ग्यः ||६३|| ता एनमार्द्रवसनाः सह संविशेयुः श्लिष्ट्वाऽबलाः शिथिलमेखलहारयष्ट्यः ||६४||

🔊 Audio coming soon

एवंविधे धारागृहे शयानः किं कुर्यादित्याह- हेमन्तेत्यादि| हेमन्तः ऋतुः; मलयान्तैरचलशब्दः प्रत्येकं सम्बध्यते, तेनात्र विन्ध्यवनादिपरिहारः | तेषां विशेषणत्रयमाह- शीताम्भसां शीतपानीयानाम्| सकदलीहरितद्रुमाणां कदलीहरितवृक्षसहितानाम्| उद्भिन्ननीलनलिनाम्बुरुहाकराणाम् उद्भिन्नानि विकसितानि नीलनलिनानि नीलोत्पलानि अम्बुरुहाणि पुण्डरीकरक्तोत्पलादीनि तेषामाकराः तद्युक्तजलाशयाः ते उत् ऊर्ध्वप्रदेशे येषामित्यर्थः; तेषामेवंविधानां पर्वतानां मनोज्ञाः कथाः शृणुयात्| चन्द्रोदयस्य चेति कथाः शृणुयादित्यर्थः| मनोज्ञा मनोनुकूलाः| एवमपि सुखमनाप्नुवन्तं कथमुपाचरेदित्याह- म्लानमित्यादि| म्लानं ग्लानियुक्तम्| प्रतान्तमनसं दीनमनस्कम्| पीनानि मांसलानि स्तनोरुजघनानि यासां तास्तथा; जघनं स्त्रीकट्यग्रभागः| हरिचन्दनाङ्ग्यः रक्तचन्दनानुलिप्ताः; अन्ये ‘घनसारदिग्धा’ इति पठन्ति, तत्र चन्दनानुलिप्ताः| ता इति अबला इत्यर्थः| एनं दाहार्तिमन्तम्| आर्द्रवसना आर्द्रवस्त्राः | सह संविशेयुरिति दाहार्तेन सह विश्रामं कुर्युरित्यर्थः| श्लिष्ट्वा आलिङ्ग्य| अबलाः स्त्रियः| किम्भूताः? शिथिलमेखलहारयष्ट्य इति शिथिला लम्बमाना मेखला क्षुद्रसुवर्णघण्टिकायुक्तः कटिदोरकः, हारयष्टिः मौक्तिकमाला यासां तास्तथा| ता अबलाः मनसोऽनुकूला इत्यादिविशेषणविशिष्टाः, ग्लानं प्रतान्तमनसमातुरं श्लिष्ट्वा तेनैव सह संविशेयुरिति सम्बन्धः| केचित् ‘श्लिष्ट्वा’ इत्यत्र ‘श्लिष्य’ इति पठन्ति, व्याख्यानयन्ति च- श्लिष्य आश्लिष्य; छन्दोनुरोधेन आङ्शब्दलोपः||६२-६४||

Adhikarana 57 (65) · Śloka 65

हर्षयेयुर्नरं नार्यः स्वगुणै रहसि स्थिताः | ताः शैत्याच्छमयेयुश्च पित्तपानात्ययान्तरम् ||६५||

🔊 Audio coming soon

हर्षयेयुरित्यादि| हर्षयेयुः तुष्टिं नयेयुः| नरमिति दाहार्तम्| नार्यः स्त्रियः| कैर्हर्षयेयुः? स्वगुणैः मृदुभाषणादिभिः| रहसिस्थिता एकान्ते स्थिताः| ता नार्यः| शैत्यात् ‘आत्मन’ इति शेषः| शमयेयुः शान्तिं नयेयुः| किं शमयेयुः? पित्तपानात्ययान्तरं पित्तपानात्ययभेदम्||६५||

Adhikarana 58 (66) · Śloka 66

तृड्दाहरक्तपित्तेषु कार्योऽयं भेषजक्रमः | सामान्यतो... |६६|

🔊 Audio coming soon

इमं विधिमन्यत्राप्यतिदिशन्नाह- तृडित्यादि| तृट् पिपासा, दाहो नानाप्रकारो वक्ष्यमाणः| अयम् अनन्तरोक्तः| भेषजक्रम औषधविधिः कार्यः|६६|-

Adhikarana 59 (66) · Śloka 66

... विशेषं तु शृणु दाहेष्वशेषतः ||६६||

🔊 Audio coming soon

तृडादिषु सामान्यतो विधिमुद्दिश्य दाहेषु विशेषविधिमाह- विशेषमित्यादि| दाहेष्विति बहुवचनं नानाप्रकारत्वेन दाहस्याभिधास्यमानत्वात्; अत एव अशेषत इत्युक्तम्, अशेषेष्वित्यर्थः||६६||

Adhikarana 60 (67-69) · Śloka 69

कृत्स्नदेहानुगं रक्तमुद्रिक्तं दहति ह्यति | सञ्चूष्यते दह्यते च ताम्राभस्ताम्रलोचनः ||६७|| लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते | तं विलङ्घ्य विधानेन संसृष्टाहारमाचरेत् ||६८|| अप्रशाम्यति दाहे च रसैस्तृप्तस्य जाङ्गलैः | शाखाश्रया यथान्यायं रोहिणीर्व्यधयेत् सिराः ||६९||

🔊 Audio coming soon

इदानीं रक्तादिदाहलक्षणं तेषामेव विशिष्टं चिकित्सितं चाह- कृत्स्नदेहानुगमित्यादि| कृत्स्नदेहानुगं सकलदेहव्यप्तम्| उद्रिक्तं प्रवृद्धम्| हिशब्द एवार्थे| सञ्चूष्यते आकृष्यत इव वेदनाविशेषः| ‘दह्यते’ इत्यत्र 'उष्यते' इत्यन्ये; तत्र उष्यते दह्यत इत्यर्थः| ताम्राभः ताम्रप्रभः| ताम्रलोचनो लोहिताक्षः| लोहगन्धशब्दोऽङ्गवदनाभ्यां सम्बध्यते| वह्निनेवावकीर्यते ज्वलिताङ्गारैरिवात्मानमाचितं मन्यते, अनेन दाहातिशयः प्रतिपादितः| तमिति रक्तदाहार्तम् | विलङ्घयेति विविधप्रकारं लङ्घयित्वा| विधानेन क्रमेण, संसृष्टाहारं कृततर्पणादिक्रमं, आचरेदिति कुर्यात्, ‘वैद्यप्रयुक्तं’ इति शेषः| एवमप्यप्रशाम्यति दाहे किं कुर्यादित्याह- अप्रशाम्यतीत्यादि| अप्रशाम्यति दाहे जाङ्गलै रसैस्तृप्तस्य शाखाश्रया बाहुजङ्घाश्रयाः रोहिणीः लोहिताः सिरा यथान्यायं व्यधयेदिति सम्बन्धः; यथान्यायं सिराव्यधविधानोक्तेन न्यायेनेत्यर्थः||६७-६९||

Adhikarana 61 (70) · Śloka 70

पित्तज्वरसमः पित्तात् स चाप्यस्य विधिर्हितः |७०|

🔊 Audio coming soon

अतः परं दाहस्य पित्तज्वरेण सह समत्वं तच्चिकित्सितं चाह- पित्तज्वरसम इत्यादि|७०|

Adhikarana 62 (70-71) · Śloka 71

तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम् ||७०|| सबाह्याभ्यन्तरं देहं दहेद्वै मन्दचेतसः | संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते ||७१||

🔊 Audio coming soon

तृण्णिरोधजे दाहे चिकित्सितं निर्दिशन्नाह- तृष्णानिरोधादित्यादि| अब्धातौ पानीयधातौ| तेजः पित्तोष्मा| समुद्धतम् अत्यर्थवृद्धम्| एवंविधं तेजो देहं सबाह्याभ्यन्तरं मन्दचेतस आतुरस्य वै स्फुटं दहेदित्यर्थः| स दह्यमानदेहः किं कुर्यादित्याह- जिह्वां निष्कृष्येत्यादि| जिह्वां निष्कृष्य निःसार्येत्यर्थः| चेष्टते हस्तपादादिविक्षेपणं करोति, ‘दाहार्तः’ इति शेषः| अन्ये ‘जिह्वा निःसृत्य वेपते’ इति पठन्ति, तत्र दाहार्तस्य जिह्वा निःसृत्य कम्पते इत्यर्थः||७०-७१||

Adhikarana 63 (72) · Śloka 73

तत्रोपशमयेत्तेजस्त्वब्धातुं च विवर्धयेत् | पाययेत् काममम्भश्च शर्कराढ्यं पयोऽपि वा ||७२|| शीतमिक्षुरसं मन्थं वितरेच्चेरितं विधिम् |७३|

🔊 Audio coming soon

तत्रेत्यादि| तत्र तृष्णानिरोधजे दाहे| उपशमयेत् शान्तिं नयेत् मधुरशीतादिभिः| तेजः पित्तोष्माणम्| अत्रान्ये ‘तस्य तेजः प्रशमयेत्’ इति पठन्ति; तत्र तस्येति दाहार्तस्य, शेषं समम्| अब्धातुं च विवर्धयेदिति स्वयोनिवर्धनैः मधुरस्निग्धशीतलैः| अम्भः पानीयम्| तं तृष्णानिरोधजदाहार्तम्| किम्भूतमम्भः? शर्कराढ्यं प्रभूतशर्करायुक्तम्| किमम्भ एव पाययेदित्याह- पयोऽपि वेति|- शर्कराढ्यं दुग्धं वेत्यर्थः| मन्थं “शक्तवः सर्पिषाऽभ्यक्ताः शीतवारिपरिप्लुताः” इत्याद्युक्तलक्षणम्| वितरेच्चेरितं विधिमिति पित्तज्वरहरम्| केचित् ‘वितरेच्चेतरं विधिम्’ इति पठन्ति; तत्र पित्तज्वरोक्तात् इतरोऽन्यः पित्तहरो विधिरित्यर्थः||७२||-

Adhikarana 64 (73) · Śloka 74

असृजा पूर्णकोष्ठस्य दाहो भवति दुःसहः ||७३|| विधिः सद्योव्रणीयोक्तस्तस्य लक्षणमेव च |७४|

🔊 Audio coming soon

असृजा पूर्णकोष्ठस्येत्यादि| असृजा रक्तेन| पूर्णकोष्ठस्य सम्भृतोदरस्य| दुःसहः रौद्रः| विधिः चिकित्सा| तस्येति दाहार्तस्य| लक्षणमेवेति सद्योव्रणीयोक्तमित्यर्थः ‘असृजा’ इत्यत्र ‘असृजः’ इति षष्ठ्यन्तं केचित् पठन्ति, पूरणार्थे षष्ठीं व्याख्यानयन्ति च||७३||-

Adhikarana 65 (74-75) · Śloka 75

धातुक्षयोक्तो यो दाहस्तेन मूर्च्छातृषान्वितः ||७४|| क्षामस्वरः क्रियाहीनो भृशं सीदति पीडितः | रक्तपित्तविधिस्तस्य हितः स्निग्धोऽनिलापहः ||७५||

🔊 Audio coming soon

धातुक्षयोक्तो यो दाह इत्यादि| धातुक्षयोक्तो रक्तक्षयोक्तः| यच्चात्र रक्तक्षयोक्त इति पाठो न कृतः, तदितरधातुक्षयेऽपि दाहो भवतीति ज्ञापनार्थम्| तेन धातुक्षयजदाहेन| क्षामस्वरो दुर्बलस्वरः| क्रियाहीनः कायिकमानसचेष्टाहीनः| पीडितो ‘दाहेन’ इति शेषः||७४-७५||

Adhikarana 66 (76-77) · Śloka 77

क्षतजेनाश्नतश्चान्यः शोचतो वाऽप्यनेकधा | तेनान्तर्दह्यतेऽत्यर्थं तृष्णामूर्च्छाप्रलापवान् ||७६|| तमिष्टविषयोपेतं सुहृद्भिरभिसंवृतम् | क्षीरमांसरसाहारं विधिनोक्तेन साधयेत् ||७७||

🔊 Audio coming soon

‘असृजा पूर्णकोष्ठस्य’ इत्यादिना कोष्ठस्थेन रक्तेन दाहमभिधायेदानीं प्रकारान्तरेणाह- क्षतजेनाश्नतश्चान्य इत्यादि| क्षतजेन रक्तेन| अश्नतः भोजनं कुर्वतः| अन्यो ‘दाह’ इति शेषः| शोचतो वाऽप्यनेकधेति अनेकप्रकारं शोकं कुर्वतः| शोकं कुर्वतो भोजनं कुर्वतो वाऽपि नरस्यान्यो दाहो रक्तेन भवतीति सम्बन्धः| तेन दाहेन, अन्तः अभ्यन्तरं दह्यते| मूर्च्छातृष्णाप्रलापवान् ‘आतुरो भवति’ इति शेषः| तम् आतुरम्| इष्टविषयोपेतम् अभिलषितशब्दस्पर्शादिसंयुक्तम्| सुहृद्भिः मित्रैः| अभिसंवृतं समन्ततः परिवृतम्| विधिनोक्तेन साधयेत् दाहशान्तिकरेण प्रागुक्तेन विधानेन शान्तिं नयेत्||७६-७७||

Adhikarana 67 (78) · Śloka 78

मर्माभिघातजोऽप्यस्ति स चासाध्यतमः स्मृतः |७८|

🔊 Audio coming soon

मर्माभिघातज इत्यादि| मर्माभिघातजः सद्यः कालान्तरे वा प्राणहरमर्माभिघातजः| यद्येवं तर्हि असाध्यत्वं प्राप्तमेव, स चासाध्यतमः स्मृत इति व्यर्थम्| नैवं, स चासाध्यतमः स्मृत इत्यस्मादेव सद्यःकालान्तरप्राणहरमर्मजो ज्ञायत इत्यदोषः| ‘स चासाध्यतमः स्मृतः’ इत्यत्रान्ये ‘सोऽसाध्यः सप्तमो मत’ इति पठन्ति| अत एव च दाहगणनां कुर्वन्ति- त्वचं प्राप्तस्तु पानोष्मेत्यादिः प्रथमो दाहः, कृत्स्नदेहानुगं पित्तमित्यादिर्द्वितीयः तृष्णानिरोधादित्यादिस्तृतीयः, असृजा पूर्णकोष्ठस्येत्यादिश्चतुर्थः, धातुक्षयोक्त इत्यादिः पञ्चमः, क्षतजेनाश्नतश्चान्यः शोचतो वाऽपीत्यादिः षष्ठः, सप्तमश्च मर्माभिघातजः|७८|-

Adhikarana 68 (78) · Śloka 78

सर्व एव च वर्ज्याः स्युः शीतगात्रेषु देहिषु ||७८|| (एवंविधो भवेद्यस्तु मदिरामयपीडितः ||) |

🔊 Audio coming soon

अवस्थायां सर्वेषामपि दाहानां वर्जनमाह- सर्व एवेत्यादि| सर्व एव ‘दाहा’ इति शेषः||७८||

Adhikarana 69 (79) · Śloka 79

प्रशान्तोपद्रवे चापि शोधनं प्राप्तमाचरेत् ||७९||

🔊 Audio coming soon

दाहानां पुनरावृत्तिनिषेधाय विधानमाह- एवंविधो भवेदित्यादि| प्रशान्तोपद्रवे निवृत्ततृष्णादिके ‘आतुरे’ इति शेषः| शोधनं विरेचनं, पित्तहरत्वात्| प्राप्तं यथादोषप्रत्यनीकम्| आचरेत् कुर्यात् ‘वैद्य’ इति शेषः| अन्ये शोधनशब्देन वमनमपि कथयन्ति| तद्वमनं दाहकारिणि पित्ते कफस्थानगे कार्यम्| अन्ये ‘प्रशान्तोपद्रवश्चापि’ इति पठन्ति; तत्र एवंविध आतुरः शोधनमाचरेदिति व्याख्यानयन्ति||७९||

Adhikarana 70 (80) · Śloka 80

सजीरकाण्यार्द्रकशृङ्गवेरसौवर्चलान्यर्धजलप्लुतानि | मद्यानि हृद्यान्यथ गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम् ||८०||

🔊 Audio coming soon

यथा पीयमानं मद्यं तृष्णाकरं न भवति तथा प्राह- सजीरकाणित्यादि| सजीरकाणि जीरकसहितानि| आर्द्रकं प्रसिद्धं, शृङ्गवेरं शुण्ठी| आर्द्रकस्यादौ सहशब्दो बोद्धव्यः; तेन ‘आर्द्रकशृङ्गवेरसौवर्चलानि’ इति मद्यानीत्यस्य विशेषणम्| अर्धजलप्लुतानि अर्धपानीयमिश्रितानि| हृद्यानि मनःप्रियाणि| गन्धवन्ति प्रशस्तगन्धानि| एवंविधानि मद्यानि पीतानि सन्ति सद्यस्तृष्णां शमयन्तीति पिण्डार्थः||८०||

Adhikarana 71 (81) · Śloka 81

जलप्लुतश्चन्दनभूषिताङ्गः स्रग्वी सभक्तां पिशितोपदंशाम् | पिबन् सुरां नैव लभेत रोगान् मनोनुविघ्नं च मदं न याति ||८१||

🔊 Audio coming soon

किम्भूतः सन्मद्यपः किम्भूतां सुरां पिबन् पानजरोगान् मनोविधातकं च मदं न प्राप्नोतीत्याह- जलप्लुत इत्यादि| जलप्लुतो जलार्द्रगात्रः| चन्दनभूषिताङ्गः चन्दनानुलिप्तशरीरः| स्रग्वी पुष्पमालायुक्तः| सभक्तां भक्तेन सहिताम्| पिशितोपदंशां मांसभक्षणसहिताम्| रोगान् पानजानित्यर्थः| मनोनुविघ्नं च मदं न याति मनोविघातकं मदं न प्राप्नोति| एतेनोत्तरौ मदौ नाधिगच्छतीत्युक्तम्| अन्ये ‘मनोमतिघ्नं च मदं न याति’ इति पठन्ति; तत्र मनोबुद्धिप्रमोहलक्षणं मदं न प्राप्नोतीत्यर्थः||८१||

Adhikarana puShpikA · Śloka 47

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मदात्ययप्रतिषेधो नाम (नवमोऽध्यायः, आदितः) सप्तचत्वारिंशत्तमोऽध्यायः ||४७||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रे सप्तचत्वारिंशत्तमोऽध्यायः||४७||