Adhikarana 1 (1-2) · Śloka 2
अथातो रक्तपित्तप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
पाण्डुरोगप्रतिषेधानन्तरं दूष्यसाम्याद्रक्तपित्तप्रतिषेधारम्भो युक्त इत्यत आह- अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो रक्तपित्तप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
पाण्डुरोगप्रतिषेधानन्तरं दूष्यसाम्याद्रक्तपित्तप्रतिषेधारम्भो युक्त इत्यत आह- अथात इत्यादि||१-२||
Adhikarana 2 (3-4) · Śloka 5
क्रोधशोकभयायासविरुद्धान्नातपानलान् | कट्वम्ललवणक्षारतीक्ष्णोष्णातिविदाहिनः ||३|| नित्यमभ्यसतो दुष्टो रसः पित्तं प्रकोपयेत् | विदग्धं स्वगुणैः पित्तं विदहत्याशु शोणितम् ||४|| ततः प्रवर्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा |५|
🔊 Audio coming soon
निदानानन्तरीयकत्वात् प्रतिषेधस्यादौ रक्तपित्तनिदानभूते हेतुसम्प्राप्ती आह- क्रोधशोकभयायासेत्यादि| क्रोधादीनि नित्यमभ्यस्यतो निषेवमाणस्य पुरुषस्य दुष्टिं गतो रसः पित्तं प्रकोपयेत्, ततश्च विदग्धं दुष्टं पित्तं स्वगुणैः तीक्ष्णोष्णादिभिः शोणितं विदहति प्रदूषयति, तत ऊर्ध्वमधो वा रक्तं प्रवर्तत इति पिण्डार्थः| तीक्ष्णमुष्णकट्वम्ललवणक्षारव्यतिरिक्तं ज्योतिष्मत्यपामार्गफलादिकम्| आयासः श्रमः| विरुद्धान्नं हिताहितीयोक्तम्| क्रोधशोकेत्यादिः हेतुः, नित्यमभ्यस्यत इत्यादिः सम्प्राप्तिः| ‘कट्वम्ललवण’- इत्यत्र केचित् ‘तीक्ष्णमुष्णाम्ललवणं दिवास्वप्नं विदाहि यत्’ इति पठन्ति||३-४||-
Adhikarana 3 (5-6) · Śloka 6
आमाशयाद्व्रजेदूर्ध्वमधः पक्वाशयाद्व्रजेत् ||५|| विदग्धयोर्द्वयोश्चापि द्विधाभागं प्रवर्तते | केचित् सयकृतः प्लीह्नः प्रवदन्त्यसृजो गतिम् ||६||
🔊 Audio coming soon
तद्रक्तं यथोर्ध्वमधो वा द्विधाऽपि वा प्रवर्तते तथा दर्शयन्नाह- आमाशयादित्यादि| यद्यपि रक्तस्य यकृत्प्लीहस्थानत्वादामाशयपक्वाशयाभ्यां प्रवर्तनं न सम्भवति, तथाऽपि प्रकुपितरक्तस्य तत्रापि गमनात् प्रवर्तनं ताभ्यां सम्भवत्येव| विदग्धयोश्चाप्युभयोरिति दुष्टयोरामपक्वाशययोरित्यर्थः| तयोश्च दुष्टिः दुष्टरुधिरसंयोगात्| एकीयमतमाह- केचिदित्यादि| सयकृतः कालखण्डसहितात्| एतदप्यनुमतम्, अप्रतिषेधात्| अस्मिन् पाठे अङ्गीकृतेऽपि पूर्ववाक्येन सह न विरोधः, यतो यकृत्प्लीहाभ्यामेव रक्तं प्रवर्तते परमामपक्वाशयमधिष्ठाय||५-६||
Adhikarana 4 (7) · Śloka 7
ऊर्ध्वं साध्यमधोयाप्यमसाध्यं युगपद्गतम् |७|
🔊 Audio coming soon
त्रिप्रकारस्य रक्तपित्तस्य साध्ययाप्यासाध्यत्वमाह- ऊर्ध्वमित्यादि| ऊर्ध्वं साध्यमिति यदा दौर्बल्याद्युपद्रवहीनं मांसप्रक्षालनाभमित्याद्यसाध्यलक्षणरहितमेकदोषानुगं भवति तदा साध्यं, यदा तु तदेव शान्तिं गत्वा पुनर्भवति मार्गान्तरं वा याति अल्पोपद्रवम् अल्पासाध्यलक्षणयुक्तं द्विदोषानुगं च भवति तदा याप्यं, यदा च बहूपद्रवयुक्तं बह्वसाध्यलक्षणयुक्तं त्रिदोषानुगतं च भवति तदा असाध्यम्| अधो याप्यमिति अल्पोपद्रवमसाध्यलक्षणहीनं द्विदोषानुगं च भवति तदा अधोगं याप्यं; यदा च त्रिदोषानुगमसाध्यलक्षणयुक्तं तदा वर्ज्यं, यदा चैकदोषानुगं निरुपद्रवं वर्ज्यलक्षणासंयुक्तं तदा साध्यम्| असाध्यं युगपद्गतमिति यदा त्रिदोषानुगं बहूपद्रवमसाध्यलक्षणयुक्तं भवति तदा असाध्यं, यदा चान्यथा तदा याप्यमित्यर्थः| युगपद्गतम् उभयमार्गप्रवृत्तमित्यर्थः|७|-
Adhikarana 5 (7) · Śloka 8
सदनं शीतकामित्वं कण्ठधूमायनं वमिः ||७|| लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति |८|
🔊 Audio coming soon
अथ पूर्वरूपमाह- सदनमित्यादि| सदनम् अङ्गम्लानिः| कण्ठधूमायनं कण्ठे धूमोद्वमनमिव वेदनेत्यर्थः| अस्मिन् रक्तपित्ते||७||-
Adhikarana 6 (8) · Śloka 8
बाह्यासृग्लक्षणैस्तस्य सङ्ख्यादोषोच्छ्रितीर्विदुः ||८||
🔊 Audio coming soon
रक्तपित्तस्य सङ्ख्यां दोषोच्छ्रयं चातिदेशेनाह- बाह्यासृग्लक्षणैस्तस्येत्यादि| बाह्यासृग्लक्षणैरिति शोणितवर्णनीयोक्तैः ‘फेनिलमरुणम्’ इत्यादिभिः, तस्य रक्तपित्तस्य, सङ्ख्या सप्तविधा| ननु, पित्तेन वि दग्धेन विदग्धं रक्तं रक्तपित्तमुच्यते, तत् कथं पित्तादपि पृथगुद्दिश्यते? उच्यते, तद्रक्तान्तरेण संसर्गात्| दोषोच्छ्रितिः दोषाधिक्यम्||८||
Adhikarana 7 (9) · Śloka 9
दौर्बल्यश्वासकासज्वरवमथुमदास्तन्द्रितादाहमूर्च्छा भुक्ते चान्ने विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा | तृष्णा कण्ठस्य भेदः शिरसि च दवनं पूतिनिष्ठीवनं च द्वेषो भक्तेऽविपाको विरतिरपि रते रक्तपित्तोपसर्गाः ||९||
🔊 Audio coming soon
इदानीं रक्तपित्तोपद्रवानाह- दौर्बल्यश्वासकासेत्यादि| वमथुः छर्दिः| मदः पूगफलेनेव मत्तता| अधृतिः असन्तोषः| अतुल्या असाधारणा| कण्ठस्य भेदः कण्ठक्षणनम्| शिरसि च दवनं सन्तापः| विरतिरपि रतेः सुखस्यापि विनाशो भवतीत्यर्थः| उपसर्गा उपद्रवाः| ‘भुक्ते चान्ने विदाह’ इत्यत्र ‘भुक्ते घोरो विदाह’ इत्यन्ये पठन्ति| तत्र सप्तमी षष्ठ्यर्थे, तेन भुक्तस्य आहारस्य घोरो महान् विदाह इत्यर्थः| ‘कण्ठस्य भेद’ इत्यत्र ‘कोष्ठस्य भेद’ इत्यपरे पठन्ति; कोष्ठशब्देन कोष्ठस्थो मलस्तस्य भेद इति च व्याख्यानयन्ति| तदेतत् पाठद्वयमूर्ध्वाधःप्रवृत्तिरूपं यथासम्भवं बोद्धव्यं, एकत्र द्वयोरप्यनौपयिकत्वात्| शिरसि च दवनमित्यत्र ‘प्रविततसिरता’ इति केचित् पठन्ति, सिराततगात्रतेति व्याख्यानयन्ति| ‘विरतिरपि रतेः’ इत्यत्र अपरे ‘विनतिरपि भवेत्’ इति पठन्ति; विनतिः शरीरस्य विनमनम्| अपरे ‘विकृतिरपि भवेत्’ इति पठन्ति, तत्रापि कायस्याकुञ्चनात्मिका विकृतिरित्यर्थः||९||
Adhikarana 8 (10) · Śloka 10
मांसप्रक्षालनाभं क्वथितमिव च यत् कर्दमाम्भोनिभं वा मेदःपूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम् | यत् कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारास्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति ||१०||
🔊 Audio coming soon
असाध्यरक्तपित्तलक्षणमाह- मांसप्रक्षालनाभमित्यादि| मांसप्रक्षालनाभं मांसधावनतोयाभम्| कर्दमाम्भोनिभं कर्दमेन मिश्रितं यदम्भस्तोयं तन्निभम्| मेदःपूयास्रकल्पं मेदःपूयरक्तसदृशमित्यर्थः| अतिकुणपं शटितशवगन्धि| उक्ता विकारा दौर्बल्यश्वासादयः, ‘प्रभूता’ इति वाक्यशेषः| तद्वर्ज्यमिति ऊर्ध्वधोमार्गत्वेन साध्यं याप्यं च यदुक्तं भवति तदप्येवंविधम् असाध्यम्| सुरपतिधनुः इन्द्रधनुः| ‘क्वथितमिव च यत्’ इत्यत्र ‘क्वथितमिव यकृत्’ इति पठित्वा पक्वकालखण्डतुल्यमिति व्याख्यानयन्ति||१०||
Adhikarana 9 (11) · Śloka 11
नादौ सङ्ग्राह्यमुद्रिक्तं यदसृग्बलिनोऽश्नतः | तत् पाण्डुग्रहणीकुष्ठप्लीहगुल्मज्वरावहम् ||११||
🔊 Audio coming soon
आदौ बलवति रक्तपित्ते सङ्ग्रहणनिषेधमाह- नादौ सङ्ग्राह्यमुद्रिक्तमित्यादि| यत् रक्तपित्तम्, उद्रिक्तम् अतिशयेन वृद्धिं गतं, तद्बलयुक्तस्याश्नतश्च पुरुषस्यादौ न सङ्ग्राह्यं; यस्मात्तदादौ सङ्गृहीतं सत् पाण्ड्वादिरोगावहं भवति||११||
Adhikarana 10 (12) · Śloka 12
अधःप्रवृत्तं वमनैरूर्ध्वगं च विरेचनैः | जयेदन्यतरद्वाऽपि क्षीणस्य शमनैरसृक् ||१२||
🔊 Audio coming soon
तर्हि तत्र किं कुर्यादित्याह- अधःप्रवृत्तं वमनैरित्यादि| संशोधनार्हस्य बलवतो नरस्याधोगं रक्तपित्तं बहुदोषं वमनैर्जयेत्, एवंविधस्योर्ध्वगं विरेचनैरित्यर्थः| ननु, अधोगं वातानुगं भवति, ऊर्ध्वगं च कफानुगं, तत् कथं तयोर्वमनविरेचने युज्येते? सत्यं, व्याधिप्रत्यनीकत्वाद्युज्येते एव; तथा च तन्त्रान्तरं- “अधोगं वमनैर्धीमानूर्ध्वगं रेचनैर्जयेत्”- इति| अन्यतरद्वेति ऊर्ध्वगमधोगं वा क्षीणस्य पुरुषस्य शमनैर्जयेदिति न वमनविरेकैः; तथा च तन्त्रान्तरम्- “ऊर्ध्वगं वाऽप्यधोगं वा क्षीणस्य शमनैर्जयेत्”- इति||१२||
Adhikarana 11 (13) · Śloka 13
अतिप्रवृद्धदोषस्य पूर्वं लोहितपित्तिनः | अक्षीणबलमांसाग्नेः कर्तव्यमपतर्पणम् ||१३||
🔊 Audio coming soon
इदानीं संशोधनार्हस्य लङ्घनमपि हितमिति दर्शयन्नाह- अतिप्रवृद्धदोषस्येत्यादि| अपतर्पणं लङ्घनम्||१३||
Adhikarana 12 (14) · Śloka 14
लङ्घितस्य ततः पेयां विदध्यात् स्वल्पतण्डुलाम् | रसयूषौ प्रदातव्यौ सुराभिस्नेहसंस्कृतौ | तर्पणं पाचनं लेहान् सर्पींषि विविधानि च ||१४||
🔊 Audio coming soon
लङ्घनादनन्तरं किं कुर्यादित्याह- लङ्घितस्येत्यादि विदध्यात् कुर्यात्| किं रक्तपित्ते पेयामेव विदध्यादुतान्यदपीत्याह- तर्पणमित्यादि| तर्पणमिति मृद्वीकामधुकादिसाधितजलेन सशर्करेणालोडिताः सघृतक्षौद्रा लाजशक्तवः| पाचनं ह्रीबेरचन्दनोशीरपर्पटमुस्तसाधितजलपानम्| लेहानिति वक्ष्यमाणान् मधुकशोभाञ्जनकादिपुष्पैः कृतान् सघृतक्षौद्रान्| विविधानि सर्पींषि वासाघृतादीनि| तत्राधोगे पेया हिता यदि मारुतो बली न स्यात्, मारुतश्चेद्बली भवति तदा मांसरस एव; ऊर्ध्वगे च तर्पणं हितम्| तथा च तन्त्रान्तरम्- “अधोवहे यवाग्वादि न चेत् स्यान्मारुतो बली| ऊर्ध्वगे तर्पणं शस्तं यथादोषमथापि वा”- इति| केचित् ‘लङ्घितस्य ततो युक्त्या लघ्वन्नमवचारयेत्’ इति पठन्ति, व्याख्यानयन्ति च- युक्त्या मात्रया प्रत्यनीकं चेत्यर्थः||१४||
Adhikarana 13 (15) · Śloka 15
द्रक्षामधुककाश्मर्यसितायुक्तं विरेचनम् | यष्टीमधुकयुक्तं च सक्षौद्रं वमनं हितम् ||१५||
🔊 Audio coming soon
पूर्वमुद्दिष्टं यद्वमनविरेचनं तयोर्द्रव्याण्याह- द्राक्षामधुककाश्मर्येत्यादि| द्राक्षादियुक्तं विरेचनद्रव्यकल्पोक्तं मृदु विरेचनं, यष्टीमधुकक्षौद्रयुक्तं वमनद्रव्यविकल्पोक्तं मृदु वमनं हितम्||१५||
Adhikarana 14 (16-18) · Śloka 18
पयांसि शीतानि रसाश्च जाङ्गलाः सतीनयूषाश्च सशालिषष्टिकाः | पटोलशेलूसुनिषण्णयूथिकावटातिमुक्ताङ्कुरसिन्दुवारजम् ||१६|| हितं च शाकं घृतसंस्कृतं सदा तथैव धात्रीफलदाडिमान्वितम् | रसाश्च पारावतशङ्खकूर्मजास्तथा यवाग्वो विहिता घृतोत्तराः ||१७|| सन्तानिकाश्चोत्पलवर्गसाधिते क्षीरे प्रशस्ता मधुशर्करोत्तराः | हिमाः प्रदेहा मधुरा गणाश्च ये घृतानि पथ्यानि रक्तपित्तिनाम् ||१८||
🔊 Audio coming soon
वमनविरेचनद्रव्याण्यभिधाय भोजनद्रव्याणि प्रतिपादयति- पयांसीत्यादि| शीतानि उत्पलादिद्रव्यक्वथितशीतानि, तानि तु पित्तप्राये| जाङ्गलरसा एणादिलावादिकृताः, ते च वातानुबन्धे| सतीनयूषा वर्तुलकलाययूषाः, ते च कफानुगे रक्तपित्ते हिताः| पटोलेत्यादि| शेलूः दक्षिणापथजं शाकं, श्लेष्मान्तकमपरे| सुनिषण्णकः शिरवालिका, चतुष्पर्णीत्यपरे| अतिमुक्त आवन्तकः| अङ्कुराः कोमलपल्लवाः पटोलादीनाम्| सिन्दुवारः निर्गुण्डी| एतान्यपि शाकानि कफानुगे शस्तानीति| पटोलेत्यत्र केचित् जीवन्तीति पठन्ति| रसाश्चेत्यादि| जाङ्गलरसाभिधानेनैव पारावतरसस्यापि परिग्रहे तदभिधानं विशेषेण रक्तपित्ते हितत्वापादनार्थम्| धात्रीदाडिमे संस्कारार्थम्| यवाग्वः अभिहिताः| सन्तानिका घृतस्योपरितनः स्त्यानो भागः| घृतोत्तरा घृतप्रधानाः| हिमाः प्रदेहा इत्यादि| हिमाः प्रदेहाः शीता लेपाः; ते च न्यग्रोधादिप्रभृतिशीतलगणकृताः| मधुरा गणाः काकोल्यादयः| ते च पानादिना योज्याः| घृतानि मधुरगणसाधितानि तन्त्रान्तरसंवादात्| पथ्यानि हितानि||१६-१८||
Adhikarana 15 (19-20) · Śloka 20
मधूकशोभाञ्जनकोविदारजैः प्रियङ्गुकायाः कुसुमैश्च चूर्णितैः | भिषग्विदध्याच्चतुरः समाक्षिकान् हिताय लेहानसृजः प्रशान्तये ||१९|| लिह्याच्च दूर्वावटजांश्च पल्लवान् मधुद्वितीयान् सितकर्णिकस्य च | हितं च खर्जूरफलं समाक्षिकं फलानि चान्यान्यपि तद्गुणान्यथ ||२०||
🔊 Audio coming soon
मधूकेत्यादि| मधूकादिपुष्पैरेकैकैश्चूर्णितैस्त्रयो लेहाः, प्रियङ्गुकायाः कुसुमैश्चतुर्थो लेहः| अपरानपि लेहानाह- लिह्यादित्यादि| दूर्वावटपल्लवान् मधुद्वितीयान् लिह्यादित्येको योगः| सितकर्णिकः श्वेतकर्णिकारः, तस्यापि पल्लवान् मधुद्वितीयान् लिह्यादिति द्वितीयो योगः| केचित् समुदितमेकं योगं मन्यन्ते; तन्नेच्छन्ति निबन्धकाराः, समानतन्त्रसंवादात्| ‘दूर्वावटजांश्च पल्लवान्’ इत्यत्रापरे ‘दुग्धद्रुमपल्लवान्’ इति पठित्वा वटादिपल्लवानिति व्याचक्षते| किं रक्तपित्ते एतदेव हितमुतान्यदपीत्याह- हितमित्यादि| समाक्षिकं समधु| अनुक्तसङ्ग्रहायाह- फलानि चान्यान्यपीत्यादि| अन्यानि फलानि काश्मर्यादीनि| तद्गुणानि खर्जूरफलतुल्यगुणानि||१९-२०||
Adhikarana 16 (21) · Śloka 21
रक्तातिसारप्रोक्तांश्च योगानत्रापि योजयेत् |२१|
🔊 Audio coming soon
इदानीं रक्तपित्तेऽतिदेशेन चिकित्सामाह- रक्तातीसारप्रोक्तांश्चेत्यादि| रक्तातीसारप्रोक्तान् योगान् ‘प्रियालमल्लिका’ इत्यादीन्| अस्याग्रे कार्तिककुण्डः ‘नीलोत्पलानां मधुना भस्म वाऽपि परिस्रुतम्’ इत्यादियोगं पठति, स च जेज्जटाचार्येण ‘सक्षौद्रमिन्दीवरभस्म’ इत्यादिना अग्रे पठितः|२१|-
Adhikarana 17 (21-22) · Śloka 22
शुद्धेक्षुकाण्डमापोथ्य नवे कुम्भे हिमाम्भसा ||२१|| योजायित्वा क्षिपेद्रात्रावाकाशे सोत्पलं तु तत् | प्रातः स्रुतं क्षौद्रयुतं पिबेच्छोणितपित्तवान् ||२२||
🔊 Audio coming soon
शुद्धेक्षुकाण्डमापोथ्येत्यादि| शुद्धेक्षुकाण्डानि निर्वल्कलेक्षुकाण्डानि, आपोथ्य अवक्षुद्य| हिमाम्भसा योजयित्वेत्यादि शीतलजलेन योजयित्वा नवे घटे रात्रावाकाशे निरावरणस्थाने क्षिपेत् धारयेत्, ततश्च प्रातःकाले स्रुतं गालितं नीलोत्पलचूर्णमधुभ्यां युतं शोणितपित्तवान् नरः पिबेत्||२१-२२||
Adhikarana 18 (23) · Śloka 23
पिबेच्छीतकषायं वा जम्ब्वाम्रार्जुनसम्भवम् | उदुम्बरफलं पिष्ट्वा पिबेत्तद्रसमेव वा ||२३||
🔊 Audio coming soon
पिबेदित्यादि| पिबेदित्यत्र मधुयुतमित्यनुक्तमपि सम्बध्यते, समानतन्त्रसंवादात्| उदुम्बरफलमित्यादि| उदुम्बरफलं पिष्ट्वा तद्रसं गृहीत्वा मधुयुतं पिबेत्||२३||
Adhikarana 19 (24-27) · Śloka 27
त्रपुषीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना | पिबेदक्षसमं कल्कं यष्टीमधुकमेव वा ||२४|| चन्दनं मधुकं रोध्रमेवमेव समं पिबेत् | करञ्जबीजमेवं वा सिताक्षौद्रयुतं पिबेत् ||२५|| मज्जानमिङ्गुदयस्यैवं पिबेन्मधुकसंयुतम् | सुखोष्णं लवणं बीजं कारञ्जं दधिमस्तुना ||२६|| पिबेद्वाऽपि त्र्यहं मर्त्यो रक्तपित्ताभिपीडितः | रक्तपित्तहराः शस्ताः षडेते योगसत्तमाः ||२७||
🔊 Audio coming soon
इदानीं रक्तपित्ते सिद्धतमान् षड्योगानाह- त्रपुसीमूलकल्कमित्यादि| सक्षौद्रं कर्षोन्मितमधुसहितं, तण्डुलाम्बुना कल्काच्चतुर्गुणेनेत्यर्थः| अक्षसमं कर्षप्रमाणं, एवमेवेति सक्षौद्रं तण्डुलाम्बुनेत्यर्थः| करञ्जबीजादियोगद्वयं कफानुबन्धे ऊर्ध्वगे शस्तम्| मज्जानमिङ्गुदस्येत्यादि सितामधुयुतमेव(क)मेव पिबेदित्यर्थः||२४-२७||
Adhikarana 20 (28) · Śloka 28
पथ्याश्चैवावपीडेषु घ्राणतः प्रस्रुतेऽसृजि |२८|
🔊 Audio coming soon
अनन्तरोक्ताः षड्योगा घ्राणगे रक्तेऽवपीडनेऽपि योज्या इत्याह- पथ्या इत्यादि| पथ्या हिताः, अनन्तरोक्ताः त्रपुसीमूलकल्कमित्यादि षड्योगाः इति शेषः|२८|-
Adhikarana 21 (28) · Śloka 28
अतिनिस्रुतरक्तो वा क्षौद्रयुक्तं पिबेदसृक् | यकृद्वा भक्षयेदाजमामं पित्तसमायुतम् ||२८||
🔊 Audio coming soon
असृगिति शरीरधातुसामान्यात् एणादीनामित्यर्थः| यकृत् कालखण्डम्||२८||
Adhikarana 22 (29-32) · Śloka 33
पलाशवृक्षस्वरसे विपक्वं सर्पिः पिबेत् क्षौद्रयुतं सुशीतम् | वनस्पतीनां स्वरसैः कृतं वा सशर्करं क्षीरघृतं पिबेद्वा ||२९|| द्राक्षामुशीराण्यथ पद्मकं सिता पृथक्पलांशान्युदके समावपेत् | स्थितं निशां तद्रुधिरामयं जयेत् पीतं पयो वाऽम्बुसमं हिताशिनः ||३०|| तुरङ्गवर्चःस्वरसं समाक्षिकं पिबेत् सिताक्षौद्रयुतं वृषस्य वा | लिहेत्तथा वास्तुकबीजचूर्णं क्षौद्रान्वितं तण्डुलसाह्वयं वा ||३१|| लिह्याच्च लाजाञ्जनचूर्णमेकमेवं सिताक्षौद्रयुतां तुगाख्याम् | द्राक्षां सितां तिक्तकरोहिणीं च हिमाम्बुना वा मधुकेन युक्ताम् ||३२|| पथ्यामहिंस्रां रजनीं घृतं च लिह्यात्तथा शोणितपित्तरोगी |३३|
🔊 Audio coming soon
वनस्पतीनां वटादीनाम्| क्षीरघृतं क्षीरोत्थं घृतम्| पयो वाऽम्बुसममिति दुग्धं जलं च तुल्यमित्यर्थः| केचिदेवं पठन्ति- ‘वासाकषायं ससितं पिबेद्वा तुरङ्गवर्चःस्वरसं समाक्षिकम्’ इति| लिहेत्तथा वास्तुकबीजचूर्णमित्यादि|- वास्तुकबीजचूर्णं टङ्कवास्तुकबीजचूर्णं क्षौद्रान्वितं लिहेत्| तण्डुलसाह्वयं वेति तण्डुलीयं क्षौद्रान्वितं वा लिह्यादित्यर्थः| केचिदेवं पठन्ति- ‘सतण्डुलीयं मधुनाऽवलेहयेत् सितायुतं वास्तुकमूलमेव वा’ इति| लिह्याच्चेत्यादि| लाजा भृष्टधान्यानि| अञ्जनं रसाञ्जनम्| एकं प्रधानं, एवं क्षाद्रेणेत्यर्थः| ‘लाजाञ्जनचूर्णम्’ इत्यत्र ‘कालाञ्जनचूर्णम्’ इति केचित् पठन्ति; तत्र कालाञ्जनं सौवीराञ्जनम्| सिताक्षौद्रयुतमित्यादि| तुगाख्या वंशरोचनानुकारि पार्थिवं द्रव्यं, अन्ये वंशरोचनामाहुः; तां च शर्कराक्षौद्रयुतां लिह्यात्| द्राक्षां सितामित्यादि| द्राक्षादीनि त्रीणि द्रव्याणि यष्टीमधुकेन युतानि शीतोदकेन वा लिह्यात्| पथ्यामित्यादि| पथ्या हरीतकी, रजनी हरिद्रा, एतानि हरीतकीप्रभृतीनि द्रव्याणि घृतेन सह लिह्यात्| अयं योगः कण्ठगे प्रसृते च रक्तपित्ते योज्यः| केचित् ‘रजनीं घृतं च’ इत्यत्र ‘रजनीद्वयं च’ इति पठन्ति, ते च शीतोदकेनैव लेह्यमिच्छन्ति; अयं पाठः समानतन्त्रविरोधादन्याय्यः||२९-३२||-
Adhikarana 23 (33) · Śloka 34
वासाकषायोत्पलमृत्प्रियङ्गुरोध्राञ्जनाम्भोरुहकेशराणि ||३३|| पीत्वा सिताक्षौद्रयुतानि जह्यात् पित्तासृजो वेगमुदीर्णमाशु |३४|
🔊 Audio coming soon
इदानीं वेगवति रक्तपित्ते सिद्धतमं योगमाह- वासाकषायोत्पलेत्यादि| उत्पलं नीलोत्पलं मृत् केदारमृत्तिका, अम्भोरुहकेशरं पद्मकेशरम्| कल्पनामाह- पीत्वा सिताक्षौद्रयुतानि जह्यादित्यादि| वासाकषायमुत्पलमृदादिचूर्णप्रक्षेपं सिताक्षौद्रयुतं पीत्वा नरो रक्तपित्तस्योदीर्णमुद्रिक्तं वेगमाशु जह्यात् शीघ्रं परित्यजेत्||३३||-
Adhikarana 24 (34) · Śloka 35
गायत्रिजम्ब्वर्जुनकोविदारशिरीषरोध्राशनशाल्मलीनाम् ||३४|| पुष्पाणि शिग्रोश्च विचूर्ण्य लेहो मध्वन्वितः शोणितपित्तरोगे |३५|
🔊 Audio coming soon
गायत्रिजम्ब्वर्जुनकोविदारेत्यादि| गायत्री खदिरः, अर्जुनः ककुभः, कोविदारः काञ्चनारः, अशनो बीजकः| शिग्रुः शोभाञ्जनकः||३४||-
Adhikarana 25 (35) · Śloka 36
सक्षौद्रमिन्दीवरभस्मवारि करञ्जबीजं मधुसर्पिषी च ||३५|| जम्ब्वर्जुनाम्रक्वथितं च तोयं घ्नन्ति त्रयः पित्तमसृक् च योगाः |३६|
🔊 Audio coming soon
इदानीं रक्तपित्ते त्रीन् योगानाह- सक्षौद्रमिन्दीवरभस्मेत्यादि| इन्दीवरभस्मवारि इन्दीवरक्षारोदकं सक्षौद्रं पिबेदित्येको योगः| करञ्जबीजं मधुसर्पिषा चेति करञ्जबीजं मधुसर्पिषा वा लिह्यादिति द्वितीयो योगः| जम्ब्वर्जुनाम्रक्वथितं तोयमित्यादि|- जम्ब्वादिक्वथितं तोयं सक्षौद्रं पिबेदिति तृतीयो योगः| एषु मध्ये अन्त्यौ योगौ कण्ठान्तःस्थिते रक्तपित्ते योज्यौ||३५||-
Adhikarana 26 (36) · Śloka 37
मूलानि पुष्पाणि च मातुलुङ्ग्याः पिष्ट्वा पिबेत्तण्डुलधावनेन ||३६|| घ्राणप्रवृत्ते जलमाशु देयं सशर्करं नासिकया पयो वा |३७|
🔊 Audio coming soon
मूलानीत्यादि| मातुलुङ्गो बीजपूरकः, ‘मधुकर्कटी’ इति अन्ये| घ्राणप्रवृत्ते जलमाशु देयमित्यादि| घ्राणप्रवृत्ते रक्तपित्ते सशर्करं पानीयं दुग्धं वा सशर्करं नासिकया देयम्| केचित् ‘नासिकया’ इत्यत्र ‘नासिकयोः’ इति पठन्ति||३६||-
Adhikarana 27 (37) · Śloka 37
द्राक्षारसं क्षीरघृतं पिबेद्वा सशर्करं चेक्षुरसं हिमं वा ||३७||
🔊 Audio coming soon
घ्राणप्रवृत्तेऽपरमपि नस्ययोगमाह- द्राक्षारसमित्यादि| द्राक्षारसं सशर्करं नासिकया पिबेत्, क्षीरघृतं क्षीरमथनोद्भूतं तद्वा सशर्करं नासिकया पिबेत्, इक्षुरसं हिमं वा तथैव पिबेत्, इत्थं त्रयो योगाः कल्पनीयाः| तथा च तन्त्रान्तरं- “द्राक्षारसस्य नस्यं नस्यं वा क्षीरसर्पिषः सपदि| इक्षो रसस्य नस्यं सशर्करं रक्तनुद्भवति”- इति||३७||
Adhikarana 28 (38) · Śloka 38
शीतोपचारं मधुरं च कुर्याद्विशेषतः शोणितपित्तरोगे |३८|
🔊 Audio coming soon
सर्वतन्त्रोक्तचिकित्सासङ्ग्रहार्थमाह- शीतोपचारमित्यादि| शीतोपचारं दाहादिषु बाह्येऽपि कुर्यादिति|३८|-
Adhikarana 29 (38) · Śloka 39
द्राक्षाघृतक्षौद्रसितायुतेन विदारिगन्धादिविपाचितेन ||३८|| क्षीरेण चास्थापनमग्र्यमुक्तं हितं घृतं चाप्यनुवासनार्थम् |३९|
🔊 Audio coming soon
रक्तपित्ते आस्थापनार्थं क्षीरमनुवासनार्थं च घृतमाह- द्राक्षेत्यादि| विदारिगन्धादिगणसाधितेन क्षीरेण घृतक्षौद्रसितायुतेनास्थापनं रक्तपित्तेऽग्र्यमुक्तं, तथा चानुवासनार्थं घृतं हितम्| तच्च घृतं यष्टीमधुकसाधितं, अपक्वस्य स्नेहस्य व्यापत्करत्वात्| अन्ये विदारिगन्धादिसाधितक्षीरेण घृतपाकमिच्छन्ति||३८||-
Adhikarana 30 (39-41) · Śloka 42
प्रियङ्गुरोध्राञ्जनगैरिकोत्पलैः सुवर्णकालीयकरक्तचन्दनैः ||३९|| सिताश्वगन्धाम्बुदयष्टिकाह्वयैर्मृणालसौगन्धिकतुल्यपेषितैः | निरूह्य चैनं पयसा समाक्षिकैर्घृतप्लुतैः शीतजलावसेचितम् ||४०|| क्षीरौदनं भुक्तमथानुवासयेद्घृतेन यष्टीमधुसाधितेन च | अधोवहं शोणितमेष नाशयेत्तथाऽतिसारं रुधिरस्य दुस्तरम् ||४१|| विरेकयोगे त्वति चैव शस्यते... |४२|
🔊 Audio coming soon
अपरेऽपि रक्तपित्ते आस्थापनानुवासने आह- प्रियङ्गुरोध्राञ्जनगैरिकोत्पलैरित्यादि| अञ्जनं सौवीराञ्जनम्| गैरिकं सामान्यगैरिकम्| उत्पलं नीलोत्पलं; नागकेशरमपरे| सुवर्णं सुवर्णगैरिकम्, अन्तलोपात्| कालीयकं दारुहरिद्रानुकारि द्रव्यम्| अम्बुदो मुस्ता| यष्टिकाह्वयो मधुयष्टिका| मृणालं पद्मकेशरम्| सौगन्धिकं कुमुदभेदः| प्रियङ्ग्वादिभिः सौगन्धिकान्तैस्तुल्यैः पेषितैः कल्कीकृतैः समघृतैः पयसा सहैनं रक्तपित्तिनं निरूहयेत्| ततश्च शीतलजलावसेचितं क्षीरौदनं भुक्तं पुरुषं यष्टीमधुकसाधितेन घृतेनानुवासयेत्| अधोवहं शोणितमधोगं रक्तपित्तम्| एष आस्थापनानुवासनप्रयोगः| अतिसारं रुधिरस्येति रक्तातिसारमित्यर्थः| विरेकयोगे त्वतीति विरेकातियोगे||३९-४१||-
Adhikarana 31 (42) · Śloka 42
... वाम्यश्च रक्ते विजिते बलान्वितः ||४२||
🔊 Audio coming soon
वाम्यश्च रक्ते इत्यादि| निरूहनानुवासनाभ्यां विजिते रक्तपित्ते सति बलान्वितः पुरुषो वाम्यो वामनीयः, अधोमार्गप्रवृत्तिनिवारणार्थम्| अत्र कार्तिककुण्डेन बहूक्तं, तच्च ग्रन्थगौरवभयात् परिहृतम्||४२||
Adhikarana 32 (43) · Śloka 43
एवंविधा उत्तरबस्तयश्च मूत्राशयस्थे रुधिरे विधेयाः |४३|
🔊 Audio coming soon
विशिष्टस्थानगे रक्तपित्ते विशिष्टचिकित्सामाह- एवंविधा उत्तरतबस्तयश्चेत्यादि| एवंविधा अनन्तरोक्तास्थापनानुवासनतुल्याः| मूत्राशयस्थे बस्तिस्थे मूत्रस्रोतःप्रवृत्ते च|४३|-
Adhikarana 33 (43) · Śloka 43
प्रवृत्तरक्तेषु च पायुजेषु कुर्याद्विधानं खलु रक्तपैत्तम् ||४३||
🔊 Audio coming soon
अर्शसः अतिप्रवृत्तौ च रक्तपित्तचिकित्सितमतिदिशन्नाह- प्रवृत्तरक्तेष्वित्यादि| पायुजेषु अर्शःसु||४३||
Adhikarana 34 (44) · Śloka 44
विधिश्चासृग्दरेऽप्येष स्त्रीणां कार्यो विजानता | शस्त्रकर्मणि रक्तं च यस्यातीव प्रवर्तते ||४४||
🔊 Audio coming soon
विधिश्चासृग्दरेऽप्येष इत्यादि| एष विधिः अधोगरक्तपित्तघ्नो विधिः| विजानता वैद्येन असृग्दरे कार्यः| न केवलमसृग्दरे एव एष विधिः कार्यः किन्तु यस्य शस्त्रकर्मणि कृते अतिरक्तं प्रवर्तते तस्याप्येष एव विधिः कार्यः| केचिदत्रैवासृग्दरलक्षणं पठन्ति| तद्यथा- ‘दहेदधो वङ्क्षणदेशमस्याः श्रोणीं च पृष्ठं च तथैव वृक्कौ | असृग्दरं चापि करोति नार्या गर्भाशयार्तिं त्वचिरेण घोराम्’- इति| ये त्वत्र पठन्ति ते शुक्रशोणितशुद्धावसृग्दरलक्षणं न पठन्ति||४४||
Adhikarana 35 (45) · Śloka 45
त्रयाणामपि दोषाणां शोणितेऽपि च सर्वशः | लिङ्गान्यालोक्य कर्तव्यं चिकित्सितमनन्तरम् ||४५||
🔊 Audio coming soon
किं रक्तपित्तघ्नो विधिः रक्तपित्ताख्ये रोगेऽसृग्दरे शस्त्रकर्मण्यतिरक्तप्रवृत्तौ चाविशेषेणैव कार्य उत किञ्चिदपेक्ष्येत्याह- त्रयाणामपि दोषाणामित्यादि| त्रयाणामपि दोषाणां पृथग्द्वन्द्वसमस्तानां लिङ्गानि शोणितवर्णनीयोक्तानि शोणिते सर्वश आलोक्यानन्तरं चिकित्सितं कर्तव्यं, असृग्दरे वा शस्त्रकर्मणि रक्तातिप्रवृत्तौ रक्तपित्तघ्नो विधिः कार्य इत्यर्थः| अत्राधोवहस्य नाशनं यापनं वाऽभिप्रेतं, तेन सान्निपातिकस्याक्षीणमांसाग्नेर्याप्यत्वमभिप्रेतम्| अत्र कार्तिककुण्ड आपातनिकापूर्वं गर्भिणीत्यादिपाठं पठति, स चाभावान्न लिखितः||४५||
Adhikarana puShpikA · Śloka 45
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे रक्तपित्तप्रतिषेधो नाम (सप्तमोऽध्यायः, आदितः) पञ्चचत्वारिंशत्तमोऽध्यायः ||४५||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रे कायचिकित्सायां पञ्चचत्वारिंशत्तमोऽध्यायः||४५||