Adhikarana 1 (1-2) · Śloka 2
अथातो मूत्रकृच्छ्रप्रतिषेधमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
मूत्राघातप्रतिषेधानन्तरं बस्तिगतत्वसामान्यान्मूत्रकृच्छ्रप्रतिषेधारम्भः- अथात इत्यादि| मूत्रकृच्छ्रं दुःखेन मूत्रप्रवृत्तिः| ‘मूत्रकृच्छ्रप्रतिषेधम्’ इत्यत्र ‘मूत्रोपघातप्रतिषेधं’ इत्यन्ये पठन्ति, तेऽप्युपघातशब्देन कृच्छ्रतां वदन्ति; अपरे ‘मूत्रदोषप्रतिषेधं’ इति पठन्ति, तत्रापि तादृगेवाभिप्रायः| ननु अश्मरीमूत्राघातोदावर्तादिषु मूत्रकृच्छ्रस्योक्तत्वात् किमर्थ पुनरत्र तदभिधानं? सत्यं, चिकित्सालक्षणकार्यभेदात् तथा समानतन्त्रेऽपि पृथङ्निर्दिष्टत्वाच्च पुनस्तेषामुपादानम् केचिच्च पुनरुक्तिभयादेवामुमध्यायं न पठन्ति||१-२||
Adhikarana 2 (3) · Śloka 3
वातेन पित्तेन कफेन सर्वैस्तथाऽभिघातैः शकृदश्मरीभ्याम् |
तथाऽपरः शर्करया सुकष्टो मूत्रोपघातः कथितोऽष्टमस्तु ||३||
वातेनेत्यादि| मूत्रोपघातो मूत्रकृच्छ्र एवेत्यर्थः| अष्टम इति सङ्ख्याकरणं नानाप्रकारस्याप्यश्मरीजस्य मूत्रकृच्छ्रस्यैकत्वेन ग्रहणमिति प्रतिपादनार्थम्| केचिदुत्तरार्धमीदृशं पठन्ति,- “शुक्तोद्भवं शर्करया च कष्टं मूत्रस्य कृच्छ्रं प्रवदन्ति तज्ज्ञाः” इति| स चानार्षः पाठः||३||
Adhikarana 3 (4) · Śloka 4
अल्पमल्पं समुत्पीड्य मुष्कमेहनबस्तिभिः |
फलद्भिरिव कृच्छ्रेण वाताघातेन मेहति ||४||
वातकृच्छ्रलक्षणमाह- अल्पमल्पमित्यादि| अल्पमल्पं स्तोकं स्तोकं, समुत्पीड्य अर्थवशान्मुष्कमेहनादिकमेव पीडयित्वा| मुष्कः अण्डं, मेहनं लिङ्गं, बस्तिः मूत्राधारः| फलद्भिरिव स्फुटद्भिरिव| कृच्छ्रेण दुःखन; एतत् पदं मेहतीत्यत्र सम्बन्धनीयम्| वाताघातेन वातकृच्छ्रेणेत्यर्थः| मेहति मूत्रयति| कार्तिककुण्डोऽमुं पाठामन्यथा पठति, स चाभावान्न दर्शितः||४||
Adhikarana 4 (5) · Śloka 5
हारिद्रमुष्णं रक्तं वा मुष्कमेहनबस्तिभिः |
अग्निना दह्यामानाभैः पित्तघातेन मेहति ||५||
पित्तकृच्छ्रलक्षणमाह- हारिद्रमुष्णमित्यादि| हारिद्रं हरिद्रावर्ण, रक्तं रक्तवर्णम् एतद्द्वयं न्यूनाधिकपित्तप्रकोपवशत्| दह्यमानाभैः अत्यन्तदाहपरीतैः| पित्ताघातेन पित्तकृच्छ्रेण||५||
Adhikarana 5 (6) · Śloka 6
स्निग्धं शुक्लमनुष्णं च मुष्कमेहनबस्तिभिः |
संहृष्टरोमा गुरुभिः श्लेष्माघातेन मेहति ||६||
कफकृच्छ्रलक्षणमाह- स्निग्धमित्यादि| अनुष्णम् ईषदुष्णम्| संहृष्टरोमा उद्धर्षितरोमा| गुरुभिः भारिकैः| श्लेष्माघातेन श्लेष्मकृच्छ्रेण||६||
Adhikarana 6 (7) · Śloka 7
दाहशीतरुजाविष्टो नानावर्णं महुर्मुहुः |
ताम्यमानस्तु कृच्छ्रेण सान्निपातेन मेहति ||७||
सान्निपातिकलक्षणमाह- दाहशीतेत्यादि| आविष्टो युक्तः| नानावर्ण पीतरक्तशुक्लादिवर्णम्| ताम्यमानोऽत्यर्थ तमः प्रविशन्| कृच्छ्रेण अतिकष्टेन||७||
Adhikarana 7 (8-9) · Śloka 10
मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु च |
स्रोतःसु मूत्राघातस्तु जायते भृशवेदनः ||८||
वातबस्तेस्तु तुल्यानि तस्य लिङ्गानि लक्षयेत् |
शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः ||९||
आध्मानं च सशूलं च मूत्रसङ्गं करोति हि |१०|
मूत्रवाहिषु शल्येनेत्यादि||८-९||
Adhikarana 8 (10) · Śloka 10
अश्मरीहेतुकः पूर्वं मूत्राघात उदाहृतः ||१०||
अश्मरीत्यादि| पूर्व निदानस्थानेऽश्मरीहेतुको मूत्राघात उदाहृतः||१०||
Adhikarana 9 (11-14) · Śloka 15
अश्मरी शर्करा चैव तुल्ये सम्भवलक्षणैः |
शर्कराया विशेषं तु शृणु कीर्तयतो मम ||११||
पच्यमानस्य पित्तेन भिद्यमानस्य वायुना |
श्लेषमणोऽवयवा भिन्नाः शर्करा इति सञ्ज्ञिताः ||१२||
हृत्पीडा वेपथुः शूलं कुक्षौ वह्निः सुदुर्बलः |
ताभिर्भवति मूर्च्छा च मूत्राघातश्च दारुणः ||१३||
मूत्रवेगनिरस्तासु तासु शाम्यति वेदना |
यावदन्या पुनर्नैति गुडिका स्रोतसो मुखम् ||१४||
शर्करासम्भवस्यैतन्मूत्राघातस्य लक्षणम् |१५|
यद्यपि शर्कराकृच्छ्रमश्मरीजकृच्छ्रं च तुल्यं तथाऽपि किञ्चिद्भेदमाश्रित्य शर्कराकृच्छ्रं भिन्नमाह- अश्मरीत्यादि| पच्यमानस्येति पक्वस्येत्यर्थः, अर्थवशात् श्लेष्मण एव; भिद्यमानस्येति भिन्नस्येत्यर्थः, भाविनि भूतवदुपचारात्| वेपथुः कम्पः| सुदुर्बलो मन्दः| ताभिः शर्कराभिः| मूत्रवेगनिरस्तासु मूत्रस्याधोवेगेन निःसृतास्वित्यर्थः| नैति नागच्छति| कार्तिककुण्डस्त्वमुं पाठं बहुधा व्याकुलीकृत्य पठति, स तु ग्रन्थगौरवभयात् परित्यक्तः| यद्यपि अश्मरीशर्करामूत्रकृच्छ्रे निदानस्थाने भणिते, तथाऽपि प्रकरणवशात् किञ्चिल्लक्षणाधिक्याच्चात्रापि भणिते||११-१४||
Adhikarana 10 (15) · Śloka 15
चिकित्सितमथैतेषामष्टानामपि वक्ष्यते ||१५||
इदानीं मूत्रकृच्छ्रचिकित्सामाह- चिकित्सितमित्यादि| एतेषां मूत्रकृच्छ्राणाम्||१५||
Adhikarana 11 (16) · Śloka 16
अश्मरीं च समाश्रित्य यदुक्तं प्रसमीक्ष्य तत् |
यथादोषं प्रयुञ्जीत स्नेहादिमपि च क्रमम् ||१६||
तदैव चिकित्सितमतिदेशेनाह- अश्मरीत्यादि| अश्मरीमाश्रित्य यत् प्राक् चिकित्सितमुक्तं स्नेहादिक्तमश्च, तद्यथादोषं प्रसमीक्ष्य प्रयुञ्जीत कुर्यात्| एतेनैतदुक्तम्- अश्मरीचिकित्सिते वातादिभेदेन यो विधिरुक्तस्तं तथा स्नेहादिमपि च क्रमं प्रयुञ्जीत कुर्यात्| चकारात् प्रागुक्तमूत्राघातचिकित्सितमपि||१६||
Adhikarana 12 (17-18) · Śloka 19
श्वदंष्ट्राश्मभिदौ कुम्भीं हपुषां कण्टकारिकाम् |
बलां शतावरीं रास्नां वरुणं गिरिकर्णिकाम् ||१७||
तथा विदारिगन्धादिं संहृत्य त्रैवृतं पचेत् |
तैलं घृतं वा तत् पेयं तेन वाऽप्यनुवासनम् ||१८||
दद्यादुत्तरबस्तिं च वातकृच्छ्रोपशान्तये |१९|
इदानीं वातकृच्छ्रचिकित्सितमाह- श्वदंष्ट्रेत्यादि| श्वदंष्ट्रागोक्षुरकः| अश्मभित् पाषाणभेदः| कुम्भी स्थलकुम्भी यस्यास्त्वक् वक्रा भवति| गिरिकर्णिका अपराजिताभेदः | विदारिगन्धादिः प्रथमो गणः संहृत्य एकीकृत्य| त्रैवृतं तैलं घृतं वेति तत्र त्रिभिर्घृतवसामज्जभिर्वृतं तैलं, तैलवसामज्जभिर्वृतं घृतं वा त्रैवृतम्| तैलं घृतं वेति विकल्पः सात्म्यापेक्षया वातादिबलापेक्षया वा ज्ञेयः||१७-१८||
Adhikarana 13 (19) · Śloka 20
श्वदंष्ट्रास्वरसे तैलं सगुडक्षीरनागरम् ||१९||
पक्त्वा तत् पूर्ववद्योज्यं तत्रानिलरुजापहम् |२०|
अपरमपि वातकृच्छ्रचिकित्सितमाह- श्वदंष्ट्रेत्यादि| कल्कद्रव्यमध्ये पठितमपि क्षीरं द्रवत्वेन बोद्धव्यम्| योज्यं पानानुवासनोत्तरबस्तिषु| अनिलरुजापहं वातोत्थकृच्छ्रनाशनमित्यर्थः||१९||-
Adhikarana 14 (20) · Śloka 21
तृणोत्पलादिकाकोलीन्यग्रोधादिगणैः कृ(शृ)तम् ||२०||
पीतं घृतं पित्तकृच्छ्रं नाशयेत क्षीरमेव वा |२१|
पित्तत्थकृच्छ्रभेषजमाह- तृणोत्पलादीत्यादि| घृतं तृणादिसंस्कृतं ग्राह्यां; क्षीरमेव वेति विकल्पः सात्म्यापेक्षयाऽग्निबलापेक्षया च भवति||२०||-
Adhikarana 15 (21) · Śloka 21
दद्यादुत्तरबस्तिं च पित्तकृच्छ्रोपशान्तये ||२१||
अन्यदपि पित्तकृच्छ्रभेषजमाह- दद्यादित्यादि| दद्यादुत्तरबस्तिमिति ‘तृणादिसंस्कृतस्नेहेन’ इति शेषः| यद्यपि वक्ष्यमाणत्रिविधबस्तिग्रहणेनोत्तरबस्तिर्गृहीतः, तथाऽपि पित्तकृच्छ्रे उत्तरबस्तिरत्यन्तं हित इति ज्ञापानार्थ पृथगप्युत्तरबस्तितर्निर्दिष्टः||२१||
Adhikarana 16 (22) · Śloka 22
एभिरेव कृतः स्नेहस्त्रिविधेष्वपि बस्तिषु |
हितं विरेचनं चेक्षुक्षीरद्राक्षारसैर्युतम् ||२२||
अपरमपि पित्तकृच्छ्रविधिमाह- एभिरित्यादि| एभिरेव अनन्तरोक्तैस्तृणोत्पलादिप्रभृतिभिरेव| त्रिविधेषु बस्तिषु निरुहानुवासनोत्तरबस्तिषु| अन्ये निरुहस्थाने शिरोबस्तिं मन्यन्ते; तन्न, समानतन्त्रविरोधात्| रसशब्द इक्षावपि सम्बन्धनीयः||२२||
Adhikarana 17 (23) · Śloka 23
सुरसोषकमुस्तादौ वरुणादौ च यत् कृतम् |
तैलं तथा यवाग्वादि कफाघाते प्रशस्यते ||२३||
कफकृच्छ्रचिकित्सितमाह- सुरसोषकेत्यादि| सुरसादौ ऊषकादौ मुस्तादौ वरुणादौ च यत् कृतं तैलं, तथा यवाग्वादि, तत् कफाघाते प्रशस्यते| यवाग्वादिरित्यत्र आदिशब्दाद्विलेप्यादयः; ते च सुरसादिसंस्कृता एव बोद्वव्याः| कफाघाते कफकृच्छ्रे||२३||
Adhikarana 18 (24) · Śloka 24
यथादोषोच्छ्र्यं कुर्यादेतानेव च सर्वजे |२४|
सन्निपातोत्थमूत्रकृच्छ्रचिकित्सामाह- यथादोषोच्छ्र्यमित्यादि|- यथादोषाधिक्यम्| एतानेवेति अनन्तरोक्तवातादिकृच्छ्रहरयोगान्| सर्वजे सान्निपातिके कृच्छ्रे| एतेनैतदुक्तं भवति- सान्निपातिके कृच्छ्रे यस्य दोषस्याधिक्यं द्दश्यते तद्दोषोक्तकृच्छ्रहरयोगोत्कटान् पूर्वोक्तवातादिकृच्छ्रयोगानेकीकृत्य कुर्यादिति|२४|-
Adhikarana 19 (24) · Śloka 25
फल्गुवृश्चीरदर्भाश्मसारचूर्णं च वारिणा ||२४||
सुरेक्षुरसदर्भाम्बुपीतं कृच्छ्ररुजापहम् |२५|
अपरमपि सान्निपातिककृच्छ्रयोगमाह- फल्गुवृश्चीरेत्यादि| फल्गुवृश्चीरादीनां चूर्ण वारिणा पीतं यथादोषं सुरेक्षुरसादिभिश्च पीतं कृच्छ्ररुजापहं, अर्थवशात् सान्निपातिककृच्छ्ररुजापहं भवतीति पिण्डार्थः| फल्गुः काकोदुम्बरिका| वृश्चीरः शुक्लपुनर्नवा| अश्मसारं शिलाजतु ||२४||-
Adhikarana 20 (25) · Śloka 25
तथाऽभिघातजे कुर्यात् सद्योव्रणचिकित्सितम् ||२५||
अभिघातजकृच्छ्रस्यातिदेशेन चिकित्सितमाह- तथेत्यादि| अभिघातजे अभिघातजमूत्रकृच्छ्रे, सद्योव्रणचिकित्सितमित्यत्र लुप्तचकारनिर्देशात् वातकृच्छ्रशान्तिक्रिया कार्या||२५||
Adhikarana 21 (26) · Śloka 26
मूत्रकृच्छ्रे शकृज्जाते कार्या वातहरी क्रिया |
स्वेदावगाहावभ्यङ्गबस्तिचूर्णक्रियास्तथा ||२६||
परीषकृच्छ्रेऽतिदेशेन चिकित्सितमाह- मूत्रेत्यादि| शकृज्जे तामेव वातहरीं क्रियां विवृणोति- स्वेदावगाहावित्यादि| स्वेदादयश्चात्र वातव्याध्युक्ता ग्राह्याः||२६||
Adhikarana 22 (27) · Śloka 27
ये त्वन्ये तु तथा कृच्छ्रे तयो प्रोक्तः क्रियाविधिः ||२७||
अश्मरीशर्करोत्पन्नयोः कृच्छ्रयोश्चिकित्सामाह- ये इत्यादि| ये द्वे अन्ये कृच्छ्रे अश्मरीशर्करोत्थे तयोः क्रियाविधिः प्रोक्तः अश्मरीशर्कराचिकित्सिते| अपरे ‘द्वौ तथाऽन्यौ तु यौ कृच्छ्रौ’ इति पठन्ति, तत्रापि स एवार्थः||२७||
Adhikarana puShpikA · Śloka 59
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्रकृच्छ्रप्रतिषेधो नाम (एकविंशतितमोऽध्यायः, आदितः) एकोनषष्ठतमोऽध्यायः ||५९||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रे एकोनषष्ठितमोऽध्यायः||५९||