Adhikarana 1 (1-2) · Śloka 2
अथातोऽमानुषोपसर्गप्रतिषेधमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
कायचिकित्सापारिशेष्यात् भूतविद्यामारब्धुकाम आदौ मूत्रकृच्छ्रानन्तरं मूत्रकृच्छ्रे प्रतिक्षणमल्पाल्पं मेहतोऽसम्यगाचमनेनाशौचादमानुषोपसर्गसम्भावनायाममानुषजन्यव्याधिप्रतिषेधारम्भो युक्त इत्यत आह- अथात इत्यादि| अथेति कायचिकित्सानन्तरम्| अत इति हेतौ| हेतुश्चपातनिकायामेव प्रकटीकृतः| अमानुषा देवादिग्रहाः, तेषामुपसर्ग उपद्रवः, तस्य प्रतिषेधः चिकित्सितं, तद्विविधप्रकारमाभिमुख्येन शिष्याणां व्याख्यास्यामः| अन्ये तु ‘अमानुषोपसर्ग’ इत्यत्र ‘अमानुषाबाध’ इति पठन्ति; अमानुषाणि भूतानि, तेषामाबाधा पीडेति व्याख्यानयन्ति||१-२||
Adhikarana 2 (3) · Śloka 3
निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः |
इति यत् प्रागभिहितं विस्तरस्तस्य वक्ष्यते ||३||
निशाचरेभ्य इत्यादि| अत्र निशाचरा देवादिग्रहा उच्यन्ते, निशाविहारित्वादसृगादिभोजनत्वाच्च; यद्व्रणितोपासनीये ‘रक्षांसि’ इत्युक्तं तद्रक्षसां विशेषेण तथास्वरूपख्यापनाय| प्रागिति द्विव्रणीये| अन्ये तु निशाचरशब्देन राक्षसानेवाहुः||३||
Adhikarana 3 (4) · Śloka 4
गुह्यानागतविज्ञानमनवस्थाऽसहिष्णुता |
क्रिया वाऽमानुषी यस्मिन् सग्रहः परिकीर्त्यते ||४||
इदानीं सामान्यग्रहलक्षणमाह- गुह्येत्यादि| गुह्यां गुप्तम्, अनागतं भावि, तयोर्विज्ञानम्| अनवस्था अनवस्थितिः| असहिष्णुता क्रोधनत्वम्| अमानुषी क्रिया वरदानादिका, लङ्गनप्लवनादिकेत्यन्ये, अमानुषी या मानुषैः कर्तुं न शक्यते| यस्मिन् आतुरे| सग्रहो ग्रहसहितः||४||
Adhikarana 4 (5) · Śloka 5
अशुचिं भिन्नमर्यादं क्षतं व यदि वाऽक्षतम् |
हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि वा ||५||
यादृशं भूतानि हिंसन्ति, यादृशं वा जिघृक्षन्ति, तमाह- अशुचिमित्यादि| भिन्नमर्यादं त्यक्तोचितक्रमम्, अभक्ष्यभक्षणे अगम्यागमने तथा हिंसादौ च प्रवृत्तत्वात्; क्षतं व्रणितम्, अक्षतं व्रणरहितमपि शौचादिहीनं हिंस्युः| हिंसाविहारो वधक्रीडा, तदर्थं; सत्कारार्थं पूजार्थं; अन्ये विहारशब्देन रतिं मन्यन्ते, तत्र हिंसायां या रतिस्तदर्थम्||५||
Adhikarana 5 (6) · Śloka 6
असङ्ख्येया ग्रहगणा ग्रहाधिपतयस्तु ये |
व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथाऽष्टधा ||६||
ग्रहाणामसङ्ख्येयत्वं ग्रहाधिपानां चाष्टत्वं दर्शयन्नाह- असङ्ख्येया इत्यादि| ग्रहाधिपतयो देवदैत्यादयः| तुशब्दः पुनरर्थे| व्यज्यन्ते पृथक् प्रतीयन्ते| विविधाकारा विविधलक्षणाः| ते पुनरष्टधा भिद्यन्ते| अन्ये तु ‘ग्रहाधिपतिभिस्तु ते| व्यञ्जनैः’ इति पठित्वा व्याख्यानयन्ति- ते ग्रहगणा यद्यप्यसङ्ख्येयास्तथाऽपि ग्रहाधिपतिभिः स्वस्वामिभिः कृत्वा अष्टधा भिद्यन्ते अष्टभेदभिन्ना भवन्तीत्यर्थः; किंविशिष्टास्ते? व्यञ्जनैर्विविधाकारा विलक्षणाः||६||
Adhikarana 6 (7) · Śloka 7
देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः |
रक्षांसि या चापि पिशाचजातिरेषोऽष्टको देवगणो ग्रहाख्यः ||७||
तेषामष्टविधत्वमाह- देवतास्तथेत्यादि| दीव्यन्तीति देवाः| तेषां देवानां शत्रुगणा दैत्यसमूहाः| गन्धर्वा देवगायना हाहाहूहूप्रभृतयः| यक्षाः कुबेरादयः | पितरः अग्निष्वात्तादयः| भुजङ्गा वासुकिप्रभृतयः| रक्षांसि मनुष्यभक्षणकारीणि हेतिप्रहेतिकुलजातानि| पिशाचाः पिशिताशानाः, तेषां जातिः||७||
Adhikarana 7 (8) · Śloka 8
सन्तुष्टः शुचिरपि चेष्टगन्धमाल्यो निस्तन्द्री ह्यवितथसंस्कृतप्रभाषी |
तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्यण्यो भवति नरः स देवजुष्टः ||८||
देवादिग्रहगृहीतानां प्रत्येकं लक्षणमाह- सन्तुष्ट इत्यादि| शुचिः शौचयुक्तः| इष्टानि अभिलषितानि गन्धमाल्यानि यस्य सः; गन्धाः कुङ्कुमचन्दनादिकाः, माल्यानि पुष्पाणि| ‘शुचिरपि चेष्टमाल्यगन्ध’ इत्यत्रान्ये ‘शुचिरहतेष्टगन्धमाल्य’ इति पठन्ति, अनुपहतगन्धमाल्य इति व्याख्यानयन्ति| अवितथसंस्कृतप्रभाषी अवितथप्रभाषी संस्कृतप्रभाषी च, अवितथं यथार्थम् स्थिरनयनो निमेषरहितः||८||
Adhikarana 8 (9) · Śloka 9
संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः |
सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति च देवशत्रुजुष्टः ||९||
संस्वेदीत्यादि| संस्वेदी प्रस्वेदयुक्तः| जिह्माक्षो वक्रलोचनः| विमार्गदृष्टिः विमार्गदर्शनः, नास्तिक इत्यर्थः| अन्नं भक्तादि, पानं जलादि, तेषां जातैः समूहैः| दुष्टात्मा दुष्टस्वभावः| देवशत्रुजुष्टो दैत्यग्रहजुष्ट इत्यर्थः||९||
Adhikarana 9 (10) · Śloka 10
हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः |
नृत्यन् वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः ||१०||
हृष्टात्मेत्यादि| हृष्टात्मा हर्षयुक्तः| पुलिनवनान्तरोपसेवी पुलिनवनमध्ये क्रीडनशीलः; पुलिनं जलमध्योत्थितभूतप्रदेशः| स्वाचारः शोभनाचारः| प्रियाणि परिगीतगन्धमाल्यानि यस्य स तथा| चारु यथा भवति एवं नृत्यम् अल्पशब्दं यथा तथा प्रहसति ईषद्धसतीत्यर्थः| एवम्भूतो मनुष्यो गन्धर्वग्रजुष्टो ज्ञेयः||१०||
Adhikarana 10 (11) · Śloka 11
ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतमतिरल्पवाक् सहिष्णुः |
तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः ||११||
ताम्राक्ष इत्यादि| ताम्राक्षो रक्तनेत्रः| प्रियतनुरक्तवस्त्रधारी कमनीयसूक्ष्मरक्तवस्त्रपरिधानशीलः| गम्भीरो गम्भीरशीलः, प्रचुरसत्त्व इत्यर्थः द्रुतमतिः उद्भान्तमनाः, अल्पवाक् अल्पवक्ता, सहिष्णुः क्षमायुक्तः||११||
Adhikarana 11 (12) · Śloka 12
प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चापसव्यवस्त्रः |
मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भुक्तो भवति पितृग्रहाभिभूतः ||१२||
प्रेतेभ्य इत्यादि| प्रेतेभ्यो मृतेभ्यः, विसृजति ददाति, संस्तरेषु दर्भसंस्तरेषु, पिण्डान् अन्नमयान्, शान्तात्मा शान्तस्वभावः| जलमपि चेति न परं दर्भसंस्तरेषु पिण्डान् ददाति अपि तु अपसव्यहस्तो दक्षिणहस्तो जलमपि ददाति चेत्यर्थः| पायसः क्षीरसिद्धाः तण्डुलाः| अभिकामः अभिलाषुकः| तद्भुक्तः तिलादिभोजनः||१२||
Adhikarana 12 (13) · Śloka 13
भूमौ यः प्रसरति सर्पवत् कदाचित् सृक्किण्यौ विलिखति जिह्वया तथैव |
निद्रालुर्गडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजङ्गमेन जुष्टः ||१३||
य इत्यादि| यो भूमौ सर्पवत् प्रसरति उरसा भ्रमति स भुजङ्गमेन जुष्ट इति सम्बन्धः| सृक्किण्यौ ओष्ठप्रान्तौ| विलिखति विलेढि, धातुनामनेकार्थकत्वात्| तथैवेति सर्पवत्| अन्ये तु ‘तथैव’ इत्यत्र ‘प्रसक्तं’ इति पठन्ति, तत्र प्रसक्तं सन्ततं विलेढीत्यर्थः||१३||
Adhikarana 13 (14) · Śloka 14
मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः |
क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड् भवति च रक्षसा गृहीतः ||१४||
मांसासृगित्यादि| विविधाः सुराविकारा माध्वीकादयः| लिप्सुः आस्वादयितुमिच्छुः| शौचद्विट् शौचं द्वेष्टि अशुचिरित्यर्थः|||१४||
Adhikarana 14 (15) · Śloka 15
उद्धस्तः कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः |
बह्वाशी विजनहिमाम्बुरात्रिसेवी व्याविग्नो भ्रमति रुदन् पिशाचजुष्टः ||१५||
उद्धस्त इत्यादि| उद्धस्तो विकृतदर्शनः| कृशो दुर्बलः| परुषः कर्कशः| चिरप्रलापी चिरकालं बहुक्षणं व्याप्य प्रलापी| अतिलोलः अतिचपलः| अन्ये तु ‘अतिलोलुः’ इति पठित्वा अशनलोलुप इति व्याख्यानयन्ति, यथा- भीमो भीमसेन इति| बह्वाशी प्रचुरभोक्ता| विजनं निर्जनस्थानं, हिमाम्बुसेवी शीताम्बुसेवी, रात्रिसेवी रात्रिविहारीत्यर्थः| व्याविग्न उद्विग्नः| अन्ये त्वत्र ‘व्याचेष्टं’ इति पठन्ति, विरुद्धचेष्टं यथा भवति तथा भ्रमतीत्येवं व्याख्यानयन्ति||१५||
Adhikarana 15 (16) · Śloka 16
स्थूलाक्षस्त्वरितगतिः स्वफेनलेही निद्रालुः पतति च कम्पते च योऽति |
यश्चाद्रिद्विरदनगादिविच्युतः सन् संसृष्टो न भवति वार्धकेन जुष्टः ||१६||
असाध्यलक्षणमाह- स्थूलाक्ष इत्यादि| स्वफेनलेहीति एतेनास्य मुखे फेनागमनमप्युक्तम्| यो ग्रहेण संसृष्टः स्थूलाक्ष इत्यादिलक्षणयुक्तः स्यात् स न भवति विनश्यतीत्यर्थः| यश्च अद्र्यादेर्विच्युतः पतितः सन् ग्रहेण संसृज्यते सोऽपि विनश्यति| अद्रिः पर्वतः, द्विरदो हस्ती, नगो वृक्षः, आदिशब्दात् श्वभ्रनदीतटादयः| वार्धकेन जुष्टः वृद्धभावेन गृहीत इत्यर्थः; अन्ये ‘वर्धकेन’ इति पठन्ति, वर्धकेन छेदकेन हिंसार्थिना केनचिद्ग्रहेण जुष्टो गृहीत इति व्याख्यानयन्ति||१६||
Adhikarana 16 (17-18) · Śloka 18
देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि |
गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ ||१७||
कृष्णक्षये च पितरः पञ्चम्यामपि चोरगाः |
रक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति च ||१८||
इदानीं देवादिग्रहाणां ग्रहणकालमाह- देवग्रहा इत्यादि| असुरा असुरग्रहाः| सन्ध्ययोरपीत्यत्र अपिशब्दः पादपूरणे| प्रायोशोऽष्टम्यामिति प्रायःशब्दात् सन्धययोरपि गन्धर्वा विशन्तीति लभ्यते| पितरः पितृग्रहाः| कृष्णक्षये कृष्णपक्षक्षये, अमावस्यायामित्यर्थः| पञ्चम्यामपीति अपिशब्दात् कृष्णपक्षक्षयेऽपि| उरगा नागग्रहाः||१७-१८||
Adhikarana 17 (19) · Śloka 19
दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा |
स्वमणिं भास्करस्योस्रा यथा देहं च देहधृक् |
विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम् ||१९||
ननु, देहं विशन्तो ग्राहाः कुतो न लक्ष्यन्त इत्याह- दर्पणादीनित्यादि| दर्पण आदर्शः, आदिशब्दात् जलस्नेहखङ्गादिग्रहणम्| स्वमणिं सूर्यकान्तं, भास्करयोस्राः सूर्यरश्मयः| देहं गर्भशरीरं, देहधृक् जीवः, अन्ये देहधृक्शब्देन मनः प्रतिपादयन्ति| ननु, भूतैः शरीरेऽनुप्रवेशः क्रियते न तु शरीरिणि, तत् कथं शरीरिणमिति? उच्यते- अत्र शरीरिशब्देन शरीरमभिप्रेतं, स्थानिनि स्थानोपचारात्| यथा छायाशीतोष्णादयो दर्पणप्राणिप्रभृतीन् विशन्तो न दृश्यन्ते तद्वद्ग्रहा अपीत्यर्थः| अत्र छायादिदृष्टान्तचतुष्टयेन आद्यैर्हेतुभिः शरीरं क्षोभयित्वैवानुप्रविश्य लिङ्गैरात्मानं दर्शयन्तीत्यर्थः| यथा देहं च देहधृगित्यनेन स्वमूर्तिमन्तर्निधाय विशन्तीति प्रदर्शितम्||१९||
Adhikarana 18 (20) · Śloka 20
तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमाश्च सत्यम् |
गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् ||२०||
इदानीं ग्रहाणां तीव्रतपोनियमादियुक्तत्वं प्रभाववत्तां च दर्शयितुमाह- तपांसि तीव्राणीत्यादि| तपः तपनलक्षणम् उपवासादि| व्रतानि शास्त्रोदितविधिना भोजनादिनियमनादि| धर्मः कायवाङ्मनसां सुचरितम्| गुणाः तथाऽष्टाविति अणिमा, लघिमा, महिमा, गरिमा, प्राप्तिः, प्राकाम्यं ईशित्वं, वशित्वं, इत्यष्टौ; अन्ये तु- “आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया| दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम्”- इत्यष्टविधमैश्चर्यमाहुः| तेषु ग्रहेष्वेते गुणा नित्या न कादाचित्काः| व्यस्ता द्वित्रिचतुराः| समस्ताः सर्वे| यो यस्य प्रभाव इति यथाप्रभावम्| तत्र व्यस्ता गुणा असुरादिग्रहाणां, समस्ता देवग्रहाणाम्||२०||
Adhikarana 19 (21) · Śloka 21
न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति |
ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः ||२१||
तपोनियमादियुक्ता हि देवादिग्रहाः कथञ्चिदप्यशुचिं देहं नाविशन्तीत्याह- न ते मनुष्यैरित्यादि| ते देवयोनयो मनुष्यैः सह न संविशन्ति एकत्र न भवन्तीत्यर्थः| न वा मनुष्यान् मानुषदेहान् क्वचिदाविशन्ति अनुप्रविशन्तीत्यर्थः| ये पुनर्वैद्या आविशन्तीति मोहादज्ञानात् प्रवदन्ति ते वैद्या भूतविद्याविषयादपोह्या अपसारणीयास्त्याज्या इत्यर्थः| ‘अपोह्या’ इत्यत्र ‘अपेता’ इत्यन्ये पठन्ति, तत्र ग्रहज्ञानाद्बाह्या इत्यर्थः||२१||
Adhikarana 20 (22) · Śloka 22
तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपह्मसङ्ख्याः |
असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तमाविशन्ति ||२२||
के तर्हि गृह्णन्तीत्याह- तेषामित्यादि| तेषां देवादीनां, परिचारकाः प्रेष्याः कर्मकरा इत्यर्थः| कोटी शतलक्षप्रमाणं, अयुतं दशसहस्रं, एतेन कोट्याः शतलक्षपरिमिताया यत् सहस्रं तादृशैर्दशभिः सहस्रैरत्रायुतं बोद्धव्यं, तेषां पद्मं चतुर्दशप्रमाणं तदेव सङ्ख्या येषां ते तथा| प्राक् ‘असङ्ख्येया ग्रहगणा’ इत्यभिधाय अत्र कोट्यादिसङ्ख्याया अभिधानं ग्रहगणानामन्योन्यसादृश्यख्यापनार्थम्| सुभीमा अत्यर्थं भयङ्कराः| निशाविहारा रात्रौ भ्रमणशीलाः||२२||
Adhikarana 21 (23) · Śloka 23
निशाचराणां तेषां हि ये देवगणमाश्रिताः |
ते तु तत्सत्त्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः ||२३||
देवाद्यनुचराणां स्वप्रभूणामिवानुकारो भवतीत्याह- निशाचराणामित्यादि| तेषां निशाचराणामनुचराणां मध्ये य अनुचरा यं देवगणमाश्रितास्ते तदञ्जनाः तल्ल्क्षणा विज्ञेया इति सम्बन्धः| कुत इत्याह- तत्सत्वसंसर्गात् देवादिसत्त्वसम्योगादित्यर्थः||२३||
Adhikarana 22 (24) · Śloka 24
देवग्रहा इति पुनः प्रोच्यन्तेऽशुचयश्च ये |
देववच्च नमस्यन्ते प्रत्यर्थ्यन्ते च देववत् ||२४||
देवग्रहा इत्यादि| ये पुनरनुचराः शुचयस्ते देवग्रहा इति प्रोच्यन्ते| कुतः? यतः शुचयः, शुचित्वं पुनस्तत्संसर्गादेव| देववच्च नमस्यन्ते देववन्नमस्क्रियन्ते| प्रत्यर्थ्यन्ते देववदित्यर्थः| अन्ये तु व्याख्यानयन्ति- तदञ्जनास्तद्देवाकारास्तथाविधा एव भवन्तीत्याह- अशुचयस्तु ते; ते पुनरशुचयो मोहान्धत्वादशुद्धाः, अत एव गृह्णन्ति| देववन्नमस्कारः पूजा च तदञ्जनत्वादेव||२४||
Adhikarana 23 (25) · Śloka 25
स्वामिशीलक्रियाचाराः क्रम एष सुरादिषु |
निरृतेर्या दुहितरस्तासां स प्रसवः स्मृतः ||२५||
स्वामिशीलक्रियाचारा इत्यादि| शीलं स्वभावः| क्रमश्चायं पूर्वोक्तदेवग्रहशुचित्वादिकः| सुरादिषु, देवग्रहेषु, यतस्तेऽपि स्वामिशीलक्रियाचाराः| देवग्रहा इत्यादिकं च श्लोकं कार्तिककुण्डो न पठति| तदञ्जनत्वेनैवास्यार्थस्य लब्धत्वात्| ननु, यदि ‘तत्सत्त्वसंसर्गाच्छुचयः’ तत् कथं मांसादिभुज इत्याह- निरृतेर्या दुहितर इत्यादि| निरृती रक्षसां पितामहः, तस्य या दुहितरः पुत्र्यस्तासां स देवाद्यनुचरगणः प्रसवः, अतः प्रसूतिभावं न त्यजति||२५||
Adhikarana 24 (26) · Śloka 26
सत्यत्वादपवृत्तेषु वृत्तिस्तेषां गणैः कृता |२६|
तेषां वृत्तिविषयमाह- सत्यत्वादित्यादि| सत्यत्वात् शास्त्रोक्तानुष्ठानात्| अपवृत्तेषु विपरितानुष्ठानपरेषु| गणैः ग्रहगणैः| तेषामनुचराणां वृत्तिः कृता| केचित् ‘गणैः’ इत्यत्र ‘ग्रहैः’ इति पठित्वा ग्रहैः कृता वृत्तिरिति च व्याख्यानयन्ति|२६|-
Adhikarana 25 (26) · Śloka 27
हिंसाविहारा ये केचिद्देवभावमुपाश्रिताः ||२६||
भूतानीति कृता सञ्ज्ञा तेषां सञ्ज्ञाप्रवक्तृभिः |२७|
अतो ग्रहाणां भूतसञ्ज्ञत्वं दर्शयन्नाह- हिंसाविहारा इत्यादि| हिंसाविहारा वधक्रीडनाः| देवभावं देवरूपम्| तेषां हिंसाविहाराणां भूतानीति सञ्ज्ञा कृता||२६||-
Adhikarana 26 (27) · Śloka 28
ग्रहसञ्ज्ञानि भूतानि यस्मद्वेत्त्यनया भिषक् ||२७||
विद्यया भूतविद्यात्वमत एव निरुच्यते |२८|
भूतविद्याया निरुक्तिमाह- ग्रहसञ्ज्ञानीत्यादि||२७||-
Adhikarana 27 (28) · Śloka 29
तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः ||२८||
जपैः सनियमैर्होमैरारभेत चिकित्सितुम् |२९|
इदानीं चिकित्सितमाह- तेषामित्यादि| तेषां देवाद्यनुचराणाम्| सुसमाहितः सुष्ठु सावधानः, आत्मानं परिरक्षन्नित्यर्थः| जपैरित्यादि| जपैः ओङ्कारपूर्वकगायत्र्याद्यावर्तनैरयुतलक्षकोटिप्रयुतोपलक्षितैः| एतेन दैवव्यपाश्रयं चिकित्सितमुक्तम्||२८||-
Adhikarana 28 (29) · Śloka 30
रक्तानि गन्धमाल्यानि बीजानि मधुसर्पिषी ||२९||
भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरुच्यते |३०|
सर्वग्रहाणां सामान्यचिकित्सामाह- रक्तानीत्यादि| रक्तानिगन्धमाल्यानि कुङ्कुमरक्तकरवीरादीनि| बीजानि सर्षपयवप्रभृतीनि | भक्ष्याश्च सर्वे लङ्डुकफेनकगुडादयः||२९||-
Adhikarana 29 (30) · Śloka 30
वस्त्राणि गन्धमाल्यानि मांसानि रुधिराणि च यानि येषां यथेष्टानि तानि तेभ्यः प्रदापयेत् ||३०||
सर्वेषां देवादिग्रहाणां विशेषचिकित्सितमाह- वस्त्राणीत्यादि| यानि वस्त्रादीनि येषां देवाद्यनुचराणां यथा यादृशानि इष्टानि तानि वस्त्रादीनि तेभ्यः प्रदापयेदिति सम्बन्धः| इष्टत्वं च वस्त्रादिवस्तूनां विविधानां 'सन्तुष्टः शुचिरपि चेष्टगन्धमाल्यः' इत्यादिग्रहलक्षणतोऽपि ज्ञातव्यम्| 'वस्त्राणि मद्यमांसानि क्षीराणि' इति क्वचित् पाठः||३०||
Adhikarana 30 (31) · Śloka 32
हिंसन्ति मनुजान् येषु प्रायशो दिवसेषु तु ||३१||
दिनेषु तेषु देयानि तद्भूतविनिवृत्तये |३२|
वस्त्रादिप्रदानकालमाह- हिंसन्ति मनुजानित्यादि| देयानि वस्त्रादीनि||३१||-
Adhikarana 31 (32) · Śloka 33
देवग्रहे देवगृहे हुत्वाऽग्निं प्रा(दा) पयेद्वलिम् ||३२||
कुशस्वस्तिकपूपाज्यच्छत्रपायससम्भृतम् |३३|
बलिप्रदानाय व्याख्यानमाह- देवेत्यादि| देवगृहे देवायतने, कुशा दर्भाः, स्वस्तिको यवादिचूर्णैः कृतोऽधोभागे विस्तीर्ण ऊर्ध्वभागे तीक्ष्णो मध्ये वलित्रयमुद्राङ्कितो भक्ष्यविशेषः, पूपः पूपलिका, आज्यं घृतम्; एतैः सम्भृतं बलिं दापयेदित्यर्थः||३२||-
Adhikarana 32 (33) · Śloka 33
असुराय यथाकालं विदध्याच्चत्वरादिषु ||३३||
असुराय यथाकालमित्यादि| असुराय असुरग्रहाय| यथाकालमिति सन्ध्याकाले| विदध्यात् दद्यात्, बलिमित्यर्थः| चत्वरादिषु चतुष्पथ्यादिषु||३३||
Adhikarana 33 (34) · Śloka 34
गन्धर्वस्य गवां मध्ये मद्यमांसाम्बुजाङ्गलम् |३४|
गन्धर्वस्येत्यादि| अम्बु पानीयं, जाङ्गलं मांसं, तच्च मांसोपदानाल्लब्धम्, अतः पृथगुपादानं तस्य विशेषपरिग्रहार्थम्; अन्ये ‘मद्यमांसाम्बुजाकुलं’ इति पठन्ति, मद्यमांसाम्बुजाकुलं मद्याद्याकुलं सम्मृतं बलिमित्यर्थः| पुष्पप्रियत्वात् गन्धर्वाणामम्बुजं कमलोत्पलादि|३४|-
Adhikarana 34 (34) · Śloka 35
हृद्ये वेश्मनि यक्षस्य कुल्माषासृक्सुरादिभिः ||३४||
अतिमुक्तककुन्दाब्जैः पुष्पैश्च वितरेद्वलिम् |३५|
हृद्ये इत्यादि| कुल्माषासृक्सुरादिभिः कुल्माषा यवपिष्टकृताः शृङ्गाटकादयः, असृक् रक्तम्, आदिशब्दात् भक्ष्यादयः| अतिमुक्तककुन्दाब्जैरिति अतिमुक्तको माधवीलता ‘अवेतक’ इति लोके, अम्बुजानि उत्पलादीनि| कुल्माषादिभिरतिमुक्तकादिपुष्पैश्च मनोज्ञे गृहे यक्षस्य बलिं दद्यादित्यर्थः||३४||
Adhikarana 35 (35) · Śloka 35
नद्यां पितृग्रहायेष्टं कुशास्तरणभूषितम् ||३५||
नद्यामित्यादि| इष्टं बलिं तिलगुडपायसादिकम्||३५||
Adhikarana 36 (36) · Śloka 36
तत्रैवोपहरेच्चापि नागाय विविधं बलिम् |३६|
तत्रैवत्यादि| तत्रैव नद्याम्| विविधं गुडमध्वासवपायसैर्नानाप्रकारम्|३६|-
Adhikarana 37 (36) · Śloka 36
चतुष्पथे राक्षसस्य भीमेषु गहनेषु वा ||३६||
चतुष्पथ इत्यादि| अत्रापि ‘वितरेद्वलिं’ इति सम्बध्यते| विविधं मांसासृक्सुराविकारैरनेकप्रकारम्| किं चतुष्पथे एव बलिं दद्यादित्याह- भीमेषु गहनेषु वा; ‘स्थानेषु’ इत्यध्याहार्यम्||३६||
Adhikarana 38 (37) · Śloka 37
शून्यागारे पिशाचस्य तीव्रं बलिमुपाहरेत् |३७|
शून्यागार इत्यादि| तीव्रं बलिं आममांसपशूपहारमद्योत्कटम्|३७|-
Adhikarana 39 (37) · Śloka 38
पूर्वमाचरितैर्मन्त्रैर्भूतविद्यानिदर्शितैः ||३७||
न शक्या बलिभिर्जेतुं योगैस्तान् समुपाचरेत् |३८|
पूर्वोक्तविधानेन जेतुमशक्यानां विशेषविधानमाह- पूर्वमित्यादि||३७||-
Adhikarana 40 (38-39) · Śloka 39
अजर्क्षचर्मरोमाणि शल्यकोलूकयोस्तथा ||३८||
हिङ्गु मूत्रं च बस्तस्य धूममस्य प्रयोजयेत् |
एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः ||३९||
प्राग्योगैरित्युक्तमतस्तानेव योगानाह- अजेत्यादि| अजः छगलः||३८-३९||
Adhikarana 41 (40) · Śloka 41
गजाह्वपिप्पलीमूलव्योषामलकसर्षपान् |
गोधानकुलमार्जारऋष्यपित्तप्रपेषितान् ||४०||
नस्याभ्यञ्जनसेकेषु विदध्याद्योगतत्त्ववित् |४१|
गजाह्वेत्यादि| गजाह्वा गजपिप्पली| मार्जारो बिडालः, ऋष्यो नीलाण्डो मृगभेदः, पित्तशब्दो गोधादिभिः प्रत्येकं सम्बध्यते| तेन गजाह्वादीन् गोधादिपित्तपेषितान्नस्यादिषु दद्यादिति सम्बन्धः| अन्ये ऋष्यस्थाने मत्स्येति पठन्ति; तन्न, आद्यपुस्तके ऋष्यस्य पाठो दृश्यते न मत्स्यस्य| नस्यादिषु पित्तपिष्टेन कथं सेकः कर्तुं पार्यत इत्यतः किञ्चित्तोयमालोडनार्थं देयम्| अत एव योगतत्त्वविदित्युक्तम्| अन्ये तु ‘नस्याभ्यञ्जनयोगेषु’ इति पठन्ति, अभ्यञ्जनमत्र अञ्जनमभिप्रेतं नस्यसाहचर्यादिति च व्याख्यानयन्ति| मार्जारऋष्य(क्ष)पित्तप्रपेषितानित्यत्रासंहितानिर्देशश्छन्दोभङ्गभीतेः||४०||-
Adhikarana 42 (41-42) · Śloka 42
खराश्वाश्वतरोलूककरभश्वशृगालजम् ||४१||
पुरीषं गृध्रकाकानां वराहस्य च पेषयेत् |
बस्तमूत्रेण तत्सिद्धं तैलं स्यात् पूर्ववद्धितम् ||४२||
खराश्वेत्यादि| खराश्वादीनां पुरीषं बस्तमूत्रेण पेषयेत्, ततस्तेन कल्केन छागमूत्रेण तत्सिद्धं तैलं पूर्ववद्धितं स्यादिति सम्बन्धः| खरो गर्दभः, अश्वतरो वेसरः, करभ उष्ट्रः, श्वा कुक्कुरो मांसवर्गे प्रोक्तलक्षणः| वराहस्य चेति चकारेण पुरीषं समुच्चीयते| तत् तैलं पूर्ववन्नस्याभ्यञ्जसेकेषु विदध्यादित्यर्थः||४१-४२||
Adhikarana 43 (43) · Śloka 44
शिरीषबीजं लशुनं शुण्ठीं सिद्धार्थकं वचाम् |
मञ्जिष्ठां रजनीं कृष्णां बस्तमूत्रेण पेषयेत् ||४३||
वर्त्यश्छायाविशुष्कास्ताः सपित्ता नयनाञ्जनम् |४४|
शिरीषबीजमित्यादि| सिद्धार्थकः श्वेतसर्षपः| कृष्णा पिप्पली| सपित्ता गोपित्तान्विता, प्रधानकल्पनया; अन्ये श्रुतत्वाद्गोधाद्यन्यतमपित्तं गृह्णन्ति| शिरीषबीजादीनि बस्तमूत्रेण पेषयेत्, ततो वर्त्यः, सगोपित्ता छायाशुष्काः, ताभिर्नयनाञ्जनं कार्यमित्यर्थः||४३||
Adhikarana 44 (44) · Śloka 45
नक्तमालफलं व्योषं मूलं श्योनाकबिल्वयोः ||४४||
हरिद्रे च कृता वर्त्यः पूर्ववन्नयनाञजनम् |४५|
नक्तमालफलमित्यादि| कृता वर्त्यः पूर्ववदिति बस्तमूत्रनिष्पिष्टाः छायाविशुष्काश्च सपित्ताः कार्याः||४४||-
Adhikarana 45 (45) · Śloka 46
सैन्धवं कटुकां हिङ्गं वयःस्थां च वचामपि |
बस्तमूत्रेण सम्पिष्टं मत्स्यपित्तेन पूर्ववत् ||४५||
ये ये ग्रहा न सिध्यन्ति सर्वेषां नयनाञ्जनम् |४६|
ये ये ग्रहा इत्यादि| वयःस्था गुडुची| बस्तमूत्रेणेत्यत्र वाशब्दो लुप्तो द्रष्टव्यः; तेन बस्तमूत्रेण वा पिष्टं मत्स्यपित्तेन वेति लभ्यते| पूर्ववत् छायाशुष्कमञ्जनं कार्यमित्यर्थः||४५||-
Adhikarana 46 (46-53) · Śloka 54
पुराणसर्पिर्लशुनं हिङ्ग सिद्धार्थकं वचा ||४६||
गोलोमी चाजलोमी च भूतकेशी जटा तथा |
कुक्कुटा सर्पगन्धा च तथा काणविकाणिके ||४७||
वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्लिका |
अर्कमूलं त्रिकटुकं लता स्रोतोजमञ्जनम् ||४८||
नैपाली हरितालं च रक्षोघ्ना ये च कीर्तिताः |
सिंहव्याघ्रर्क्षमार्जारद्वीपिवाजिगवां तथा ||४९||
श्वाविच्छल्यकगोधानामुष्ट्रस्य नकुलस्य च |
विट्त्वग्रोमवसामूत्ररक्तपित्तनखादयः ||५०||
अस्मिन् वर्गे भिषक् कुर्यात्तैलानि च घृतानि च |
पानाभ्यञ्जननस्येषु तानि योज्यानि जानता ||५१||
अवपीडेऽञ्जने चैव विदध्याद्गुटिकीकृतम् |
विदधीत परीषेके क्वथितं, चूर्णितं तथा ||५२||
उद्धूलने, श्लक्ष्णपिष्टं प्रदेहे चावचारयेत् |
एष सर्वविकारांस्तु मानसानपराजितः ||५३||
हन्यादल्पेन कालेन स्नेहादिरपि च क्रमः |५४|
पुराणसर्पिरित्यादि| लशति भिनत्ति रोगानिति लशुनम्| सिद्धार्थकः सिद्धप्रयोगारम्भकत्वात् श्वेतसर्षपः| गोलोमी दूर्वा| अजलोमी श्वेतदूर्वा| भूतकेशी मांसी| जटा गन्धमांसी| कुक्कुटा कुक्कुटशिम्बी, वर्तमानप्रतिषु कुक्कटीति दृश्यते, कुक्कटी कुक्कटसदृशकन्दा महौषधिः| सर्पगन्धा वर्षासु छत्राकारा| काणविकाणिके काकोलीक्षीरकाकोल्यौ| तथैत्यत्र तिक्तेति, ‘विकाणिके’ इत्यत्र ‘विषाणिके’ इति च केचित् पठन्ति| तिक्ता कटुतुम्बी, विषाणिका मेषशृङ्गी| वज्रप्रोक्ता वज्रकन्दः, स्नुहीत्यन्ये; ‘वज्रप्रोक्ता’ इत्यत्रान्ये ‘ऋष्यप्रोक्ता’ इति पठन्ति; वयःस्था गुडूची| शृङ्गी कर्कटशृङ्गी| मोहनवल्लिका वटपत्रिका| लता प्रियङ्गुः| स्रोतोञ्जनं पर्णसानद्यां सिन्धुनदे वा भवति| तल्लक्षणम्,- “वल्मीकशिखराकारं रूपे नीलोत्पलद्युति| स्रोतोञ्जनं प्रशंसन्ति तच्च प्रत्यञ्जने हितम्”- इति| नैपाली मनःशिला| रक्षोघ्ना ये प्रकीर्तिता इति श्वतेसर्षपाः| ‘रक्षोघ्नं यच्च कीर्तितं’ इत्यन्ये, तत्र रुद्राक्षं; अपरे तु ‘यद्यद्रक्षोघ्नमीरितं’ इति पठन्ति, गुग्गुलुप्रभृतीनिति च व्याख्यानयन्ति| ऋक्षो भल्लूकः| द्वीपी चित्रकः| मार्जारो बिडालः| वाजी घोटकः| श्वावित् सेहि(ढि)केति लोके| शल्यको गोधानुकारी वज्रशल्यकः| विट् पुरीषम्| नखत्वचः शस्त्रेण तनूक्रृतनखस्य तनूनि खण्डानि| अस्मिन् वर्गे पुराणसर्पिरित्यादिके यावद्रक्तमूत्रत्वगन्ते, तैलानि घृतानि च भिषक् कुर्यात्; तानि च पानादिषु जानता वैद्येन योज्यानीति सम्बन्धः| ‘अस्मिन् वर्गे’ इति वर्गग्रहणात् असमस्तेनाप्यनेन तैलादिकं कर्तव्यमित्यर्थः| अवपीडो नस्यभेदः| गुटिकीकृतं वर्तीकृतम्| अस्मिन् वर्ग इति अवपीड इत्यादिष्वनुवर्त्य सम्बध्यते| तेनास्मिन् वर्गे यत् क्वथितं क्वाथस्तत् परिषेके विदधीत, तथा चुर्णितमुद्धूलने विदधीत, श्लक्ष्णपिष्टं प्रदेहे अवचारयेदित्यर्थः| एष गणोऽपराजितो नाम सर्वविकारान् मानसान् ग्रहकृतांश्चोन्मादादीनल्पेन कालेन निहन्यादिति सम्बन्धः; अन्ये अपराजितानिति पठन्ति, तत्र अपरैः प्रयोगैरजितान् मानसान् विकारानिति व्याख्येयम्| किमेष एव गणः परमेतान् विकारान् हन्यादित्याह- स्नेहादिरपि च क्रमः| आदिशब्दात् स्वेदवमनविरेकादि||४६-५३||-
Adhikarana 47 (54) · Śloka 54
न चाचौक्षं प्रयुञ्जीत प्रयोगं देवताग्रहे ||५४||
न चाचौक्षमित्यादि| अचौक्षमपवित्रं प्रयोगं देवताग्रहे देवादिग्रहे न प्रयुञ्जीतेत्यर्थः| अन्ये न चायुक्तमिति पठन्ति||५४||
Adhikarana 48 (55) · Śloka 55
ऋते पिशाचादन्यत्र प्रतिकूलं न चाचरेत् |५५|
देवताग्रह इत्यत्र सामान्यवचनात् सर्वेष्वपि ग्रहेषु निषेधः प्राप्त इत्यत आह- ऋते पिशाचादित्यादि| ऋते पिशाचात् पिशाचग्रहं विहाय, अन्येषु ग्रहेषु, प्रतिकूलं निषिद्धम्; अन्यत्रेत्यत्रापि ऋते पिशाचादिति सम्बध्यते; तेन पिशाचादन्यत्र प्रतिकूलं न च आचरेत्; एतेन पिशाचग्रहे अचौक्षं प्रतिकूलं चोचितमित्युक्तम्|५५|-
Adhikarana 49 (55) · Śloka 55
वैद्यातुरौ निहन्युस्ते ध्रुवं क्रुद्धा महौजसः ||५५||
पिशाचादन्यत्र प्रतिकूलाचरणे किं स्यादित्याह- वैद्यातुरौ निहन्युरित्यादि| ते देवादिग्रहा ध्रुवमवश्यमनुचिताचरणात् क्रुद्धाः सन्तो वैद्यातुरौ निहन्युरित्यर्थः| महौजसः महाप्रभावाः||५५||
Adhikarana 50 (56) · Śloka 56
हिताहितीये यच्चोक्तं नित्यमेव समाचरेत् |५६|
हिताहारादिकं निर्दिशन्नाह- हिताहितीये यदित्यादि| यच्चोक्तं रक्तशाल्यादिकं तन्नित्यमेव आचरेदित्यर्थः| ‘हिताहितीये’ इत्यत्र ‘हिताहितं च’ इत्यन्ये पठत्वा व्याख्यानयन्ति- व्रणितोपासनीयोक्तं हिताहितीयोक्तं च हितविधानं नित्यं समाचरेदहितं च परिहरेदित्यर्थः|५६|-
Adhikarana 51 (56) · Śloka 56
ततः प्राप्स्यति सिद्धिं च यशश्च विपुलं भिषक् ||५६||
हिताचरणफलमाह- तत इत्यादि| ततो हिताहितप्रतिपादितक्रियाचरणात् ग्रहमुक्तिलक्षणं सिद्धिमातुरः प्राप्स्यति, भिषक् विपुलं यशश्च प्राप्स्यतीति| कार्तिककुण्डस्त्वमुं पाठं न पठति||५६||
Adhikarana puShpikA · Śloka 60
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽमानुषोपसर्गप्रतिषेधो नाम (प्रथमोऽध्यायः, आदितः) षष्टितमोऽध्यायः ||६०||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रेऽमानुषोपसर्गप्रतिषेधो नाम षष्टितमोऽध्यायः||६०||