Adhikarana 1 (1-2) · Śloka 2
अथातो दृष्टिगतरोगप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
पक्ष्मकोपप्रतिषेधानन्तरं दृष्टिगतानामेव रोगाणामवशिष्टत्वात्तत्प्रतिषेधो युक्त इत्याह- अथात इत्यादि| दृष्टिगतरोगेत्यत्र दृष्टिशब्देन दृष्ट्याश्रयं मण्डलमभिप्रेतम्||१-२||
Adhikarana 2 (3) · Śloka 3
त्रयः साध्यास्त्रयोऽसाध्या याप्याः षट् च भवन्ति हि |३|
दृष्टिगतद्वादशरोगाणां मध्ये साध्यानां साधनार्थं, याप्यानां यापनार्थमसाध्यानां परिहारर्थमाह- त्रय इत्यादि| धूमदर्शिपित्तविदग्धदृष्टिश्लेष्मविदग्धदृष्टयस्त्रयः साध्याः| त्रयोऽसाध्या इति ह्रस्वजाड्य(त्य)नाकुलान्ध्यगम्भीरिकाख्याः| याप्याः षट् चेति अरुणादयो विचित्रवर्णान्ताः षट् काचाः| चकारोऽत्र भिन्नक्रमे; तेन याप्यशब्दानन्तरमुपात्तेन चशब्देन साध्यासाध्यत्वं समुच्चीयते; तेन षण्णां रोगाणामवस्थाविशेषेण साध्यत्वयाप्यत्वासाध्यत्वानि; तथा च ते प्रागवस्थायां साध्याः, उत्तरावस्थायामसाध्याः, परं श्लैष्मिकं लिङ्गनाशं विहाय|३|-
Adhikarana 3 (3) · Śloka 3
तत्रैकस्य प्रतीकारः कीर्तितो धूमदर्शिनः ||३||
तत्र साध्येषु त्रिषु मध्ये धूमदर्शिनः प्रागुक्तमेव प्रतीकारं निर्दिशन्नाह- तत्रेत्यादि| प्रतीकारः हेतुव्याधिविपरीता क्रिया| कीर्तितः पित्ताभिष्यन्दप्रतिषेधे||३||
Adhikarana 4 (4-5) · Śloka 6
दृष्टौ पित्तविदग्धायां विदग्धायां कफेन च |
पित्तश्लेष्महरं कुर्याद्विधिं शस्त्रक्षतादृते ||४||
नस्यसेकाञ्जनालेपपुटपाकैः सतर्पणैः |
आद्ये तु त्रैफलं पेयं सर्पिस्त्रैवृतमुत्तरे ||५||
तैल्वकं चोभयोः पथ्यं केवलं जीर्णमेव वा |६|
इदानीं पित्तकफविदग्धदृशोरपि हेतुव्याधिविपरीतं चिकित्सितमाह- दृष्टौ पित्तविदग्धायामित्यादि| पित्तश्लेष्महरं पित्तश्लेष्माभिष्यन्दहरं; तेन पित्तविदग्धदृष्टौ पित्ताभिष्यन्दहरोविधिः, कफविदग्धदृष्टौ तु कफाभिष्यन्दहरो विधिः| शस्त्रक्षतादृते सिराव्यधं वर्जयित्वा| तमेव पित्तश्लेष्माभिष्यन्दहरं विधिमाह- नस्यसेकेत्यादि| तत्र कफविदग्धदृष्ट्यां कफाभिष्यन्दहरं नस्यादि, पित्तविदग्धदृष्ट्यां तु पित्ताभिष्यन्दहरं नस्यादि| पित्तकफविदग्धदृष्ट्यां वैशेषिकं सामान्यं च स्नेहोपक्रममाह- आद्ये तु त्रैफलमित्यादि| आद्ये पित्तविदग्धदृष्ट्याख्ये, त्रैफलं त्रिफलाक्वाथकल्काभ्यां संस्कृतं घृतं; केचित् ‘त्रिफलाया रसप्रस्थं’ इत्यादिकं विदेहोक्तं त्रैफलमामनन्ति; तन्नेच्छति गयी| त्रैवृतं त्रिवृतासंस्कृतं, न पुनरपतानकोक्तम्| उत्तरे श्लेष्मविदग्धदृष्ट्याख्ये इति| तिल्वकः पट्टिकारोध्रस्तेन संस्कृतं तैल्वकम्| केवलम् असंस्कृतम्| जीर्णं पुराणम्| अनुक्तमपि स्नेहादनन्तरं वमनादि कर्तव्यं, तन्त्रान्तरदर्शनात्||४-५||-
Adhikarana 5 (6-7) · Śloka 8
गैरिकं सैन्धवं कृष्णा गोदन्तस्य मषी तथा ||६||
गोमांसं मरिचं बीजं शिरीषस्य मनःशिला |
वृन्तं कपित्थान्मधुना स्वयङ्गुप्ताफलानि च ||७||
चत्वार एते योगाः स्युरुभयोरञ्जने हिताः |८|
इदानीं बहिःपरिमार्जनार्थमञ्जनयोगांश्चतुरो निर्दिशन्नाह- गैरिकमित्यादि| तत्र गैरिकमादौ कृत्वा गोदन्तमषीं यावदेको योगः, गोमांसादिको मनःशिलां यावद्द्वितीयो योगः, वृन्तं कपित्थान्मधुनेति तृतीयो योगः, स्वयङ्गुप्ताफलानि मधुनेति चतुर्थो योगः, इति योगचतुष्टयं प्रभावात् पित्तकफविदग्धदृष्ट्योर्हितमित्यर्थः| केचिदत्र पित्तविदग्धदृष्टौ रात्रावञ्जनं, कफविदग्धदृष्टौ दिवेति कालविभागं मन्यन्ते||६-७||-
Adhikarana 6 (8-9) · Śloka 10
कुब्जकाशोकशालाम्रप्रियङ्गुनलिनोत्पलैः ||८||
पुष्पैर्हरेणुकृष्णाह्वापथ्यामलकसंयुतैः |
सर्पिर्मधुयुतैश्चूर्णैर्वेणुनाड्यामवस्थितैः ||९||
अञ्जयेद् द्वावपि भिषक् पित्तश्लेष्मविभावितौ |१०|
अधुना द्वयोरपि पुष्पाञ्जनमाह- कुब्जकाशोकेत्यादि| कुब्जकाशोकौ स्वनामप्रसिद्धौ, शालः सर्जभेदः, नलिनम् ईषद्रक्तं पद्मं, उत्पलं नीलोत्पलं, हरेणुः रेणुका, कृष्णाह्वा पिप्पली, वेणुनाड्यामवस्थानं शक्त्युत्कर्षार्थम्| पित्तश्लेष्मविभाविताविति पित्तश्लेष्मविदग्धदृष्टी इत्यर्थः||८-९||-
Adhikarana 7 (10-11) · Śloka 12
आम्रजम्बूद्भवं पुष्पं तद्रसेन हरेणुकाम् ||१०||
पिष्ट्वा क्षौद्राज्यसंयुक्तं प्रयोज्यमथवाऽञ्जनम् |
नलिनोत्पलकिञ्जल्कगैरिकैर्गोशकृद्रसैः ||११||
गुडिकाञ्जनमेतद्वा दिनरात्र्यन्धयोर्हितम् |१२|
इदानीं दिनरात्र्यन्धाञ्जनद्वयमाह- आम्रेत्यादि| आम्रजम्बूद्भवं यत् पुष्पं तद्रसेन रसचतुर्थांशं हरेणुकाचूर्णं पिष्ट्वा रसक्रियापाकेन विपाच्य मधुघृतयुक्तं दिनरात्र्यन्धयोः पित्तकफविदग्धदृष्ट्यपरपर्याययोर्द्रवाञ्जनं योज्यम्| तथा नलिनादिभिर्गोशकृद्रसपिष्टैर्गुटिकाञ्जनं हितं; नलिनम् ईषद्रक्तं पद्मं, उत्पलं नीलोत्पलं, किञ्जल्कः केशरः, स च नलिनोत्पलयोरेव| केचित् ‘गोयकृद्रसैः’ इति पठन्ति; गोशब्दस्य पशुवाचित्वादजादयो गृह्यन्ते; यकृद्रसः कालखण्डरस इति व्याख्यानयन्ति||१०-११||-
Adhikarana 8 (12) · Śloka 13
रसाञ्जनरसक्षौद्रतालीशस्वर्णगैरिकम् ||१२||
गोशकृद्रससंयुक्तं पित्तोपहतदृष्टये |१३|
अधुना दिवान्ध्ये वैशेषिकं चूर्णाञ्जनमाह- रसाञ्जनेत्यादि| रस इति जातीपत्ररस इत्यर्थः, आमलकीपत्ररस इत्यन्ये| अत्र द्रवद्रव्यैः कठिनद्रव्यभावनां विधाय चूर्णाञ्जनं कर्तव्यम्| पित्तोपहतदृष्टये पित्तविदग्धदृष्टये||१२||-
Adhikarana 9 (13-14) · Śloka 14
शीतं सौवीरकं वाऽपि पिष्ट्वाऽथ रसभावितम् ||१३||
कूर्मपित्तेन मतिमान् भावयेद्रौहितेन वा |
चूर्णाञ्जनमिदं नित्यं प्रयोज्यं पित्तशान्तये ||१४||
अपरमपि चूर्णाञ्जनमाह- शीतेत्यादि| शीतं रसञ्जनं, कर्पूरमन्ये| सौवीरकं सौवीराञ्जनम्| रसभावितमिति चतुष्पदमृगपक्षिमांसरसभावितमित्यर्थः| केचिद्रस इति सामान्योक्त्या रसाञ्जनसौवीराञ्जनयोरेव रसं सङ्गृह्णन्ति, तदभावे च तयोरेव चूर्णाढकमुदकाढके प्रक्षिप्य अहोरात्रपर्युषितं प्रातर्मर्दितं पूतं स्वरसवत् प्रयोज्यमित्यर्थः| केचिच्च प्रस्तुतत्वाद्रसशब्देन गोशकृद्रसं गृह्णन्ति||१३-१४||
Adhikarana 10 (15) · Śloka 15
काशमरीपुष्पमधुकदार्वीरोध्ररसाञ्जनैः |
सक्षौद्रमञ्जनं तद्वद्धितमत्रामये सदा ||१५||
दिवान्ध्ये कल्काञ्जनमाह- काश्मरीपुष्पेत्यादि| अत्रेति पित्तविदग्धदृष्टौ| केचित् काश्मीरपुष्पादिरसक्रियाञ्जनमेतदित्याहुः||१५||
Adhikarana 11 (16) · Śloka 16
स्रोतोजं सैन्धवं कृष्णां रेणुकां चापि पेषयेत् |
अजामूत्रेण ता वर्त्यः क्षणदान्ध्याञ्जने हिताः ||१६||
रात्र्यान्ध्ये कफविदग्धदृष्ट्यपरपर्याये वर्त्यञ्जनमाह- स्रोतोजमित्यादि||१६||
Adhikarana 12 (17) · Śloka 18
कालानुसारिवां कृष्णां नागरं मधुकं तथा |
तालीशपत्रं क्षणदे गाङ्गेयं च यकृद्रसे ||१७||
कृतास्ता वर्तयः पिष्टाश्छायाशुष्काः सुखावहाः |१८|
अपरमपि नक्तन्ध्ये वर्त्यञ्जनमाह- कालानुसारिवामित्यादि| कालानुसारिवा तगरं, क्षणदे द्वे हरिद्रे, गाङ्गेयं मुस्ता| यकृद्रसे छागल्यादिकालखण्डरसे; अन्ये ‘शकृद्रसे’ इति पठन्ति, शकृद्रसे गोमयरसे इति व्याख्यानयन्ति||१७||-
Adhikarana 13 (18) · Śloka 19
मनःशिलाभयाव्योषबलाकालानुसारिवाः ||१८||
सफेना वर्तयः पिष्टाश्छागक्षीरसमन्विताः |१९|
अन्यदपि रात्र्यान्ध्ये वर्त्यञ्जनमाह- मनःशिलेत्यादि||१८||-
Adhikarana 14 (19-20) · Śloka 21
गोमूत्रपित्तमदिरायकृद्धात्रीरसे पचेत् ||१९||
क्षुद्राञ्जनं रसेनान्यद्यकृतस्त्रैफलेऽपि वा |
गोमूत्राज्यार्णवमलपिप्पलीक्षौद्रकट्फलैः ||२०||
सैन्धवोपहितं युञ्ज्यान्निहितं वेणुगह्वरे |२१|
इदानीं रसक्रियाञ्जनत्रितयमाह- गोमूत्रेत्यादि| अत्र मूत्रपित्तयकृन्त्यजादीनामेव| मदिरा पिष्टसुरा| गोमूत्रादिरसेन क्षुद्राञ्जनं विपचेदित्येको योगः, क्षुद्राञ्जनं रसक्रियाञ्जनमित्यर्थः; रसेन यकृत इति द्वितीयो योगः; त्रैफलेऽपि वेति तृतीयो योगः| गोमूत्राज्यार्णवमलेत्यादि| एतद्रसक्रियाञ्जनत्रितयमप्येकैकं गोमूत्राज्यादिभिः संयुक्तं वेणुगह्वरे वंशनलिकाभ्यन्तरे व्यवस्थितमञ्जनं रात्र्यन्धे युञ्ज्यादित्यर्थः||१९-२०||-
Adhikarana 15 (21-22) · Śloka 22
मेदो यकृद्धृतं चाजं पिप्पल्यः सैन्धवं मधु ||२१||
रसमामलकाच्चापि पक्वं सम्यङ्निधापयेत् |
कोशे खदिरनिर्माणे तद्वत् क्षुद्राञ्जनं हितम् ||२२||
श्लेष्मविदग्धदृष्ट्यामपरमपि रसक्रियाञ्जनमाह- मेदो यकृद्धृतं चाजमित्यादि| मेदो यकृद्धृतं चेति त्रयमेतच्छगलीनाम्| मेदोयकृति सर्वमेकीकृत्य रसक्रियापाकेन पक्वं खदिरतरुसारनिर्मितभाजने सूक्ष्ममुखे बृहन्मध्यकुहरे निक्षिप्तं क्षुद्राञ्जनं रसक्रियाञ्जनापरपर्यायं हितमित्यर्थः||२१-२२||
Adhikarana 16 (23) · Śloka 23
हरेणुमगधाजास्थिमज्जैलायकृदन्वितम् |
यकृद्रसेनाञ्जनं वा श्लेष्मोपहतदृष्टये ||२३||
अन्यदपि कफविदग्धदृष्टावञ्जनमाह- हरेण्वित्यादि| हरेणुः हरेणुका, मगधाजास्थिमज्जेति पिप्पलीवितुषबीजानि| एतद् हरेण्वादि यकृद्रवेण पिष्टमञ्जनं श्लेष्मोपहतदृष्टये नक्तान्धाय हितमित्यर्थः| इदमञ्जनमेकीयमताभिप्रायेण गयदासाचार्येण पठितं व्याख्यातं च||२३||
Adhikarana 17 (24) · Śloka 24
विपाच्य गोधायकृदर्धपाटितं सुपूरितं मागधिकाभिरग्निना |
निषेवितं तद्यकृदञ्जनेन निहन्ति नक्तान्ध्यमसंशयं खलु ||२४||
इदानीं नक्तान्ध्ये कफविदग्धदृष्ट्यपरपर्याये प्रयोगमाह- विपाच्येत्यादि| गोधायकृदर्धपाटितं कृत्वा पिप्पलीभिः पूरितं शुचिमृदा लिप्तमग्निना विपाच्य त्र्यहं भक्षितं सत्, तथा तदन्तःस्विन्ना पिप्पली मधुनाऽञ्जनेन निःसन्देहं नक्तान्ध्यं निहन्तीत्यर्थः||२४||
Adhikarana 18 (25) · Śloka 25
तथा यकृच्छागभवं हुताशने विपाच्य सम्यङ्मगधासमन्वितम् |
प्रयोजितं पूर्ववदाश्वसंशयं जयेत् क्षपान्ध्यं सकृदञ्जनान्नृणाम् ||२५||
नक्तान्ध्येऽपरमपि प्रयोगमाह- तथा यकृच्छागभवमित्यादि| प्रयोजितं पूर्ववदिति यकृद्भक्षणविधिना प्रयोजितं, पिप्पली पुनरञ्जनविधिनेत्यर्थः||२५||
Adhikarana 19 (26) · Śloka 26
प्लीहा यकृच्चाप्युपभक्षिते उभे प्रकल्प्य शूल्ये घृततैलसंयुते |
ते सार्षपस्नेहसमायुतेऽञ्जनं नक्तान्ध्यमाश्वेव हतः प्रयोजिते ||२६||
अपरमपि नक्तान्ध्ययोगमाह- प्लीहेत्यादि| प्लीहा उदरवामपार्श्वस्थं मांसखण्डं, यकृत् दक्षिणपार्श्वस्थं कालखण्डापरपर्यायं, ते उभे अपि प्रस्तुतत्वाद् गोधाच्छागयोरेव ग्राह्ये| प्रकल्प्य खण्डशः कल्पयित्वा| शूल्ये शूलपाकपक्वे||२६||
Adhikarana 20 (27) · Śloka 27
नदीजशिम्बीत्रिकटून्यथाञ्जनं मनःशिला द्वे च निशे य(श)कृद्गवाम् |
सचन्दनेयं गुटिकाऽथवाऽञ्जनं प्रशस्यते वै दिवसेष्वपश्यताम् ||२७||
इदानीं दिवान्ध्ये पित्तविदग्धदृष्ट्यपरपर्यायेऽञ्जनमाह- नदीजेत्यादि| नदीजं सैन्धवं; शिम्बीशब्देनात्र हरितमुद्गाः, चक्षुष्यत्वात्; अन्ये शिम्बीस्थाने शिम्बेति पठन्ति, तत्रापि स एवार्थः; अञ्जनं सौवीराञ्जनम्| गवां छागादीनाम्| चन्दनं रक्तचन्दनम्| गुटिका वटीकृत्याञ्जनं; अथवाऽञ्जनमिति चूर्णाञ्जनमथवेत्यर्थः| विपाच्य गोधायकृदर्धपाटितमित्यादिकं सचन्दनेयं गुटिकाऽथवाञ्जनमिति पर्यन्तं योगचतुष्टयं निबन्धकारैरनार्षीकृतं, तेरैव सुभाषितत्वादुपयोगार्हत्वाच्च व्याख्यातं; तस्मान्मयाऽपि पठितं व्याख्यातं च||२७||
Adhikarana 21 (28) · Śloka 28
भवन्ति याप्याः खलु ये षडामया हरेदसृक्तेषु सिराविमोक्षणैः |
विरेचयेच्चापि पुराणसर्पिषा विरेचनाङ्गोपहितेन सर्वदा ||२८||
इदानीं साध्यानां चिकित्सितमभिधाय याप्यानां चिकित्सितमाह- भवन्तीत्यादि| भवन्ति याप्या इति अत्र ‘उपेक्ष्यमाणा’ इति शेषः, एतेन तेषां प्रगवस्थायां साध्यत्वम्| याप्याः षडामया इति| ननु श्लैष्मिककाचस्य साध्यत्वात् कथं षड् याप्याः? सत्यं, याप्यबाहुल्यादेतद्व्यपदेशः| तेष्विति प्रथमद्वितीयपटलप्राप्तेषु तिमिरावस्थेषु काचेष्वित्यर्थः, न तु रागप्राप्तेषु, यतस्तत्र सिराव्यधनिषेधः; तथा चोक्तं- ‘तिमिरे रागिणि भिषक् सिरामोक्षं विवर्जयेत्’- इति| सिराविमोक्षणैरित्यनेनैव स्नेहस्वेदौ पूर्वकर्मसञ्ज्ञकावाक्षिप्तौ मन्तव्यौ| विरेचनाङ्गोपहितेनेति विरेचनद्रव्यसंस्कृतेनेत्यर्थः||२८||
Adhikarana 22 (29) · Śloka 30
पयोविमिश्रं पवनोद्भवे हितं वदन्ति पञ्चाङ्गुलतैलमेव तु |
भवेद्धृतं त्रैफलमेव शोधनं विशेषतः शोणितपित्तरोगयोः ||२९||
त्रिवृद्विरेकः कफजे प्रशस्यते त्रिदोषजे तैलमुशन्ति तत्कृतम् |३०|
सर्वतिमिराणां सामान्यं शोधनमभिधाय विशेषशोधनमाह- पयोविमिश्रमित्यादि| पञ्चाङ्गुलतैलम् एरण्डतैलम्| विशेषतः शोणितपित्तरोगयोरिति त्रैफलं घृतं सर्वतिमिरेषु हितं, अनयोर्विशेषत इत्यर्थः| त्रिवृद्धिरेक इति त्रिवृता सिद्धघृतेन विरेक इत्यर्थः| तत्कृतमिति त्रिवृता संस्कृतमित्यर्थः; अन्ये तु तैर्वातपित्तकफघ्नैर्द्रव्यैः संस्कृतं तत्कृतं वदन्ति| द्वन्द्वजेषु तिमिरेषु त्वनुक्तमपि संशोधनं व्यामिश्रं कर्तव्यम्||२९||-
Adhikarana 23 (30) · Śloka 31
पुराणसर्पिस्तिमिरेषु सर्वशो हितं भवेदायसभाजनस्थितम् ||३०||
हितं च विद्यात्त्रिफलाघृतं सदा कृतं च यन्मेषविषाणनामभिः |३१|
संशोधनमभिधाय सामान्यं संशमनमाह- पुराणसर्पिरित्यादि| सर्वत इति पानाभ्यञ्जननस्यादिषु, सर्वेष्वेव वातादिजन्यनयनविकारेष्वित्यन्ये| त्रिफलाघृतं त्रिफलाक्वाथकल्कपक्वं घृतम्| कृतं संस्कृतं ‘घृतं’ इति शेषः| मेषविषाणनामभिः मेषशृङ्गीफलैरित्यर्थः||३०||-
Adhikarana 24 (31) · Śloka 32
सदाऽवलिह्यात्त्रिफलं सुचूर्णितां घृतप्रगाढां तिमिरेऽथ पित्तजे ||३१||
समीरजे तैलयुतां कफात्मके मधुप्रगाढां विदधीत युक्तितः |३२|
सामान्यं संशमनमभिधाय विशेषसंशमनमाह- सदेत्यादि| सदेति नित्यगे आवस्थिके च काले इत्यर्थः| पित्तजे इत्यत्रानुक्तमपि रक्तजं तिमिरं बोद्धव्यं, तत्रापि घृतेन त्रिफलाप्रयोगः| केचित् “सदाऽवलिह्यात्त्रिफलां सुचूर्णितं घृतप्रगाढां तिमिरातुरो नरः| कफाभिभूतः खलु तैलसंयुतां मधुप्रगाढामपि वा प्रयोजयेत्” ईदृशं पाठं पठन्ति; स च जेज्जटाचार्येण दूषितः; तस्मात् पूर्वपाठ एव न्याय्यः||३१||-
Adhikarana 25 (32) · Śloka 32
गवां शकृत्क्वाथविपक्वमुत्तमं हितं तु तैलं तिमिरेषु नावनम् ||३२||
इदानीं श्लेष्मतिमिरे नस्यमाह- गवां शकृदित्यादि| सामान्यस्नेहपाकपरिभाषया गोशकृत्क्वाथेन तैलमकल्कं पक्तव्यं, एतत्तैलं तन्त्रान्तरदर्शनात् कफजे तिमिरे बोद्धव्यं; अन्ये तु तिमिरेष्विति बहुवचनात् सर्वतिमिरेषु बोद्धव्यमिति वदन्ति||३२||
Adhikarana 26 (33) · Śloka 33
हितं घृतं केवल एव पैत्तिके ह्यजाविकं यन्मधुरैर्विपाचितम् |३३|
पित्तजे तिमिरे नस्यमाह- हितमित्यादि| केवल एव पैत्तिके नान्यदोषसम्पृक्ते तिमिरे इत्यर्थः| मधुरैर्विपाचितमिति काकोल्यादिक्वाथकल्कविपक्वमित्यर्थः| ‘केवल एव’ इत्यत्र ‘केवलमेव’ इति केचित् पठन्ति, तत्र केवलमसंस्कृतमित्यर्थः, अजाविकं घृतमिति च व्याख्यानयन्ति|३३|-
Adhikarana 27 (33) · Śloka 33
तैलं स्थिरादौ मधुरे च यद्गणे तथाऽणुतैलं पवनासृगुत्थयोः ||३३||
वातरक्तजयोस्तिमिरयोर्नस्यमाह- तैलमित्यादि| स्थिरादौ विदारिगन्धादौ, सिद्धमिति शेषः| तथा मधुरे गणे काकोल्यादिके यत् सिद्धं, तथाऽणुतैलं वातव्याधिचिकित्सितोक्तम्||३३||
Adhikarana 28 (34) · Śloka 34
सहाश्वगन्धातिबलावरीशृतं हितं च नस्ये त्रिवृतं यदीरितम् |
जलोद्भवानूपजमांससंस्कृताद्धृतं विधेयं पयसो यदुत्थितम् ||३४||
केवलवातजे तिमिरे नस्यमाह- सहेत्यादि| सहा मुद्गपर्णी, माषपर्णीत्यन्ये| वरी शतावरी| एतैर्विपक्वं तैलं वातारब्धे तिमिरे नस्ये हितम्| त्रिवृतं यदीरितमिति महावातव्याधिचिकित्सिते त्रिभिः सर्पिर्वसामज्जभिर्वृतं त्रिवृतं तैलं यदीरितं तदत्र हितं; केचिदेतैरेव मुद्गपर्ण्यादिभिर्द्रव्यैस्त्रिवृतं तैलं सिद्धं वातारब्धतिमिरे नस्ये हितमिति वदन्ति| वातारब्धतिमिरे द्वितीयं नस्यमाह - जलोद्भवेत्यादि| जलोद्भवा मत्सादयः, आनूपाः कूलचराः, तेषां मांसेन क्षीरपाककल्पेन संस्कृताद्दुग्धान्मथ्यमानाद् यद्धृतमुद्धृतं तत् सहाश्वगन्धादिभिरनन्तरोक्तैर्विपक्वं वातारब्धतिमिरे नस्यं विधेयम्| केचिज्जलोद्भवशब्देन पद्मादीनि गृह्णन्ति, तन्नेच्छन्ति निबन्धकाराः||३४||
Adhikarana 29 (35) · Śloka 35
ससैन्धवः क्रव्यभुगेणमांसयोर्हितः ससर्पिः समधुः पुटाह्वयः |३५|
नस्यमभिधाय पुटपाकमाह- ससैन्धव इत्यादि| क्रव्यभुजो गृध्रादयः, एणः कृष्णसारः| पुटाह्वयः पुटपाकः| तस्य विधानं क्रियाकल्पे वक्ष्यति|३५|-
Adhikarana 30 (35) · Śloka 35
वसाऽथ गृध्रोरगताम्रचूडजा सदा प्रशस्ता मधुकान्विताऽञ्जने ||३५||
वातजतिमिरे पुटपाकमभिधायाञ्जनम्राह- वसेत्यादि| उरगः कृष्णसर्पः, ताम्रचूडः कुक्कुटः, मधुकान्विता यष्टीमधुकसंयुता; एता गृध्रादिजास्तिस्रो वसा यष्टीमधुकचूर्णान्विता एकशो द्विशः समस्ता वाऽञ्जने हिताः||३५||
Adhikarana 31 (36) · Śloka 36
प्रत्यञ्जनं स्रोतसि यत्समुत्थितं क्रमाद्रसक्षीरघृतेषु भावितम् |३६|
इदानीं वातजतिमिरे स्नेहाञ्जनेन जडीभूतस्य चक्षुष उपकारार्थं प्रत्यञ्जनमाह- प्रत्यञ्जनमित्यादि| यत् अञ्जनस्यानु प्रयुज्यते तत् प्रत्यञ्जनम्| तत्र तीक्ष्णाञ्जनस्य मृद्वञ्जनमनु प्रयुज्यते, मृद्वञ्जनस्य तीक्ष्णाञ्जनम्| स्रोतसि यत् समुत्थितं सिन्धुस्रोतसि वर्णसार्पणसयोः स्रोतसि वा यत् समुत्थितं स्रोतोञ्जनं, सौवीराञ्जनमित्यन्ये| रसश्च चक्षुष्यमृगपक्षिमांसरसः| पृथक् पृथक् सप्ताहं रसक्षीरघृतेषु भावितं चूर्णाञ्जनं प्रयोज्यम्|३६|-
Adhikarana 32 (36-37) · Śloka 37
स्थितं दशाहत्रयमेतदञ्जनं कृष्णोरगास्ये कुशसम्प्रवेष्टिते ||३६||
तन्मालतीकोरकसैन्धवायुतं सदाऽञ्जनं स्यात्तिमिरेऽथ रागिणि |
सुभावितं वा पयसा दिनत्रयं काचापहं शास्त्रविदः प्रचक्षते ||३७||
अरागितिमिरचिकित्सितं प्रतिपाद्य वातजरागितिमिराचिकित्सितं प्रतिपादयन्नाह- स्थितमित्यादि| दशाहत्रयं मासमेकमित्यर्थः| एतदञ्जनं स्रोतोञ्जनं, सौवीरञ्जनमित्यन्ये| ततः स्रोतोञ्जनं कृष्णसर्पमुखे यथोदितप्रकारेण निवासितं पश्चान्मालतीकोरकसैन्धवेन समुदायसमभागेन युतमञ्जनं कार्यं; मालतीकोरकाः जातीकुसुमानि| तिमिरेऽथ रागिणि वातकाचे इत्यर्थः| वातकाचेऽपरमप्यञ्जनमाह- सुभावितमित्यादि| अन्ये तु जातीकोरकयुक्तत्वात् वातपित्तकाचापहं वदन्ति, तन्नेच्छति गयी||३६-३७||
Adhikarana 33 (38) · Śloka 38
हविर्हितं क्षीरभवं तु पैत्तिके वदन्ति नस्ये मधुरौषधैः कृतम् |
तत्तर्पणे चैव हितं प्रयोजितं सजाङ्गलस्तेषु च यः पुटाह्वयः ||३८||
पित्ततिमिररोगचिकित्सितमाह- हविरित्यादि| हविः घृतं, क्षीरभवं क्षीरमथनोद्भूतं, पैत्तिके ‘तिमिरे’ इति शेषः| मधुरौषधैः काकोल्यादिभिः, कृतं संस्कृतं; अन्ये तु क्षीरमपि काकोल्यदिभिः साधितं मन्यन्ते, तेन काकोल्यादिसाधितात् क्षीरान्मथ्यमानादुत्थितं घृतं काकोल्यादिभिरेव साधितं पित्तजतिमिरे हितमिति वदन्ति| केचिदिह कृतमित्यस्य स्थाने शृतमिति पठन्ति, तत्र शृतं पक्वम्| तत्तर्पण इत्यादि| न केवलं तद्घृतं नस्ये हितं, किं तर्हि तर्पणेऽक्षिपूरणपर्याये प्रयोजितं हितम्| तथा तेषु मधुरौषधेषु यो जाङ्गलमांसयुक्तः पुटपाकः स पित्ततिमिरे स्नेहार्थं हितः||३८||
Adhikarana 34 (39) · Śloka 39
रसाञ्जनक्षौद्रसितामनःशिलाः क्षुद्राञ्जनं तन्मधुकेन संयुतम् |३९|
पित्ततिमिरे रसक्रियाञ्जनमाह- रसाञ्जनमित्यादि| रसाञ्जनादिकृतं क्षुद्राञ्जनं फाणिताकृति पित्ततिमिरे हितम्| क्षुद्राञ्जनमित्यत्र केचिद्रसाञ्जनमिति पठन्ति, तत्रापि स एवार्थः|३९|-
Adhikarana 35 (39) · Śloka 39
समाञ्जनं वा कनकारोद्भवं सुचूर्णितं श्रेष्ठमुशन्ति तद्विदः ||३९||
इदानीं पित्ततिमिरे प्रत्यञ्जनमाह- समाञ्जनमित्यादि| समाञ्जनं तुल्यसौवीराञ्जनं, कनकाकरोद्भवं तुत्थकं, श्रेष्ठम् उत्तमं, उशन्ति इच्छन्ति, प्रत्यञ्जनमित्यध्याहार्यम्| तद्विदः शालाकिनः| केचित् समाञ्जनमित्यत्र रसाञ्जनमितिपठन्ति||३९||
Adhikarana 36 (40) · Śloka 40
भिल्लोटगन्धोदकसेकसेचितं प्रत्यञ्जने चात्र हितं तु तुत्थकम् |४०|
पित्तमिरेऽपरमपि प्रत्यञ्जनमाह- भिल्लोटेत्यादि भिल्लोटको हिमवदासन्नभूमिजः ककुभानुकारिफलो वृक्षविशेषः, गन्धा एलादिगणोक्ताः, उदकमत्र कषायः, तत्सेकसेचितं तुत्थकं प्रत्यञ्जने हितम्| अन्ये भिल्लोटकस्वाभाविकगन्धोदकसेकसेचितमाहुः| केचिदमुं प्रत्यञ्जनं न पठन्ति|४०|-
Adhikarana 37 (40) · Śloka 40
समेषशृङ्गाञ्जनभागसम्मितं जलोद्भवं काचमलं व्यपोहति ||४०||
पित्तजे तिमिरे रागप्राप्ते चिकित्सामाह- समेषेत्यादि| मेषशृङ्गः पुत्रजीवानुकारी वृक्षः, अञ्जनं सौवीराञ्जनं, एतयोर्भागेन अंशेन सम्मितं तुल्यभागं जलोद्भवं स्रोतोञ्जनं, अञ्जनेन काचमलं पित्तकाचं व्यपोहति| अन्ये जलोद्भवं शङ्खं वदन्ति||४०||
Adhikarana 38 (41) · Śloka 41
पलाशरोहीतमधूकजा रसाः क्षौद्रेण युक्ता मदिराग्रमिश्रिताः |४१|
पैत्तिके काचे रसक्रियाञ्जनमाह- पलाशरोहीतेत्यादि| पलाशः किंशुकः, रोहितो दाडिमपुष्पतुल्यपुष्पः, मधूकः स्वनामप्रसिद्धो वृक्षविशेषः, एतेषां रसाः; मदिराग्रं मदिराया उपर्यच्छो भागः| किंशुकादिरसक्षौद्रमदिराग्राणि समभागानि आहृत्य रसक्रिया कार्या, सा चाञ्जनात्पित्तकाचमलं व्यपोहति|४१|-
Adhikarana 39 (41) · Śloka 41
उशीरलोध्रत्रिफलाप्रियङ्गुभिः पचेत्तु नस्यं कफरोगशान्तये ||४१||
इदानीं कफतिमिरे नस्यमाह- उशीरलोध्रेत्यादि| उशीरादिभिर्द्रव्यैः कल्कीकृतैः सामान्यस्नेहपाकपरिभाषयाऽनुक्तमपि तिलतैलं पाचनीयं, विदेहदर्शनात्||४१||
Adhikarana 40 (42) · Śloka 42
विडङ्गपाठाकिणिहीङ्गुदीत्वचः प्रयोजयेद्धूममुशीरसंयुताः |४२|
कफतिमिरे धूममाह- विडङ्गेत्यादि| किणिही अपामार्गः| ननु तिमिरे धूमो निषिद्धः, कथमत्रोच्यते? सत्यं, पित्ततिमिरे एव धूमो निषिद्धो न कफजे, अतो न दोषः|४२|-
Adhikarana 41 (42) · Śloka 42
वनस्पतिक्वाथविपाचितं घृतं हितं हरिद्रानलदे च तर्पणम् ||४२||
कफतिमिरे तर्पणमाह- वनस्पतिक्वाथेत्यादि| वनस्पतयः क्षीरवृक्षाः, तत्कृतक्वाथे चतुर्गुणे हरिद्रानलदकल्कचतुर्थांशं घृतं पक्वं कफतिमिरे तर्पणे अक्षिपूरणापरपर्याये हितम्| नलदम् उशीरम्||४२||
Adhikarana 42 (43) · Śloka 43
समागधो माक्षिकसैन्धवाढ्यः सजाङ्गलः स्यात् पुटपाक एव च |४३|
कफतिमिरे पुटपाकमाह- समागध इत्यादि| मागधी पिप्पली| आढ्य उत्कटः| सजाङ्गलः जाङ्गलमृगपक्षिमांसकृतः| केचित् ‘आढ्यः’ इत्यत्र ‘आज्य’ इति पठन्ति| तत्राज्यं घृतम्| केचिदमुं पुटपाकं रागिणि कफतिमिरे वदन्ति, तन्नेच्छति गयी|४३|-
Adhikarana 43 (43) · Śloka 43
मनःशिलात्र्यूषणशङ्खमाक्षिकैः ससिन्धुकासीसरसाञ्जनैः क्रियाः ||४३||
कफतिमिरे रसक्रियाञ्जनमाह- मनःशिलेत्यादि| मनःशिलादिभिः कासीसरसाञ्जनान्तैश्चूर्णीकृतैः सलिलचतुर्थांशनिक्षिप्तैरग्निपाकात् फाणिताकृतीकृतै रसक्रिया| माक्षिकं मधु||४३||
Adhikarana 44 (44) · Śloka 44
हिते च कासीसरसाञ्जने तथा वदन्ति पथ्ये गुडनागरैर्युते |४४|
कफतिमिरेऽपरमपि रसक्रियाञ्जनमाह- हिते इत्यादि| तथेति रसक्रियाञ्जनप्रकारेणेत्यर्थः| पथ्ये इति पथोऽनपेते इत्यर्थः| कफकाचस्य शलाकाकर्मसाध्यत्वात्तत्राञ्जनादिकं न निर्दिष्टम्|४४|-
Adhikarana 45 (44-45) · Śloka 45
यदञ्जनं वा बहुशो निषेचितं समूत्रवर्गे त्रिफलोदके शृते ||४४||
निशाचरास्थिस्थितमेतदञ्जनं क्षिपेच्च मासं सलिलेऽस्थिरे पुनः |
मेषस्य पुष्पैर्मधुकेन संयुतं तदञ्जनं सर्वकृते प्रयोजयेत् ||४५||
सर्वजकाचचिकित्सामाह- यदञ्जनमित्यादि| अञ्जनं स्रोतोञ्जनम्| बहुशो बहून वारान् निषेचितमित्यत्र ‘ध्मातं सत्’ इत्यध्याहार्यम्| मूत्रवर्गे अष्टस्वपि मूत्रेषु| शृते क्वाथीकृते| निशाचरास्थिस्थितमित्यादि| निशाचराणां गृध्रादीनां नलके विगतमज्जनि मूत्रवर्गादिसेचितं तदञ्जनं निक्षिप्य पश्चान्नलकमुखं पिधाय वहति सरिज्जले निखातकीलकोपरि सूत्रेण बद्ध्वा मासं यावत् स्थापयेत्, ततस्तदुद्धृत्य शोषयित्वा मेषशृङ्गपुष्पयष्टीमधुकचूर्णसमांशं तदञ्जनं सर्वकृते रागितिमिरे प्रयोजयेत्| ‘मेषस्य पुष्पैर्मधुकेन संयुतं’ इत्यत्र केचिद् ‘युतं तु पुष्पैर्मधुशिग्रुकोद्भवैः’ इति पठन्ति| तत्र मधुर्मधूकः तस्य सारः, शिग्रुः शोभाञ्जनकस्तस्य पुष्पाणि||४४-४५||
Adhikarana 46 (46) · Śloka 46
क्रियाश्च सर्वाः, क्षतजोद्भवे हितः क्रमः परिम्लायिनि चापि पित्तहृत् |४६|
सान्निपातिकरागितिमिरस्य चिकित्सामाह- क्रियाश्चेत्यादि| क्रिया अत्र तर्पणपुटपाकादिकाः, सर्वा वातपित्तकफमिरोक्ताः, अन्ये तु क्रियाश्च सर्वा वातपित्तकफतिमिरोक्ता रसक्रिया इत्याहुः| रक्ततिमिरे तथा परिम्लायिनि तिमिरे च कः क्रम इत्याह- क्षतजोद्भव इत्यादि| पित्तहृत् क्रमः पित्ततिमिरापहनस्यतर्पणादिक्रम इत्यर्थः| एष एव क्रमोऽरागिणि रक्ततिमिरे, रागिणि पुनः पित्तकाचापहो विधिः|४६|-
Adhikarana 47 (46) · Śloka 46
क्रमो हितः स्यन्दहरः प्रयोजितः समीक्ष्य दोषेषु यथास्वमेव च ||४६||
इदानीं वातादिजेषु तिमिरेषु रागारागप्राप्तेषु वातादिजनिताभिष्यन्दचिकित्सितमतिदिशन्नाह- क्रम इत्यादि| यथास्वमिति यो यस्यात्मीय इत्यर्थः| तेन वाततिमिरे वाताभिष्यन्दक्रमः, पित्ततिमिरे पित्ताभिष्यन्दोक्तः, एवं शेषेषु||४६||
Adhikarana 48 (47) · Śloka 47
दोषोदये नैव च विप्लतिङ्गते द्रव्याणि नस्यादिषु योजयेद्बुधः |४७|
स एव वाताभिष्यन्दादिक्रमो वातादितिमिरेषु कदा कर्तव्य इति दर्शयन्नाह- दोषोदय इत्यादि| दोषोदय इति दोषोदयमात्रे तावद्वातस्यन्दाद्युक्तक्रमो न कर्तव्यः| तथा विप्लुतिङ्गते; कोऽर्थः? समस्तनयनव्याप्तिपरे स्यन्दोक्तक्रमो न कर्तव्यः| एतेन लङ्घनविरेचननिंरूहानुवासनशिरोविरेचनादिना त्र्यहमतिक्रम्य पश्चाद्वातस्यन्दाद्युक्तनस्यादिद्रव्याणि वातादिजनिततिमिरेषु (नस्यतर्पणादिषु) योजयेदित्यर्थः| अन्ये ‘विप्लुतिङ्गते’ इत्यत्र ‘विप्लुते गदे’ इति पठन्ति; तत्र विशब्दो विविधार्थः, तेन विविधतां गते गद इत्यर्थः|४७|-
Adhikarana 49 (47) · Śloka 47
पुनश्च कल्पेऽञ्जनविस्तरः शुभः प्रवक्ष्यतेऽन्यस्तमपीह योजयेत् ||४७||
इदानीं क्रियाकल्पे वक्ष्यमाणमञ्जनविस्तरमत्रोपदिशन्नाह- पुनश्चेत्यादि| कल्पे क्रियाकल्पे इत्यर्थः| अन्यः अपरः| तमिति अञ्जनविस्तरमित्यर्थः||४७||
Adhikarana 50 (48) · Śloka 48
घृतं पुराणं त्रिफलां शतावरीं पटोलमुद्गामलकं यवानपि |
निषेवमाणस्य नरस्य यत्नतो भयं सुघोरात्तिमिरान्न विद्यते ||४८||
इदानीं बहिराश्रयं चिकित्सितं प्रतिपाद्यान्तराश्रयं प्रतिपादयन्नाह- घृतमित्यादि||४८||
Adhikarana 51 (49) · Śloka 49
शतावरीपायस एव केवलस्तथा कृतो वाऽऽमलकेषु पायसः |
प्रभूतसर्पिस्त्रिफलोदकोत्तरो यवौदनो वा तिमिरं व्यपोहति ||४९||
आहारविशेषमाह- शतावरीत्यादि| शतावरीपायस इति शतावरीमूलशृतेन पयसा कृतः शतावरीपायसः, आमलकेषु पायस इति आमलकशृतपयसा कृतः पायस इत्यर्थः| अन्ये तु शतावरीस्वरससिद्धा यवागूः शतावरीपायसः, आमलकस्वरससिद्धा यवागूश्चामलकपायसः| प्रभूतसर्पिरित्यादि प्रचुरघृतो यवौदनो वाट्यसञ्ज्ञकः गृञ्जासञ्ज्ञको वा, त्रिफलोदके प्रचुरे साधित इत्यर्थः||४९||
Adhikarana 52 (50-51) · Śloka 51
जीवन्तिशाकं सुनिषण्णकं च सतण्डुलीयं वरवास्तुकं च |
चिल्ली तथा मूलकपोतिका च दृष्टेर्हितं शाकुनजाङ्गलं च ||५०||
पटोलकर्कोटककारवेल्लवार्ताकुतर्कारिकरीरजानि |
शाकानि शिग्र्वार्तगलानि चैव हितानी दृष्टेर्घृतसाधितानि ||५१||
आहारोपयोगिचक्षुष्यशाकानाह- जीवन्तिशाकमित्यादि| जीवन्ती डोडिका, सुनिषण्णकं चतुष्पत्री, अन्ये शिरवालिकामाहुः, वरवास्तुकं, टङ्कवास्तुकं, चिल्ली क्षेत्रवास्तुकः, मूलकपोतिका बालमूलकं, शाकुनं लावादिकं, जाङ्गलम् एणादिजातं, तर्कारी अरणिका, करीरो गूढपत्रः, शिग्रुः शोभाञ्जनकः, आर्तगलो नीलसहचरः||५०-५१||
Adhikarana 53 (52) · Śloka 52
विवर्जयेत्सिरामोक्षं तिमिरे रागमागते |
यन्त्रेणोत्पीडितो दोषो निहन्यादाशु दर्शनम् ||५२||
सेव्यमुद्दिश्य परिहार्यमाह- विवर्जयेदित्यादि||५२||
Adhikarana 54 (53) · Śloka 53
अरागि तिमिरं साध्यमाद्यं पटलमाश्रितम् |
कृच्छ्रं द्वितीये रागि स्यात्तृतीये याप्यमुच्यते ||५३||
इदानीं मन्दधियां सुखस्मरणाय साध्यादिभेदमाह- अरागीत्यादि||५३||
Adhikarana 55 (54) · Śloka 54
रागप्राप्तेष्वपि हितास्तिमिरेषु तथा क्रियाः |
यापनार्थं यथोद्दिष्टाः सेव्याश्चापि जलौकसः ||५४||
रागप्राप्तेषु विध्यन्तरं यापनार्थं पूर्वमुक्तमप्यनुवदन्नाह- रागप्राप्तेष्वित्यादि| तृतीयपटलप्राप्तरागितिमिरेषु यापनार्थं तथा क्रिया हिता यथोद्दिष्टा इत्यर्थः| तत्र सिरामोक्षस्य निषिद्धत्वादवश्याकर्षणीयशोणिते उपायान्तरमाह- सेव्या इत्यादि||५४||
Adhikarana 56 (55-56) · Śloka 56
श्लैष्मिके लिङ्गनाशे तु कर्म वक्ष्यामि सिद्धये |
न चेदर्धेन्दुघर्माम्बुबिन्दुमुक्ताकृतिः स्थिरः ||५५||
विषमो वा तनुर्मध्ये राजिमान् वा बहुप्रभः |
दृष्टिस्थो लक्ष्यते दोषः सरुजो वा सलोहितः ||५६||
अनौषधसाध्ये श्लैष्मिके लिङ्गनाशेऽर्धेन्द्वाद्याकृतिविशिष्टो दृष्टिस्थो दोषो न चेल्लक्ष्यते तदा साधनार्थं शस्त्रकर्म वक्ष्यामीति निर्दिशन्नाह- श्लैष्मिक इत्यादि| लिङ्गनाशो दृष्टिनाशः| कर्म शस्त्रकर्म| घर्माम्बुबिन्दुः प्रस्वेदबिन्दुः| आकृतिशब्दोऽर्धेन्द्वादिभिः प्रत्येकं सम्बन्धनीयः| स्थिरः कठिनः| विषमो वा तनुर्मध्ये इति यतो मध्ये तनुरत एव विषमो निम्नोन्नत इत्यर्थः||५५-५६||
Adhikarana 57 (57-60) · Śloka 61
स्निग्धस्विन्नस्य तस्याथ काले नात्युष्णशीतले |
यन्त्रितस्योपविष्टस्य स्वां नासां पश्यतः समम् ||५७||
मतिमान् शुक्लभागौ द्वौ कृष्णान्मुक्त्वा ह्यपाङ्गतः |
उन्मील्य नयने सम्यक् सिराजालविवर्जिते ||५८||
नाधो नोर्ध्वं न पार्श्वाभ्यां छिद्रे दैवकृते ततः |
शलाकया प्रयत्नेन विश्वस्तं यववक्रया ||५९||
मध्यप्रदेशिन्यङ्गुष्ठस्थिरहस्तगृहीतया |
दक्षिणेन भिषक् सव्यं विध्येत् सव्येन चेतरत् ||६०||
वारिबिन्द्वागमः सम्यग् भवेच्छब्दस्तथा व्यधे |६१|
तदेव शस्त्रकर्म निर्दिशन्नाह- स्निग्धस्विन्नस्येत्यादि| नात्युष्णशीते साधारणे मार्गशीर्षे चैत्रे वा| शुक्लभागौ द्वावपि द्वौ शुक्लतारकांशावित्यर्थः| कृष्णात् कृष्णतारकान्तात्, मुक्त्वा परित्यज्य, अपाङ्गतः अपाङ्गसमीपे, विध्येदित्यर्थः| सम्यगिति नातिप्रसारितं नातिसङ्कुचितं यथा स्यादित्यर्थः| दैवकृते छिद्रे इति छिद्रमिव छिद्रं न परमार्थतश्छिद्रमस्ति| विश्वस्तं असन्त्रस्तं यथा स्यात्| सव्यं वामनेत्रं, सव्येन वामहस्तेन, इतरत् दक्षिणनयनम्| सम्यग्विद्धलक्षणमाह- वारिबिन्द्वागम इत्यादि| सम्यगिति पदं व्यध इत्यत्र सम्बध्यते| असम्यग्व्यधे च रक्तनिर्गमनमशब्दता च||५७-६०||-
Adhikarana 58 (61-63) · Śloka 64
संसिच्य विद्धमात्रं तु योषित्स्तन्येन कोविदः ||६१||
स्थिरे दोषे चले वाऽपि स्वेदयेदक्षि बाह्यतः |
सम्यक् शलाकां संस्थाप्य भङ्गैरनिलनाशनैः ||६२||
शलाकाग्रेण तु ततो निर्लिखेद्दृष्टिमण्डलम् |
विध्यतो योऽन्यपार्श्वेऽक्ष्णस्तं रुद्ध्वा नासिकापुटम् ||६३||
उच्छिङ्घनेन हर्तव्यो दृष्टिमण्डलगः कफः |६४|
सम्यग्विद्धे नेत्रे सति किं कार्यमित्याह- संसिच्येत्यादि| योषित्स्तन्येन नारीक्षीरेण| कोविदो धीमान् वैद्यः| स्थिरे अचले| शलाकां संस्थाप्य निश्चलीकृत्य| भङ्गैः पल्लवैः| स्वेदानन्तरं किं कर्तव्यमित्याह- शलाकाग्रेणेत्यादि| ततः स्वेदानन्तरं; दृष्टिमण्डलं निर्लिखेत् श्लेष्मसंहतिविश्लेषार्थम्| शलाकाग्रविनिर्लेखनाद्विश्लिष्टकफस्य निर्हरणोपायमाह- विध्यत इत्यादि| विध्यतोऽक्ष्णोऽन्यपार्श्वे यो नासापुटस्तं नासापुटं रुद्ध्वा दृष्टिमण्डलगः कफ उच्छिङ्घनेन हर्तव्य इति पिण्डार्थः||६१-६३||-
Adhikarana 59 (64-68) · Śloka 68
निरभ्र इव घर्मांशुर्यदा दृष्टिः प्रकाशते ||६४||
तदाऽसौ लिखिता सम्यग् ज्ञेया या चापि निर्व्यथा |
(एवं त्वशक्ये निर्हर्तुं दोषे प्रत्यागतेऽपि वा ||६५||
स्नेहाद्यैरुपपन्नस्य व्यधो भूयो विधीयते) |
ततो दृष्टेषु रूपेषु शलाकामाहरेच्छनैः ||६६||
घृतेनाभ्यज्य नयनं वस्त्रपट्टेन वेष्टयेत् |
ततो गृहे निराबाधे शयीतोत्तान एव च ||६७||
उद्गारकासक्षवथुष्ठीवनोत्कम्पनानि च |
तत्कालं नाचरेदूर्ध्वं यन्त्रणा स्नेहपीतवत् ||६८||
सम्यग्लिखितलक्षणमाह- निरभ्र इत्यादि| निरभ्रो निर्मेघः, घर्मांशुः आदित्यः| ततो दृष्टेष्वित्यादि| शलाकामाहृत्य किं कुर्यादित्याह- घृतेनाभ्यज्येत्यादि| निराबाधे धूलिधूमवातातपादिरहिते| उत्तानशयनमृजूकरणार्थं| उद्गारेत्यादि| क्षवथुः छिक्का| तत्कालमिति यावच्छलाका नेत्रे तिष्ठति| तत ऊर्ध्वं यन्त्रणा आहारादीनां नियमः, स्नेहपीतवत् स्नेहपानोक्तः कार्यः||६४-६८||
Adhikarana 60 (69) · Śloka 69
त्र्यहात् त्र्यहाच्च धावेत कषायैरनिलापहैः |
वायोर्भयात् त्र्यहादूर्ध्वं स्वेदयेदक्षि पूर्ववत् ||६९||
त्र्यहादित्यादि| धावेत प्रक्षालयेत्| अनिलापहैः एरण्डमूलादिवातापहचक्षुष्यद्रव्यैः क्षीराम्बुसाधितैः| प्रक्षालनानन्तरं किं कर्तव्यमित्याह- वायोर्भयादित्यादि| पूर्ववदिति बाह्यतो मृदु स्वेदयेदित्यर्थः||६९||
Adhikarana 61 (70) · Śloka 70
दशाहमेवं संयम्य हितं दृष्टिप्रसादनम् |
पश्चात्कर्म च सेवेत लघ्वन्नं चापि मात्रया ||७०||
दशाहमेवमित्यादि| एवमुत्तानशयनादिना दशाहं नियम्य तदनन्तरं पश्चात्कर्म नस्यतर्पणशिरोबस्त्यादिकं यद्दृष्टिप्रसादनं दृष्टेर्नैर्मल्यजननं तत् सेवेतेति पिण्डार्थः||७०||
Adhikarana 62 (71) · Śloka 71
सिराव्यधविधौ पूर्वं नरा ये च विवार्जिताः |
न तेषां नीलिकां विध्येदन्यत्राभिहिताद्भिषक् ||७१||
इदानीं श्लैष्मिकेऽपि लिङ्गनाशे केषाञ्चित् पुरुषाणां शस्त्रनिषेधं दर्शयन्नाह- सिराव्यधविधौ पूर्वमित्यादि| नरा ये च विवर्जिता इति सिराव्यधविधौ ये नरा बालस्थविरादयो विवर्जितास्तेषां नीलिकां लिङ्गनाशापरपर्यायां न विध्येत्| अन्यत्राभिहितादिति तथाऽभिहितात् कथिताद्दैवकृताच्छिद्रादन्यत्र न विध्येत्| चकारस्तु सिराविद्धैः पुरुषैर्ये क्रोधादयो विवर्जनीयास्तेऽपि नीलिकायां वर्जनीया इति ज्ञापयति||७१||
Adhikarana 63 (72) · Śloka 72
पूर्यते शोणितेनाक्षि सिरावेधाद्विसर्पता |
तत्र स्त्रीस्तन्ययष्ट्याह्वपक्वं सेके हितं घृतम् ||७२||
दैवकृतच्छिद्रादन्यत्र कस्मान्न नीलिकां विध्येदित्याह- पूर्यत इत्यादि| विसर्पता शोणितेनाक्षि पूर्यत इत्यर्थः| प्रमादाद्दैवकृतच्छिद्रादन्यत्रापि विद्धे सति व्यापदुपशमनार्थं चिकित्सितमाह- तत्रेत्यादि||७२||
Adhikarana 64 (73-79) · Śloka 79
अपाङ्गासन्नविद्धे तु शोफशूलाश्रुरक्तताः |
तत्रोपनाहं भ्रूमध्ये कुर्याच्चोष्णाज्यसेचनम् ||७३||
व्यधेनासन्नकृष्णेन रागः कृष्णं च पीड्यते |
तत्राधःशोधनं सेकः सर्पिषा रक्तमोक्षणम् ||७४||
अथाप्युपरि विद्धे तु कष्टा रुक् सम्प्रवर्तते |
तत्र कोष्णेन हविषा परिषेकः प्रशस्यते ||७५||
शूलाश्रुरागास्त्वत्यर्थमधोवेधेन पिच्छिलः |
शलाकामनु चास्रावस्तत्र पूर्वचिकित्सितम् ||७६||
रागाश्रुवेदनास्तम्भहर्षाश्चातिविघट्टिते |
स्नेहस्वेदौ हितौ तत्र हितं चाप्यनुवासनम् ||७७||
दोषस्त्वधोऽपकृष्टोऽपि तरुणः पुनरूर्ध्वगः |
कुर्याच्छुक्लारुणं नेत्रं तीव्ररुङ्नष्टदर्शनम् ||७८||
मधुरैस्तत्र सिद्धेन घृतेनाक्ष्णः प्रसेचनम् |
शिरोबस्तिं च तेनैव दद्यान्मांसैश्च भोजनम् ||७९||
इदानीमस्थानवेधात् सङ्क्षेपेण व्यापदमभिधाय विस्तरेणापि व्यापदो निर्दिशन्नाह- अपाङ्गेत्यादि| तत्र चिकित्सामाह- तत्रोपनाहमित्यादि| चिकित्सामाह- तत्राध इत्यादि| अधःशोधनं विरेकः, रक्तमोक्षणमत्र जलौकोभिः| अथेत्यादि| कष्टा तीव्रा| चिकित्सामाह- तत्र कोष्णेनेत्यादि| शूलेत्यादि| अनु शलाकां शलाकाया अनन्तरमेवेत्यर्थः| चिकित्सामाह- तत्रेत्यादि| पूर्वचिकित्सितं स्त्रीस्तन्ययष्ट्याह्वेत्यादिकम्| हर्षो रोमाञ्चप्रायो वेदनाविशेषः, अतिविघट्टिते अतिचालिते| चिकित्सामाह- स्नेहस्वेदावित्यादि| तरुणो लिङ्गनाशमप्राप्तः| चिकित्सामाह- मधुरैरित्यादि| मधुरैः यष्टीमधुकादिभिः तेनैव यष्टीमधुकादिसिद्धेनैव||७३-७९||
Adhikarana 65 (80) · Śloka 80
दोषस्तु सञ्जातबलो घनः सम्पूर्णमण्डलः |
प्राप्य नश्येच्छलाकाग्रं तन्वभ्रमिव मारुतम् ||८०||
दोषस्तु सञ्जातेत्यादि||८०||
Adhikarana 66 (81) · Śloka 81
मूर्धाभिघातव्यायामव्यवायवमिमूर्च्छनैः |
दोषः प्रत्येति कोपाच्च विद्धोऽतितरुणश्च यः ||८१||
निर्लिखितस्यापि दोषस्य पुनरावृत्तिकारणान्याह- मूर्धाभिघातेत्यादि| प्रत्येति आगच्छति| तरुणो लिङ्गनाशमप्राप्तः||८१||
Adhikarana 67 (82) · Śloka 83
शलाका कर्कशा शूलं, खरा दोषपरिप्लुतिम् |
व्रणं विशालं स्थूलाग्रा, तीक्ष्णा हिंस्यादनेकधा ||८२||
जलास्रावं तु विषमा, क्रियासङ्गमथास्थिरा |
करोति ... |८३|
दुष्टशलाकाजनितव्यापदमाह- शलाकेत्यादि| दोषपरिप्लुतिः दोषस्य समन्तादागमनम्| हिंस्यादनेकधेति अनेकप्रकारं क्षतं करोतीत्यर्थः| विषमा कृशस्थूला| अस्थिरा वृद्धा मुग्धा | ‘करोति’ इति पदमन्ते निर्दिष्टत्वात् सर्वत्र सम्बध्यते||८२||-
Adhikarana 68 (83-84) · Śloka 85
... वर्जिता दोषैस्तस्मादेभिर्हिता भवेत् ||८३||
अष्टाङ्गुलायता मध्ये सूत्रेण परिवेष्टिता |
अङ्गुष्ठपर्वसमिता वक्त्रयोर्मुकुलाकृतिः ||८४||
ताम्रायसी शातकुम्भी शलाका स्यादनिन्दिता |८५|
वर्जितेत्यादि| एभिर्दोषैरनन्तरोक्तैः कर्कशादिभिर्विरहिता| हिता कार्यकारिणी| शातकुम्भी सुवर्णमयी||८३-८४||-
Adhikarana 69 (85-86) · Śloka 86
रागः शोफोऽर्बुदं चोषो बुद्बुदं शूकराक्षिता ||८५||
अधिमन्थादयश्चान्ये रोगाः स्युर्व्यधदोषजाः |
अहिताचारतो वाऽपि यथास्वं तानुपाचरेत् ||८६||
इदानीं दुष्टव्यधाहाराचारजान् रोगानाह- राग इत्यादि| चोष आचूष्यत इव वेदनाविशेषः| बुद्बुदं बुद्बुदाकारो मांसनिर्गमः| शूकराक्षिता अधोदृष्टित्वम्| तत्र चिकित्सितमाह- यथास्वमित्यादि| यथास्वं यथात्मीयं, यथादोषमित्यर्थः||८५-८६||
Adhikarana 70 (87-94) · Śloka 94
रुजायामक्षिरागे वा योगान् भूयो निबोध मे |
गैरिकं सारिवा दूर्वा यवपिष्टं घृतं पयः ||८७||
सुखालेपः प्रयोज्योऽयं वेदनारागशान्तये |
मृदुभृष्टैस्तिलैर्वाऽपि सिद्धार्थकसमायुतैः ||८८||
मातुलुङ्गरसोपेतैः सुखालेपस्तदर्थकृत् |
पयस्यासारिवापत्रमञ्जिष्ठामधुकैरपि ||८९||
अजाक्षीरान्वितैर्लेपः सुखोष्णः पथ्य उच्यते |
दारुपद्मकशुण्ठीभिरेवमेव कृतोऽपि वा ||९०||
द्राक्षामधुककुष्ठैर्वा तद्वत् सैन्धवसंयुतैः |
रोध्रसैन्धवमृद्वीकामधुकैर्वाऽप्यजापयः ||९१||
शृतं सेके प्रयोक्तव्यं रुजारागनिवारणम् |
मधुकोत्पलकुष्ठैर्वा द्राक्षालाक्षासितायुतैः |
ससैन्धवैः शृतं क्षीरं रुजारागनिबर्हणम् ||९२||
शतावरीपृथक्पर्णीमुस्तामलकपद्मकैः |
साजक्षीरैः शृतं सर्पिर्दाहशूलनिबर्हणम् ||९३||
वातघ्नसिद्धे पयसि सिद्धं सर्पिश्चतुर्गुणे |
काकोल्यादिप्रतीवापं तद्युञ्ज्यात् सर्वकर्मसु ||९४||
इदानीं कर्कशशलाकाजनिते शूले तथा दुष्टव्यधजे च रोगे चिकित्सामुद्दिशन्नाह- रुजायामित्यादि| निबोध जानीहि| सारिवा उत्पलसारिवा| मृदुभृष्टैरित्यादि| सिद्धार्थकः सर्षपः| तदर्थकृत् वेदनारागनाशकृत्| पयस्येत्यादि| पयस्या अर्कपुष्पी, क्षीरकाकोलीत्यन्ये| पत्रं पत्रकम्| दारुपद्मकेत्यादि| एवमेवेति अजाक्षीरान्वितैः दारुपद्मकादिभिः लेपः कार्यः; तद्वद्द्राक्षादिभिरपि| रोध्रसैन्धवेत्यादि| वातघ्नानि भद्रदार्वादीनि| सर्वकर्मसु नस्यालेपनादिषु||८७-९४||
Adhikarana 71 (95) · Śloka 95
शाम्यत्येवं न चेच्छूलं स्निग्धस्विन्नस्य मोक्षयेत् |
ततः सिरां दहेद्वाऽपि मतिमान् कीर्तितं यथा ||९५||
एवमप्यशाम्यति शूले किं कुर्यादित्याह- शाम्यत्येवमित्यादि| सिराऽत्र औपनासिका आपाङ्ग्या लालाट्या वा| न केवलं सिरां मोक्षयेत् दहेद्वा| कीर्तितं यथेति ‘भ्रूललाटशङ्खप्रदेशेषु दहेत्’ इत्यादिवाक्येन||९५||
Adhikarana 72 (96-99) · Śloka 99
दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे |
मेषशृङ्गस्य पुष्पाणि शिरीषधवयोरपि ||९६||
सुमनायाश्च पुष्पाणि मुक्ता वैदूर्यमेव च |
अजाक्षीरेण सम्पिष्य ताम्रे सप्ताहमावपेत् ||९७||
प्रविधाय च तद्वर्तीर्योजयेच्चाञ्जने भिषक् |
स्रोतोजं विद्रुमं फेनं सागरस्य मनःशिलाम् ||९८||
मरिचानि च तद्वर्तीः कारयेच्चापि पूर्ववत् |
दृष्टिस्थैर्यार्थमेतत्तु विदध्यादञ्जने हितम् ||९९||
सिराव्यधेनाप्यवशिष्टदोषकलुषिताया दृष्टेः प्रसादनार्थमञ्जने आह- दृष्टेरत इत्यादि| सुमना जाती| आवपेत् प्रतिक्षिपेत्| स्रोतोजं सौवीराञ्जनं विद्रुमं प्रवालम्| मेषशृङ्गस्येत्याद्येकं, स्रोतोजमित्यादि द्वितीयम्||९६-९९||
Adhikarana 73 (100) · Śloka 100
भूयो वक्ष्यामि मुख्यानि विस्तरेणाञ्जनानि च |
कल्पे नानाप्रकाराणि तान्यपीह प्रयोजयेत् ||१००||
भूय इत्यादि| कल्पे क्रियाकल्पे||१००||
Adhikarana puShpikA · Śloka 17
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे दृष्टिगतरोगविज्ञानीयो नाम सप्तदशोऽध्यायः ||१७||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे सप्तदशोऽध्यायः||१७||