Adhikarana 1 (1-2) · Śloka 2
अथातः पित्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
वाताभिष्यन्दप्रतिषेधानन्तरं ‘वाताद्दश तथा पित्तात्’ इति वचनात् पित्ताभिष्यन्दप्रतिषेधारम्भः- अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः पित्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
वाताभिष्यन्दप्रतिषेधानन्तरं ‘वाताद्दश तथा पित्तात्’ इति वचनात् पित्ताभिष्यन्दप्रतिषेधारम्भः- अथात इत्यादि||१-२||
Adhikarana 2 (3) · Śloka 3
पित्तस्यन्दे पैत्तिके चाधिमन्थे रक्तास्रावः स्रंसनं चापि कार्यम् | अक्ष्णोः सेकालेपनस्याञ्जनानि पैत्ते च स्याद्यद्विसर्पे विधानम् ||३||
🔊 Audio coming soon
पित्तेत्यादि| स्रंसनं विरेकः| पित्तविसर्पविधानं ‘उशीरलामज्जकचन्दनानि’ इत्यादिप्रलेपाः| पूर्ववदत्राप्यपतर्पणादिभिः कृतामपाचनस्य स्नेहपूर्वकः सिरामोक्षः||३||
Adhikarana 3 (4-5) · Śloka 6
गुन्द्रां शालिं शैवलं शैलभेदं दार्वीमेलामुत्पलं रोध्रमभ्रम् | पद्मात्पत्रं शर्करा दर्भमिक्षुं तालं रोध्रं वेतसं पद्मकं च ||४|| द्राक्षां क्षौद्रं चन्दनं यष्टिकाह्वं योषित्क्षीरं रात्र्यनन्ते च पिष्ट्वा | सर्पिःसिद्धं तर्पणे सेकनस्ये शस्तं क्षीरं सिद्धमेतेषु चाजम् ||५|| योज्यो वर्गो व्यस्त एषोऽन्यथा वा सम्यङ्नस्येऽष्टार्धसङ्ख्येऽपि नित्यम् |६|
🔊 Audio coming soon
इदानीं पित्तस्याभिष्यन्दयौगिकद्रव्याण्याह- गुन्द्रामित्यादि| गुन्द्रा एरकाभेदः, गवेधुकेत्यन्ये, शैवलं दूर्वा, शैलभेदः पाषाणभेदः, चन्दनं रक्तचन्दनं, रात्रिः हरिद्रा, अनन्ता उत्पलसारिवा, योषित्क्षीरं स्त्रीस्तन्यं, शर्करादेः साहचर्यात् कल्कद्रव्ये इक्षुरिति इक्षुरसेन द्रवकार्यम्| व्यस्तः असमस्तः, अन्यथा वा समस्त इत्यर्थः| यद्यपि वर्गत्वात् ‘समस्तं वर्गमर्धं वा यथालाभमथापि वा’ इति शल्यतन्त्रोक्तपरिभाषयैव समस्तव्यस्तता प्राप्ता, तथाऽपि शालाक्यतन्त्रत्वादत्र पुनरुक्ता| नस्ये अष्टार्धसङ्ख्ये चतुःसङ्ख्ये प्रतिमर्षावपीडनस्यशिरोविरेचनाख्ये||४-५||-
Adhikarana 4 (6) · Śloka 6
क्रियाः सर्वा पित्तहर्यः प्रशस्तास्त्र्यहाच्चोर्ध्वं क्षीरसर्पिश्च नस्यम् ||६||
🔊 Audio coming soon
क्रिया इत्यादि| क्षीरसर्पिश्चेति ‘भोजने’ इति शेषः| नस्यमित्युपलक्षणं, तेनाश्च्योतनसेकाञ्जनादि गृह्यते| यद्यपि ‘पैत्ते च स्याद्यद्विसर्पे विधानं’ इत्यनेनैव पित्तहरी क्रिया कथिता, तथाऽपि तत्र व्याधिप्रत्यनीकतयोक्ता, अत्र तु दोषप्रत्यनीकत्वेनेति न दोषः||६||
Adhikarana 5 (7) · Śloka 7
पालाशं स्याच्छोणितं चाञ्जनार्थे शल्लक्या वा शर्कराक्षौद्रयुक्तम् |७|
🔊 Audio coming soon
रक्तपित्तप्रसादकाञ्जनानां रसक्रिया प्रथमा, अतस्तामाह- पालाशमित्यादि| पालाशं शोणितं किंशुकरसः; अन्ये पलाशखपुरमाहुः|७|-
Adhikarana 6 (7) · Śloka 7
रसक्रियां शर्कराक्षौद्रयुक्तां पालिन्द्यां वा मधुके वाऽपि कुर्यात् ||७||
🔊 Audio coming soon
अपरामपि रसक्रियामाह- रसक्रियामित्यादि| रसक्रियाफाणिताकृतिः| तथा चोक्तम्- “गृहीत्वा क्वाथकल्पेन क्वाथं पूतं पुनः पुनः| क्वाथयेत् फाणिताकारमेषा प्रोक्ता रसक्रिया” इति| पालिन्दी श्यामा त्रिवृत्, सारिवामन्ये||७||
Adhikarana 7 (8) · Śloka 8
मुस्ता फेनः सागरस्योत्पलं च कृमिघ्नैलाधात्रिबीजाद्रसश्च |८|
🔊 Audio coming soon
अपरमपि रसक्रियाञ्जनमाह- मुस्तेत्यादि| कृमिघ्ना विडङ्गाः, धात्री आमलकं, बीजः पीतसारः ‘बीजक’ इति यावत्, मुस्तादीनां रसे रसक्रिया कार्या|८|-
Adhikarana 8 (8) · Śloka 8
तालीशैलागैरिकोशीरशङ्खैरेवं युञ्ज्यादञ्जनं स्तन्यपिष्टैः ||८||
🔊 Audio coming soon
वर्त्यञ्जनमाह- तालीशेत्यादि| काशीशैलेति केचित् पठन्ति||८||
Adhikarana 9 (9) · Śloka 9
चूर्णं कुर्यादञ्जनार्थे रसो वा स्तन्योपेतो धातकीस्यन्दनाभ्याम् |९|
🔊 Audio coming soon
चूर्णाञ्जनमाह- चूर्णमित्यादि| रसो वेति रसक्रिया वेत्यर्थः| स्यन्दनोऽनेनैव नाम्ना प्रसिद्धः| केचित् चन्दनाभ्यामिति पठन्ति|९|-
Adhikarana 10 (9) · Śloka 9
योषित्स्तन्यं शातकुम्भं विघृष्टं क्षौद्रोपेतं कैंशुकं चापि पुष्पम् ||९||
🔊 Audio coming soon
योषिदित्यादि| शातकुम्भं सुवर्णं, तच्च योषित्स्तन्येन घृष्टमञ्जनम्| क्षौद्रयुक्तं वा किंशुकपुष्पं घृष्टं ताम्रपात्रादावञ्जनम्||९||
Adhikarana 11 (10) · Śloka 10
रोध्रं द्राक्षां शर्करामुत्पलं च नार्याः क्षीरे यष्टिकाह्वं वचां च | पिष्ट्वा क्षीरे वर्णकस्य त्वचं च तोयोन्मिश्रे चन्दनोदुम्बरे च ||१०||
🔊 Audio coming soon
रोध्रमित्यादि| रोध्रादिवचान्तं नारीक्षीरे पिष्टमेकमञ्जनम्| वर्णको रोचनिका; तस्यास्त्वक् नारीक्षीरेण पिष्टा द्वितीयमञ्जनम्| अन्ये वर्णकत्वक्शब्देन कर्णिकारवृक्षस्य वल्कलं कथयन्ति, तन्नेच्छति गयी| तोयोन्मिश्रे चन्दनोदुम्बरे चेति तृतीयाञ्जनं, तोयोन्मिश्रे बालकयुक्ते, चन्दनं कुचन्दनं; पञ्जिकाकारस्तु चन्दनोदुम्बरं भृशतरं चूर्णितं वस्त्रबद्धं तोयप्लुतमाश्च्योतनाञ्जनमाह||१०||
Adhikarana 12 (11-12) · Śloka 12
कार्यः फेनः सागरस्याञ्जनार्थे नारीस्तन्ये माक्षिके चापि घृष्टः | योषित्स्तन्ये स्थापितं यष्टिकाह्वं रोध्रं द्राक्षां शर्करामुत्पलं च ||११|| क्षौमाबद्धं पथ्यमाश्च्योतने वा सर्पिर्घृष्टं यष्टिकाह्वं सरोध्रम् | तोयोन्मिश्राः काश्मरीधात्रिपथ्यास्तद्वच्चाहुः कट्फलं चाम्बुनैव ||१२||
🔊 Audio coming soon
कार्य इत्यादि| अपरमाश्च्योतनमाह- नारीत्यादि| यष्टिमधुकादिद्रव्यमतीव चूर्णितं स्त्रीस्तन्यस्थापितं क्षौमवस्त्रावबद्धमाश्च्योतने हितमित्यर्थः| यष्टिकाह्वं सरोध्रमिति यष्टिमधुकरोध्रे वा घृतघृष्टे पूर्ववदाश्च्योतनम्||११-१२||
Adhikarana 13 (13) · Śloka 13
एषोऽम्लाख्येऽनुक्रमश्चापि शुक्तौ कार्यः सर्वः स्यात्सिरामोक्षवर्ज्यः ||१३||
🔊 Audio coming soon
इदानीमम्लाध्युषितशुक्त्योः सामान्यचिकित्सामाह- एष इत्यादि| केचिदम्लाध्युषितशुक्त्योरशस्त्रकृत्यत्वादेव सिरामोक्षवर्जनं सिद्धम्, अतः ‘शिरामोक्षवर्ज्य’ इति पाठं न पठन्ति||१३||
Adhikarana 14 (14) · Śloka 14
सर्पिः पेयं त्रैफलं तैल्वकं वा पेयं वा स्यात् केवलं यत् पुराणम् |१४|
🔊 Audio coming soon
अम्लाध्युषिते विशेषचिकित्सितमाह- सर्पिरित्यादि| आद्यं घृतद्वयं संशोधनं, पुराणघृतं तु संशमनम्|१४|-
Adhikarana 15 (14) · Śloka 14
दोषेऽधस्ताच्छुक्तिकायामपास्ते शीतैर्द्रव्यैरञ्जनं कार्यमाशु ||१४||
🔊 Audio coming soon
शुक्तिकायां विशेषचिकित्सितमाह- दोषे इत्यादि| अधस्तादपास्ते दोषे ‘विरेचनेन’ इति शेषः||१४||
Adhikarana 16 (15) · Śloka 15
वैदूर्यं यत् स्फाटिकं वैद्रुमं च मौक्तं शाङ्खं राजतं शातकुम्भम् | चूर्णं सूक्ष्मं शर्कराक्षौद्रयुक्तं शुक्तिं हन्यादञ्जनं चैतदाशु ||१५||
🔊 Audio coming soon
तान्येव शीतद्रव्याण्याह- वैदूर्यमित्यादि||१५||
Adhikarana 17 (16) · Śloka 16
युञ्ज्यात् सर्पिर्धूमदर्शी नरस्तु शेषं कुर्याद्रक्तपित्ते विधानम् | यच्चैवान्यत् पित्तहृच्चापि सर्वं यद्वीसर्पे पैत्तिके वै विधानम् ||१६||
🔊 Audio coming soon
धूमदर्शिनश्चिकित्सितमाह- युञ्ज्यादित्यादि| रक्तपित्ते विधानमिति रक्ताभिष्यन्दे पित्ताभिष्यन्दे च चिकित्सितं यदुक्तं तदित्यर्थः| अन्यत् पित्तहृदिति पित्तविदग्धदृष्टेर्यद्विधानं तदत्र योजयेत्| यद्वीसर्पे पैत्तिके वै विधानमिति पित्तविसर्पोक्तं विधानं योजयेदिति सम्बन्धः||१६||
Adhikarana puShpikA · Śloka 10
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पित्ताभिष्यन्दप्रतिषेधो नाम दशमोऽध्यायः ||१०||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे दशमोऽध्यायः||१०||