Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

9. vātābhiṣyandapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो वाताभिष्यन्दप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

चिकित्सितप्रविभागीयानन्तरं सर्वेषां नयनामयानामभिष्यन्दमूलत्वात्, तत्रापि पित्तादीनां वातस्यैवावरणत्वेन निदानभूतत्वादादौ वाताभिष्यन्दप्रतिषेधो युक्त इत्यत आह- अथात इत्यादि| अत्रादिशब्दो लुप्तो द्रष्टव्यः, तेन वाताभिष्यन्दादिप्रतिषेधं व्याख्यास्याम इत्यर्थः; प्रतिषेधः चिकित्सितं; एवं पित्ताभिष्यन्दप्रतिषेधादिष्वादिशब्दो द्रष्टव्यः||१-२||

Adhikarana 2 (3-4) · Śloka 5

पुराणसर्पिषा स्निग्धौ स्यन्दाधीमन्थपीडितौ | स्वेदयित्वा यथान्यायं सिरामोक्षेण योजयेत् ||३|| सम्पादयेद्बस्तिभिस्तु सम्यक् स्नेहविरेचितौ | तर्पणैः पुटपाकैश्च धूमैराश्च्योतनैस्तथा ||४|| नस्यस्नेहपरीषेकैः शिरोबस्तिभिरेव च |५|

🔊 Audio coming soon

तत्र सिराव्यधसाध्येषु पञ्चदशस्वभिष्यन्दाधिमन्थौ पठितौ, सिराव्यधसाध्यानां चाक्षिरोगाणां शोणितमूलत्वान्मूलोच्छेदार्थं पूर्वं दूष्यनिर्हरणं दर्शयन्नाह- पुराणेत्यादि| पुराणं सर्पिः संवत्सरोषितं घृतम्; अन्ये दशवर्षस्थितं घृतं पुराणं कथयन्ति| यथान्यायं यथाशास्त्रमित्यर्थः| तेन दृष्टेः समीपमुत्तमाङ्गमल्पं स्वेदयेत्, दृष्टिरस्वेद्या| यथान्यायमिति पदं स्नेहपानसिरामोक्षाभ्यां सह योजयेत्| तेन स्नेहोपयौगिकोक्तो विधिः ‘प्राक् पाचितामदोषाय’ इत्यादिकोऽवधारणीयः| तेनात्रापि दोषव्याधिनिरामतायामेव सर्पिःपानादयो विधेयाः| तथा च तन्त्रान्तरं,- “स्वेदः प्रलेपस्तिक्तान्नं धूमो दिनचतुष्टयम्| लङ्घनं चाक्षिरोगाणामामानां पाचनानि षट्|| अञ्जनं सर्पिषः पानं कषायं गुरुभोजनम्| नेत्ररोगेषु सामेषु स्नानं च परिवर्जयेत्”- इति| विदेहेऽपि,- “प्रागेवाक्ष्यामये भक्तं त्रिरात्रमगुरु स्मृतम्| उपवासस्त्र्यहं वा स्यान्नक्तं वाऽप्यशनं हितम्|| ततश्चतुर्थे दिवसे व्याधौ सञ्जातलक्षणे| यथोक्तास्तु क्रियाः कार्या नस्यसेकाञ्जनादिकाः”- इति| सिरामोक्षेणेत्यत्र सिरा उपनासिका लालाट्या वा आपाङ्ग्या वा| दूष्यहरणं प्रतिपाद्य दोषचिकित्सितमाह- सम्पादयेदित्यादि| सम्पादयेत् योजयेत्| बस्तिभिः स्नेहबस्तिभिर्निरूहैर्वा| सम्यगिति हीनमिथ्यातियोगरहितैः| स्नेहविरेचिताविति स्नेहविरेचनं तु पित्तस्यानुगते पित्तासृगनुगते वा वायौ बलवतो बहुदोषस्य चेति| दुर्बलस्याल्पदोषस्य च पुरुषस्य स्वस्थानगतो मलावृतः स्वतन्त्रो वा बस्तिभिरेवावजेतव्यः| बस्तिरपि मलावृते वाते नैरूहिकः, धातुक्षयजे स्नैहिकः| सम्यक्शब्दो बस्त्यादिषु शिरोबस्त्यन्तेषु सम्बध्यते| तर्पणादिविधानं क्रियाकल्पे भविष्यति| तत्र सेकः सुखोष्णः, आश्च्योतनं च शीतमेव||३-४||-

Adhikarana 3 (5-6) · Śloka 7

वातघ्नानूपजलजमांसाम्लक्वाथसेचनैः ||५|| स्नेहैश्चतुर्भिरुष्णैश्च तत्पीताम्बरधारणैः | पयोभिर्वेसवारैश्च साल्वणैः पायसैस्तथा ||६|| भिषक् सम्पादयेदेतावुपनाहैश्च पूजितैः |७|

🔊 Audio coming soon

पूर्वं स्वेदयित्वेत्युक्तं, तत्र द्रवादिस्वेदानुपपादयन्नाह- वातघ्नेत्यादि| वातघ्नानि भद्रदार्वादीनि| उष्णैः सुखोष्णैः| उष्णैरिति पदं वातघ्नादिभिः सम्बध्यते| तत्पीताम्बरधारणैरिति चतुःस्नेहमितवस्त्रधारणैरित्यर्थः| साल्वणैरिति साल्वणस्यैकत्वात् कथं बहुवचनं? सत्यं, यौगिकैरन्यैरपि द्रव्यैः स्वेदः कार्य इति बोधनार्थं बहुवचनं, स्वेदयित्वा सिरामोक्षेण योजयेदित्युक्तम्||५-६||-

Adhikarana 4 (7) · Śloka 8

ग्राम्यानूपौदकरसैः स्निग्धैः फलरसान्वितैः ||७|| सुसंस्कृतैः पयोभिश्च तयोराहार इष्यते |८|

🔊 Audio coming soon

न चाभुक्तवतः शस्त्रकर्म कुर्यादित्याशङ्क्याहारमाह- ग्राम्येत्यादि| फलरसान्वितैरिति दाडिमामलकरससंयुक्तैः| सुसंस्कृतैः पयोभिरिति शतावरीशृङ्गवेरप्रभृतिद्रव्यसंस्कृतैरित्यर्थः| तयोः स्यन्दाधिमन्थयोः||७||-

Adhikarana 5 (8-9) · Śloka 10

तथा चोपरि भक्तस्य सर्पिःपानं(ने)प्रशस्यते ||८|| त्रिफलाक्वाथसंसिद्धं केवलं जीर्णमेव वा | सिद्धं वातहरैः क्षीरं प्रथमेन गणेन वा ||९|| स्नेहास्तैलाद्विना सिद्धा वातघ्नैस्तर्पणे हिताः |१०|

🔊 Audio coming soon

पुराणसर्पिषा स्निग्धावित्युक्तं तस्य च घृतस्यावचारणकालं नियमयन्नाह- तथेत्यादि| केवलम् असंस्कृतम्| वातहरैः भद्रदार्वादिभिः| जेज्जटाचार्यस्तु काकोल्यादिभिर्वातहरैरित्याह| उपरि पानं पिबेदिति शेषः| प्रथमेन गणेन विदारिगन्धादिना| गयदासाचार्यस्तु सर्वत्रापि घृतं मन्यते| तथा च तद्व्याख्यानम्- “त्रिफलाघृतं व्याधिप्रत्यनीकं, वातहरदेवदार्वादिसिद्धं तु दोषप्रत्यनीकं, वातस्यैव पित्तानुबन्धे सति विदारिगन्धादिसिद्धं”; ईदृशे च व्याख्याने ‘सिद्धं वातहरैर्वाऽपि प्रथमेन गणेन वा’ इति पाठः||८-९||-

Adhikarana 6 (10) · Śloka 11

स्नैहिकः पुटपाकश्च धूमो नस्यं च तद्विधम् ||१०|| नस्यादिषु स्थिराक्षीरमधुरैस्तैलमिष्यते |११|

🔊 Audio coming soon

पूर्वं तर्पणैरित्युक्तं, तत्र तर्पणद्रव्याण्याह- स्नैहिक इत्यादि| स्नैहिकः पुटपाकः क्रियाकल्पे वक्ष्यमाणः| तद्विधं स्नैहिकमित्यर्थः||१०||-

Adhikarana 7 (11) · Śloka 12

एरण्डपल्लवे मूले त्वचि वाऽऽजं पयः शृतम् ||११|| कण्टकार्याश्च मूलेषु सुखोष्णं सेचने हितम् |१२|

🔊 Audio coming soon

आन्तरमुपक्रममभिधाय बाह्यमाह- एरण्डेत्यादि| सेचने इत्यत्र चकारो लुप्तो द्रष्टव्यः; तेन न केवलं सेके आश्च्योतने चेत्यर्थः| तत्र सेके सुखोष्णं, आश्च्योतने च शीतमेवेत्यर्थः||११||-

Adhikarana 8 (12) · Śloka 13

सैन्धवोदीच्ययष्ट्याह्वपिप्पलीभिः शृतं पयः ||१२|| हितमर्धोदकं सेके तथाऽऽश्च्योतनमेव च |१३|

🔊 Audio coming soon

सैन्धवेत्यादि| अर्धोदकमिति अर्धमुदकं यस्मिन् क्षीरे तत् क्षीरं सेके हितं तथा आश्च्योतने च; न पुनः पानादौ| सैन्धवादिप्रमाणं तु क्षीरादष्टमांशमेव||१२||-

Adhikarana 9 (13) · Śloka 14

हीबेरवक्रमञ्जिष्ठोदुम्बरत्वक्षु साधितम् ||१३|| साम्भश्छागं पयो वाऽपि शूलाश्च्योतनमुत्तमम् |१४|

🔊 Audio coming soon

ह्रीबेरेत्यादि| ह्रीबेरं वालकम्| वक्रं तगरम्| साम्भ इति चतुर्गुणोदकं, अर्धोदकमिति केचित्| आश्च्योतनम् अक्षिपूरणम्||१३||-

Adhikarana 10 (14) · Śloka 15

मधुकं रजनीं पथ्यां देवदारुं च पेषयेत् ||१४|| आजेन पयसा श्रेष्ठमभिष्यन्दे तदञ्जनम् |१५|

🔊 Audio coming soon

मधुकमित्यादि| केचिदमुं पाठं न पठन्ति||१४||-

Adhikarana 11 (15) · Śloka 16

गैरिकं सैन्धवं कृष्णां नागरं च यथोत्तरम् ||१५|| द्विगुणं पिष्टमद्भिस्तु गुटिकाञ्जनमिष्यते |१६|

🔊 Audio coming soon

गैरिकमित्यादि| यथोत्तरं द्विगुणमिति गैरिकाद्द्विगुणं सैन्धवं, सैन्धवाद्द्विगुणा कृष्णा, ततोऽपि द्विगुणं नागरम्| गुटिकाञ्जनमिष्यते इति स्नैहिकपुटपाकादिजनितकफानुबन्धस्य गुटिकाञ्जनम्| केचिदत्राप्याजेन पयसेति सम्बध्नन्ति; तेनाजपयसा पिष्टमद्भिर्वा| ‘नागरं च यथोत्तरं’ इत्यत्र ‘गोदन्तं च यथोत्तरं’ इति पठन्ति; स च पाठो जेज्जटाचार्येण दूषितः||१५||-

Adhikarana 12 (16) · Śloka 16

स्नेहाञ्जनं हितं चात्र वक्ष्यते तद्यथाविधि ||१६||

🔊 Audio coming soon

स्नेहेत्यादि| यथाविधीति विधिमनतिक्रम्य , एतेनापतर्पणसिराव्यधकुपितवातेऽभिष्यन्दे स्नेहाञ्जनं हितमित्यर्थः| अत्रैके ‘ताम्रपात्रस्थितं मासं सर्पिःसैन्धवसंयुतं’ इति स्नेहाञ्जनमाहुः| अन्ये तु ‘वसा चानूपजलजा सैन्धवेन समायुता’ इत्यादिना वक्ष्यमाणं स्नेहाञ्जनं कथयन्ति||१६||

Adhikarana 13 (17) · Śloka 17

रोगो यश्चान्यतोवातो यश्च मारुतपर्ययः | अनेनैव विधानेन भिषक् तावपि साधयेत् ||१७||

🔊 Audio coming soon

वाताभिष्यन्दक्रियामन्यस्मिन्नपि वातजेऽक्षिरोगेऽतिदिशन्नाह- रोग इत्यादि||१७||

Adhikarana 14 (18-19) · Śloka 20

पूर्वभक्तं हितं सर्पिः क्षीरं वाऽप्यथ भोजने | वृक्षादन्यां कपित्थे च पञ्चमूले महत्यपि ||१८|| सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिबेत् | सिद्धं वा हितमत्राहुः पत्तूरार्तगलग्निकैः ||१९|| सक्षीरं मेषशृङ्ग्या वा सर्पिर्वीरतरेण वा |२०|

🔊 Audio coming soon

अन्यतोवातमारुतपर्यययोः सामान्यां चिकित्सामभिधाय विशेषचिकित्सामाह- पूर्वभक्तमित्यादि| तदेव घृतमाह- वृक्षादन्यामित्यादि| वृक्षादनी बन्दाकः, वृक्षकलम्बुकेत्यन्ये| वृक्षादन्यादीनां सप्तद्रव्याणामत्र कषायः| अगर्भं घृतमिदम्| सिद्धमित्यादि| पत्तूरः सितिवारः, ‘सिरिवाली’ इति लोके प्रसिद्धा| आर्तगलः कण्टकफलो जलमुक्तदेशजः, ‘ककुभ’ इत्यन्ये| अग्निकः अजमोदा| पत्तूरादीनां कषाये क्षीरे च साधितं सर्पिः मेषशृङ्गीक्वाथे वा सक्षीरे साधितम्| वीरतरः शरः वेल्लन्तरो वा, तस्य क्वाथे वा सक्षीरे साधितं सर्पिरन्यतोवातमारुतपर्यययोर्हितम्| इदमपि घृतत्रयमगर्भम्||१८-१९||-

Adhikarana 15 (20-24) · Śloka 24

सैन्धवं दारु शुण्ठी च मातुलुङ्गरसो घृतम् ||२०|| स्तन्योदकाभ्यां कर्तव्यं शुष्कपाके तदञ्जनम् | पूजितं सर्पिषश्चात्र पानमक्ष्णोश्च तर्पणम् ||२१|| घृतेन जीवनीयेन नस्यं तैलेन चाणुना | परिषेके हितं चात्र पयः शीतं ससैन्धवम् ||२२|| रजनीदारुसिद्धं वा सैन्धवेन समायुतम् | सर्पिर्युतं स्तन्यघृष्टमञ्जनं वा महौषधम् ||२३|| वसा वाऽऽनूपजलजा सैन्धवेन समायुता | नागरोन्मिश्रिता किञ्चिच्छुष्कपाके तदञ्जनम् ||२४||

🔊 Audio coming soon

सैन्धवमित्यादि| सैन्धवादिद्रव्यत्रयाणां कल्केन मातुलुङ्गादिद्रव्यचतुष्केण रसक्रियां निष्पाद्य शुष्कपाकेऽञ्जनं कार्यं; यतो रसक्रियाञ्जनमिदम्| पूजितमित्यादि| सर्पिषो ‘जीवनीयसिद्धस्य’ इति शेषः| अत्र शुष्कपाके नस्यं जीवनीयेन घृतेनैव; अणुना तैलेन वा नस्यं पूजितम्| अणुतैलं तु शालाक्यतन्त्रोक्तं, न पुनर्वातव्याध्युदितम्| परिषेके इत्यादि| शीतमिति शृतशीतमित्यर्थः| ससैन्धवमिति सशब्द ईषदर्थः| रजनीदारुसिद्धं वेत्यत्र क्षीरमिति सम्बध्यते| सैन्धवेन समायुतम् अल्पसैन्धवयुक्तमित्यर्थः| सर्पिरित्यादि|- महौषधं वा घृतस्त्रीस्तन्ययुक्तं पाषाणघृष्टमित्यर्थः, अञ्जनं वा| वसेत्यादि|- आनूपजलजा वा वसा स्तोकसैन्धवयुक्ता किञ्चिच्छुण्ठीयुक्ता पाषाणघृष्टा सती शुष्कपाकेऽञ्जनमिति सम्बन्धः||२०-२४||

Adhikarana 16 (25) · Śloka 25

पवनप्रभवा रोगा ये केचिद्दृष्टिनाशनाः | बीजेनानेन मतिमान् तेषु कर्म प्रयोजयेत् ||२५||

🔊 Audio coming soon

इदानीं वातजेषु तिमिरकाचादिष्वेषैव क्रिया कर्तव्येति दर्शयन्नाह- पवनेत्यादि| दृष्टिनाशनाः तिमिरकाचादयः| बीजेन बीजभूतेन| अनेन वाताभिष्यन्दोक्तकर्मणा| मतिमान् ऊहापोहवित्||२५||

Adhikarana puShpikA · Śloka 9

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे वाताभिष्यन्दप्रतिषेधो नाम नवमोऽध्यायः ||९||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नवमोऽध्यायः||९||