Adhikarana 1 (1-3) · Śloka 3
अथातः शिरोरोगप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
वातव्याधिविधिः कार्यः शिरोरोगेऽनिलात्मके |
पयोनुपानं सेवेत घृतं तैलमथापि वा ||३||
वातव्याधिविधिरिति समस्तो वातव्याधिविधिर्बाह्य आभ्यन्तरोऽपि कर्तव्यः; तत्र बाह्यः स्नेहस्वेदाभ्यङ्गपरिषेकोपनाहशिरोबस्तिनस्यादिः, आभ्यन्तरस्तु स्नेहपानानुवासननिरूहादिः| पयोनुपानमिति वातस्य पित्तानुबन्धस्य घृतं, कफानुबन्धस्य तैलम्| यद्यपि वातव्याधिचिकित्सितातिदेशेनैव घृततैलयोः पानं प्राप्तं, तथाऽपि नियमार्थमेतद्वचनं; अथवा पयोनुपानप्राप्त्यर्थं; अथवा स्नेहादिप्रयोगपरिसमाप्तौ प्रायोगिकमेतद्विधानम्||१-३||
Adhikarana 2 (4) · Śloka 5
मुद्गान् कुलत्थान्माषांश्च खादेच्च निशि केवलान् |
कटूष्णांश्च ससर्पिष्कानुष्णं चानु पयः पिबेत् ||४||
पिबेद्वा पयसा तैलं तत्कल्कं वाऽपि मानवः |५|
मुद्गानित्यादि| मुद्गानां वातकरत्वेऽपि माषाणां श्लेष्मकरत्वेऽपि व्याधिप्रत्यनीकत्वाद्योगशक्तेरचिन्त्यत्वाच्चोपयोगः| कटूष्णानिति कटूष्णद्रव्यसंस्कृतान्, ससर्पिष्कान् सघृतान्| तैलं तिलतैलम्| तत्कल्कं मुद्गादिकल्कं; अन्ये तिलकल्कमाहुः, तन्नेच्छति गयी जेज्जटश्च||४||-
Adhikarana 3 (5-9) · Śloka 10
वातघ्नसिद्धैः क्षीरैश्च सुखोष्णैः सेकमाचरेत् ||५||
तत्सिद्धैः पायसैर्वाऽपि सुखोष्णैर्लेपयेच्छिरः |
स्विन्नैर्वा मत्स्यपिशितैः कृशरैर्वा ससैन्धवैः ||६||
चन्दनोत्पलकुष्ठैर्वा सुश्लक्ष्णैर्मगधायुतैः |
स्निग्धस्य तैलं नस्यं स्यात् कुलीररससाधितम् ||७||
वरुणादौ गणे क्षुण्णे क्षीरमर्धोदकं पचेत् |
क्षीरशेषं च तन्मथ्यं शीतं सारमुपाहरेत् ||८||
ततो मधुरकैः सिद्धं नस्ये तत् पूजितं हविः |
तस्मिन् विपक्वे क्षीरे तु पेयं सर्पिः सशर्करम् ||९||
धूमं चास्य यथाकालं स्नैहिकं योजयेद्भिषक् |१०|
आभ्यन्तरविधिं प्रतिपाद्य बाह्यविधिमाह- वातघ्नसिद्धैरित्यादि| वातघ्नानि भद्रदार्वादीनि| सेको धारासेकः| तत्सिद्धैः पायसैः वातहरद्रव्यसिद्धगोक्षीरपायसैरित्यर्थः| लेपयेत् उपनाहयेत्| स्विन्नैर्वा मत्स्यपिशितैरिति मत्स्यमांसैः स्विन्नैर्वा शिरस्युपनाहः| कृशरैर्वेति तिलतण्डुलमाषकृतयवाग्वोपनाहः; कृशरशब्दोऽकारान्तोऽप्यस्ति| चन्दनादिभिर्वा श्लक्ष्णपिष्टैरुपनाहः| स्निग्धस्येत्यादि| स्निग्धस्य कुलीररसचतुर्गुणे साधितं तैलं नस्यं स्यादिति पिण्डार्थः| वरुणादावित्यादि| क्षुण्णे जर्जरीकृते| तस्मिन् विपक्वे क्षीरे त्विति वरुणादिगणसिद्धे क्षीरे चतुर्गुणे साधितं काकोल्यादिप्रतिवापं यत् सर्पिस्तच्छर्कराप्रक्षेपं पेयमिति तात्पर्यार्थः| अन्ये तु ‘तस्मिन् विपक्वं क्षीरे च’ इति पठन्ति; तस्मिन् वरुणादिक्वाथे क्षीरे च साधितं सर्पिः सशर्करं पिबेदिति च व्याख्यानयन्ति| धूमं चास्येत्यादि| यथाकालं यथावस्थं मधूच्छिष्टप्रभृतिभिः स्नेहमिश्रैः कृतो धूमः स्नैहिकः||५-९||-
Adhikarana 4 (10) · Śloka 11
पानाभ्यञ्जननस्येषु बस्तिकर्मणि सेचने ||१०||
विदध्यात्त्रैवृतं धीमान् बलातैलमथापि वा |११|
पानाभ्यञ्जनेत्यादि| त्रैवृतम् अपतानकचिकित्सितोक्तं, बलातैलं मूढगर्भचिकित्सितोक्तम्||१०||-
Adhikarana 5 (11) · Śloka 11
भोजयेच्च रसैः स्निग्धैः पयोभिर्वा सुसंस्कृतैः ||११||
भोजयेदित्यादि| रसैः मांसरसैः| सुसंस्कृतैः वातहरद्रव्यसाधितैः||११||
Adhikarana 6 (12) · Śloka 13
पित्तरक्तसमुत्थानौ शिरोरोगौ निवारयेत् |
शिरोलेपैः ससर्पिष्कैः परिषेकैश्च शीतलैः ||१२||
क्षीरेक्षुरसधान्याम्लमस्तुक्षौद्रसिताजलैः |१३|
इदानीं पित्तजरक्तजयोस्तुल्यचिकित्सितत्वात् सङ्क्षेपार्थमुभयोरेकं चिकित्सितमाह- पित्तरक्तेत्यादि| शिरोलेपैः मधुरकादिद्रव्यकृतैः परिषेकैश्च शीतलैः क्षीरेक्षुरसादिकृतैः| तान्येव परिषेकद्रव्याण्याह- क्षीरक्ष्वित्यादि| सिताजलं शर्करोदकम्||१२||-
Adhikarana 7 (13-14) · Śloka 15
नलवञ्जुलकह्लारचन्दनोत्पलपद्मकैः ||१३||
वंशशैवलयष्ट्याह्वमुस्ताम्भोरुहसंयुतैः |
शिरःप्रलेपैः सघृतैर्वैसर्पैश्च तथाविधैः ||१४||
मधुरैश्च मुखालैपैर्नस्यकर्मभिरेव च |१५|
शिरोलेपद्रव्याण्याह- नलेत्यादि| नलः शुषिरपर्वा स्वनामख्यातः, वञ्जुलो वेतसः कह्लारं रक्तोत्पलं, चन्दनं रक्तचन्दनम्, उत्पलं नीलोत्पलं, शैवलं दूर्वा, अम्भोरुहं पद्मम्| वैसर्पैश्च तथाविधैरिति विसर्पचिकित्सितोक्तैः प्रलेपैः (चि. १७); तानि तु उशीरलामज्जकचन्दनस्रोतोजमुक्तामणिगैरिकाणि| तथाविधैरिति वचनाद्रक्तपित्तविसर्पप्रलेपप्रकारैर्न तु कफवातविसर्पलेपद्रव्यप्रकारैरित्यर्थः| मधुरैः काकोल्यादिभिः| नस्यमत्र मधुरद्रव्यसंस्कृतेन स्नेहेन कृतम्| पित्तरक्तसमुत्थानौ शिरोरोगौ निवारयेदित्यत्रापि सम्बन्धनीयम्||१३-१४||-
Adhikarana 8 (15) · Śloka 16
आस्थापनैर्विरेकैश्च पथ्यैश्च स्नेहबस्तिभिः ||१५||
क्षीरसर्पिर्हितं नस्यं वसा वा जाङ्गला शुभा |१६|
इदानीं रक्तजे पित्तजे च शिरोरोगे वमनं विहाय कर्मचतुष्टयं निर्दिशन्नाह- आस्थापनैरित्यादि| आस्थापनादिभिः पित्तरक्तसमुत्थितौ शिरोरोगौ निवारयेदिति सम्बन्धः| पथ्यशब्द आस्थापनादिभिस्त्रिभिः सम्बन्धनीयः| पथ्यैः हितैः| तेन वक्ष्यमाणोत्पलादिनाऽऽस्थापनं विरेचनं च मधुरद्रव्यकृतं, स्नेहबस्तयस्तु मधुरकन्दक्षीरघृतादिकृताः| क्षीरसर्पिरत्र मथ्यमानक्षीरोत्पन्ननवनीतजातम्||१५||-
Adhikarana 9 (16-17) · Śloka 17
उत्पलादिविपक्वेन क्षीरेणास्थापनं हितम् ||१६||
भोजनं जाङ्गलरसैः सर्पिषा चानुवासनम् |
मधुरैः क्षीरसर्पिस्तु स्नेहने च सशर्करम् ||१७||
आस्थापनोपयोगिद्रव्याण्याह- उत्पलेत्यादि| सर्पिषा चानुवासनमित्युक्तं तदेव निर्दिशन्नाह- मधुरैरित्यादि| मधुरैः काकोल्यादिभिः, पक्वमिति शेषः| क्षीरसर्पिः क्षीरमथनादुत्थितं, स्नेहने स्नेहबस्तौ, सशर्करं सितशर्कराचूर्णप्रक्षेपम्| अन्ये तु ‘मधुरैः क्षीरसर्पिस्तु पक्वं पाने सशर्करम्’ इति पठन्ति, तन्नेच्छति गयी||१६-१७||
Adhikarana 10 (18) · Śloka 18
पित्तरक्तघ्नमुद्दिष्टं यच्चान्यदपि तद्धितम् |१८|
इदानीं सङ्क्षेपार्थमतिदेशेनापरमपि चिकित्सितमाह- पित्तरक्तघ्नमित्यादि| अन्यदपि पानालेपनस्यादि रक्तपित्तघ्नं यदुद्दिष्टं तदत्रापि हितमिति पिण्डार्थः|१८|-
Adhikarana 11 (18-20) · Śloka 20
कफोत्थितं शिरोरोगं जयेत् कफनिवारणैः ||१८||
शिरोविरेकैर्वमनैस्तीक्ष्णैर्गण्डूषधारणैः |
अच्छं च पाययेत्सर्पिः स्वेदयेच्चाप्यभीक्ष्णशः ||१९||
शिरो मधूकसारेण स्निग्धं चापि विरेचयेत् |
इङ्गुदस्य त्वचा वाऽपि मेषशृङ्गस्य वा भिषक् ||२०||
इदानीं कफजशिरोरोगचिकित्सामाह- कफोत्थितमित्यादि| कफोत्थितं शिरोरोगं कफनिवारणैर्जयेदिति सम्बन्धः; तानि च कफनिवारणानि शिरोविरेचनादीनि| अच्छं चेति अच्छं केवलं, वमननिर्जितकफस्य प्रकुपितवातविजयार्थं सर्पिःपानं अथवा सर्पिःपानं वमनस्य प्राक्कर्म| अभीक्ष्णशः पुनः पुनः||१८-२०||
Adhikarana 12 (21-22) · Śloka 22
आभ्यामेव कृतां वर्तिं धूमपाने प्रयोजयेत् |
घ्रेयं कट्फलचूर्णं च कवलाश्च कफापहाः ||२१||
सरलाकुष्ठशार्ङ्गेष्टादेवकाष्ठैः सरोहिषैः |
क्षारपिष्टैः सलवणैः सुखोष्णैर्लेपयेच्छिरः ||२२||
शिरोविरेचनावशेषितकफस्योपशमनार्थं धूममाह- आभ्यामित्यादि| आभ्याम् इङ्गुदीमेषशृङ्गीत्वग्भ्याम्| कट्फलचूर्णं घ्रेयं घ्रातव्यं, प्रधमनविशेषोऽयम्| कफापहाः कफहरद्रव्यकृताः| सरलेत्यादि| क्षारपिष्टैः क्षारोदकपिष्टैः , सलवणैः ईषल्लवणैः||२१-२२||
Adhikarana 13 (23) · Śloka 23
यवषष्टिकयोश्चान्नं व्योषक्षारसमायुतम् |
पटोलमुद्गकौलत्थैर्मात्रावद्भोजयेद्रसैः ||२३||
आहारमाह- यवेत्यादि| व्योषं त्रिकटुकं, क्षारो यवक्षारः, यवषष्टिकयोश्चान्नं त्रिकटुकेन कटूकृतं, यवक्षारेण लवणितं, पटोलादीनां यूषैः सह मात्रावद्भोजयेदिति सम्बन्धः||२३||
Adhikarana 14 (24) · Śloka 24
शिरोरोगे त्रिदोषोत्थे त्रिदोषघ्नो विधिर्हितः |२४|
अधुना त्रिदोषजशिरोरोगस्य सामान्यां चिकित्सामाह- शिरोरोगे इत्यादि| त्रिदोषघ्नो विधिरनन्तरोक्तवातादिजशिरोरोगघ्नो विधिः|२४|-
Adhikarana 15 (24) · Śloka 24
सर्पिःपानं विशेषेण पुराणं वा दिशन्ति हि ||२४||
सामान्यचिकित्सितमभिधाय विशेषचिकित्सितमाह- सर्पिःपानमिति| अत्र निबन्धकारैर्बहूक्तं, तच्च विस्तरभयान्न लिखितम्||२४||
Adhikarana 16 (25) · Śloka 26
क्षयजे क्षयमासाद्य कर्तव्यो बृंहणो विधिः |
पाने नस्ये च सर्पिः स्याद्वातघ्नमधुरैः शृतम् ||२५||
क्षयकासापहं चात्र सर्पिः पथ्यतमं विदुः |२६|
क्षयजचिकित्सामाह- क्षयज इत्यादि| क्षयमासाद्य रक्तादिक्षयेष्वन्यतमं क्षयमवधार्य, शोणितादिक्रियानतिक्रमेण चिकित्सितमित्यर्थः; अन्ये तु क्षयार्थं शोषप्रतिषेधमध्यायमासाद्य, यो बृंहणो विधिराहारौषधाख्यः स कार्यः| पाने नस्ये चेत्यत्र चकारो भिन्नक्रमे सर्पिश्चेत्यत्र द्रष्टव्यः, तेन तैलमपि मधुरद्रव्यसंस्कृतं समुच्चीयते| क्षयकासापहं सर्पिः “कुलीरशुक्तिचटकैणलावान् निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम्” इत्यादिना प्रोक्तम्||२५||-
Adhikarana 17 (26-27) · Śloka 27
कृमिभिर्भक्ष्यमाणस्य वक्ष्यते शिरसः क्रिया ||२६||
नस्ये हि शोणितं दद्यात्तेन मूर्च्छन्ति जन्तवः |
मत्ताः शोणितगन्धेन समायान्ति यतस्ततः ||२७||
इदानीं क्रिमिजशिरोरोगावसरे सुदूरविस्तृतबहुक्रिमीणामुत्क्लेशनेनाहरणोपायमुद्दिशन्नाह- कृमिभिरित्यादि| क्रिमिभिर्भक्ष्यमाणस्येव, भक्षितस्य दुःशक्यत्वात्; शिरसः क्रिया वक्ष्यते इति सम्बन्धः| शोणितनस्यं कृमीणामुत्क्लेशनार्थं, स्रोतोमुखगमनार्थं च| मूर्च्छन्ति मूर्च्छिता भवन्ति मदयुक्ता भवन्ति| समायान्ति समागच्छन्ति| यतस्ततो नासास्रोतःप्रभृतिभिः तत्र चागतानां कृमीणां कूर्चकादिभिर्निर्हरणं कर्तव्यम्||२६-२७||
Adhikarana 18 (28-29) · Śloka 29
तेषां निर्हरणं कार्यं ततो मूर्धविरेचनैः |
ह्रस्वशिग्रुकबीजैर्वा कांस्यनीलीसमायुतैः ||२८||
कृमिघ्नैरवपीडैश्च मूत्रपिष्टैरुपाचरेत् |
पूतिमत्स्ययुतान् धूमान् कृमिघ्नांश्च प्रयोजयेत् ||२९||
इदानीं कूर्चकादिभिरगम्यानां क्रिमीणां निर्हरणार्थं चिकित्सितमाह- तेषामित्यादि| मूर्धविरेचनैः विडङ्गमरिचापामार्गशिग्रुबीजादिभिः; गयी तु वक्ष्यमाणानि ह्रस्वशिग्रुकबीजानि शिरोविरेचनद्रव्याणि मन्यन्ते| ह्रस्वशिग्रुकबीजैरित्यादि| कृमिघ्नैः विडङ्गादिभिः||२८-२९||
Adhikarana 19 (30) · Śloka 30
भोजनानि कृमिघ्नानि पानानि विविधानि च |३०|
आहारमाह- भोजनानीत्यादि| कृमिघ्नानि कृमिप्रतिषेध पठितानि धान्याम्लप्रभृतीनि सुरसादिसंस्कृतानि|३०|-
Adhikarana 20 (30) · Śloka 30
सूर्यावर्ते विधातव्यं नस्यकर्मादिभेषजम् ||३०||
सूर्यावर्तकचिकित्सामाह- सूर्यावर्ते इत्यादि| नस्यकर्मादीत्यादिशब्दाल्लेपपरिषेककवलग्रहशिरोबस्त्यादयः| अन्ये तु नस्यकर्म आदौ यस्य तन्नस्यकर्मादि, तच्च वमनं विहाय विरेकादिकर्मचतुष्टयम्| ये तु सूर्यावर्तविपर्ययं पठन्ति तत्रापीदमेव चिकित्सितम्||३०||
Adhikarana 21 (31) · Śloka 31
भोजनं जाङ्गलप्रायं क्षीरान्नविकृतिर्घृतम् |३१|
आहारं नियमयन्नाह- भोजनेत्यादि|३१|-
Adhikarana 22 (31-33) · Śloka 34
तथाऽर्धभेदके व्याधौ प्राप्तमन्यच्च यद्भवेत् ||३१||
शिरीषमूलकफलैरवपीडोऽनयोर्हितः |
वंशमूलककर्पूरैरवपीडं प्रयोजयेत् ||३२||
अवपीडो हितश्चात्र वचामागधिकायुतः |
मधुकेनावपीडो वा मधुना सह संयुतः ||३३||
मनःशिलावपीडो वा मधुना चन्दनेन वा |३४|
अर्धावभेदकचिकित्सितमाह- तथाऽर्धभेदके इत्यादि| न केवलं सूर्यावर्ते नस्यकर्मादिभेषजं जाङ्गलप्रायं भोजनं क्षीरान्नविकृतिर्घृतं प्रयोजयेत् तथाऽर्धावभेदकेऽपि| प्राप्तमन्यच्च यद्भवेदिति अन्यदपि स्नेहसिराव्यधावपीडकर्णशूलोक्तदीपिकातैलादि यत् प्राप्तं युक्तं भवेत् तत् कर्तव्यम्| गयी तु अन्यच्छब्देन वक्ष्यमाणं शिरीषमूलकफलैरित्यादिकमिच्छति| शिरीषेत्यादि| अनयोः सूर्यावर्तार्धभेदकयोः| अवपीड्य दीयत इत्यवपीडो नस्यभेद इत्यर्थः| वंशेत्यादि| अत्रेति अनयोः सूर्यावर्तार्धभेदकयोः| मधुकं यष्टीमधुकं, मनःशिलावपीडो मधुनेत्येको योगः, चन्दनेन चेति द्वितीयः| केचिदत्र चन्दनशब्देन मधूकसारं व्याख्यानयन्ति||३१-३३||-
Adhikarana 23 (34) · Śloka 34
तेषामन्ते हितं नस्यं सर्पिर्मधुरसान्वितम् ||३४||
अवपीडैर्निर्जितकफस्य पश्चात्कर्माह- तेषामित्यादि| तेषाम् अवपीडानाम्, अन्ते अवसाने, मधुरकान्वितं काकोल्यादिगणकल्कशृतं घृतं नस्ये प्रयोज्यम्| अन्ये मधुरसां मूर्वां मन्यन्ते| केचित्तेषामित्यत्र तयोरिति पठन्ति, व्याख्यानयन्ति च- अन्तेऽवपीडानामवसाने मधुरसान्वितसर्पिस्तयोः सूर्यावर्तार्धभेदकयोर्नस्ये हितं, वातपित्तोत्तरावस्थायां घृतनस्यम्||३४||
Adhikarana 24 (35) · Śloka 36
सारिवोत्पलकुष्ठानि मधुकं चाम्लपेषितम् |
सर्पिस्तैलयुतो लेपो द्वयोरपि सुखावहः ||३५||
एष एव प्रयोक्तव्यः शिरोरोगे कफात्मके |३६|
इदानीं शिरोलेपमाह- सारिवेत्यादि| सारिवा प्रसिद्धा, उत्पलं नीलोत्पलम्| अम्लपेषितं काञ्जिकपेषितम्| द्वयोः सूर्यावर्तार्धावभेदकयोः| अयमपि शिरोलेपो वातपित्तोत्तरावस्थायां प्रयोक्तव्यः| एष इत्यादि| एष एवेति शिरीषफलाद्यवपीडः कफनिमित्ते शिरोरोगे प्रयोक्तव्यः| यद्यपि कफशिरोरोगस्य चिकित्सोक्ता तथाऽप्यवसरप्राप्तत्वात् पुनरुक्ता| अन्ये ‘शिरोरोगे कफात्मके’ इत्यत्र ‘क्षयात्मके’ इति पठन्ति| तन्नेच्छति जेज्जटाचार्यः| अपरे तु ‘एभिरेव प्रयोक्तव्यः शिरोरोगेऽनिलात्मके’ इति पठन्ति| एभिरेवेति अनन्तरोक्तसारिवोत्पलकुष्ठादिभिः||३५||-
Adhikarana 25 (36-37) · Śloka 38
अनन्तवाते कर्तव्यः सूर्यावर्तहरो विधिः ||३६||
सिराव्यधश्च कर्तव्योऽनन्तवातप्रशान्तये |
आहारश्च विधातव्यो वातपित्तविनाशनः ||३७||
मधुमस्तकसंयावघृतपूरैश्च भोजनम् |३८|
केचिदत्रानन्तवातचिकित्सितं पठन्ति; तदाह- अनन्तवाते इत्यादि| मधुमस्तकाः रवजुकाः, संयावः कण्डकघृतैश्चातुर्जातककर्पूरसुगन्धः लप्सिकेति लोके, घृतपूरः ‘घेवर’ इति प्रसिद्धः||३६-३७||-
Adhikarana 26 (38) · Śloka 39
क्षीरसर्पिः प्रशंसन्ति नस्ये पाने च शङ्खके ||३८||
जाङ्गलानां रसैः स्निग्धैराहारश्चात्र शस्यते |३९|
शङ्खकचिकित्सामाह- क्षीरेत्यादि| क्षीरसर्पिरिति अर्दितचिकित्सितेऽक्षितर्पणार्थं यदुक्तम्| जाङ्गलानामित्यत्र केचिदौदकानामिति पठन्ति, तन्नेच्छति गयी||३८||-
Adhikarana 27 (39-40) · Śloka 40
शतावरीं तिलान् कृष्णान् मधुकं नीलमुत्पलम् ||३९||
दूर्वां पुनर्नवां चैव लेपे साध्ववचारयेत् |
महासुगन्धामथवा पालिन्दीं चाम्लपेषिताम् ||४०||
शिरोलेपमाह- शतावरीमित्यादि| शतावर्यादिभिः क्षीरपिष्टैः शिरोलेपः| महासुगन्धामित्यादि| महासुगन्धा उत्पलसारिवा, सर्पसुगन्धामपरे| पालिन्दी कालवल्ली| अम्लं काञ्जिकम्||३९-४०||
Adhikarana 28 (41) · Śloka 41
शीतांश्चात्र परीषेकान् प्रदेहांश्च प्रयोजयेत् |४१|
अनुक्तानप्यत्र परिषेकप्रदेहान्निर्दिशन्नाह- शीतानित्यादि| शीतपरिषेकान् शीतवीर्यविदारिगन्धादिकाकोल्याद्युत्पलादिकषायकृतान्, शीतप्रदेहानेतेषामेव कल्कैरम्लपिष्टैः कृतान्|४१|-
Adhikarana 29 (41) · Śloka 41
अवपीडश्च देयोऽत्र सूर्यावर्तनिवारणः ||४१||
अवपीडश्चेत्यादि| सूर्यावर्तनिवारणोऽवपीडः ‘शिरीषमूलकफलैरवपीडोऽनयोर्हित’ इत्याद्युक्तः||४१||
Adhikarana 30 (42) · Śloka 43
कृमिक्षयकृतौ हित्वा शिरोरोगेषु बुद्धिमान् |
मधुतैलसमायुक्तैः शिरांस्यतिविरेचयेत् ||४२||
पश्चात्सर्षपतैलेन ततो नस्यं प्रयोजयेत् |४३|
इदानीं शिरोरोगाणां सामान्यचिकित्सामाह- कृमीत्यादि| कृमिक्षयकृतौ शिरोरोगौ परित्यज्यान्येषु शिरोरोगेषु मधुतैलसमायुक्तैः शिरोविरेचनद्रव्यैर्बुद्धिमान् वैद्यः शिरांसि अतिविरेचयेत्, नस्यं दद्यादित्यर्थः| मूलानिलोन्मूलनत्वात् स्त्यानभूतकफविनाशनत्वाच्च सर्षपतैलेन नस्यम्| अन्ये तु ‘पश्चात् सर्पिः सुखोष्णं तु नस्यतस्तु प्रशस्यते’ इति पठन्ति; तेषामयमभिप्रायःशिरोविरेचनेन कफे विजिते सति वातपित्तजयार्थं सर्पिर्नस्यम्||४२||-
Adhikarana 31 (43) · Śloka 44
न चेच्छान्तिं व्रजन्त्येवं स्निग्धस्विन्नांस्ततो भिषक् ||४३||
पश्चादुपाचरेत्सम्यक् सिराणामथ मोक्षणैः |४४|
इदानीमेतैरप्युपायैर्यदा शान्तिं शिरोरोगा न यान्ति तदा किं कर्तव्यमित्याह- न चेच्छान्तिमित्यादि||४३||-
Adhikarana 32 (44-46) · Śloka 46
षट्सप्ततिर्नेत्ररोगा दशाष्टादश कर्णजाः ||४४||
एकत्रिंशद् घ्राणगताः शिरस्येकादशैव तु |
इति विस्तरतो दृ(दि)ष्टाः सलक्षणचिकित्सिताः ||४५||
संहितायामभिहिताः सप्तषष्टिर्मुखामयाः |
एतावन्तो यथास्थूलमुत्तमाङ्गगता गदाः |
अस्मिञ्छास्त्रे निगदिताः सङ्ख्यारूपचिकित्सितैः ||४६||
इदानीं शालाक्यतन्त्रस्यार्थपिण्डमुक्तमुपसंहरन्नाह- षट्सप्ततिरित्यादि| दशाष्टादश अष्टाविंशतिरित्यर्थः| इति शब्द उक्तस्मरणे| ये विस्तरतो दृ(दि)ष्टाः विस्तरेण विदेहादौ भाषिताः| यथास्थूलं स्थूलानतिक्रमेण, अणुशो भिद्यमानाः पुनरसङ्ख्येयाः| अस्मिन्निति शालाक्यशास्त्रे||४४-४६||
Adhikarana puShpikA · Śloka 26
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे शिरोरोगप्रतिषेधो नाम षड्विंशोऽध्यायः ||२६||
इति श्रीभगवता धन्वन्तरिणोपदिष्टायां महर्षिणा सुश्रुताचार्येण विरचितायां सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गतं शालाक्यतन्त्रं समाप्तम् |
सद्बुद्धेः प्रसवः पदं सुयशसः सद्वैद्यवन्द्यः श्रियामावासः सुकृती क्रियासु निपुणः श्रीडल्हणाख्यो भिषक्| श्रीभादानकनाथसाहलनृपस्यातीव यो वल्लभः शास्त्रं तस्य निबन्धसङ्ग्रह इति ख्यातं धरित्रीतले| इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे षड्विंशोऽध्यायः समाप्तः||२६||