Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

25. śirōrōgavijñānīyādhyāyaḥ

Adhikarana 1 (1-4) · Śloka 4

अथातः शिरोरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| शिरो रुजति मर्त्यानां वातपित्तकफैस्त्रिभिः | सन्निपातेन रक्तेन क्षयेण क्रिमिभिस्तथा ||३|| सूर्यावर्तानन्तवातार्धावभेदकशङ्खकैः | एकादशप्रकारस्य लक्षणं सम्प्रवक्ष्यते ||४||

🔊 Audio coming soon

तानेव शिरोरोगान् सङ्ख्यया आह- शिरो रुजतीत्यादि| त्रिभिरिति पृथगर्थद्योतनार्थम्| ‘शिरो रुजति मर्त्यानाम्’ इत्यत्र केचित् ‘शिरोरोगा मनुष्याणाम्’ इति पठन्ति| रोगशब्दो यद्यपि सामान्यव्याधिवाचकस्तथाऽपि ये पीडाकरा व्याधयस्तेऽत्र गृह्यन्ते, तेन खालित्यादीनामत्रानुपादानमिति व्याख्यानयन्ति| एकादशप्रकारस्येत्यादि| एकादशैवात्र शिरोरोगाः| अन्यतोवातशब्देन अनन्तवातस्य सर्वगतनयनरोगविज्ञानीये प्रोक्तत्वात्| ब्रह्मदेवस्तु विदेहादिषु अनन्तवातस्य पृथक् पाठात् पृथगेवात्र पठनीयः, तेन चैकादश शिरोरोगा इति ब्रूते| अत्र केचिद्विदेहदर्शनात् सूर्यावर्तकविपर्ययमपि पठन्ति| तथा च तद्वचः- “तत्र वातानुगं पित्तं चितं शिरसि तिष्ठति| मध्याह्ने तेजसाऽर्कस्य तद्विवृद्धं शिरोरुजम्|| करोति पैत्तिकीं घोरां संशाम्यति दिनक्षये| अस्तं गते प्रभाहीने सूर्ये वायुर्विवर्धते|| पित्तं शान्तिमवाप्नोति ततः शाम्यति वेदना| एष पित्तानिलकृतः सूर्यावर्तविपर्ययः”- इति| केचित्सुश्रुताध्यायिनोऽनेन पाठेन सूर्यावर्तकविपर्ययं पठन्ति,- “वातपित्तात् पुरोजाता रुजाऽपैत्यपराह्णतः| सूर्यावर्तः स तु प्रोक्तो विपरीते विपर्ययः”- इति| असौ सूर्यावर्तविपर्ययश्चातुर्थिकविपर्ययवदसूत्रितोऽपि गृह्यते| अत्र केचित् “आलुञ्चयते कम्पति चापि मूर्धा सर्पन्ति मध्ये च पिपीलिका वा| स्कन्धः शिरश्चाप्यवघूर्णते च मूर्च्छा प्रलापश्च तथैव निद्रा|| सञ्ज्ञाप्रणाशं जनयेद्विनिद्रां प्रातस्ततः पश्यति चातिचित्रम्| गृह्णाति मन्ये हृदयं च रूपैः सर्वैरमीभिः समभिद्रुतस्तु|| तिस्रो हि रात्रीर्न स जातु जीवेत्तं शीर्षकं सम्प्रवदन्ति रोगम्”- इति पठन्ति| स च निबन्धकारैर्नाङ्गीकृतः||१-४||

Adhikarana 2 (5) · Śloka 5

यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम् | बन्धोपतापैश्च भवेद्विशेषः शिरोभितापः स समीरणेन ||५||

🔊 Audio coming soon

इदानीं वातिकशिरोरोगलक्षणमाह- यस्येत्यादि| अनिमित्तम् ईषत्कारणम्| तीव्रवचनात् पित्ते मध्याः रुजो, मध्यः कफे इति बुध्यते| विशेष उपशमः| शिरोभितापः शिरोरोगः||५||

Adhikarana 3 (6) · Śloka 6

यस्योष्णमङ्गारचितं यथैव दह्येत धूप्येत शिरोक्षिनासम् | शीतेन रात्रौ च भवेद्विशेषः शिरोभितापः स तु पित्तकोपात् ||६||

🔊 Audio coming soon

पैत्तिकशिरोरोगलक्षणमाह- यस्येत्यादि||६||

Adhikarana 4 (7) · Śloka 7

शिरोगलं यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमं च | शूनाक्षिकूटं वदनं च यस्य शिरोभितापः स कफप्रकोपात् ||७||

🔊 Audio coming soon

कफजशिरोरोगलक्षणमाह- शिरोगलमित्यादि| उपदिग्धम् उपलिप्तं, गुरु भारिकं, प्रतिष्टब्धम् अप्रचलितरूपमिव, हिमं शीतपूर्णमिव| शिरोभितापः शिरोरोगः| अत्रानुक्तोऽपि विपर्यय सेवयोपशमो गृह्यते| ‘शिरोगलं’ इत्यत्र ‘शिरोभवं’ इति केचित् पठन्ति||७||

Adhikarana 5 (8) · Śloka 8

शिरोभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति |८|

🔊 Audio coming soon

सान्निपातिकशिरोरोगलक्षणमाह- शिरोभितापे इत्यादि|८|-

Adhikarana 6 (8) · Śloka 8

रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च ||८||

🔊 Audio coming soon

रक्तजशिरोरोगलक्षणमाह- रक्तात्मक इत्यादि| पित्तजशिरोरोगद्रक्तजे स्पर्शासहत्वमधिकम्||८||

Adhikarana 7 (9) · Śloka 10

वसाबलासक्षतसम्भवानां शिरोगतानामिह सङ्क्षयेण | क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम् ||९|| संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति |१०|

🔊 Audio coming soon

क्षयजशिरोरोगस्य लिङ्गमाह- वसेत्यादि| वसाशब्द उपलक्षणार्थः; तेन देहस्नेहमस्तिष्कमेदोमज्जाशुक्राणि गृह्यन्ते| ‘वसाबलासक्षतसम्भवानां’ इत्यत्र केचित् ‘असृग्वसाश्लेष्मसमीरणानां’ इति पठन्ति; तन्नेच्छति गयी||९||-

Adhikarana 8 (10) · Śloka 11

निस्तुद्यते यस्य शिरोऽतिमात्रं सम्भक्ष्यमाणं स्फुटतीव चान्तः ||१०|| घ्राणाच्च गच्छेत्सलिलं सरक्तं शिरोभितापः कृमिभिः स घोरः |११|

🔊 Audio coming soon

कृमिकृतशिरोरोगलक्षणमाह- निस्तुद्यते इत्यादि| निस्तुद्यते शूल्यते व्यथ्यत इत्यर्थः| स्फुटतीव शीर्यत इव||१०||-

Adhikarana 9 (11-12) · Śloka 13

सूर्योदयं या प्रति मन्दमन्दमक्षिभ्रुवं रुक् समुपैति गाढम् ||११|| विवर्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्तते च | शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाच्च ||१२|| तं भास्करावर्तमुदाहरन्ति सर्वात्मकं कष्टतमं विकारम् |१३|

🔊 Audio coming soon

सुर्यावर्तमाह- सूर्योदयमित्यादि| सूर्यापवृत्तौ सूर्यास्तसमये| कस्मात्प्रवृत्तिनिवृत्ती भवत इति प्रतिपादयन् निमिराह,- “स्वभावशीता तमसोऽभिमूला रात्रिस्तयोद्भूतकफेन मार्गे| रुद्धे मरुत्कोपमियात् प्रभाते रुजं करोत्यत्र शिरोभितापे|| मध्याह्नसूर्यातपतापयोगात् कफे विलीने मरुति प्रपन्ने| स्वमार्गमायाति तदा दिनान्ते प्रशान्तिमावर्त इहार्कपूर्वे” इति| सूर्यातपविलीनमस्तुलुङ्गकारणोत्पन्नसूर्यावर्त इति दृढबलाचार्यः| ‘उष्णेन जन्तुः सुखमाप्नुयाच्च’ इति पाठात्सूर्यावर्तविपर्ययः कथितो बोद्धव्यः| केचिदत्र ‘आवर्तसञ्ज्ञः स च सूर्यपूर्वोव्याधिर्मतः पित्तसमीरणाभ्याम्’ इति पठन्ति||११-१२||-

Adhikarana 10 (13-14) · Śloka 15

दोषास्तु दुष्टास्त्रय एव मन्यां सम्पीड्य घाटासु रुजां सुतीव्राम् ||१३|| कुर्वन्ति साक्षिभ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु | गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजांश्च रोगान् ||१४|| अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम् |१५|

🔊 Audio coming soon

अनन्तवातमाह- दोषास्तु दुष्टास्त्रय इत्यादि| सात्यकिप्रभृतिभिस्तु शिरःकम्परोगोऽसाध्यः पठितः; अस्मिंस्तु शास्त्रे सान्निपातिकशिरोरोगोऽनन्तवात एवान्तर्भवति||१३-१४||-

Adhikarana 11 (15) · Śloka 16

यस्योत्तमाङ्गार्धमतीव जन्तोः सम्भेदतोदभ्रमशूलजुष्टम् ||१५|| पक्षाद्दशाहादथवाऽप्यकस्मात्तस्यार्धभेदं त्रितयाद्व्यवस्येत् |१६|

🔊 Audio coming soon

अर्धावभेदमाह- यस्योत्तमेत्यादि| ‘तस्यार्धभेदं पवनात् सपित्तात्’ इति केचित् ‘त्रितयाद्व्यवस्येत्’ इत्यत्र ‘द्वितयात्’ इति वा पाठः||१५||-

Adhikarana 12 (16-18) · Śloka 18

शङ्खाश्रितो वायुरुदीर्णवेगः कृतानुयात्रः कफपित्तरक्तैः ||१६|| रुजः सुतीव्राः प्रतनोति मूर्ध्नि विशेषतश्चापि हि शङ्खयोस्तु | सुकष्टमेनं खलु शङ्खकाख्यं महर्षयो वेदविदः पुराणाः ||१७|| व्याधिं वदन्त्युद्गतमृत्युकल्पं भिषक्सहस्रैरपि दुर्निवारम् ||१८||

🔊 Audio coming soon

शङ्खकलक्षणमाह- शङ्खाश्रित इत्यादि| कृतानुयात्रः कृतानुगमः| उद्गतमृत्युकल्पः उपस्तितमृत्युसमः| एष व्याधिस्तु त्र्यहान्मारयति, त्र्यहादनन्तरं कुशलेनोपक्रान्तः सिध्यति||१६-१८||

Adhikarana puShpikA · Śloka 25

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे शिरोरोगविज्ञानीयो नाम पञ्चविंशोऽध्यायः ||२५||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पञ्चविंशोऽध्यायः||२५||