Adhikarana 1 (1-2) · Śloka 2
अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
शालाक्यतन्त्रानन्तरं कौमारतन्त्रं प्रारभ्यते- अथात इत्यादि| बालशब्दोऽत्र लुप्तनिर्दिष्टो द्रष्टव्यः| तत्र ग्रहा बालानां नव, अष्टौ पुनरबालानां भूतविद्यायां निर्देष्टव्याः| आकृतिः आकारो लिङ्गं कार्यभूतं, नतु स्वभावाख्यम्||१-२||
Adhikarana 2 (3) · Śloka 3
बालग्रहाणां विज्ञानं साधनं चाप्यनन्तरम् |
उत्पत्तिं कारणं चैव सुश्रुतैकमनाः शृणु ||३||
तत्र प्रथमं कुमारतन्त्रस्यार्थपिण्डमुद्दिशन्नाह- बालग्रहाणामित्यादि| विज्ञानं विशिष्टज्ञानम्| साधनं चिकित्सितम्| उत्पत्तिः प्रभवः| कारणं हेतुः||३||
Adhikarana 3 (4-5) · Śloka 5
स्कन्दग्रहस्तु प्रथमः स्कन्दापस्मार एव च |
शकुनी रेवती चैव पूतना चान्धपूतना ||४||
पूतना शीतनामा च तथैव मुखमण्डिका |
नवमो नैगमेषश्च यः पितृग्रहसञ्ज्ञितः ||५||
इदानीं तेषां नवग्रहाणां नामान्याह- स्कन्दग्रह इत्यादि| प्रथमः प्रधानमादिर्वा| नवमो नैगमेष इति सङ्ख्यानिर्देशादेव सङ्ख्यायां लब्धायां भूयो नवम इति सङ्ख्याकरणं काश्यपादितन्त्रान्तरोक्ताधिकसङ्ख्यानिराकरणार्थम्| पितृग्रहसञ्ज्ञित इति बालस्यान्यग्रहेभ्यो रक्षकत्वात्पितेव ग्रहः सैव सञ्ज्ञा सञ्जाता यस्य स तथा| (नतु भूतविद्यावत् पितृलोकाभिहितग्रह इति)||४-५||
Adhikarana 4 (6) · Śloka 6
धात्रीमात्रोः प्राक्प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारहीनान् |
त्रस्तान् हृष्टांस्तर्जितान् ताडितान् वा पूजाहेतोर्हिंस्युरेते कुमारान् ||६||
कस्माद्ग्रहा बालान् विशन्तीत्याह- धात्रीत्यादि| धात्री स्तनपायिनी पोषयित्रीत्यर्थः, माता प्रसवित्री| प्राक्प्रदिष्टापचारादिति प्राक् शारीरस्थाने प्रदिष्टोऽपचारः अकृत्यविधिः मांससुरादीनां लौल्यादाचरणं वा| शौचं मूत्रपुरीषादिप्रक्षालनं, मङ्गलं स्वस्तिकस्रग्दामदूर्वावचासर्षपादिस्पर्शनम्, आचारः पापविरोधी, त्रस्तान् उद्विग्नान्, हृष्टान् मुदितान्, तर्जितान् अन्येन केनचिद्विभीषितान्| ताडितान् अभिहतान्| कथं पूजा जायते? कुसुमादिना भोजनादिना च| अतो हेतोः धात्रीमात्रोरपचाराद्दूषणाद्यन्वितान् बालान्| पूजा चात्रोपलक्षणं; तेन रतिहेतोरपि हिंस्युरिति| ननु, धात्रीमात्रोपचाराद्बालानामनपराधित्वात् कथं ग्रहहिंसनं? अत्रोच्यते- बालानां प्राक्तनकर्मयोगत एवापचारं कुरुतः| कुमारानित्युपलक्षणं; तेन कुमारिका अपि हिंस्युः| एते ग्रहा इत्यर्थः||६||
Adhikarana 5 (7) · Śloka 7
ऐश्वर्यस्थास्ते न शक्या विशन्तो देहं द्रष्टुं मानुषैर्विश्वरूपाः |
आप्तं वाक्यं तत्समीक्ष्याभिधास्ये लिङ्गान्येषां यानि देहे भवन्ति ||७||
कस्मात्ते ग्रहा देहं विशन्तो नोपलभ्यन्ते इत्याह - ऐश्वर्येत्यादि| एषां ग्रहाणां यानि लिङ्गानि भवन्ति तानि आप्तं वाक्यं समीक्ष्याभिधास्ये कथयिष्ये इति पिण्डार्थः| आप्तं वाक्यम् आप्तैरुक्तं वाक्यम्; आप्ताश्च यथार्थवादिनः ||७||
Adhikarana 6 (8) · Śloka 8
शूनाक्षः क्षतजसगन्धिकः स्तनद्विड् वक्रास्यो हतचलितैकपक्ष्मनेत्रः |
उद्विग्नः सुलुलितचक्षुरल्परोदी स्कन्दार्तो भवति च गाढमुष्टिवर्चाः ||८||
स्कन्दग्रहार्तलक्षणमाह- शूनाक्ष इत्यादि| क्षतजसगन्धिकः रुधिरसमानगन्धिकः, विस्रगन्ध इत्यर्थः; अन्ये तु क्षतजं रक्तं तत्सगन्धिक ईषद्रुधिरगन्धिक इत्यर्थः| स्तनद्विट् स्तनद्वेषी| वक्रास्यः वक्रमुखः| हतचलितैकपक्ष्मनेत्र इति हतं चलितं चैकपक्ष्म नेत्रे यस्य स तथा| उद्विग्नः उद्विग्नचित्तः| सुलुलितचक्षुः किञ्चिन्मिलितलोचनः| स्कन्दार्त इति स्कन्दविनोदनार्थं रुद्रेण सृष्टो ग्रहः तेनार्तः, स्कन्दोऽत्र न पुनर्भगवान् कार्तिकेयः| गाढे मुष्टिवर्चसी यस्य स तथा| गयदासस्तु ‘स्तब्धाङ्गः’ क्षतजसगन्धिकः स्तनद्विट् वक्रास्यो हतचरणैकपक्ष्मनेत्रः’ इति पठित्वा ‘स्तब्धमङ्गं यस्य स तथा, हतानि एकपादैकपक्ष्मार्धनयनानि यस्य स तथा’ इति व्याख्यानयति||८||
Adhikarana 7 (9) · Śloka 9
निःसञ्ज्ञो भवति पुनर्भवेत्ससञ्ज्ञः संरब्धः करचरणैश्च नृत्यतीव |
विण्मूत्रे सृजति विनद्य जृम्भमाणः फेनं च प्रसृजति तत्सखाभिपन्नः ||९||
स्कन्दापस्मारार्तलक्षणमाह- निःसञ्ज्ञ इत्यादि| संरब्धः सम्यक् कलितः सन्, करचरणभ्यां हस्तपादाभ्यां, नृत्यतीव नर्तनमिव करोति| विनद्य शब्दं कृत्वा; क्वचित् ‘विनम्य’ इति पाठः, तत्र गात्रविनमनं कृत्वा; विण्मूत्रे मुञ्चतीति व्याख्यानम्| तत्सखाभिपन्नः तच्छब्देन स्कन्दः कथ्यते, तस्य सखा स्कन्दापस्मारः, तेनाक्रान्तः||९||
Adhikarana 8 (10) · Śloka 10
स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः संस्राविव्रणपरिपीडितः समन्तात् |
स्फोटैश्च प्रचिततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या ||१०||
शकुनिग्रहार्तलक्षणमाह- स्रस्ताङ्ग इत्यादि| स्रस्ताङ्गः शिथिलाङ्गः| भयचकितो भीतः| विहङ्गा अत्र मांसादा जलचराश्च| संस्राविव्रणपरिपीडितः पूयास्राविव्रणपरिपीडितः| समन्तात् सर्वतः| अत्रोक्तव्रणस्फोटयोर्विदीर्णाविदीर्णत्वेन भेदः| क्षतः अभिभूतः||१०||
Adhikarana 9 (11) · Śloka 11
रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा ज्वरमुखपाकवेदनार्तः |
रेवत्या व्यथिततनुश्च कर्णनासं मृद्नाति ध्रुवमभिपीडितः कुमारः ||११||
रेवतीग्रहार्तस्य लक्षणमाह- रक्तास्य इत्यादि| हरितमल इति मलोऽत्र विष्ठा मूत्रं च| ज्वरमुखपाकवेदनार्तः ज्वरार्तो मुखपाकवेदनार्तश्च| व्यथिततनुरिति सरुजशरीरः| अभिपीडितो रेवत्या इति सम्बन्धः||११||
Adhikarana 10 (12) · Śloka 12
स्रस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विड् भिन्नं सृजति च काकतुल्यगन्धिः |
छर्द्याऽऽर्तो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृहीतः ||१२||
पूतनाग्रहार्तलक्षणमाह- स्रस्ताङ्ग इत्यादि| न दिवा सुखं स्वपिति न च रात्रौ सुखं स्वपिति| सृजति मुञ्चति| ‘स्रस्ताङ्ग’ इत्यत्र केचित् ‘स्वस्थाङ्ग’ इति पठन्ति, स्वस्थाङ्गोऽपि न दिवा न रात्रौ स्वपितीति व्याख्यानयन्ति||१२||
Adhikarana 11 (13) · Śloka 13
यो द्वेष्टि स्तनमतिसारकासहिक्काच्छर्दीभिर्ज्वरसहिताभिरर्द्यमानः |
दुर्वर्णः सततमधःशयोऽम्लगन्धिस्तं ब्रूयुर्भिषज इहान्धपूतनार्तम् ||१३||
अन्धपूतनार्तलक्षणमाह- य इत्यादि| अधःशयः अधोमुखशायी| अम्लगन्धिः काञ्जिकाद्यम्लद्रव्यगन्धिः||१३||
Adhikarana 12 (14) · Śloka 14
उद्विग्नो भृशमतिवेपते प्ररुद्यात् संलीनः स्वपिति च यस्य चान्त्रकूजः |
विस्राङ्गो भृशमतिसार्यते च यस्तं जानीयाद्भिषगिह शीतपूतनार्तम् ||१४||
शीतपूतनार्तलक्षणमाह- उद्विग्न इत्यादि| संलीनः सम्यग्लीनः, शय्यैकदेशे लग्न इत्यर्थः| विस्राङ्गो विस्रगन्धाङ्गः| ‘उद्विग्नो भृशमति’ इत्यत्र केचित् ‘आक्रन्दत्यतिचकितः’ इति पठन्ति||१४||
Adhikarana 13 (15) · Śloka 15
म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो बह्वाशी कलुषसिरावृतोदरो यः |
सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञेयः शिशुरिह वक्त्रमण्डिकार्तः ||१५||
मुखमण्डिकाग्रहार्तलक्षणमाह- म्लानाङ्ग इत्यादि| म्लानाङ्गो दुर्बलमध्यशरीरः| सुरुचिरपाणिपादवक्त्र इति सुष्ठु रुचिरं शोभनं हस्तपादवक्त्रं यस्य सः| वक्त्रमण्डिकर्तो मुखमण्डिकार्त इत्यर्थः||१५||
Adhikarana 14 (16) · Śloka 16
यः फेनं वमति विनम्यते च मध्ये सोद्वेगम् विलपति चोर्ध्वमीक्षमाणः |
ज्वर्येत प्रततमथो वसासगन्धिर्निःसञ्ज्ञो भवति हि नैगमेषजुष्टः ||१६||
नैगमेषग्रहार्तलक्षणमाह- य इत्यादि| मध्ये मध्याङ्गे| सोद्वेगं सत्रासं, विलपति अतिशयेन शब्दं करोति, ऊर्ध्वमीक्षमाणः ऊर्ध्वं पश्यन्| ‘विलपति’ इत्यत्र केचित् ‘विहसति’ इति पठन्ति| ज्वर्येत प्रततं सततम्| वसासगन्धिः वसया तुल्यगन्धिः| निःसञ्ज्ञः निर्गतसम्यग्ज्ञानः||१६||
Adhikarana 15 (17) · Śloka 17
प्रस्तब्धो यः स्तनद्वेषी मुह्यते चाविशन्मुहुः |
तं बालमचिराद्धन्ति ग्रहः सम्पूर्णलक्षणः ||१७||
साम्प्रतमसाध्यग्रहार्तलक्षणमाह- प्रस्तब्ध इत्यादि| प्रस्तब्धोऽत्यर्थं स्तब्धाङ्गः| मुह्यते मोहं याति| आविशन् आवेशं कुर्वन्| मुहुः वारंवारम्||१७||
Adhikarana 16 (18) · Śloka 18
विपरीतमतः साध्यं चिकित्सेदचिरार्दितम् |१८|
साध्यग्रहार्तलक्षणमाह- विपरीतमित्यादि| विपरीतं प्रस्तब्ध स्तनद्वेषादिलक्षणैरनुपहतम्| अचिरार्दितम् अल्पकालपीडितम्|१८|-
Adhikarana 17 (18-20) · Śloka 20
गृहे पुराणहविषाऽभ्यज्य बालं शुचौ शुचिः ||१८||
सर्षपान् प्रकिरेत्तेषां तैलैर्दीपं च कारयेत् |
सदा सन्निहितं चापि जुहुयाद्धव्यवाहनम् ||१९||
सर्वगन्धौषधीबीजैर्गन्धमाल्यैरलङ्क्रतम् |
अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति सन्ततम् ||२०||
साध्यस्य चिकित्सामाह- गृहे इत्यादि| पुराणहविषा जीर्णघृतेन, अभ्यज्य बालं चुपाटित्वा| शुचौ पवित्रदेशे, शुचिः ‘भिषग्’ इति शेषः| तेषां तैलैः सर्षपाणां तैलैः, दीपं कारयेत् दीपं प्रज्वालयेदित्यर्थः| सदेत्यादि| जुहुयात् होमं कुर्यादित्यर्थः| हव्यवाहनम् अग्निम्| कैर्जुहुयात्? सर्वगन्धौषधीबीजैरिति; सर्वगन्धा एलादिपरिपठिताः, ओषधीबीजनि यवधान्यतिलादीनि, तैर्जुहुयात्| गन्धमाल्यैरलङ्कृतमग्निं बालं वा, सततं वारंवारं न सकृत्| अयं विधिः सर्वग्रहाणां सामान्यः| अग्नय इत्यादि| अग्निं हुत्वा ततो मध्याह्ने बलिं दद्यात्||१८-२०||
Adhikarana 18 (21) · Śloka 21
नमः स्कन्दाय देवाय ग्रहाधिपतये नमः |
शिरसा त्वाऽभिवन्देऽहं प्रतिगृह्णीष्व मे बलिम् |
नीरुजो निर्विकारश्च शिशुर्मे जायतां द्रुतम् ||२१||
तत्र यं मन्त्रमुच्चरेत्तमाह- नम इत्यादि||२१||
Adhikarana puShpikA · Śloka 27
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे नवग्रहाकृतिविज्ञानीयो नाम (प्रथमोऽध्यायः, आदितः) सप्तविंशोऽध्यायः ||२७||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे नवग्रहाकृतिविजानीयो नाम सप्तविंशतितमोऽध्यायः||२७||