Adhikarana 1 (1-4) · Śloka 4
अथातः शिरोरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
शिरो रुजति मर्त्यानां वातपित्तकफैस्त्रिभिः |
सन्निपातेन रक्तेन क्षयेण क्रिमिभिस्तथा ||३||
सूर्यावर्तानन्तवातार्धावभेदकशङ्खकैः |
एकादशप्रकारस्य लक्षणं सम्प्रवक्ष्यते ||४||
Adhikarana 2 (5) · Śloka 5
यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम् |
बन्धोपतापैश्च भवेद्विशेषः शिरोभितापः स समीरणेन ||५||
Adhikarana 3 (6) · Śloka 6
यस्योष्णमङ्गारचितं यथैव दह्येत धूप्येत शिरोक्षिनासम् |
शीतेन रात्रौ च भवेद्विशेषः शिरोभितापः स तु पित्तकोपात् ||६||
Adhikarana 4 (7) · Śloka 7
शिरोगलं यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमं च |
शूनाक्षिकूटं वदनं च यस्य शिरोभितापः स कफप्रकोपात् ||७||
Adhikarana 5 (8) · Śloka 8
शिरोभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति |८|
Adhikarana 6 (8) · Śloka 8
रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च ||८||
Adhikarana 7 (9) · Śloka 10
वसाबलासक्षतसम्भवानां शिरोगतानामिह सङ्क्षयेण |
क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम् ||९||
संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति |१०|
Adhikarana 8 (10) · Śloka 11
निस्तुद्यते यस्य शिरोऽतिमात्रं सम्भक्ष्यमाणं स्फुटतीव चान्तः ||१०||
घ्राणाच्च गच्छेत्सलिलं सरक्तं शिरोभितापः कृमिभिः स घोरः |११|
Adhikarana 9 (11-12) · Śloka 13
सूर्योदयं या प्रति मन्दमन्दमक्षिभ्रुवं रुक् समुपैति गाढम् ||११||
विवर्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्तते च |
शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाच्च ||१२||
तं भास्करावर्तमुदाहरन्ति सर्वात्मकं कष्टतमं विकारम् |१३|
Adhikarana 10 (13-14) · Śloka 15
दोषास्तु दुष्टास्त्रय एव मन्यां सम्पीड्य घाटासु रुजां सुतीव्राम् ||१३||
कुर्वन्ति साक्षिभ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु |
गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजांश्च रोगान् ||१४||
अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम् |१५|
Adhikarana 11 (15) · Śloka 16
यस्योत्तमाङ्गार्धमतीव जन्तोः सम्भेदतोदभ्रमशूलजुष्टम् ||१५||
पक्षाद्दशाहादथवाऽप्यकस्मात्तस्यार्धभेदं त्रितयाद्व्यवस्येत् |१६|
Adhikarana 12 (16-18) · Śloka 18
शङ्खाश्रितो वायुरुदीर्णवेगः कृतानुयात्रः कफपित्तरक्तैः ||१६||
रुजः सुतीव्राः प्रतनोति मूर्ध्नि विशेषतश्चापि हि शङ्खयोस्तु |
सुकष्टमेनं खलु शङ्खकाख्यं महर्षयो वेदविदः पुराणाः ||१७||
व्याधिं वदन्त्युद्गतमृत्युकल्पं भिषक्सहस्रैरपि दुर्निवारम् ||१८||
Adhikarana puShpikA · Śloka 25
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे शिरोरोगविज्ञानीयो नाम पञ्चविंशोऽध्यायः ||२५||