Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

3. vartmagatarōgavijñānīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो वर्त्मगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

सन्धिगतरोगानन्तरं ‘वर्त्मशुक्लस्य सन्धौ चरन्तोऽन्तर्नयनं दूषयन्ति’ इति वर्त्मनोऽनन्तरनिर्दिष्टत्वाद्वर्त्मगतरोगविज्ञानीयारम्भो युक्त इत्यत आह- अथात इत्यादि||१-२||

Adhikarana 2 (3-4) · Śloka 4

पृथग्दोषाः समस्ता वा यदा वर्त्मव्यपाश्रयाः | सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः ||३|| विवर्ध्य मांसं रक्तं च तदा वर्त्मव्यपाश्रयान् | विकाराञ्जनयन्त्याशु नामतस्तान्निबोधत ||४||

🔊 Audio coming soon

सम्प्राप्तिमाह- पृथगित्यादि| यदा पृथक् समस्ता वा अधिकमूर्च्छिता अतिशयप्रकुपिता दोषा वर्त्मव्यपाश्रयाः अपशब्दस्योपसर्गस्य मध्यवचनत्वाद्वर्त्ममध्यगताः सिरा व्याप्य वर्त्मस्ववतिष्ठन्ते, तदा वर्त्मव्यपाश्रयान् विकारान् शीघ्रं जनयन्तीति सम्बन्धः| अमुं पाठं पञ्जिकाकारो न पठति, जेज्जटपठितत्वादस्माभिरपि पठितः||३-४||

Adhikarana 3 (5-8) · Śloka 9

उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा | तथाऽर्शोवर्त्म शुष्कार्शस्तथैवाञ्जननामिका ||५|| बहलं वर्त्म यच्चापि व्याधिर्वर्त्मावबन्धकः | क्लिष्टकर्दमवर्त्माख्यौ श्याववर्त्म तथैव च ||६|| प्रक्लिन्नमपरिक्लिन्नं वर्त्म वातहतं तु यत् | अर्बुदं निमिषश्चापि शोणितार्शश्च यत् स्मृतम् ||७|| लगणो बिशनामा च पक्ष्मकोपस्तथैव च | एकविंशतिरित्येते विकारा वर्त्मसंश्रयाः ||८|| नामभिस्ते समुद्दिष्टा... |९|

🔊 Audio coming soon

ते च वर्त्माश्रया रोगा एकविंशतिरभिहिताः, अतस्तानेव नाम्ना निर्दिशन्नाह- उत्सङ्गिनीत्यादि||५-८||-

Adhikarana 4 (9) · Śloka 10

...लक्षणैस्तान् प्रचक्ष्महे | अभ्यन्तरमुखी बाह्योत्सङ्गेऽधो वर्त्मनश्च या ||९|| विज्ञेयोत्सङ्गिनी नाम तद्रूपपिडकाचिता |१०|

🔊 Audio coming soon

नामतस्तान् समुद्दिश्य लक्षणैराह- लक्षणैरित्यादि| अभ्यन्तरमुखी वर्त्माभ्यन्तरमुखी| बाह्येति बहिर्भवा इव प्रतिभासते, वास्तूत्सेधेन बहिरप्युन्नतत्वात्| उत्सङ्गेऽधो वर्त्मनश्च येति अधोभागे यद्वर्त्म तस्योत्सङ्गे क्रोडे जाता या, तस्या इव रूपं यासां, तद्रूपाभिर्व्याप्ता; इयं सन्निपातजा साध्या च| विदेहोक्तमिहानुक्तं काठिन्यादि चोह्यम्| तथा हि तदुक्तं वचः, - “वर्त्मोत्सङ्गेऽप्यधो जन्तोः सन्निपातात् प्रजायते| अभ्यन्तरमुखी स्थूला बाह्यतश्चापि दृश्यते|| पिडका पिडकाभिश्च चिताऽन्याभिः समन्ततः| उत्सङ्गपिडका नाम कठिना मन्दवेदना|| सा प्रभिन्ना स्रवेत् स्रावं कुक्कुटाण्डरसोपमम्”- इति||९||-

Adhikarana 5 (10) · Śloka 11

कुम्भीकबीजप्रतिमाः पिडका यास्तु वर्त्मजाः ||१०|| आध्मापयन्ति भिन्ना याः कुम्भीकपिडकास्तु ताः |११|

🔊 Audio coming soon

कुम्भीका दाडिमाकारफला स्थलकुम्भी| वर्त्मजा इति बहुवचनाद् बाह्या एव भवन्ति| एताः सन्निपातजा अपि साध्याः||१०||-

Adhikarana 6 (11) · Śloka 11

स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः | पिडकाश्च रुजावत्यः पोथक्य इति सञ्ज्ञिताः ||११||

🔊 Audio coming soon

स्राविण्य इत्यादि| स्राविण्यो बहुस्रावाः| कण्डुरा इति कण्डुयुक्ताः| रुजावत्य इति कफजा अपि वेदनायुक्ता इत्यर्थः| इमाः साध्याः||११||

Adhikarana 7 (12) · Śloka 12

पिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता | पिडका या खरा स्थूला सा ज्ञेया वर्त्मशर्करा ||१२||

🔊 Audio coming soon

पिडकाभिरित्यादि| इयं सन्निपातजा साध्या च||१२||

Adhikarana 8 (13) · Śloka 13

एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः | सूक्ष्माः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीर्त्यते ||१३||

🔊 Audio coming soon

एर्वार्वित्यादि| एर्वारुः ग्रीष्मकर्कटी| वर्त्मस्था वर्त्मनामन्तर्बाह्यतोऽपि तिष्ठाति| इदं सन्निपातजमपि साध्यम्||१३||

Adhikarana 9 (14) · Śloka 14

दीर्घोऽङ्कुरः खरः स्तब्धो दारुणो वर्त्मसम्भवः | व्याधिरेष समाख्यातः शुष्कार्श इति सञ्ज्ञितः ||१४||

🔊 Audio coming soon

दीर्घ इत्यादि| दारुणः अतिकष्टतरः| वर्त्मसम्भवो वर्त्मनामन्तरेव भवति| अयं व्याधिः सन्निपातजोऽपि साध्यः||१४||

Adhikarana 10 (15) · Śloka 15

दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा | मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका ||१५||

🔊 Audio coming soon

दाहेत्यादि| रक्तजेयं साध्या च||१५||

Adhikarana 11 (16) · Śloka 16

वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः | सवर्णाभिः समाभिश्च विद्याद्बहलवर्त्म तत् ||१६||

🔊 Audio coming soon

वर्त्मेत्यादि| एतदपि सन्निपातजं साध्यं च||१६||

Adhikarana 12 (17) · Śloka 17

कण्डूमताऽल्पतोदेन वर्त्मशोफेन यो नरः | न समं छादयेदक्षि भवेद्बन्धः स वर्त्मनः ||१७||

🔊 Audio coming soon

कण्डूमतेत्यादि| एष सन्निपातजोऽपि साध्यः||१७||

Adhikarana 13 (18) · Śloka 18

मृदल्पवेदनं ताम्रं यद्वर्त्म सममेव च | अकस्माच्च भवेद्रक्तं क्लिष्टवर्त्म तदादिशेत् ||१८||

🔊 Audio coming soon

मृद्वित्यादि| ‘अकस्माच्च स्रवेद्रक्तं’ इति क्वचित् पाठः, तं च पञ्जिकाकारो न मन्यते| अकस्माच्च कारणं विना द्वयमपि वर्त्म रक्तं भवेत्| तथा च विदेहः,- “श्लेष्मदुष्टेन रक्तेन क्लिष्टमांसमिवोभयम्| बन्धुजीवनिभं वर्त्म क्लिष्टवर्त्म तदुच्यते”- इति| एतद्रक्तजं साध्यं च||१८||

Adhikarana 14 (19) · Śloka 19

क्लिष्टं पुनः पित्तयुतं विदहेच्छोणितं यदा | तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः ||१९||

🔊 Audio coming soon

क्लिष्टमित्यादि| यदा क्लिष्टारम्भकं श्लेष्मदुष्टं शोणितं पित्तयुक्तं विदहेत् विदाहं गच्छेत्तदा क्लिन्नत्वमापन्नं क्लिष्टमेव वर्त्मकर्दम उच्यते, क्लिन्नत्वमापन्नमार्द्रतां प्राप्तम्| एतत् कफपित्तरक्तारब्धत्वात् सन्निपातजं साध्यं च| ‘कृष्णत्वमापन्नम्’ इति केचित् पठन्ति, तं पाठं पञ्जिकाकारो नाङ्गीकरोति||१९||

Adhikarana 15 (20) · Śloka 20

यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम् | दाहकण्डूपरिक्लेदि श्याववर्त्मेति तन्मतम् ||२०||

🔊 Audio coming soon

यद्वर्त्मेत्यादि| एतदपि सन्निपातजं साध्यं च||२०||

Adhikarana 16 (21) · Śloka 21

अरुजं बाह्यतः शूनमन्तः क्लिन्नं स्रवत्यपि | कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म तदुच्यते ||२१||

🔊 Audio coming soon

अरुजमित्यादि| अरुजमल्परुजं शूनं च बाह्ये, क्लिन्नं स्रवत्यप्यन्तरेव, कण्डूनिस्तोदबहुलं पुनरन्तरेव| अयं रोगः पिल्लाख्यः केनचित् कथितः, तत् पञ्जिकाकारो न मन्यते| अयं व्याधिः कफजः साध्यश्च||२१||

Adhikarana 17 (22) · Śloka 22

यस्य धौतानि धौतानि सम्बध्यन्ते पुनः पुनः | वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत् ||२२||

🔊 Audio coming soon

यस्येत्यादि| यस्य रोगस्य स्थानभूतानि वर्त्मान्यसकृत्प्रक्षालितानि पुनः सम्बद्धानि भवन्ति पिल्लोपदेहेनान्तर्बहिश्च पाकरहितान्यपि , तदक्लिन्नवर्त्म जानीयात्| एतत् सन्निपातजमपि साध्यं पिल्लाख्यं च| तथा च विदेहः- “प्रक्षालिते तथा मृष्टे आनह्येते पुनः पुनः| अपरिक्लिन्नवर्त्मानं पिल्लाख्यमिति निर्देशेत्”- इति| अमुं द्वयमपि दृष्टान्तदार्ष्टान्तिकपाठं सूत्रे जेज्जटाचार्यः पठति, तन्नेच्छति गयदासः||२२||

Adhikarana 18 (23) · Śloka 23

विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते | एतद्वातहतं विद्यात् सरुजं यदि वाऽरुजम् ||२३||

🔊 Audio coming soon

विमुक्तेत्यादि| निश्चेष्टं निष्क्रियम्| अत एव न निमील्यते न सङ्कुचतीत्यर्थः| अरुजम् अल्परुजम्| इदं वातजमसाध्यं च||२३||

Adhikarana 19 (24) · Śloka 24

वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम् | विज्ञेयमर्बुदं पुंसां सरक्तमवलम्बितम् ||२४||

🔊 Audio coming soon

वर्त्मेत्यादि| वर्त्मान्तरस्थम् अभ्यन्तरस्थमित्यर्थः| विषमं कष्टकारि| ग्रन्थिभूतं ग्रन्थिरिव | सरक्तमवलम्बितमिति किञ्चिद्रक्तता पित्तेन, अवलम्बितत्वमर्बुदत्वेन| ‘अवलम्बि च’ इति केचित् पठन्ति| सन्निपातजमपीदं साध्यम्||२४||

Adhikarana 20 (25) · Śloka 25

निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः | चालयत्यति वर्त्मानि निमेषः स गदो मतः ||२५||

🔊 Audio coming soon

निमेषणीरित्यादि| वर्त्मसंश्रयाः निमेषिणीः सिरा वायुः प्रविष्टः सन् वर्त्मानि चालयतीति सम्बन्धः| यद्बलेन निमेषोन्मेषौ स्यातां ता निमेषिण्यः सिराः| ‘सोऽगदो मत’ इति केचित् पठन्ति, तत्रागद अव्यथ इत्यर्थः| असौ वातजोऽसाध्यश्च||२५||

Adhikarana 21 (26) · Śloka 26

छिन्नाश्छिन्ना विवर्धन्ते वर्त्मस्था मृदवोऽङ्कुराः | दाहकण्डूरुजोपेतास्तेऽर्शः शोणितसम्भवाः ||२६||

🔊 Audio coming soon

छिन्ना इत्यादि| ये शोणितसम्भवा मृदवो वर्त्मस्था अङ्कुराश्छिन्नाश्छिन्नाः सन्तो विवर्धन्ते तेऽङ्कुरा अर्शः शोणितार्श इति सम्बन्धः| इदं शोणितार्शो रक्तजमसाध्यं च||२६||

Adhikarana 22 (27) · Śloka 27

अपाकः कठिनः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः | सकण्डूः पिच्छिलः कोलप्रमाणो लगणस्तु सः ||२७||

🔊 Audio coming soon

अपाक इत्यादि| श्लेष्मजोऽयं साध्यश्च||२७||

Adhikarana 23 (28) · Śloka 28

शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छिद्रैः समन्वितम् | बिसमन्तर्जल इव बिसवर्त्मेति तन्मतम् ||२८||

🔊 Audio coming soon

शूनमित्यादि| यथाऽन्तर्जले बिसं बिसाण्डं तद्वदित्यर्थः| एतत् सर्वजमपि साध्यम्||२८||

Adhikarana 24 (29-30) · Śloka 30

दोषाः पक्ष्माशयगतास्तीक्ष्णाग्राणि खराणि च | निर्वर्तयन्ति पक्ष्माणि तैर्घुष्टं चाक्षि दूयते ||२९|| उद्धृतैरुद्धृतैः शान्तिः पक्ष्मभिश्चोपजायते | वातातपानलद्वेषी पक्ष्मकोपः स उच्यते ||३०||

🔊 Audio coming soon

दोषा इत्यादि| निर्वर्तयन्ति निष्पादयन्ति| पक्ष्माणि प्रतिबालान्| तैः पक्ष्मभिः, अक्षि लोचनं, दूयते उपतप्यते| उद्धृतैरुद्धृतैरिति उन्मूलितैरुन्मूलितैरित्यर्थः; अत्र वीप्सया तेषां पुनः पुनरुद्भवः ख्याप्यते| अस्य पक्ष्मकोपस्य ‘उपपक्ष्ममाला’ इति अनुक्ता द्वितीया सञ्ज्ञा; लोके ‘परिवाल’ इति वदन्ति| एष रोगः सर्वजो याप्यश्च||२९-३०||

Adhikarana puShpikA · Śloka 3

इति सुश्रुतसंहितायामुत्तरतन्त्रे वर्त्मगतरोगविज्ञानीयो नाम तृतीयोऽध्यायः ||३||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे तृतीयोऽध्यायः समाप्तः||३||