Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

28. skandagrahapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः स्कन्धग्रहप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

नवग्रहाकृतिविज्ञानीयानन्तरं विज्ञातनवग्रहाकृतेश्चिकित्सितमुचितं; तत्रापि स्कन्दग्रहस्य प्रथमत्वात्तप्रतिषेधाध्याय आरभ्यते- अथात इत्यादि||१-२||

Adhikarana 2 (3) · Śloka 3

स्कन्दग्रहोपसृष्टानां कुमाराणां प्रशस्यते | वातघ्नद्रुमपत्राणां निष्क्वाथः परिषेचने ||३||

🔊 Audio coming soon

स्कन्देत्यादि| उपसृष्टानां गृहीतानाम्| द्रुमग्रहणं विटपनिषेधार्थम्| स्कन्दग्रहप्रभावेण तेनाविष्टे बाले वायुः कुप्यतीति वातहरैः सेकादयः कार्योः; अथवा वातघ्नद्रुमाः स्वप्रभावेण ग्रहावेशमपि निवर्तयन्ति, अचिन्त्यशक्तित्वात्||३||

Adhikarana 3 (4) · Śloka 4

तेषां मूलेषु सिद्धं च तैलमभ्यञ्जने हितम् | सर्वगन्धसुरामण्डकैडर्यावापमिष्यते ||४||

🔊 Audio coming soon

तेषामित्यादि| तेषां वातघ्नद्रुमाणां बिल्वादीनाम्| सर्वगन्धा एलादिपठिताः, सुरामण्डः सुराया उपर्यच्छो भागः, कैडर्यो महानिम्बः| एतेन बिल्वादिमूलक्वाथेन एलादीनां कल्केन सिद्धं तैलमभ्यञ्जने हितमिष्यत इति सिद्धम्||४||

Adhikarana 4 (5) · Śloka 5

देवदारुणि रास्नायां मधुरेषु द्रुमेषु च | सिद्धं सर्पिश्च सक्षीरं पानमस्मै प्रयोजयेत् ||५||

🔊 Audio coming soon

देवदारुणीत्यादि| मधुरद्रुमा मधुरवृक्षाः, मधु(धू)कराजादनादयः| पानम् अन्नादस्य बालस्य||५||

Adhikarana 5 (6) · Śloka 6

सर्षपाः सर्पनिर्मोको वचा काकादनी घृतम् | उष्ट्राजाविगवां चैव रोमाण्युद्धूपनं शिशोः ||६||

🔊 Audio coming soon

काकादनी काकजङ्घा||६||

Adhikarana 6 (7) · Śloka 7

सोमवल्लीमिन्द्रवल्लीं शमीं बिल्वस्य कण्टकान् | मृगादन्याश्च मूलानि ग्रथितान्येव धारयेत् ||७||

🔊 Audio coming soon

सोमवल्लीत्यादि| सोमवल्ली गुडूची, इन्द्रवल्ली मत्साण्डकः गण्डदूर्वेति लोके, मृगादनी इन्द्रवारुणी||७||

Adhikarana 7 (8) · Śloka 8

रक्तानि माल्यानि तथा पताका रक्ताश्च गन्धा विविधाश्च भक्ष्याः | घण्टा च देवाय बलिर्निवेद्यः सुकुक्कुटः स्कन्दग्रहे हिताय ||८||

🔊 Audio coming soon

बलिं निर्दिशन्नाह- रक्तानीत्यादि| तथा पताका रक्तेत्यर्थः| रक्ताश्च गन्धाः कुङ्कुमादिकाः| भक्ष्याः स्वस्तिकमोदकादयः| देवाय स्कन्दनाम्ने, स्कन्दग्रहे वक्ष्यमाणे चत्वाराख्ये| हिताय हितार्थं बालकस्य| बलिश्च शुचिना वैद्येन कृतस्नानेन शस्त्रहस्तेन रात्रौ दातव्यः||८||

Adhikarana 8 (9) · Śloka 9

स्नानं त्रिरात्रं निशि चत्वरेषु कुर्यात् पुरं शालियवैर्नवैस्तु | अद्भिश्च गायत्र्यभिमन्त्रिताभिः प्रज्वालनं व्याहृतिभिश्च वह्नेः ||९||

🔊 Audio coming soon

स्नानमित्यादि| चत्वरेषु चतुष्पथेषु, अपरे चत्वरशब्देन त्रिपथं कथास्थानं चेत्याहुः| पुरं मण्डलम्| अद्भिश्च गायत्र्यभिमन्त्रिताभिः स्नानमिति सम्बन्धनीयम्| व्याहृतिभिस्तिसृभिः सप्तभिर्दशभिर्वा स्वाहान्ताभिः| स्कन्दग्रहे चत्वराख्ये शालियवैर्विरचितमण्डलाभ्यन्तरसद्मनि पुराभिधाने, त्रिरात्रं रात्रौ बलिस्नानहोमाः कार्याः||९||

Adhikarana 9 (10-14) · Śloka 14

रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम् | अहन्यहनि कर्तव्या या भिषग्भिरतन्द्रितैः ||१०|| तपसां तेजसां चैव यशसां वपुषां तथा | निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु ||११|| ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः | देवसेनारिपुहरः पातु त्वां भगवान् गुहः ||१२|| देवदेवस्य महतः पावकस्य च यः सुतः | गङ्गोमाकृत्तिकानां च स ते शर्म प्रयच्छतु ||१३|| रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः | रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः ||१४||

🔊 Audio coming soon

रक्षमित्यादि| रक्षा स्वस्त्ययनं; मन्त्राणामचिन्त्यशक्तित्वान्मन्त्रमयी रक्षा पापनाशिनी| तपसामित्यादि| वपुषामिति वपुषां निधानं स्थानमित्यनेन कामरूपत्वमुक्तम्| अव्ययो नित्यः| ग्रहाः स्कन्दग्रहादिकाः, तेषां सेना तस्याः पतिः देवसेनापतिः| देवसेनारिपवो दैत्याः| देवदेवस्य रुद्रस्य, उमा पार्वती, कृत्तिकाः षट्सङ्ख्योपेताः सप्तर्षिभार्याः| शर्म सुखम्| क्रौञ्चनामा पर्वतः तं सूदयति निहन्तीति क्रौञ्चसूदनः||१०-१४||

Adhikarana puShpikA · Śloka 28

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे स्कन्दप्रतिषेधो नामा(द्वितीयोऽध्यायः, आदितोऽ)ष्टाविंशोऽध्यायः ||२८||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे स्कन्दग्रहप्रतिषेधो नामाऽष्टाविंशतितमोऽध्यायः||२८||