Adhikarana 1 (1-2) · Śloka 2
अथातः स्वस्थवृत्तमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
रसभेदविकल्पानन्तरं पूर्वोक्तक्रमेणैव स्वस्थवृत्तारम्भः- अथात इत्यादि| वृत्तम् आचारः| केचित् स्वस्थरक्षणीयमिति पठित्वा स्वस्थस्य रक्षणं यस्मिन्नध्याये स तथा, तं व्याख्यास्याम इति व्याख्यानयन्ति||१-२||
Adhikarana 2 (3) · Śloka 3
सूत्रस्थाने समुद्दिष्टः स्वस्थो भवति यादृशः |
तस्य यद्रक्षणं तद्धि चिकित्सायाः प्रयोजनम् ||३||
इदानीमतिदेशेन स्वस्थलक्षणं चिकित्साप्रयोजनं चाह- सूत्रेत्यादि| समुद्दिष्टः ‘समदोषः समाग्निश्च’ (सू. १५) इत्यादिना दोषधातुमलक्षयवृद्धिविज्ञानीयाध्याये| तादृशस्वस्थस्य रक्षणं भाविव्याधिनिवारणत्वेन पालनम्| हि स्फुटार्थः| ये तु ‘सूत्रस्थान’ इत्यादि श्लोकार्धं न पठन्ति ते ‘समदोषः’ इत्यादिकं सूत्रस्थानोक्तं स्वस्थलक्षणमत्रापि पठन्ति, अनुवादत्वेन न पौनरुक्त्यमिति मन्यन्ते| ‘चिकित्सायाः’ प्रयोजनं’ इत्यत्र ‘चिकित्सायाः परं वपुः’ इति केचित् पठन्ति||३||
Adhikarana 3 (4) · Śloka 4
तस्य यद्वृत्तमुक्तं हि रक्षणं च मयाऽऽदितः |
तस्मिन्नर्थाः समासोक्ता विस्तरेणेह वक्ष्यते ||४||
ननु, चानागतबाध एव स्वस्थवृत्तस्य दर्शितत्वात् कस्मात् पुनरत्र तदभिधानमित्याशङ्क्याह- तस्येत्यादि| तस्य स्वस्थस्य| आदितः अनागतबाधे| तस्मिन् अनागतबाधोक्तस्वस्थवृत्ते| समासोक्ताः सङ्क्षेपेणैवोक्ताः| इह अस्मिन्नध्याये, वक्ष्यते ‘स्वस्थवृतं’ इति शेषः| केचित् ‘विस्तरस्तस्य वक्ष्यते’ इति पठन्ति, तस्येति स्वस्थवृत्तस्य| अपरे ‘विस्तरश्चात्र वक्ष्यते’ इति पठित्वा तेषामर्थानां विस्तरोऽत्र वक्ष्यते’ इति व्याख्यानयन्ति||४||
Adhikarana 4 (5) · Śloka 5
यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम् |
तेषु तेषु प्रदातव्याः रसास्ते ते विजानता ||५||
ऋत्वाश्रयं स्वस्थवृतं सङ्क्षेपेणाह- यस्मिन्नित्यादि| देहिनामित्यत्र देहिशब्देनामेदोपचाराच्छरीरमुच्यते; न आत्मा, तस्य निर्विकारत्वात| तेषु तेष्विति धातुषु| ते ते रसाः तद्दोषप्रत्यनीका रसाः| अत्र रसशब्देन रसवन्ति द्रव्याणि भण्यन्ते, केवलरसस्योपयोगासम्भवात्| विजानता वैद्येन||५||
Adhikarana 5 (6-12) · Śloka 13
प्रक्लिन्नत्वाच्छरीराणां वर्षासु भिषजा खलु |
मन्देऽग्नौ कोपमायान्ति सर्वेषां मारुतादयः ||६||
तस्मात् क्लेदविशुद्ध्यर्थं दोषसंहरणाय च |
कषायतिक्तकटुकै रसैर्युक्तमपद्रवम् ||७||
नातिस्निग्धं नातिरूक्षमुष्णं दीपनमेव च |
देयमन्नं नृपतये यज्जलं चोक्तमादितः ||८||
तप्तावरतमम्भो वा पिबेन्मधुसमायुतम् |
अह्नि मेघानिलाविष्टेऽत्यर्थशीताम्बुसङ्कुले ||९||
तरुणत्वाद्विदाहं च गच्छन्त्योषधयस्तदा |
मतिमांस्तन्निमित्तं च नातिव्यायाममाचरेत् ||१०||
अत्यम्बुपानावश्यायग्राम्यधर्मातपांस्त्यजेत् |
भूबाष्पपरिहारार्थं शयीत च विहायसि ||११||
शीते साग्नौ निवाते च गुरुप्रावरणे गृहे |
यायान्नागवधूभिश्च प्रशस्तागुरुभूषितः ||१२||
दिवास्वप्नमजीर्णं च वर्जयेत्तत्र यत्नतः |१३|
आर्तवविधिं सङ्क्षेपेणाभिधायेदानीं विस्तरेणाह- प्रक्लिन्नत्वादित्यादि| प्रक्लिन्नत्वात् अत्यन्तार्द्रत्वात्| भिषजेति पदं ‘देयमन्नम्’ इत्यत्र योज्यम्| प्रक्लिन्नत्वादिति अग्निमान्द्यहेतुः, यतोऽम्बुगुणबाहुल्येनाग्निमान्द्यं भवति| ननु, वर्षासु सञ्चयरूपतया पित्तमेव कुपितमस्ति नेतरौ, तत् कथं कुप्यन्ति मारुतादय इत्युक्तं? सत्यं, प्रावृट्प्रकुपितो वायुरुपशमहेत्वभावाद्वर्षास्वपि कुपित एवानुवर्तते , कफश्च मेघनिःस्यन्दादिहेतुभिरसञ्चितोऽपि कुप्यति , अतो युक्त एव दोषत्रयप्रकोपः| अथवा अग्निमान्द्याद्दोषत्रयप्रकोपः; तथा चोक्तं, - ‘शमप्रकोपौ दोषाणां सर्वेषामग्निसंश्रितौ’ इति| तस्मादिति यतो वर्षासु शरीरक्लेदो दोषप्रकोपश्च भवति तस्मादित्यर्थः| दोषसंरक्षणं च सञ्चयादिनिवारणेन ज्ञेयम्| रसैर्युक्तमित्यन्नमित्येतस्य विशेषणम्| अपद्रावम् अपगतद्रवं, द्रवहीनमित्यर्थः; अन्ये ‘अथाद्रवं’ इति पठन्ति, ईषद्द्रवमिति च व्याख्यानयन्ति| नातिस्निग्धं नातिरूक्षं साधारणमित्यर्थः| नृपतिग्रहणम् ईश्वरोपलक्षणार्थम्| यज्जलं चोक्तमादित इति ‘वर्षास्वन्तरिक्षं’ इत्यादिना पानीयवर्गे कथितम्| तप्तावरतं शृतशीतं, तत् सञ्चितपित्तोपशमनार्थम्| मधुसमायुतं समधु, एतच्चानुबलस्य कफस्योपशमनार्थम्| ननु, ‘वर्षासु न पिबेत्तोयं’ इत्यनेन सह कथमेतन्न विरुध्यते? उच्यते,- न पिबेदित्यस्याल्पपाने व्यवस्थितेः| तरुणत्वात् अभिनवत्वात्| विदाहम् अम्लपाकम्| तदा वर्षाकाले, तन्निमित्तं विदाहकारणात् | नातिव्यायाममाचरेदित्यनेन मृदुव्यायाममाचरेदित्युक्तं; स च शरीरक्लेदोपशोषार्थं वह्निसन्धुक्षणार्थं च| अवश्यायो विना मेघं सूक्ष्मजलकणानिपातः| ग्राम्यधर्मो मैथुनम्| आतपो घर्मः| तथेति नाचरेदित्यर्थः| विहायःशब्देनात्र धवलगृहोप्ररिभूरभिप्रेता, अन्ये मञ्चादिकं मन्यन्ते| शीते साग्निनिवातगृहे शयनं वातकोपोपशमनाय| गुरुप्रावरणो गुरुवस्त्रावृताङ्गः पुरुषः| गृहे इत्यत्रापि शयीत इति योज्यम्| यायाद् गच्छेत्| नागवधूभिरिति हस्तिनीगमनं च कर्दमाम्बुनोः परिहारार्थम्| प्रशस्तागुरुभूषित इति अगुरुणः, शैत्यनिवारकत्वात् | अजीर्णं चेति चकारात् पूर्वानिलमुदमन्थं च वर्जयेत्| सरिज्जलमविहितत्वेनैव वर्ज्यम्| तत्रेति वर्षासु| अतिव्यायामादेर्निषेध्यगणत्वाद्दिवास्वप्नाजीर्णयोः पृथगुपादानमत्यन्तनिषेधार्थम्||६-१२||-
Adhikarana 6 (13-20) · Śloka 21
सेव्याः शरदि यत्नेन कषायस्वादुतिक्तकाः ||१३||
क्षीरेक्षुविकृतिक्षौद्रशालिमुद्गादिजाङ्गलाः |
श्वेतस्रजश्चन्द्रपादाः प्रदोषे लघु चाम्बरम् ||१४||
सलिलं च प्रसन्नत्वात् सर्वमेव तदा हितम् |
सरःस्वाप्लवनं चैव कमलोत्पलशालिषु ||१५||
प्रदोषे शशिनः पादाश्चन्दनं चानुलेपनम् |
तिक्तस्य सर्पिषः पानैरसृक्स्रावैश्च युक्तितः ||१६||
वर्षासूपचितं पित्तं हरेच्चापि विरेचनैः |
नोपेयात्तीक्ष्णमम्लोष्णं क्षारं स्वप्नं दिवाऽऽतपम् ||१७||
रात्रौ जागरणं चैव मैथुनं चापि वर्जयेत् |
(स्वादुशीतजलं मेध्यं शुचिस्फटिकनिर्मलम् ||१८||
शरच्चन्द्रांशुनिर्धौतमगस्त्योदयनिर्विषम् |
प्रसन्नत्वाच्च सलिलं सर्वमेव तदा हितम् ||१९||
सचन्दनं सकर्पूरं वासश्चामलिनं लघु |
भजेच्च शारदं माल्यं सीधोः पानं च युक्तितः ||२०||
पित्तप्रशमनं यच्च तच्च सर्वं समाचरेत्) |२१|
वार्षिकं विधिमभिधाय शारदमाह- सेव्या इत्यादि| क्षीरेक्षुविकृतीत्यत्र विकृतिशब्दः क्षीरेक्षुभ्यां सम्बध्यते; क्षीरविकृतिः, इक्षुविकृतिरिति| क्षौद्रं मधु| शालयो विविधाः| मुद्गादीनामित्यादिशब्दाज्जीर्णा यवगोधूमादयो गृह्यन्ते| जाङ्गला इति एणाद्या लावाद्याश्च| श्वेतस्रजः शुक्लपुष्पमालाः| चन्द्रपादाः चन्द्ररश्मयः| प्रदोषे रात्रिप्रथमप्रहरार्धे| लघु चाम्बरं सूक्ष्मवस्त्रम्| सलिलं च प्रसन्नत्वादिति| यद्यपि ‘शरदिसर्वं प्रसन्नत्वात्’ इत्यनेनैव सर्वं जलं प्राप्तं, तथाऽपि प्रकरणान्तरत्वादुपादानम्| सरःसु दिव्यखातेषु| आप्लवनं प्रतरणम्| कमलोत्पलशालिषु कमलोत्पलभ्राजिषु , शालिष्वित्यत्र शोभिष्विति केचित् पठन्ति; कमलादियुक्ताया विशेषेण पित्तहरत्वम्| प्रदोषे शशिनः पादा इति पुनरभिधानं प्रदोषे एवावश्यं चन्द्रपादसेवा कार्या नतु सर्वरात्रं, अनुबलकफस्याभिष्यन्दभयात्| पित्तसंशमनमभिधायेदानीं संशोधनमाह- तिक्तस्येत्यादि| तिक्तघृतपानं कफरक्तप्रत्यनीकत्वात्| असृङ्भोक्षणं च रक्तस्य प्रदुष्टत्वात्| युक्तित इति योगतः, अतुरबलादिकं वीक्ष्येत्यर्थः| सेव्यमभिधाय वर्ज्यमाह- नोपेयादित्यादि| नोपेयात् न सेवेत| स्वप्नं दिवेति दिवास्वापम्| मैथुनं चापीत्यत्र अपिशब्दादवश्यायपुरोवातादिकमपि समानतन्त्रोक्तं वर्जयेत्||१३-२०||-
Adhikarana 7 (21-31) · Śloka 31
(हेमन्तः शीतलो रूक्षो मन्दसूर्योऽनिलाकुलः ||२१||
ततस्तु शीतमासाद्य वायुस्तत्र प्रकुप्यति |
कोष्ठस्थः शीतसंस्पर्शादन्तःपिण्डीकृतोऽनलः ||२२||
रसमुच्छोषयत्याशु तस्मात् स्निग्धं तदा हितम्) |
हेमन्ते लवणक्षारतिक्ताम्लकटुकोत्कटम् ||२३||
ससर्पिस्तैलमहिममशनं हितमुच्यते |
तीक्ष्णान्यपि च पानानि पिबेदगुरुभूषितः ||२४||
तैलाक्तस्य सुखोष्णे च वारिकोष्ठेऽवगाहनम् |
साङ्गारयाने महति कौशेयास्तरणास्तृते ||२५||
शयीत शयने तैस्तैर्वृतो गर्भगृहोदरे |
स्त्रीः श्लिष्ट्वाऽगुरुधूपाढ्याः पीनोरुजघनस्तनीः ||२६||
प्रकामं च निषेवेत मैथुनं तर्पितो नृपः |
(मधुरं तिक्तकटुकमम्लं लवणमेव च ||२७||
अन्नपानं तिलान् माषाञ्छाकानि च दधीनि च |
तथेक्षुविकृतीः शालीन् सुगन्धांश्च नवानपि ||२८||
प्रसहानूपमांसानि क्रव्यादबिलशायिनाम् |
औदकानां प्लवानां च पादिनां चोपसेवयेत् ||२९||
मद्यानि च प्रसन्नानि यच्च किञ्चित् बलप्रदम् |
कामतस्तन्निषेवेत पुष्टिमिच्छन् हिमागमे ||३०||
दिवास्वप्नमजीर्णं च वर्जयेत्तत्र यत्नतः) |
एष एव विधिः कार्यः शिशिरे समुदाहृतः ||३१||
इदानीं हैमन्तिकं विधिमाह- हेमन्त इत्यादि| अहिमम् उष्णम्| अशनं भोजनं, पानानि मद्यादीनि| अगुरुभूषितः अगुरुचूर्णावलिप्तः| वारिकोष्ठे पाषाणादिविरचिते कुशूलाकारे जलपात्रे| साङ्गारयाने अङ्गारपूर्णशकटिकासहिते, एतद्गर्भगृहोदरे इत्येतस्य विशेषणम्| महति विस्तीर्णे| कौशेयास्तरणास्तृते पट्टवस्त्रीयतूलिकाच्छादिते| कौशेयमित्युपलक्षणं, तेन प्रावाराजिनादीनि तन्त्रान्तरोक्तानि गृह्यन्ते| तैस्तैरिति शीतापहैस्तन्त्रान्तरोक्तैर्वस्त्रविशेषैः, वृत इति आच्छादिताङ्गः पुरुषः| गर्भगृहोदरे इति बृहद्गृहमध्ये अपरं यत् क्षुद्रगृहं तस्याभ्यन्तरे| गर्भगृहोदरे इत्युपलक्षणं, तेन भूगृहमपि गृह्यते| श्लिष्ट्वा आलिङ्ग्य| पीनं मांसलं, ऊरु जानुवङ्क्षणयोर्मध्यं, जघनं कठ्या अग्रिमभागः| ननु, तन्त्रान्तरे ‘गोरसानिक्षुविकृतीः’ इत्यादिना यादृश आहारो हेमन्ते दर्शितस्तादृशः किमिति न निर्दिष्टः? सत्यं, हेमन्ते सञ्चीयमानस्य कफस्य शैत्यात् प्रकुपितस्य वातस्योपशमनार्थं साधारण एव विधिर्यस्माद्युक्तः, अतः साधारणविधिरत्र निर्दिष्टो न तादृश आहारः| यद्येवं तर्हि तन्त्रान्तरे तादृश एवाहारः कुतो निर्दिष्ट इति चेत्? उच्यते- हेमन्ते शीतानिलस्पर्शसंरुद्धो बली वह्निर्यदि तादृशमाहारं न लभते तदा धातुक्षयमावहति, धातुक्षयाच्च तीव्रवातकोपः स्यादिति भयात्तन्त्रान्तरे तादृश आहारो दर्शितः| (अथवा यस्माद्धेमन्ते प्रबलाग्नित्वादपथ्यक्षमो देहो भवति)| कार्तिककुण्डोऽमुं पाठमन्यथा पठति, स चाभावान्न लिखितः| हेमन्तशिशिरयोस्तुल्यत्वाद्धैमन्तिक एव विधिः शिशिरेऽपि सेव्यः; अतः शिशिरविधानं पृथङ्गोक्तम्| यत्केचिदत्र वर्ज्यविधानं ‘...प्राग्वातं रूक्षभोजनम्| वातलानि च द्रव्याणि शीतस्नानं च वर्जयेत्’ इति पठन्ति; स त्वनार्षः पाठः, परम्पराविच्छेदास्मरणात् समानतन्त्रानभिधानाच्च||२१-३१||
Adhikarana 8 (32-39) · Śloka 40
(हेमन्ते निचितः श्लेष्मा शैत्याच्छीतशरीरिणाम् |
औष्ण्याद्वसन्ते कुपितः कुरुते च गदान् बहून् ||३२||
ततोऽम्लमधुरस्निग्धलवणानि गुरूणि च |
वर्जयेद्वमनादीनि कर्माण्यपि च कारयेत् ||३३||
षष्टिकान्नं यवाञ्छीतान् मुद्गान् नीवारकोद्रवान् |
लावादिविष्किररसैर्दद्याद्यूषैश्च युक्तितः ||३४||
पटोलनिम्बवार्ताकतिक्तकैश्च हिमात्यये |
सेवेन्मध्वासवारिष्टान् सीधुमाध्वीकमाधवान् ||३५||
व्यायाममञ्जनं धूमं तीक्ष्णं च कवलग्रहम् |
सुखाम्बुना च सर्वार्थान् सेवेत कुसुमागमे) ||३६||
तीक्ष्णरूक्षकटुक्षारकषायं कोष्णमद्रवम् |
यवमुद्गमधुप्रायं वसन्ते भोजनं हितम् ||३७||
व्यायमोऽत्र नियुद्धाध्वशिलानिर्घातजो हितः |
उत्सादनं तथा स्नानं वनिताः काननानि च ||३८||
सेवेत निर्हरेच्चापि हेमन्तोपचितं कफम् |
शिरोविरेकवमननिरूहकवलादिभिः ||३९||
वर्जयेन्मधुरस्निग्धदिवास्वप्नगुरुद्रवान् |४०|
वसन्तविधिमाह- औष्ण्यादित्यादि| कोष्णम् ईषदुष्णम्| अद्रवं द्रवरहितम्| यवमुद्गमधुप्रायं यवादिबहुलम्| व्यायामः शरीरायासजनकं कर्म| अत्र वसन्ते| नियुद्धादिकं व्यायाम इत्येतस्य विवरणम्| नियुद्धं बाहुयुद्धम्, अध्वा मार्गगमनं, शिलानिर्घातः पाषाणास्फालनम्| उत्सादनम् उद्वर्तनम्| वनिताः स्त्रियः| संशमनमभिधाय संशोधनमाह- निर्हरेच्चापीत्यादि| शिरोविरेकः नस्यम्| यद्यपि बाहुल्येन वाते निरूहोऽभिहितः, तथाऽपि सर्वदोषहरत्वात् कफेऽपि योज्यः| तथा च, - “बस्तिर्वाते च पित्ते च कफे रक्ते च शस्यते” इत्यादि| कवलो गण्डूषभेदः| वर्ज्यमाह- वर्जयेदित्यादि| मधुरादिवर्जनम् उत्क्लेशपरिहारार्थम्| केचिदत्र ‘हेमन्ते निचितः श्लेष्मा’ इत्यादिकं पाठं पठन्ति, स च ग्रन्थगौरवभयात् परित्यक्तः||३२-३९||-
Adhikarana 9 (40) · Śloka 41
व्यायाममुष्णमायासं मैथुनं परिशोषि च ||४०||
रसांश्चाग्निगुणोद्रिक्तान् निदाघे परिवर्जयेत् |४१|
यस्माद्ग्रीष्मे व्यायामादिसेवनात्तीव्रतरा रोगा भवन्त्यतो व्यायामादिसेवां त्यजेदिति प्रतिपादनार्थं ग्रैष्मं विधिं विवक्षुरादौ वर्जनीयानाह- व्यायाममित्यादि| तत्रायासस्याल्पक्लेशतया व्ययामतो भेदः| उष्णम् आतपादिकम्| मैथुनमिति यद्यपि पूर्वमनागताबाधे ग्रीष्मकाले पक्षान्मैथुनमुक्तं, तथाऽप्यत्र यत्तस्य सर्वथा निषेधाभिधानं तद्ग्रीष्मस्यातिरूक्षताप्रतिपादनार्थम्| परिशोषि शोषणात्मकम् | अग्निगुणोद्रिक्ता रसाः कट्वम्ललवणाः||४०||
Adhikarana 10 (41-45) · Śloka 46
सरांसि सरितो वापीर्वनानि रुचिराणि च ||४१||
चन्दनानि परार्ध्यानि स्रजः सकमलोत्पलाः |
तालवृन्तानिलाहारांस्तथा शीतगृहाणि च ||४२||
घर्मकाले निषेवेत वासांसि सुलघूनि च |
शर्कराखण्डदिग्धानि सुगन्धीनि हिमानि च ||४३||
पानकानि च सेवेत मन्थांश्चापि सशर्करान् |
भोजनं च हितं शीतं सघृतं मधुरद्रवम् ||४४||
शृतेन पयसा रात्रौ शर्करामधुरेण च |
प्रत्यग्रकुसुमाकीर्णे शयने हर्म्यसंस्थिते ||४५||
शयीत चन्दनार्द्राङ्गः स्पृश्यमानोऽनिलैः सुखैः |४६|
अतःपरं सेवनीयानाह- सरांसीत्यादि| सरांसि अमनुष्यखातानि जलाधाराणि, सरित् नदी, वापी पाषाणादिबद्धा ससोपाना स्वल्पा जलाधारिका| वनानि रुचिराणीति सच्छायानि मनोहराणि काननानि| परार्ध्यानि उत्कृष्टानि| तालवृन्तानिलान् तालपत्रविरचितव्यजनपवनान्| दिग्धानि युक्तानि| सुगन्धीनि कर्पूरादिवासितानि| हिमानि शीतलानि| पानकानि चेति चकारान्मद्योचितस्य बहूदकं मद्यं केचिदिच्छन्ति| मधुरद्रवो रसालपानकादिर्यत्र भोजने तन्मधुरद्रवम्| मन्थान् जलघृताक्तसक्तून्| शृतेन पयसा क्वथितेन दुग्धेन| भोजनं रात्रौ हितमित्युक्ते दिवा मन्थादिपानमेवेति गम्यते| तथा च तन्त्रान्तरं- “दिवा पानानि शीतानि हितं रात्रौ च भोजनम्| ससर्पिःशर्करं शीतं शृतेन पयसा युतम्” इति| प्रत्यग्रकुसुमाकीर्णे इति नूतनपुष्पास्तृते| हर्म्यसंश्रिते धवलगृहोपरिस्थिते| शयीतेत्यत्रापि रात्राविति सम्बध्यते; तेन रात्रौ हर्म्यपृष्ठे शयीत, दिवा तु शीतगृहे| तथा च तन्त्रान्तरम्- ‘दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले| भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्यमस्तके’ (च. सू. ६) इति| सुखैः सुखोत्पादकैः| अत्र केचिद्बहूनि पाठान्तराणि मन्यन्ते; तानि तु विस्तरभयान्न लिखितानि||४१-४५||-
Adhikarana 11 (46-54) · Śloka 55
तापात्यये हिता नित्यं रसा ये गुरवस्त्रयः ||४६||
पयो मांसरसाः कोष्णास्तैलानि च घृतानि च |
बृंहणं चापि यत्किञ्चिदभिष्यन्दि तथैव च ||४७||
निदाघोपचितं चैव प्रकुप्यन्तं समीरणम् |
निहन्यादनिलघ्नेन विधिना विधिकोविदः ||४८||
नदीजलं रूक्षमुष्णमुदमन्थं तथाऽऽतपम् |
व्यायामं च दिवास्वप्नं व्यवायं चात्र वर्जयेत् ||४९||
नवान्नरूक्षशीताम्बुसक्तूंश्चापि विवर्जयेत् |
यवषष्टिकगोधूमान् शालींश्चाप्यनवांस्तथा ||५०||
हर्म्यमध्ये निवाते च भजेच्छय्यां मृदूत्तराम् |
सविषप्राणिविण्मूत्रलालादिष्ठीवनादिभिः ||५१||
समाप्लुतं तदा तोयमान्तरीक्षं विषोपमम् |
वायुना विषदुष्टेन प्रावृषेण्येन दूषितम् ||५२||
तद्धि सर्वोपयोगेषु तस्मिन् काले विवर्जयेत् |
अरिष्टासवमैरेयान् सोपदंशांस्तु युक्तितः ||५३||
पिबेत् प्रावृषि जीर्णांस्तु रात्रौ तानपि वर्जयेत् |
निरूहैर्बस्तिभिश्चान्यैस्तभाऽन्यैर्मारुतापहैः ||५४||
कुपितं शमयेद्वायुं वार्षिकं चाचरेद्विधिम् |५५|
एवं नैदाघं विधिमुपदिश्याधुना प्रावृषेण्यं ब्रवीति- तापात्यय इत्यादि| गुरवस्त्रयो रसा मधुराम्ललवणाः| बृंहणं चापि यत्किञ्चिदभिष्यन्दि तथैव चेति आदानकर्शितस्यप्यायनार्थम्| यद्यपि मधुरत्वेनैव पयःप्रभृतिकं प्राप्तं तथाऽपि तेषामुपादानमत्यन्तहितत्वापादनार्थम्| बृंहणं चात्यर्थकर्शितस्योपचयार्थम्| यत् किञ्चिदिति तृप्तिजनकम्| निदाघोपचितं ग्रीष्मकालसञ्चितं, प्रकुप्यन्तं प्रकोपं गच्छन्तं, समीरणं वातम्| अनिलघ्नेन विधिना स्नेहस्वेदादिना| विधिकोविदो विधानपण्डितः| अत्रापि केचित् पाठान्तरं पठन्ति, तदपि ग्रन्थगौरवभयात्त्यक्तम्| ननु, वर्षाहेमन्तग्रीष्मेषु दोषसञ्चय एव वमनादिना संशोधनं निषेवतः शरद्वसन्तप्रावृट्सु दोषप्रकोप एव नास्ति, कुतस्तत्रोक्तो विधिः सार्थकः, तथा चान्यत्राप्युक्तं, - ‘सञ्चयेऽपहृता दोषा लभन्ते नोत्तरा गतीः’- इति| नैवं, हेत्वन्तरवशाद्यत्र सञ्चयपूर्वकः प्रकोपस्तत्र प्रतिदोषप्रकोपं सञ्चय एव विधिः संशोधनाख्य उक्तः; यस्तु सञ्चयो यथर्तुविधिसेविनः, तत्र स्वस्थवृत्तविधिना संशमनं कार्यम्||४६-५४||-
Adhikarana 12 (55) · Śloka 56
ऋतावृतौ य एतेन विधिना वर्तते नरः ||५५||
घोरानृतुकृतान् रोगान्नाप्नोति स कदाचन |५६|
एवमार्तवविधिमभिधायेदानीं तमनुसरतो मानवस्य स्वास्थ्यलाभमाह- ऋतावृतावित्यादि| एतेन अनन्तरोक्तेन| ऋतुकृतानिति ऋतुकृतशीतोष्णादिभिः कृतान्| रोगान् ज्वरादिकान्| कार्तिकस्त ‘दोषान्’ इति पठित्वा दोषान् वातादीन् विकृतानिति व्याख्यानयति| अन्ये तु व्याख्यानयन्ति- ऋतकृतानिति कृतशब्दस्यादौ विशब्दौ लुप्तो द्रष्टव्यः, तेन ऋतुविकृतिकृतान् वातादिदोषान्नाप्नुयादित्यर्थः||५५|-
Adhikarana 13 (56) · Śloka 56
अत ऊर्ध्वं द्वादशाशनप्रविचारान् वक्ष्यामः |
तत्र शीतोष्णस्निग्धरूक्षद्रवशुष्कैककालिकद्विकालिकौषधयुक्तमात्राहीनदोषप्रशमनवृत्त्यर्थाः ||५६||
अतः परमशनप्रविचारान् विवक्षुराह- अत ऊर्ध्वमित्यादि| अशनं भोजनं, विचारोऽत्र पृथग्भावः| ननु , द्वादशाशनप्रविचारस्य रोगविषयत्वात् स्वस्थवृत्तेऽशनप्रविभागविधानमयुक्तं? उच्यते- स्वस्थेऽपि वयःप्रकृतिभेदेन सात्म्यासात्म्यतया चाहारप्रविचारस्यौचित्यात्| तानेव द्वादशाशनप्रविभागानाह- तत्रेत्यदि| तत्र तेषु द्वादशाशनप्रविभागेषु, शीतादयो द्वादशविधा आहारा अपि वृत्त्यर्थाः||५६||
Adhikarana 14 (57) · Śloka 57
तृष्णोष्णमददाहार्तान् रक्तपित्तविषातुरान् |
मूर्च्छार्तान् स्त्रीषु च क्षीणान् शीतैरन्नैरुपाचरेत् ||५७||
स्वस्थवृत्ताधिकारे शीतादीनामाहाराणां क्रमेण विषयानाह- (शीताहारविषयमाह)- तृष्णेत्यादि| शीतैरिति तृष्णादिक्षीणान्तैः प्रत्येकं सम्बध्यते; तृष्णादिपीडितान् नरान् शीतस्पर्शैः शीतवीर्यैश्चान्नपानैरुपाचरेदित्यर्थः| मदो मद्यशोणितोत्थो विकारः| अन्नैरिति बहुवचनेन पानस्यापि स्वीकारः||५७||
Adhikarana 15 (58) · Śloka 58
कफवातामयाविष्टान् विरिक्तान् स्नेहपायिनः |
अक्लिन्नकायांश्च नरानुष्णैरन्नैरुपाचरेत् ||५८||
अष्णाहारविषयमाह- कफेत्यादि| कफवातामयाविष्टानिति कफवातरोगाक्रान्तान्| अक्लिन्नकायानिति क्लेदरहितशरीरान्||५८||
Adhikarana 16 (59) · Śloka 59
वातिकान् रूक्षदेहांश्च व्यवायोपहतांस्तथा |
व्यायामिनश्चापि नरान् स्निग्धैरन्नैरुपाचरेत् ||५९||
स्निग्धाहारविषयमाह- वातिकानित्यादि| वातिकानिति वातप्रकृतीन्| वातिकानामेव रूक्षदेहत्वाद् वातिकानित्येतावतैव रूक्षदेहानिति सिद्धं, विशेषेणाभिधानमवातिकानामपि निमित्ततो रूक्षदेहतापन्नानां स्निग्धान्नेनोपचरणार्थम्||५९||
Adhikarana 17 (60) · Śloka 60
मेदसाऽभिपरीतांस्तु स्निग्धान्मेहातुरानपि |
कफाभिपन्नदेहांश्च रूक्षैरन्नैरुपाचरेत् ||६०||
रूक्षभोजनविषयमाह- मेदसाऽभिपरीतानित्यादि| मेदसाऽभिपरीतानिति मेदोव्याप्तशरीरानित्यर्थः| कफाभिपन्नदेहान् कफव्याप्तशरीरान्| स्निग्धानिति स्निग्धशरीरान्| कार्तिकस्त स्निग्धानित्यत्र स्थूलानिति पठित्वा व्याख्यानयति- मेदसाऽभिपरीतानित्युक्ते स्थूलानिति लब्धे तदभिधानं मेदोदुष्टिभ्यो विशेषेण स्थाल्ये रूक्षभोजनप्रतिपादनार्थम्||६०||
Adhikarana 18 (61) · Śloka 61
शुष्कदेहान् पिपासार्तान् दुर्बलानपि च द्रवैः |६१|
द्रवभोजनविषयमाह- शुष्कदेहानित्यादि| शुष्कदेहादिकान् द्रवबहुलैरन्नैरुपाचरेत्|६१|-
Adhikarana 19 (61) · Śloka 61
प्रक्लिन्नकायान् व्रणिनः शुष्कैर्मेहिन एव च ||६१||
शुष्काहारविषयमाह- प्रक्लिन्नेत्यादि| प्रक्लिन्नकायानिति कुष्ठिप्रभृतीन् कुथितशरीरन्| व्रणिन इति क्लिन्नव्रणयुक्तान्| व्रणितोपासनीये व्रणिनो द्रवोत्तरमशनमुक्तं, तदक्लिन्नशुद्धव्रणविषयम्| यदा प्रक्लिन्नकायानिति व्रणिन इत्यस्य विशेषणं तद अव्रणानां क्लिन्नकायानां शुष्कान्नैरुपचरणं न स्यात्, न च तथेष्यते, तस्मान्नैवं विशेषणम्; अत्र तु सक्लेदत्वाच्छुष्कं व्यवस्थितमिति||६१||
Adhikarana 20 (62) · Śloka 62
एककालं भवेद्देयो दुर्बलाग्निविवृद्धये |६२|
एककालमित्यादि| एककालमपि हीनमात्र एव आहारो दातव्यः, वक्ष्यमाणवाक्यात्| ‘दुर्बलाग्निविवृद्धये’ इत्यत्र ‘दुर्बलायाग्निवृद्धये’ इति केचित् पठन्ति| तत्र दुर्बलशब्देनैव देहदौर्बल्यादग्निदौर्बल्यमिच्छन्ति|६२|-
Adhikarana 21 (62) · Śloka 62
समाग्नये तथाऽऽहारो द्विकालमपि पूजितः ||६२||
समाग्नय इत्यादि| न केवलं द्विकालमपि तु ‘अन्नेन कुक्षेर्द्वावंशौ’ इत्याद्युक्तमात्रान्वितोऽपीत्यशब्देन समुच्चीयते||६२||
Adhikarana 22 (63) · Śloka 63
औषधद्वेषिणे देयस्तथौषधसमायुतः |६३|
औषधद्वेषिण इत्यादि| औषधसमायुतः ‘आहार’ इति शेषः|६३|-
Adhikarana 23 (63) · Śloka 63
मन्दाग्नये रोगिणे च मात्राहीनः प्रशस्यते ||६३||
हीनमात्रस्य भोजनस्य विषयमाह- मन्दाग्नय इत्यादि| मन्दानलाय रोगयुक्ताय च मात्राहीन आहारो देयः; परमेककालमेव, पूर्ववाक्यात्||६३||
Adhikarana 24 (64) · Śloka 64
यथर्तुदत्तस्त्वाहारो दोषप्रशमनः स्मृतः |६४|
यथार्त्वित्यादि| यथर्तुदत्त इति ऋतुं ऋतुं प्रति यथाभिहितो यथाप्रवृत्त आहारो दोषप्रशमनः कथित इत्यर्थः|६४|-
Adhikarana 25 (64) · Śloka 64
अतः परं तु स्वस्थानां वृत्त्यर्थं सर्व एव च |
प्रविचारानिमानेवं द्वादशात्र प्रयोजयेत् ||६४||
अत इत्यादि| अतः परमिति अनन्तरोक्ताद्दोषप्रमनाहारात् परमूर्ध्वम्| वृत्त्यर्थमिति शरीरधारणार्थम्| स्वस्थानामिति समधातूनां समदोषप्रकृतीनां च| सर्व एवेति समसर्वरस आहारः स्मृत इत्यर्थः||६४||
Adhikarana 26 (65) · Śloka 65
अत ऊर्ध्वं दशौषधकालान् वक्ष्यामः |
तत्राभक्तं प्राग्भक्तमधोभक्तं मध्येभक्तमन्तराभक्तं सभक्तं सामुद्गं मुहुर्मुहुर्ग्रासं ग्रासान्तरं चेति दशौषधकालाः ||६५||
अतो दशौषधकालान्निर्दिशन्नाह - अत ऊर्ध्वमित्यादि| तेष्वौषधकालेष्वभक्तादिकं दशप्रकारमौषधं योज्यम्| औषधकालान् प्रत्येकं निर्दिशन्नाह- तत्रेत्यादि| ‘अभक्तम्’ इत्यस्य स्थाने ‘निर्भक्तम्’ इत्यन्ते पठन्ति||६५||
Adhikarana 27 (66) · Śloka 66
तत्राभक्तं तु यत् केवलमेवौषधमुपयुज्यते ||६६||
तत्राभक्तमित्यादेरौषधकालोद्देशस्य प्रपञ्चमाह- तत्राभक्तमित्यादि| तत्र तेष्वभक्तादिषु मध्ये यत् केवलमन्नरहितमौषधमुपयुज्यते तदभक्तम्||६६||
Adhikarana 28 (67) · Śloka 67
वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तथाऽऽमयमसंशयमाशु चैव |
तद्बालवृद्धवनितामृदवस्तु पीत्वा ग्लानिं परां समुपयान्ति बलक्षयं च ||६७||
अभक्तस्य स्वरूपमभिधाय गुणं विषयं च प्रतिपादयन्नाह- वीर्याधिकमित्यादि| वनिता स्त्री, मृदवः सुकुमाराः| बलादीनामभक्तौषधनिषेधमभिदधद्बालादिभ्य इतरं तु अभक्तविषयं बोधयति| तत्राभक्तं त्वित्यादिकं भाष्यं, वीर्याधिकमित्यादिका गुणाः, बलवृद्धवनितामृदुविपर्ययो विषयः| कार्तिकस्तु सर्वेषामभक्तादीनां प्रागेव स्वरूपमभिधाय पश्चात् सर्वेषां गुणान् विषयांश्च प्रतिपादयति||६७||
Adhikarana 29 (68) · Śloka 68
प्राग्भक्तं नाम यत् प्राग्भक्तस्योपयुज्यते ||६८||
प्राग्भक्तस्येति भक्तस्यादावित्यर्थः||६८||
Adhikarana 30 (69) · Śloka 69
शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहुर्वदनान्निरेति |
प्राग्भक्तसेवितमथौषधमेतदेव दद्याच्च वृद्धशिशुभीरुकृशाङ्गनाभ्यः ||६९||
प्राग्भक्तस्य गुणं विषयं चाह शीघ्रमित्यादि| आहारावृतत्वान्मुहुर्मुहुर्वारंवारं वक्त्राद्बहिर्न निरेति| विपाकं सुखपरिणामम्| न चेति निरेतीत्यत्र सम्बध्यते| वदनात् मुखकुहरात्| निरेति निर्गच्छति| औषधमेतदेवेति प्राग्भक्ताख्यमौषधम्||६९||
Adhikarana 31 (70) · Śloka 70
अधोभक्तं नाम- यदधो भक्तस्येति ||७०||
अधोभक्तस्य स्वरूपमाह- अधोभक्तमित्यादि| अधोभक्तस्येति भोजनान्त इत्यर्थः||७०||
Adhikarana 32 (71) · Śloka 71
मध्येभक्तं नाम- यन्मध्ये भक्तस्य पीयते ||७१||
मध्येभक्तमाह- माध्येभक्तमित्यादि||७१||
Adhikarana 33 (72) · Śloka 72
पीतं यदन्नमुपयुज्य तदूर्ध्वकाये हन्याद्गदान् बहुविधांश्च बलं ददाति |
मध्ये तु पीतमपहन्त्यविसारिभावाद्ये मध्यदेहमभिभूय भवन्ति रोगाः ||७२||
अधोभक्तमध्येभक्तयोर्गुणमाह- पीतमित्यादि| बलं ददातीति ऊर्ध्वकाय एव| मध्ये तु पीतं ‘भक्तस्य’ इति शेषः| अविसारिभावात् अविप्रसरणस्वभावात्| मध्यदेशं कोष्ठम्| अभिभूय व्याप्य||७२||
Adhikarana 34 (73) · Śloka 73
अन्तराभक्तं नाम - यदन्तरा पीयते पूर्वापरयोर्भक्तयोः ||७३||
अन्तराभक्तमाह अन्तराभक्तमित्यादि| अन्तराभक्तं यत् पूर्वापरयोर्भक्तयोरन्तरा मध्ये पीयते, पूर्वापरयोरिति प्रातःसायन्तनयोर्भेजनयोरित्यर्थः||७३||
Adhikarana 35 (74) · Śloka 74
सभक्तं नाम - यत् सह भक्तेन ||७४||
सभक्तमाह- सभक्तमित्यादि| सभक्तं भक्तेन सह साधितं, भक्तयुक्तं वा||७४||
Adhikarana 36 (75) · Śloka 75
पथ्यं सभक्तमबलाबलयोर्हि नित्यं तद्द्वेषिणामपि तथा शिशुवृद्धयोश्च |
हृद्यं मनोबलकरं त्वथ दीपनं च पथ्यं सदा भवति चान्तरभक्तकं यत् ||७५||
अन्तराभक्तसभक्तयोर्गुणविषयावाह- हृद्यमित्यादि| हृद्यं हृदयाय हितम्| मनोबलकरमिति मनोबलं मनःसामर्थ्यं, तत्करोतीत्यर्थः| अबलाबलयोरिति स्त्रीदुर्बलयोरित्यर्थः| तद्द्वेषिणामिति भेषजद्वेषिणामित्यर्थः||७५||
Adhikarana 37 (76-77) · Śloka 77
सामुद्गं नाम - यद्भक्तस्यादावन्ते च पीयते ||७६||
दोषे द्विधा प्रविसृते तु समुद्गसञ्ज्ञमाद्यन्तयोर्यदशनस्य निषेव्यते तु ||७७||
सामुद्गमाह- सामुद्गमित्यादि| द्विधा प्रविसृते ऊर्ध्वाधःप्रसृते इत्यर्थः| दोषे समुद्गसञ्ज्ञं निषेव्यते इति सम्बन्धः| ननु, सामुद्गविवरणे भक्तस्यादावन्ते चेत्युपादानात् ‘आद्यन्तयोर्यदशनस्य’ इति गतार्थम्? उच्यते- चूर्णकल्कादीनामपि समुद्गसञ्ज्ञार्थं पुनरुक्तिः, अन्यथाऽनन्तरोक्तस्य ‘पीतं’ इत्यस्यानुवर्तनात् पानस्यैव समुद्गसञ्ज्ञा स्यात्||७६-७७||
Adhikarana 38 (78-79) · Śloka 79
मुहुर्मुहुर्नाम - सभक्तमभक्तं वा यदौषधं मुहुर्मुहुरुपयुज्यते ||७८||
श्वासे मुहुर्मुहुरतिप्रसृते च कासे हिक्कावमीषु स वदन्त्युपयोज्यमेतत् ||७९||
मुहुर्मुहुरौषधमाह- मुहुर्मुहुरित्यादि| मुहुर्मुहुः भक्तसहितं भक्तरहितं वा यदौषधं वारं वारं प्रयुज्यते तन्मुहुर्मुहुरित्यर्थः| मुहुर्मुहुरित्येतच्छ्वासकासादिषूपयोज्यम्||७८-७९||
Adhikarana 39 (80) · Śloka 80
ग्रासं तु- यत्पिण्डव्यामिश्रम् ||८०||
ग्रासमाह- पिण्डव्यामिश्रमिति कवलव्यामिश्रमित्यर्थः| तन्त्रान्तरदर्शनात् ग्रासं ग्रासमिति बोद्धव्यम्||८०||
Adhikarana 40 (81) · Śloka 81
ग्रासान्तरं तु यद्ग्रासान्तरेषु ||८१||
ग्रासान्तरमाह- ग्रासान्तरेष्विति कवलान्तरेष्वित्यर्थः||८१||
Adhikarana 41 (82) · Śloka 82
ग्रासेषु चूर्णमबलाग्निषु दीपनीयं वाजीकराण्यपि तु योजयितुं यतेत |
ग्रासान्तरेषु वितरेद्वमनीयधूमान् श्वासादिषु प्रथितदृष्टगुणांश्च लेहान् ||८२||
अनयोर्विषयमाह- ग्रासेष्वित्यादि| अबलाग्निषु दुर्बलाग्निषु| वमनीयधूमानिति स्नायुचर्मखुरप्रभृतिभिः कृतान्||८२||
Adhikarana 42 (83) · Śloka 83
एवमेते दशौषधकालाः ||८३||
साम्प्रतं सङ्ग्रहमाह- एवमित्यादि||८३||
Adhikarana 43 (84) · Śloka 84
विसृष्टे विण्मूत्रे विशदकरणे देहे च सुलघौ विशुद्धे चोद्गारे हृदि सुविमले वाते च सरति |
तथाऽन्नश्रद्धायां क्लमपरिगमे कुक्षौ च शिथिले प्रदेयस्त्वाहारो भवति भिषजां कालः स तु मतः ||८४||
एवमौषधकालान् प्रदर्श्याऽधुनाऽऽहारस्य श्रेयस्करत्वात्तत्कालमाह- विसृष्टे इत्यादि| (प्रत्यर्तुविहिताहारो हि कालोपयुक्तः सुखत्वाय सम्पद्यते, अतस्तत्कालं नियमयन्नाह विसृष्टे इत्यादि|) विसृष्टे विण्मूत्रे इति प्रवृते विण्मूत्रे| विशदकरणे इति विशदानि करणानि यस्मिन् देहे स विशदकरणः तस्मिन्, विशदेन्द्रिये इत्यर्थः| देहे सुलघाविति शरीरे गुरुत्वरहिते इत्यर्थः| विशुद्धे चोद्गारे इति मधुराम्लधूमगन्धिवियुक्ते इत्यर्थः| हृदि सुविमले इति निराकुले हृदये इत्यर्थः| वाते सरतीति अधः प्रवहति वाते इत्यर्थः| अन्नश्रद्धायां भक्ताकाङ्क्षायामित्यर्थः| क्लमपरिगमे इति अनायासश्रमरहिते इत्यर्थः| कुक्षौ च शिथिले इति बुभुक्षोदयात् स्रस्ते कुक्षौ स्तब्धतारहिते इत्यर्थः| आहारो दातव्यो भवति भिषजा वैद्येन, यतः कालः स तु मतः स एव मत इत्यर्थः| तु शब्दोऽत्र अवधारणार्थः| भिषग्ग्रहणं वैद्यप्रत्यवेक्षितस्याहारस्य भोज्यत्वप्रतिपादनार्थम्||८४||
Adhikarana puShpikA · Śloka 64
इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु स्वस्ववृत्ताध्यायो नाम(द्वितीयोऽध्यायः, आदितः) चतुःषष्टितमोऽध्यायः ||६४||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यामुत्तरतन्त्रे चतुःषष्टितमोऽध्यायः||६४||