Adhikarana 1 (1-2) · Śloka 2
अथातो रसभेदविकल्पमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अथ भूतविद्यां परिसमाप्य औपद्रविके तन्त्रभूषणानां रसभेदादीनामध्यायानां सूचितत्वात् तन्त्रभूषणानारब्धुकामस्तत्रोक्तक्रमानुसारेण रसभेदविकल्पाध्यायमाह- अथात इत्यादि| अथात इत्यादि पूर्ववद्व्याख्येयम् | रसभेदविकल्पमिति रसा मधुरादयः पूर्वं व्याख्याताः, रसानां भेदेन द्वित्रिकादिभेदेन विकल्पो विभजनं यस्मिन् स तथा, अथवा रसभेदानां विकल्पो दोषभेदवशादवचारणं यस्मिन् स तथा, तम्||१-२||
Adhikarana 2 (3) · Śloka 3
दोषाणां पञ्चदशधा प्रसरोऽभिहितस्तु यः |
त्रिषष्ट्या रसाभेदानां तत्प्रयोजनमुच्यते ||३||
रसभेदकथने प्रयोजनमाह- दोषाणामितादि| यः पञ्चदशप्रकारो व्रणप्रश्नाध्याये दोषाणां प्रसर उक्तः, तद्रसभेदानां त्रिषष्ट्याः प्रयोजनमुच्यत इति सम्बन्धः| अत्र पञ्चदशधेत्युपलक्षणं, तेन दोषभेदानां त्रिषष्टिरपि गृह्यते| अयमभिप्रायः- त्रिषष्टिप्रकाराणामपि दोषभेदानामुपयोगार्थं रसभेदा उक्ताः||३||
Adhikarana 3 (4) · Śloka 4
अविदग्धा विदग्धाश्च भिद्यन्ते ते त्रिषष्टिधा |
रसभेदत्रिषष्टिं तु वीक्ष्य वीक्ष्यावचारयेत् ||४||
कीदृशा रसास्त्रिषष्टिभेदान् यान्तीत्याह- अविदग्धा इत्यादि| अविदग्धा असंयुक्ता एकाकिनः समवायतो भिद्यन्त इत्यर्थः| विदग्धाः संयोगतः समवायतश्च संयुक्ता रसान्तरसंयोगाद्भिद्यन्ते| विदग्धशब्दः संयुक्ते वर्तते, धातूनामनेकार्थत्वात्| भिद्यन्ते एकैकेनानुगमनाद्भेदं यान्तीत्यर्थः| ते रसाः| तत्र यथासम्भवं केचित् संयोगतः केचित् समवायतश्च भिद्यन्ते| संयुक्ता यथा- बदरकपित्थफलादिकं मधुराम्लं(१), उष्ट्रीक्षीरोरभ्रमांसादिकं मधुरलवणं(२), कुक्कुरशृगालमांसादिकं मधुरकटुकं(३), श्रीवाससर्जरसादिकं मधुरतिक्तं(४) तैलधन्वनफलादिकं मधुरकषायं(५); ऊषकादिकम् अम्ललवणं(६), चुक्रादिकम् अम्लकटुकं(७), सुरादिकम् अम्लतिक्तं(८), हस्तिनीदधिशुकमांसादिकम् अम्लकषायं(९); त्रपुसीसादिकं लवणतिक्तं(१०), गोमूत्रस्वर्जिकादिकं लवणकटुकं(११), समुद्रफेनादिकं लवणकषायं(१२); कर्पूरजातीफलादिकं तिक्तकटुकं(१३), लवलीफलहस्तिनीघृतादिकं तिक्तकषायं(१४); भल्लातकमज्जाहरितालादिकं कटुकषायम्(१५); एवं द्विरसभेदाः पञ्चदशधा दर्शिताः| अतः परं रसत्रितयभेदा वक्ष्यन्ते- हस्तिमांसादिकं मधुराम्ललवणं(१), शल्यकमांसादिकं मधुराम्लकटुकं(२), गोधूमोत्थसुरादिकं मधुराम्लतिक्तकं(३), मस्तुतक्रादिकं मधुराम्लकषायं(४), काणकपोतमांसादिकं मधुरलवणकटुकं(५), शम्बूकादिमांसं मधुरलवणतिक्तं(६), पद्मकन्दादिकं गुडसंयुक्तं मधुरलवणकषायं(७), तृणशून्याफलशुष्ककुस्तुम्बर्यादिकं मधुरकटुतिक्तकं(८), गोधामांसैरण्डतैलादिकं मधुरकटुकटुकषायं(९), गुडूचीशाखामृगामिषतुवरकतैलादिकं मधुरतिक्तकषायं(१०), रौप्यशिलाजत्वादिकम् अम्ललवणकटुकं(११), हस्तिमूत्रादिकम् अम्ललवणतिक्तं(१२), सरोमकं हस्तिनीदध्यादि अम्ललवणकषायं(१३), मरिचसंस्कृतसुरादिकम् अम्लकटुतिक्तकं(१४), अम्लवेतसादिकम् अम्लकटुकषायं(१५), कीरमांसयुतसुरादिकम् अम्लतिक्तकषायं(१६), अविमूत्रादिकं लवणकटुतिक्तं(१७), अरुष्करं सरोमकं लवणकटुकषायं(१८), समुद्रफेनाविकं लवणतिक्तकषायं(१९), कृष्णागरुसुरदारुस्नेहादिकं कटुतिक्तकषायं(२०); एवं त्रिकभेदा विंशतिर्दर्शिताः| अतः परं चतुःसंयोगाः पञ्चदशप्रकारा वक्ष्यन्ते- गोमूत्रान्वितशिलाजतुप्रभृतिकं मधुराम्ललवणकटुकं(१), गोमूत्रैकशफक्षीरादिकं मधुराम्ललवणतिक्तकं(२) सैन्धवान्विततक्रादिकं मधुराम्ललवणकषायं(३), लशुनान्वितं सुरादिकं मधुराम्लकटुतिक्तं(४), काञ्जिकान्वितैरण्डतैलादि खदिरान्वितशिलाह्वादिकं च मधुराम्लकटुकषायं(५), उदुम्बरान्वितं यवासशर्करादिकं मधुराम्लतिक्तकषायं(६), वार्ताकफलादिकं मधुरलवणतिक्तकटुकं(७), गोमूत्रान्विततैलादिकं मधुरलवणकटुकषायं(८), तिलगुग्गुल्वादिकं मधुरकटुतिक्तकषायं(९), समुद्रफेनशर्कराचित्रकान्वितबदरादि मधुरलवणतिक्तकषायं(१०), सुवर्चलान्वितहस्तिनीदध्यादि कृतसुरादिकम् अम्ललवणकटुतिक्तं(११), सौवर्चलान्वितहस्तिनीदध्यादिकम् अम्ललवणकटुकषायं(१२), औद्भिदलवणान्वितं शुकमांसादिकम् अम्ललवणतिक्तकषायं(१३), बालमूलकहस्तिनीदध्यादिकम् अम्लकटुतिक्तकषायं(१४), सरोमकं बालबिल्वादिकं लवणकटुतिक्तकषायं(१५); एवं चतुष्करससंयोगाः पञ्चदश कथिताः| अतः परं पञ्चरससंयोगाः षड् वक्ष्यन्ते- आमकरमर्दान्वितं भृष्टवार्ताकफलादिकं मधुराम्ललवणतिक्तकषायं(१), कटुत्रययवक्षारान्विततक्रादिकं मधुराम्ललवणकटुकषायम्(२), औद्भिदान्विततक्रादिकं मधुराम्ललवणतिक्तकषायं(३), हरीतकीधात्रीफलादिकं मधुराम्लकटुतिक्तकषायं(४), रसोनादिकं मधुरलवणकटुतिक्तकषायं(५), भल्लातकरौप्यशिलाजतुमिश्रितनिम्बादिकम् अम्ललवणकटुतिक्तकषायं(६); एवं पञ्चरससंयोगाः षड् दर्शिताः| अतः परं षड्रसं वक्ष्यते- एणमांसादिकं मधुराम्ललवणकटुतिक्तकषायम्| अतः परमेकैकरसानाह- सन्तानिकागोदुग्धादिकं मधुरं(१) आमकरमर्दादिकम् अम्लं(२), रोमकादिकं लवणं(३), चव्यादिकं कटुकं(४), निम्बपर्पटादिकं तिक्तं(५), पद्मन्यग्रोधाद्यङ्कुरादिकं कषायं(६); एवं षट् कथिताः| अनेन प्रकारेण त्रिषष्टिः कथिताः| कार्तिककुण्डस्त्वमुं पाठमन्यथा आपातनिकां कृत्वा व्याख्यानयति; तद्यथा- दोषाणां पञ्चदशधा प्रसरो भेदः, तस्य बहुभिस्त्रिषष्टिरसभेदैः सह प्रयोगो दुर्घटः, अतो दोषभेदानामपि बहुत्वमाह- अविदग्धा इत्यादि| अविदग्धा अप्रकुपिताः; विदग्धाः कुपिता दोषाः; यद्यस्मिन् पाठे दोषाणां त्रिषष्टिभेदा उक्ताः, तर्हि पूर्वपाठे पञ्चदशधा प्रसरः किमित्युक्तः? सत्यं, कुपितदोषस्यात्यन्तचिकित्सनीयत्वापादनार्थम्; अन्यत् ग्रन्थगौरवभयात् परित्यक्तम्||४||ह्
Adhikarana 4 (5) · Śloka 5
एकैकेनानुगमनं भागशो यदुदीरितम् |
दोषाणां , तत्र मतिमान् त्रिषष्टिं तु प्रयोजयेत् ||५||
पूर्वमविदग्धा विदग्धाश्च रसा एकैकेनानुगमनाद्भिद्यन्त इत्युक्तं, तदेव स्मारयति एकैकेनानुगमनमित्यादि| भागशः अंशांशतया| रसानामेकैकेनानुगमनं प्रवर्तनं यदुदीरितमस्मिन्नध्याये भणितं, तद्वशात्ते रसास्त्रिषष्टिधा भिद्यन्त इति पूर्ववाक्येन सह सम्बन्धः| तां च रसभेदत्रिषष्टिं, मतिमान् ऊहापोहविद्वैद्यः, तत्र दोषभेदेषु प्रयोजयेत्| मतिमानिति पदात् यादृशा एव दोषाणां हीनाधिकभावेन भेदास्तादृशा एव रसभेदा योज्या इति सूचयति| अन्ये तु ‘एवमेवानुगमनं’ इति पठित्वा दोषाणामेवं भागशोंऽशांशबलविकल्पेनैकं प्रत्येकस्यानुगमनं दोषभेदीये यदुदीरितं तत्र रसभेदत्रिषष्टिं योजयेदिति| यद्यपि दोषभेदीये यद्वक्ष्यते इति सुन्दरं नतु यदुदीरितमिति, तथाऽपि भाविनि भूतवदुपचाराद्दोषभेदीये यदुदीरितमिति कृतम्| अपरेऽत्रामुं पाठमन्यथा पठित्वा बहु जल्पन्ति, तच्च ग्रन्थगौरवभयाच्छिष्यबुद्धिव्याकुलहेतुत्वाच्च परित्यक्तम्||५||
Adhikarana 5 (6-8) · Śloka 8
यथाक्रमप्रवृत्तानां द्विकेषु मधुरो रसः |
पञ्चानुक्रमते योगानम्लश्चतुर एव तु ||६||
त्रींश्चानुगच्छति रसो लवणः कटुको द्वयम् |
तिक्तः कषायमन्वेति ते द्विका दश पञ्च च ||७||
तद्यथा- मधुराम्लः(१), मधुरलवणः(२), मधुरकटुकः(३), मधुरतिक्तः(४), मधुरकषायः(५), एतेपञ्चानुक्रान्ता मधुरेण; अम्ललवणः(१), अम्लकटुकः(२), अम्लतिक्तः(३), अम्लकषायः(४), एते चत्वारोऽनुक्रान्ता अम्लेन; लवणकटुकः(१), लवणतिक्तः(२), लवणकषायः(३), एते त्रयोऽनुक्रान्ता लवणेन; कटुतिक्तः(१), कटुकषायः(२), द्वावेतावनुक्रान्तौ कटुकेन; तिक्तकषायः(१) एक एवानुक्रान्तस्तिक्तेन; एवमेते पञ्चदश द्विकसंयोगा व्याख्याताः ||८||
इदानीं रसभेदत्रिषष्टिं ग्रन्थेनैव विवृण्वन्नाह- यथाक्रममित्यादि| यथाक्रमप्रवृत्तानामिति मधुरादिक्रमप्रवृत्तानां रसानामित्यर्थः| द्विकेषु द्विकसंयोगेषु| अनुक्रमते अनुगच्छति, अनुगतो भवतीत्यर्थः| दश पञ्चेति पञ्चदशेत्यर्थः| यद्यपि सूत्रस्थाने रसविशेषविज्ञानीयाध्याये पञ्चदश द्विका इत्यादिना द्विकसंयोगादीनां सङ्ख्या उक्ताः, तथाऽपि पुनरत्र सङ्ख्याकरणं नियमार्थम्| तेन इयन्त एव रसभेदा गणनीया न तन्त्रान्तरोक्तास्तरतमयोगादिजा इत्यर्थः| तेषामेव द्विकानां पञ्चदशसङ्ख्याकानामुदाहरणान्याह- तद्यथेत्यादि| मधुराम्लौ विद्येते यत्र संयोगे स मधुराम्लः| एवं शेषेष्वपि ज्ञेयम्||६-८||
Adhikarana 6 (9-10) · Śloka 10
त्रिकान् वक्ष्यामः- आदौ प्रयुज्यमानस्तु मधुरो दश गच्छति |
षडम्लो लवणस्तस्मादर्धमेकं तथा कटुः ||९||
तद्यथा- मधुराम्ललवणः(१), मधुराम्लकटुकः(२), मधुराम्लतिक्तः(३), मधुराम्लकषायः(४), मधुरलवणकटुकः(५), मधुरलवणतिक्ताः(६), मधुरलवणकषायः(७), मधुरकटुकतिक्तः(८), मधुरकटुकषायः(९), मधुरतिक्तकषायः(१०), एवमेषां दशानां त्रिकसंयोगानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुकः(१), अम्ललवणतिक्तः(२), अम्ललवणकषायः(३), अम्लकटुतिक्तः(४), अम्लकटुकषायः(५), अम्लतिक्तकषायः(६), एवमेषां षण्णामादावम्लः प्रयुज्यते; लवणकटुतिक्तः(१), लवणकटुकषायः(२), लवणतिक्तकषायः(३), एवमेषां त्रयाणामादौ लवणः प्रयुज्यते; कटुतिक्तकषायः(१), एवमेकस्यादौ कटुकः प्रयुज्यते; एवमेते त्रिकसंयोगा विंशतिर्व्याख्याताः ||१०||
आदावित्यादि| दशेति दशयोगानित्यर्थः| तस्मादर्धमिति त्रीनित्यर्थः| तेषामेव त्रिकानां विंशतिसङ्ख्याकानामुदाहरणान्याह- मधुराम्लेत्यादि| मधुराम्ललवणा विद्यन्ते यत्र स मधुराम्ललवणः| एवं शेषेष्वपि व्याख्येयम्||९-१०||
Adhikarana 7 (11-12) · Śloka 12
चतुष्कान् वक्ष्यामः |
चतुष्करससंयोगान्मधुरो दश गच्छति |
चतुरोऽम्लोऽनुगच्छेच्च लवणस्त्वेकमेव तु ||११||
मधुराम्ललवणकटुकः(१), मधुराम्ललवणतिक्तः(२), मधुराम्ललवणकषायः(३), मधुराम्लकटुकतिक्तः(४), मधुराम्लकटुकषायः(५), मधुराम्लतिक्तकषायः(६), मधुरलवणकटुकतिक्तः(७), मधुरलवणकटुकषायः(८), मधुरलवणतिक्तकषायः(९), मधुरकटुतिक्तकषायः(१०), एवमेषां दशानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुतिक्तः(१), अम्ललवणकटुकषायः(२), अम्ललवणतिक्तकषायः(३), अम्लकटुतिक्तकषायः(४), एवमेषां चतुर्णामादावम्लः; लवणकटुतिक्तकषायः(१), एवमेकस्यादौ लवणः; एवमेते चतुष्करससंयोगाः पञ्चदश कीर्तिताः ||१२||
चतुष्कानित्यादि| दशेति ‘योगान्’ इति शेषः| तेषां चतुष्करससंयोगे पञ्चदशसङ्ख्याकानामुदाहरणान्याह- मधुराम्लेत्यादि| मधुराम्ललवणकटुका विद्यन्ते यत्र योगे स मधुराम्ललवणकटुकः; एवं शेषेष्वपि||११-१२||
Adhikarana 8 (13-14) · Śloka 14
पञ्चकान् वक्ष्यामः |
पञ्चकान् पञ्च मधुर एकमम्लस्तु गच्छति ||१३||
मधुराम्ललवणकटुतिक्तः(१), मधुराम्ललवणकटुकषायः(२), मधुराम्ललवणतिक्तकषायः(३), मधुराम्लकटुतिक्तकषायः(४), मधुरलवणकटुतिक्तकषायः(५), एवमेषां पञ्चानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुतिक्तकषायः(१), एवमेकस्यादावम्लः; एवमेते षट् पञ्चकसंयोगा व्याख्याताः ||१४||
पञ्चकानित्यादि| पञ्चकानिति पञ्चरससमूहान्| पञ्चेति पञ्चसङ्ख्याकान् ‘योगान्’ इति शेषः| तेषामेव षण्णामुदाहरणान्याह- मधुराम्लेत्यादि||१३-१४||
Adhikarana 9 (15) · Śloka 15
षट्कमेकं वक्ष्यामः; एकस्तु षट्कसंयोगः- मधुराम्ललवणकटुतिक्तकषायः; एष एक एव षट्संयोगः ||१५||
तस्य षट्कस्योदाहरणमाह- मधुराम्लेत्यादि||१५||
Adhikarana 10 (16) · Śloka 16
एकैकश्च षड्रसा भवन्ति- मधुरः(१), अम्लः(२), लवणः(३), कटुकः(४), तिक्तः(५), कषायः(६), इति ||१६||
एषामुदाहरणान्याह- मधुरेत्यादि||१६||
Adhikarana 11 (17) · Śloka 17
भवन्ति चात्र- एषा त्रिषष्टिर्व्याख्याता रसानां रसचिन्तकैः |
दोषभेदत्रिषष्ट्यां तु प्रयोक्तव्या विचक्षणैः ||१७||
उपसंहारमाह- भवति चात्रेत्यादि| अनुरसो हीनरसः| दोषभेदत्रिषष्ट्यां दोषभेदीयाध्याये वक्ष्यमाणायाम्| यद्यपि परस्परं भिन्नाः सन्तो रसा बहवो भवन्ति, तथाऽपि, षट्त्वं नातिवर्तन्ते; यथा वातादिदोषा बहुधा भिन्ना अपि त्रित्वं न त्यजन्ति तथा रसा अपि षट्त्वं नातिवर्तन्ते||१७||
Adhikarana puShpikA · Śloka 63
इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु रसभेदविकल्पाध्यायो नाम (प्रथमः, आदितः) त्रिषष्टितमोऽध्यायः ||६३||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रे त्रिषष्टितमोऽध्यायः||६३||