Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

62. unmādapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथात उन्मादप्रतिषेधमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अपस्मारप्रतिषेधानन्तरं मनोगतसाम्यात् तुल्यचिकित्सितत्वादुन्मादप्रतिषेधारम्भः- अथात इत्यादि| अथात इत्यादिकं पूर्ववद्व्याख्येयम्||१-२||

Adhikarana 2 (3) · Śloka 3

मदयन्त्युद्ध(द्ग)ता दोषा यस्मादुन्मार्गमाश्रिताः | मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः ||३||

🔊 Audio coming soon

इदानीमुन्मादं निर्वक्ति- मदयन्तीत्यादि| मदयन्ति मनोभ्रमणं कुर्वन्ति| उद्धता उपचिताः| अन्ये ‘उद्गता’ इति पठन्ति; तत्र उद्ग्ता उद्वृत्ता उन्मार्गमागता मनोवहानि स्रोतांसि प्राप्ताः| यद्धृदयप्रदूषणं चेतोमोहनं च तन्त्रान्तरे प्रोक्तं, तदत्र उन्मार्गमागता इत्यनेन तथा मदयन्तीत्यनेन च सङ्गृहीतमिति पृथङ्नोक्तम्| अपस्मारोक्तदोषप्रकोपहेतव उन्मादेऽपि सान्निध्याद्बोद्धव्या इति श्रीजेज्जटाचार्यः| उन्मादहेतवस्तन्त्रान्तरे यथा- “विरुद्धदुष्टाशुचिभोजनानि प्रघर्षणं देवगुरुद्विजानाम्| उन्मादहेतुर्भयहर्षपूर्वो मनोभिघातो विषमाश्च चेष्टाः” (च. चि. १) इति| प्रवृद्धा दोषा मनोवहस्रोतांसि प्राप्ताः सन्तो यस्मान्मनो भ्रमयन्ति, अतोऽयं मानसो व्याधिरिति सम्बन्धः||३||

Adhikarana 3 (4-5) · Śloka 5

एकैकशः समस्तैश्च दोषैरत्यर्थमूर्च्छितैः | मानसेना च दुःखेन स पञ्चविध उच्यते ||४|| विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम् | स चाप्रवृद्धस्तरुणो मदसञ्ज्ञां बिभर्ति च ||५||

🔊 Audio coming soon

दोषैर्मनोदुःखेन च पञ्चविधमुन्मादमाह- एकैकशः समस्तैश्चेत्यादि| एकैकशो दोषैः त्रयः, समस्तैर्दोषैः एकः, मानसदोषदुःखेन चैकः, एवं स उन्मादः पञ्चविध उच्यते| ननु, विषजोऽपि षष्ठोऽस्ति तत् किमिति सोऽपि स पञ्चविध इत्यत्रैव न निर्दिष्टः? उच्यते- तस्य भिन्नचिकित्सितत्वात् पृथङ्निर्देशः| अत एवाह- यथास्वं तत्र भेषजमिति| स चाप्रवृद्ध इत्यादि|- स उन्मादः, अप्रवृद्धः अल्पलिङ्गः, तरुणः अल्पमात्रः| कैश्चिन्मदशब्देन मद्यस्य प्रथमो वेग उच्यते , ते तु रोगमेव रोगकारणं मन्यन्ते| अत्र तूत्पन्नमात्रस्याल्पलिङ्गस्य चोन्मादस्य मदसञ्ज्ञा||४-५||

Adhikarana 4 (6-7) · Śloka 7

मोहोद्वेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम् | अत्युत्साहोऽरुचिश्चान्ने स्वप्ने कलुषभोजनम् ||६|| वायुनोन्मथनं चापि भ्रमश्चक्रगतस्य वा | यस्य स्यादचिरेणैव उन्मादं सोऽधिगच्छति ||७||

🔊 Audio coming soon

इदानीं पूर्वरूपमाह- मोहोद्वेगावित्यादि| मोहो मनसो वैचित्त्यम्| स्वनः श्रोत्रे कर्णयोः शब्दः| गात्राणामपकर्षणं दुर्बलीभवनम्| कलुषभोजनं समलभोजनम्| वायुनोन्मथनम् आकुलीकरणं, ‘हृदयस्य’ इति शेषः| चक्रगतस्य वेत्यत्र वाशब्द इवार्थे, तेन कुलालचक्रस्थितस्येव भ्रम इत्यर्थः| यस्य पुरुषस्य मोहोद्वेगादिकं स्यात्, सोऽचिरेणैव उन्मादमधिगच्छति प्राप्नोतीति सम्बन्धः| अचिरेणैव उन्मादमित्यत्र छन्दोभङ्गभयादसंहितानिर्देशः||६-७||

Adhikarana 5 (8) · Śloka 8

रूक्षच्छविः परुषवाग्धमनीततो वा शीतातुरः कृशतनुः स्फुरिताङ्गसन्धिः | आस्फोटयत्यटति गायति नृत्यशीलो विक्रोशति भ्रमति चाप्यनिलप्रकोपात् ||८||

🔊 Audio coming soon

पूर्वरूपानन्तरं वातजमुन्मादमाह- रूक्षच्छविरित्यादि| परुषवाक् कर्कशवचनः| धमनीततः सिराव्याप्तः| शीतातुरः शीतपीडित इत्यर्थः| ‘श्वासातुर’ इत्यन्ये पठन्ति| विक्रोशति रोदिति| भ्रमति कम्पते, अटतीत्यनेन चलनस्योक्तत्वात्| केचित् रूक्षच्छविरित्यादिश्लोकार्धं न पठन्ति; जेज्जटाचार्यास्तु रूक्षच्छविरित्यादि श्लोकार्धं पठन्ति, अनिलादिति सिद्धे अनिलप्रकोपादिति प्रकोपग्रहणात् पारुष्यकार्कश्यारुणवर्णता जीर्णे बलवत्त्वं च गृह्यते इति व्याख्यानयन्ति||८||

Adhikarana 6 (9) · Śloka 9

तृट्स्वेददाहबहुलो बहुभुग्विनिद्रश्छायाहिमानिलजलान्तविहारसेवी | तीक्ष्णो हिमाम्बुनिचयेऽपि स वह्निशङ्की पित्ताद्दिवा नभसि पश्यति तारकाश्च ||९||

🔊 Audio coming soon

पित्तोन्मादमाह- तृट्स्वेदेत्यादि| तृट्स्वेददाहबहुल इति बहुलशब्दः तृडादिभिः प्रत्येकं सम्बध्यते| सेवीशब्दः छायादिभिः सम्बध्यते| जलान्तविहारसेवीति पानीयसमीपविचरणशील इत्यर्थः| तीक्ष्णः कोपनः| अपि चेति चकारात् पीतनयनत्वादि विज्ञेयम्| दिवा दिने| नभसि आकाशे||९||

Adhikarana 7 (10) · Śloka 10

छर्द्यग्निसादसदनारुचिकासयुक्तो योषिद्विविक्तरतिरल्पमतिप्रचारः | निद्रापरोऽल्पकथनोऽल्पभुगुष्णसेवी रात्रौ भृशं भवति चापि कफप्रकोपात् ||१०||

🔊 Audio coming soon

कफोन्मादमाह- छर्द्यग्नीत्यादि| अग्निसादः अग्निमान्द्यम्| सदनम् अङ्गानामनुत्साहः| योषित्सु विविक्ते एकान्ते च रतिर्यस्य स योषिद्विविक्तरतिः| अल्पमतिप्रचार इति अल्पमतिरल्पप्रचारश्च| अल्पकथनः अल्पभाषणः| रात्रौ भृशं भवति चेति चकारो रात्रौ इत्यस्याग्रे द्रष्टव्यः, तेन रात्रौ भुक्ते च भृशं भवतीति सिद्धम्| अपिशब्दाच्च नखादिशौक्ल्यादिकं ज्ञेयम्||१०||

Adhikarana 8 (11) · Śloka 11

सर्वात्मके पवनपित्तकफा यथास्वं संहर्षिता इव च लिङ्गमुदीरयन्ति ||११||

🔊 Audio coming soon

सान्निपातिकमाह- सर्वात्मके इत्यादि| सर्वात्मके सान्निपातिके उन्मादे पवनपित्तकफाः संहर्षिता इव यथास्वं लिङ्गमुदीरयन्तीति सम्बन्धः| संहर्षिता इवेति स्पर्धावन्त इव सर्वेऽप्यतिशयेन कुपिता इत्यर्थः| अयं पाठो निबन्धकारैः पठितो व्याख्यातश्च| अन्ये त्वेवं पठन्ति,- ‘सर्वात्मके त्रिभिरपि व्यतिमिश्रितानि रूपाणि वातकफपित्तकृतानि विद्यात्| सम्पूर्णलक्षणमसाध्यमुदाहरन्ति सर्वात्मकं क्वचिदपि प्रवदन्ति साध्यम्’ इति| अयं च श्रीजेज्जटेन एकीयमतेन दर्शितो न तु व्याख्यातः, तस्मादेकीयमतेनैवास्य सम्बन्धः कथ्यते| प्रत्येकं वातादिकृतानि रूपाणि व्यतिमिश्रितानि सर्वात्मके उन्मादे विद्यादिति सम्बन्धः| एवं सम्बन्धे त्रिभिरपीत्यनेन किं प्रयोजनम्? उच्यते- त्रिभिरपि स्वहेतुभिः कुपितैरिति ज्ञापनार्थम्| अस्याग्रे त एवं पठन्ति ‘सम्पूर्णलक्षणमसाध्यमुदाहरन्ति सर्वात्मकं क्वचिदपि प्रदिशन्ति साध्यम्’ इति||११||

Adhikarana 9 (12) · Śloka 12

चौरैर्नरेन्द्रपुरुषैररिभिस्तथाऽन्यैर्वित्रासितस्य धनबान्धवसङ्क्षयाद्वा | गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतरो मनसो विकारः ||१२||

🔊 Audio coming soon

मनोदुःखजमुन्मादं प्रतिपादयितुकामः पूर्वं मनसो दुःखकरान् हेतून् विकारोत्पत्तिसहितानाह- चौरैरित्यादि| अरिभिः शत्रुभिः तथाऽन्यैरिति अतिशयरौद्रैः अकारणवैरिभिः शार्दूलादिभिर्वा| गाढम् अत्यर्थं, क्षते पीडिते, प्रियया रिरंसोः प्रियया सह रन्तुमिच्छोः; ‘तस्या अप्राप्तौ’ इत्यध्याहार्यम्| मनसि गाढं क्षते इति बोध्यम्| मनसो विकारो मानस उन्मादः||१२||

Adhikarana 10 (13) · Śloka 13

चित्रं स जल्पति मनोनुगतं विसञ्ज्ञो गायत्यथो हसति रोदिति मूढसञ्ज्ञः |१३|

🔊 Audio coming soon

तस्य लक्षणमाह- चित्रमित्यादि| चित्रं नानाप्रकारम्| मनोनुगतमिति यदेवास्य मनसि स्थितं तदबुद्धिपूर्वकं यत्किञ्चिदेव जल्पति| मनोनुगतं विसञ्ज्ञो गायति उद्भ्रान्तस्मृतित्वाद्विसञ्ज्ञो गायति; विसञ्ज्ञो विपरीतसञ्ज्ञः, नतु विगतसञ्ज्ञः, भाषणगानादिकरणात्| मूढसञ्ज्ञ इति च पदं हेतुफलभावेन समर्थनीयम् |१३|

Adhikarana 11 (13) · Śloka 13

रक्तेक्षणो हतबलेन्द्रियभाः सुदीनः श्यावाननो विषकृतेऽथ भवेत् परासुः ||१३||

🔊 Audio coming soon

विषोन्मादमाह- रक्तेक्षण इत्यादि| हतबलेन्द्रियभा इति बलम् उत्साहोपचयलक्षणम्, इन्द्रियाणि चक्षुरादीनि, भाः कान्तिः| अन्ये तु ‘हतबलेन्द्रियवाक्’ इति पठन्ति, व्याख्यानयन्ति च- वागित्युपादानम् अत्यर्थं वागुपघातसूचनार्थम्, अन्यथेन्द्रिग्रहणेनैव सिद्धेः| सुदीनः सुष्ठु ग्लानः| श्यावानन इति धवलकपिलकृष्णमिश्रवर्णमुखः| अथ भवेत् परासुरिति उपेक्षणान्म्रियत इत्यर्थः| अन्ये ‘विषकृतेन भवेद्विसञ्ज्ञः’ इति पठन्ति; तत्र विसञ्ज्ञो विपरीतसञ्ज्ञः; विषमत्र दूषीविषम्||१३||

Adhikarana 12 (14-15) · Śloka 15

स्निग्धं स्विन्नं तु मनुजमुन्मादार्तं विशोधयेत् | तीक्ष्णैरुभयतोभागैः शिरसश्च विरेचनैः ||१४|| विविधैरवपीडैश्च सर्षपस्नेहसंयुतैः | योजयित्वा तु तच्चूर्णं घ्राणे तस्य प्रयोजयेत् ||१५||

🔊 Audio coming soon

निदानं निर्दिश्य चिकित्सामाह- स्निग्धमित्यादि| तीक्ष्णैरुभयतोभागैरिति विषाणिकादेवदालिकाकारवेल्लिकादिभिः| शिरसश्च विरेचनैरिति विडङ्गतण्डुलादिभिः| विविधैः नानाप्रकारैः| अवपीडैः नस्यभेदैः| चेतोविकारशमनैः अमानुषोपसर्गप्रतिषेधोक्तैः| सर्षपस्नेहसंयुतैः अवपीडैरित्यर्थः| योजयित्वेति उन्मादार्ते| तु पुनः| तच्चूर्णं सर्षपस्नेहसंयुक्तम्| उन्मादार्तस्य वमनादिना हृदयकोष्ठेन्द्रियशिरःशुद्धौ मनःप्रसादात् स्मृतिसञ्ज्ञालाभादुन्मादोपशम इति व्यपदेशः||१४-१५||

Adhikarana 13 (16) · Śloka 16

सततं धूपयेच्चैनं श्वगोमांसैः सुपूतिभिः | सर्षपानां च तैलेन नस्याभ्यङ्गौ हितौ सदा ||१६||

🔊 Audio coming soon

धूपनस्याभ्यङ्गानाह- सततमित्यादि| एनम् उन्मादार्तम्| सुपूतिभिः सुष्ठु शटितैः| शटितैश्चापि धूपनेन मनः प्रकृतिमायाति, प्रभावात्||१६||

Adhikarana 14 (17-19) · Śloka 20

दर्शयेदद्भुतान्यस्य वदेन्नाशं प्रियस्य वा | भीमाकारैर्नरैर्नागैर्दान्तैर्व्यालैश्च निर्विषैः ||१७|| भीषयेत् संयतं पाशैः कशाभिर्वाऽथ ताडयेत् | यन्त्रयित्वा सुगुप्तं वां त्रासयेत्तं तृणाग्निना ||१८|| जलेन तर्जयेद्वाऽपि रज्जुघातैर्विभावयेत् | बलवांश्चापि संरक्षेत् जलेऽन्तः परिवासयेत् | प्रतुदेदारया चैनं मर्माघातं विवर्जयेत् | वेश्मनोऽन्तः प्रविश्यैनं रक्षंस्तद्वेश्म दीपयेत् ||१९|| सापिधाने जरत्कूपे सततं वा निवासयेत् |२०|

🔊 Audio coming soon

दर्शयेदित्यादि| अद्भुतानि अदृष्टपूर्वाणि भीषणानि| अस्य उन्मादार्तस्य| नाशं विनाशं प्रियस्य वस्तुनो वदेत्| भीमाकारै रौद्ररूपैः| नागैः हस्तिभिः| दान्तैः शिक्षावद्भिः| व्यालैः सर्पैः| निर्विषैः गोनसादिभिः| भीषयेत् भयमुत्पादयेत्| पाशैः निगडादिभिः| संयतं बद्धम्| कशाभिः चर्मयष्टिभिः| निगडादिबन्धनं भ्रान्तमनसः कूपाग्न्यादिप्रवेशनिरासार्थं क्रियासुखकरत्वार्थं च| प्रतुदेत् व्यथयेत्| आरया तीक्ष्णाग्रया शलाकया| एनम् उन्मादिनं, वेश्मनो गृहस्य, अन्तः मध्ये, प्रवेश्य रक्षन्, तद्वेश्म दीपयेत् प्रज्वालयेत्| कूपे निर्जले जलेन वर्जिते| जलेन तर्जयेद्वाऽपीति तप्तेनेति द्रष्टव्यं, तप्तमपि विशेषवृत्तेः; यत उक्तं तन्त्रान्तरे- “कपिकच्छ्वाऽथवा तप्तैर्लोहतैलजलैः स्पृशेत्|” (वा. उ. ६) इति||१७-१९||

Adhikarana 15 (20-29) · Śloka 29

त्र्यहात्त्र्यहाद्यवागूश्च तर्पणान् वा प्रदापयेत् ||२०|| केवलानम्बुयुक्तान् वा कुल्माषान् वा बहुश्रुतः | हृद्यं यद्दीपनीयं च तत्पथ्यं तस्य भो(यो)जयेत् | (विडङ्गत्रिफलामुस्तमञ्जिष्ठादाडिमोत्पलैः | श्यामैलवालुकैलाभिश्चन्दनामरदारुभिः ||२२|| बर्हिष्ठरजनीकुष्ठपर्णिनीसारिवाद्वयैः | हरेणुकात्रिवृद्दन्तीवचातालीसकेशरैः ||२३|| द्विक्षीरं साधितं सर्पिर्मालतीकुसुमैः सह | गुल्मकासज्वरश्वासक्षयोन्मादनिवारणम् ||२४|| एतदेव हि सम्पक्वं जीवनीयोपसम्भृतम् | चतुर्गुणेन दुग्धेन महाकल्याणमुच्यते ||२५|| अपस्मारं ग्रहं शोषं क्लैब्यं कार्श्यमबीजताम् | घृतमेतन्निहन्त्याशु ये चादौ गदिता गदाः ||२६|| बर्हिष्ठकुष्ठमञ्जिष्ठाकटुकैलानिशाह्वयैः | तगरत्रिफलाहिङ्गुवाजिगन्धामरद्रुमैः ||२७|| वचाऽजमोदाकाकोलीमेदामधुकपद्मकैः | सशर्करं हितं सर्पिः पक्वं क्षीरचतुर्गुणम् ||२८|| बालानां ग्रहजुष्टानां पुंसा दुष्टाल्परेतसाम् | ख्यातं फलघृतं स्त्रीणां वन्ध्यानां चाशु गर्भदम्) ||२९||

🔊 Audio coming soon

आहारं निर्दिशन्नाह- त्र्यहादित्यादि| त्र्यहादेकान्तरेणेत्यर्थः| तर्पणान् केवलान् सक्तूनम्बुना युक्तान् दद्यादिति सम्बन्धः| अन्ये तर्पणमिति पठित्वा तर्पणं लाजा इति व्याख्यानयन्ति| कुल्माषान् वेति यवपिष्टमयान् भक्ष्यान्| अत्र यवाग्वाद्युपदेशो मध्यमन्दबलवग्निसात्म्याद्यपेक्षया| बहुश्रुतो बहुविचक्षणो भिषक्| हृद्यं हृदयहितं यत् तत् स्रोतःशुद्ध्यर्थं देयम्| अस्याग्रे केचित् कल्याणकं पठन्ति; तन्न, ज्वरप्रतिषेधे तस्य पठितत्वात्; तत्र त्वतिकान्तावेक्षणतन्त्रयुक्त्याऽतिदेष्टव्यं फलघृतमिति केचित् पठन्ति; तच्च न पठनीयं, सर्वनिबन्धकारैर्निषद्धत्वात्||२०-२९||

Adhikarana 16 (30-32) · Śloka 32

ब्राह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गु सुरां जटाम् | विषघ्नीं लशुनं रास्नां विशल्यां सुरसां वचाम् ||३०|| ज्योतिष्मतीं नागरं च अनन्तामभयां तथा | सौराष्ट्रीं च समांशानि गजमूत्रेण पेषयेत् ||३१|| छायाविशुष्कास्तद्वर्तीर्योजयेद्विधिकोविदः | अवपीडेऽञ्जनेऽभ्यङ्गे नस्ये धूमे प्रलेपने ||३२||

🔊 Audio coming soon

ब्राह्मीत्यादि| ब्राह्मी मण्डूकपर्णी, अन्ये लवणिकामाहुः| ऐन्द्री इन्द्रवारुणी, अन्ये मत्स्याक्षकभेदमाहुः| सुरा सुराह्वं, अन्तलोपात्; अन्ये तु इन्द्रसुरा इन्द्रवारुणी, इन्द्रशब्दलोपात्| जटा जटामांसी| विषघ्नी हरिद्रा, अन्ये निर्विषामाहुः| विशल्या गुडूची| सुरसा तुलसी| ज्योतिष्मती काकमर्दनी| नागरं शुण्ठी| अत्रान्ये ‘नागविन्नाम्’ इति पठन्ति, नागविन्ना इन्द्रवारुणीभेदः, वृश्चिकपत्रिकेत्यपरे| अनन्ता उत्पलसारिवा| अभया हरीतकी| सौराष्ट्री तुवरिका| विधिकोविदो विधिज्ञो वैद्यः||३०-३२||

Adhikarana 17 (33) · Śloka 33

उरोपाङ्गललाटेषु सिराश्चास्य विमोक्षयेत् |३३|

🔊 Audio coming soon

उरोपाङ्गेत्यादि| उरः स्तनयोरन्तरालम्| अत्रापाङ्गशब्दः शङ्खे वर्तते, सामीप्यात्; न त्वपाङ्गः शङ्खसन्धिः; कुतः? तत्रैकस्या एव व्यध्यसिराया निर्दिष्टत्वात्| अस्य उन्मादिनः| भूतविद्यासिद्धान्तादुरःप्रभृतिषु सिराव्यधनसुक्तं, सिराव्यधविधितश्च शङ्खसन्धौ ; अतोऽत्र उन्मादे उभयत्रापि सिराव्यधनमिष्टम्|३३|-

Adhikarana 18 (33) · Śloka 33

अपस्मारक्रियां चापि ग्रहोद्दिष्टां च कारयेत् ||३३||

🔊 Audio coming soon

इदानीमतिदेशचिकित्सितमाह- अपस्मारेत्यादि| अत्रापस्मारक्रियाया अतिदेशेन वातादिजोन्मादचिकित्सितं प्राप्तं, अतोऽत्र चिकित्सादौ पृथग्दोषजचिकित्सितं नोक्तम्| एवमन्यदप्यनुक्तं पूरणीयम्||३३||

Adhikarana 19 (34) · Śloka 34

शान्तदोषं विशुद्धं च स्नेहबस्तिभिराचरेत् |३४|

🔊 Audio coming soon

शान्तदोषमित्यादि| शान्तदोषं शान्तोन्मादं, विशुद्धं वमनादिना, स्नेहबस्तिभिराचरेदिति पुनरुन्मादोद्गमनिषेधार्थम्|३४|-

Adhikarana 20 (34-35) · Śloka 35

उन्मादेषु च सर्वेषु कुर्याच्चित्तप्रसादनम् | मृदुपूर्वां मदेऽप्येवं क्रियां मृद्वीं प्रयोजयेत ||३४|| शोकशल्यं व्यपनयेदुन्मादे पञ्चमे भिषक् | विषजे मृदुपूर्वां च विषघ्नीं कारयेत् क्रियाम् ||३५||

🔊 Audio coming soon

उन्मादेष्वित्यादि| मृदुपूर्वां मृदुसंशोधनपूर्वां, कियां मृद्वीं मृद्वञ्जनाभ्यञ्जनादिकां, प्रयोजयेदिति सम्बन्धः| एवं पूर्वप्रकारेणेत्यर्थः| शोकशल्यं व्यपनयेदित्यादि व्यपनयेदिति इष्टप्रापणसान्त्वनाश्वासनादिभिः| पञ्चमे मनोदुःखजे| विषजे मृदुपूर्वामित्यादि| मृदुपूर्वां मृदुशोधनपूर्वां, विषघ्नीं क्रियां कल्पोपदिष्टां, कारयेदिति||३४-३५||

Adhikarana puShpikA · Śloka 62

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रे उन्मादप्रतिषेधो नाम (तृतीयोऽध्यायः, आदितः) द्विषष्टितमोऽध्यायः ||६२||

🔊 Audio coming soon

निबन्धान् निखिलान् दृष्ट्वा वैद्यः श्रीभरतात्मजः| भूतविद्यास्पदं स्पष्टं चक्रे श्रीडल्हणः सुधीः||१|| इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रे उन्मादप्रतिषेधो नाम द्विषष्टितमोऽध्यायः समाप्तः||६२||