Adhikarana 1 (1-2) · Śloka 2
अथातोऽपस्मारप्रतिषेधमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अमानुषोपसर्गप्रतिषेधानन्तरं मनःप्रदुष्टिसामान्यात् ग्रहचिकित्सितस्यात्रापि शस्तत्वादपस्मारप्रतिषेधारम्भः- अथात इत्यादि| अथेत्यादिकं पूर्ववद्व्याख्येयम्| अपशब्दो गमनार्थः, स्मारः स्मरणं, अपगतः स्मारो यस्मिन् रोगे सोऽपस्मारः; तस्य प्रतिषेधः चिकित्सितम्||१-२||
Adhikarana 2 (3) · Śloka 3
स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने |
अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत् ||३||
अपस्मारस्य निरुक्तिमाह- स्मृतिरित्यादि| भूतार्थज्ञानापस्मरणादयं व्याधिरपस्मार इति प्रोक्तः| अन्तकृत् विनाशकृत्, अपस्मरणभावाज्जलाग्न्यादौ प्रपतनात्; अन्ये तु अन्तकृदवस्थायां, सा चावस्था ‘अपस्मरन्तं बहुशः क्षीणं’ इत्यादिका||३||
Adhikarana 3 (4-6) · Śloka 6
मिथ्यातियोगेन्द्रियार्थकर्मणामभिसेवनात् |
विरुद्धमलिनाहारविहारकुपितैर्मलैः ||४||
वेगनिग्रहशीलानामहिताशुचिभोजिनाम् |
रजस्तमोभिभूतानां गच्छतां च रजस्वलाम् ||५||
तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम् |
चेतस्यभिहते पुंसामपस्मारोऽभिजायते ||६||
अपस्मारोत्पत्तिकारणस्य चित्ताभिघातस्य हेतूनाह- मिथ्येत्यादि| अत्रायोगो लुप्तो द्रष्टव्यः, तेन मिथ्यायोगायोगातियोगैः; केचित् मिथ्यादियोगेति पठित्वा आदिशब्देनैव अतियोगमयोगं च गृह्णन्ति| इन्द्रियार्थानां स्पर्शादीनां, कर्मणां कायवाङ्मानसानाम्| अथ शब्दादीनां मिथ्यायोगादयः कथ्यन्ते- तत्र परुषेष्टविनाशादिश्रवणं मिथ्यायोगः, पटहाद्यतिशब्दश्रवणमतियोगः, सर्वशोऽश्रवणमयोगः; तथा शीतादिस्पर्शानां वैपरीत्येनोपसेवनं मिथ्यायोगः, अतिशीतादीनामतिसेवनमतियोगः; सर्वशोऽसेवनमयोगः; अतिविकृतादिदर्शनं मिथ्यायोगः, अतितेजसामतिदर्शनमतियोगः; सर्वथाऽनवलोकनमयोगः; तथाऽयोग्यरसानामादानं मिथ्यायोगः, रसानामत्यादानमतियोगः, रसानां सर्वथाऽनादानमयोगः; पूत्याद्याघ्राणं मिथ्यायोगः, अतितीक्ष्णादिगन्धानामत्याघ्राणमतियोगः, सर्वशोऽघ्राणमयोगः; तथा कायिककर्मणो व्यायामादेर्निषिद्धकालादिषु सेवनं मिथ्यायोगः, अतिसेवनमतियोगः, सर्वशोऽनुपसेवनमयोगः, तथा वाचनिककर्मणः परुषानृतादिभाषणं मिथ्यायोगः, अतिवाचनादिकमतियोगः, सर्वथा मौनमयोगः, तथा मानसकर्मणः शोकादिचिन्तनं मिथ्यायोगः, अतिमात्रचिन्तनादिकमतियोगः, सर्वथाचिन्तनमयोगः| विरुद्धं हिताहितीयोक्तम्| मलिनशब्द आहारविहाराभ्यां सम्बध्यते; तत्र मलिनाहारः पूतिद्वेष्टामेध्यपर्युषिताः, मलिनो विहारो दृष्टादृष्टार्थः स्मार्तवचनात् ज्ञातव्यः| कुपितैर्मलैरित्यत्र मला वातपित्तश्लेष्माणो रजस्तमसी च, देहमलिनीकरणादुच्यन्ते| वेगेत्यादि| वेगा विण्मूत्रादीनां तेषां वेगानां निग्रहो धारणं, तत्र शीला वेगनिग्रहरताः| अहिताशुचिभोजिनामिति यद्यप्येषोऽर्थो विरुद्धमलिनाहारात् इत्यनेनैव प्राप्तः, तथाऽप्यत्यर्थहेतुत्वापादनार्थं पुनः पाठः| रजस्वलां दृष्टार्तवाम्| एतैर्हेतुभिश्चित्ते उपहते दूषिते सति अपस्मारोऽभिजायते||४-६||
Adhikarana 4 (7) · Śloka 7
हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता |
निद्रानाशश्च तस्मिंस्तु भविष्यति भवन्त्यथ ||७||
हेतूनभिधाय पूर्वरूपमाह- हृदित्यादि| प्रमूढता अतिशयेन विचेतनत्वम्| तस्मिन् अपस्मारे||७||
Adhikarana 5 (8-10) · Śloka 10
सञ्ज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः |
रजस्तमःपरीतेषु मूढो भ्रान्तेन चेतसा ||८||
विक्षिपन् हस्तपादं च विजिह्मभ्रूर्विलोचनः |
दन्तान् खादन् वमन् फेनं विवृताक्षः पतेत् क्षितौ ||९||
अल्पकालान्तरं चापि पुनः सञ्ज्ञां लभेत सः |
सोऽपस्मार इति प्रोक्तः... |१०|
प्राग्रूपमभिधाय रूपमाह- सञ्ज्ञावहेष्वित्यादि| सञ्ज्ञावहेषु स्रोतःस्विति कथं बहुवचनं, यतो धमनीव्याकरणे ‘द्वाभ्यां प्रबुध्यते’ इत्यनेन द्वे एव सञ्ज्ञावहे स्रोतसी उक्ते? सत्यं, द्वयोरपि स्रोतसोः सूक्ष्माणां प्रतानानां बहुत्वात् स्रोतःस्वित्युक्तम्| दोषव्याप्तेषु वातादिदोषाभिभूतेषु| रजस्तमःपरीतेषु रजस्तमोव्याप्तेषु| मूढो मोहयुक्तः| केन कृत्वा मूढः? भ्रान्तेन चेतसा चित्तभ्रान्त्येत्यर्थः| विक्षिपन् इतस्ततः क्षिपन् | विजिह्मभ्रूः विलोचनः वक्रभ्रूनेत्रः| विवृताक्ष उच्छलिताक्षः| यस्मिन् विकारे विक्षिपन् हस्तपादमित्यादिचेष्टः सन् आतुरः क्षितौ पतति स विकारोऽपस्मार इति प्रोक्त इति सम्बन्धः||८-१०||-
Adhikarana 6 (10) · Śloka 11
... स च दृष्टश्चतुर्विधः ||१०||
वातपित्तकफैर्नॄणां चतुर्थः सन्निपाततः |११|
अपस्मारस्य सङ्ख्यामाह- स च दृष्ट इत्यादि| चतुर्विध इति सङ्ख्याकरणं द्वन्द्वजापस्मारनिषेधार्थम्| द्वन्द्वजासम्भवस्तु व्याधिस्वभावात्| चातुर्विध्यं विवृण्वन्नाह- वातपित्तकफैरित्यादि| वातादिभिः त्रयः||१०||-
Adhikarana 7 (11-12) · Śloka 12
वेपमानो दशन् दन्तान् श्वसन् फेनं वमन्नपि ||११||
यो ब्रूयाद्विकृतं सत्त्वं कृष्णं मामनुधावति |
ततो मे चित्तनाशः स्यात् सोऽपस्मारोऽनिलात्मकः ||१२||
वातादिजत्वेनापस्मारलक्षणमाह- वेपमान इत्यादि| वेपमानः कम्पमानः| दशन् खादन् दन्तान्| श्वसन् श्वासं कुर्वन्| विकृतं विकृतरूपं सत्त्वम्| कृष्णमित्यत्र कृष्णसत्त्वदर्शनम्, असत एव सञ्ज्ञावहस्रोतोगतवातप्रभावात्; न पुनः सत्त्वं पिशाचादिकं भूतमभिप्रेतम्| तन्त्रान्तरेऽपि “परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात्” इत्यादिना कृष्णादिरूपदर्शनमेवोक्तम्| एवं पित्तकफापस्मारयोरपि बोद्धव्यम्||११-१२||
Adhikarana 8 (13) · Śloka 14
तृट्तापस्वेदमूर्च्छार्तो धुन्वन्नङ्गानि विह्वलः |
यो ब्रूयाद्विकृतं सत्त्वं पीतं मामनुधावति ||१३||
ततो मे चित्तनाशः स्यात् स पित्तभव उच्यते |१४|
पित्तापस्मारलक्षणमाह- तृडित्यादि| तृट् पिपासा| तापः सन्तापः| धुन्वन् विक्षिपन्| अङ्गानि हस्तपादादीनि| विह्वलो विकलः||१३||-
Adhikarana 9 (14-15) · Śloka 15
शीतहृल्लासनिद्रार्तः पतन् भूमौ वमन् कफम् ||१४||
यो ब्रूयाद्विकृतं सत्त्वं शुक्लं मामनुधावति |
ततो मे चित्तनाशः स्यात् सोऽपस्मारः कफात्मकः ||१५||
कफजापस्मारलक्षणमाह- शीतहृल्लासेत्यादि| हृल्लासः थूत्करणम्||१४-१५||
Adhikarana 10 (16) · Śloka 16
हृदि तोदस्तृडुत्क्लेदस्त्रिष्वप्येतेषु सङ्ख्यया |१६|
वाताद्यपस्मारेषु प्रत्येकमेकैकं लक्षणमाह- हृदि तोद इत्यादि| हृदि तोदो व्यथा, -वातिके; तृट् पिपासा,-पैत्तिके; उत्क्लेशः श्लेष्मनिष्ठीवनं, -कफजे; एतेषु त्रिषु वातादिजापस्मारेषु यथासङ्ख्यं हृत्तोदादिलक्षणं ज्ञेयमिति सम्बन्धः|१६|-
Adhikarana 11 (16) · Śloka 16
प्रलापः कूजनं क्लेशः प्रत्येकं तु भवेदिह ||१६||
वातादिजापस्मारेषु प्रत्येकं प्रलापादिलक्षणत्रितयमाह- प्रलापः कूजनमित्यादि| प्रलापादिकं त्रयं वातादिजापस्मारेषु त्रिष्वपि प्रत्येकं बोद्धव्यं न यथासङ्ख्यम्||१६||
Adhikarana 12 (17) · Śloka 17
सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे |१७|
सर्वजापस्मारलक्षणमाह- सर्वलिङ्गसमवाय इत्यादि| सर्वलिङ्गसमवायो वातादिलिङ्गसमावेशः| सर्वदोषप्रकोपज इति प्रकोपोपादानात् स्वकीयकारणप्रकुपितदोषत्रयज इति बोद्धव्यं, न कुपितैकदोषप्रकोपितसर्वदोषज इति|१७|-
Adhikarana 13 (17) · Śloka 18
अनिमित्तागमाद्व्याधेर्गमनादकृतेऽपि च ||१७||
आगमाच्चाप्यपस्मारं वदन्त्यन्ये न दोषजम् |१८|
स्वमतेनापस्मारस्य दोषजत्वं प्रदर्श्य परमतेनागन्तुकत्वमाह- अनिमित्तागमादित्यादि| अनिमित्तागमात् अकारणोत्पादनात्, आकस्मिकोद्भवादित्यर्थः| गमनादकृतेऽपि चेत्यत्र ‘प्रतीकारे’ इति शेषः ; तेन प्रतीकारे अकृतेऽपि व्याधेर्गमनादुपशमादित्यर्थः| अकृतेऽपीत्यत्र अकृतादिति क्वचित्; तत्र, अकृतात् प्रतीकारद्भेषजेनेति द्रष्टव्यम् आगमाच्चेति स्वकीयात्; न पुनश्चेतरस्मात्, तत्र दोषजत्वेनापस्मारस्य दर्शितत्वात्| ‘वदन्त्यन्ये न दोषजं’ इत्यत्र अन्ये ‘वदन्त्यन्योन्यदोषजम्’ इति पठन्ति, अन्योन्यदोषजं रजस्तमोदोषजमित्यर्थः| अपरे तु ‘अन्योन्यदूषणात्’ इति पठन्ति| तत्र कायमनसोरन्योन्यदूषणात्||१७||-
Adhikarana 14 (18-21) · Śloka 21
क्रमोपयोगाद्दोषाणां क्षणिकत्वात्तथैव च ||१८||
आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः |
देवे वर्षत्यपि यथा भूमौ बीजानि कानिचित् ||१९||
शरदि प्रतिरोहन्ति तथा व्याधिसमुद्भवः |
स्थायिनः केचिदल्पेन कालेनाभिप्रवर्धिताः ||२०||
दर्शयन्ति विकारांस्तु विश्वरूपान्निसर्गतः |
अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु ||२१||
परमतनिराकरणाय स्वमतमाह- क्रमोपयोगादित्यादि| स तु पुनरपस्मारः क्रमोपयोगादित्यादिहेतुभिश्चतुर्भिर्दोषज एव बुधैः पण्डितैर्निर्वर्ण्यते कथ्यत इत्यर्थः| अत्र हेतुमाह- क्रमोपयोगाद्दोषाणामिति सञ्चयादिक्रमेण दोषाणां विकारजननयोगादित्यर्थः; एतेन, अनिमित्तागमाद्व्याधेरिति हेतुर्निराकृतः| तथा सर्वपारिषदत्वादायुर्वेदस्य सौगतमतमवलम्ब्य ‘गमनादकृतेऽपि च’ इत्यस्य हेतोर्निराकरणाय हेतुमाह- क्षणिकत्वात्तथैव चेति| तथैव वातादीनां क्षणिकत्वाद्द्वितीयोऽपि हेतुर्निराकृतः| यतो यावन्मात्रो दोषवेगोऽभूत् तावन्मात्रस्यापगमादकृतेऽपि प्रतीकारे व्याधेरपगमः| तृतीयं हेतुमाह- आगमाच्चेति; स्वतन्त्रात् परतन्त्राच्चेत्यर्थः| तत्रागमे स्वतन्त्रे परतन्त्रे च वातिक-पैत्तिक-श्लैष्मिक-सान्निपातिकाश्चत्वारोऽपस्मारा अभिहिता इति| चतुर्थं हेतुमाह- वैश्वरूप्याच्चेति विश्वेषां समस्तानां वातपित्तश्लेष्मणां मनोदोषयो रजस्तमसोश्च रूपं नानाप्रकारं लिङ्गं यस्यापस्मारस्य स तथा, तद्भावो वैश्वरूप्यं तस्मात्| ‘स तु’ इत्यत्रान्ये ‘तत्र’ इति पठन्ति, व्याख्यानयन्ति च- तत्र अपस्मारे| यदैवं तर्हि वातपित्तश्लेष्मणां सदैव देहे सद्भावात् सन्ततमपस्मारः स्यादतस्तन्निराकरणार्थमाह- देवे वर्षतीत्यादि| वर्षत्यपि मेघे भूमौ सुकृष्टायामपि अङ्कुरजननसमर्थान्यपि कानिचिद्बीजानि शरद्येव प्ररोहन्ति, तथा सर्वरोगबीजानां वातादीनां कदाचित् कस्यचिदपस्मारादिव्याधेरङ्कुरस्थानीयस्य निदानादिसङ्गमे सत्यपि दूष्यादिसमुदायेनैव समुद्भवो भवतीत्यर्थः| अन्ये त्वन्यथा व्याख्यानयन्ति- ननु, सञ्चयादिक्रमेणोपयोगश्चेद्दोषाणां तदा पुनः कथमल्पेनैव कालेन तद्विकारोद्गमः स्यादित्यत आह- देवेऽवर्षतीत्यादि| अवर्षति देवे यथा शरत्काले भूमौ स्तिमित्वात् कानिचिद्बीजानि प्ररोहन्त्येव, तथाऽल्पेनापि कालेन शरीरस्था दोषाः किञ्चिदुपचिता विकारं जनयन्तीति| एतदेव स्पष्टीकुर्वन्नाह- स्थायिन इत्यादि| स्थायिनः अवश्यमवस्थायिनो वातादयः, परं केचिदल्पेनापि कालेनाभिप्रवर्धिताः सन्तो विश्वरूपान् नानारूपान् विकारान् दर्शयन्ति| कुतः? निसर्गतो दूषणस्वभावादित्यर्थः| अपस्मारो महाव्याधिरित्यादि| तस्मादिति पूर्वोक्तक्रमोपयोगादिहेतुसमूहादपस्मारो दोषजो न तु भूतावेशज इति सिद्धान्तः ||१८-२१||
Adhikarana 15 (22-23) · Śloka 24
तस्य कार्यो विधिः सर्वो य उन्मादेषु वक्ष्यते |
पुराणसर्पिषः पानमभ्यङ्गश्चैव पूजितः ||२२||
उपयोगो ग्रहोक्तानां योगानां तु विशेषतः |
ततः सिध्यन्ति ते सर्वे योगैरन्यैश्च साधयेत् |
शिग्रुकट्वङ्गकिण्वाहिनिम्बत्वग्रससाधितम् ||२३||
चतुर्गुणे गवां मूत्रे तैलमभ्यञ्जने हितम् |२४|
इदानीं चिकित्सितमाह- तस्य कार्यो विधिरित्यादि| तस्य अपस्मारस्य| ननु, उन्मादे यो विधिः पठिष्यमाणोऽस्ति तं विधिमपस्मारे निर्दिश्य तत्रैव किमिति नातिदिश्यते? उच्यते,- उन्मादे तस्यातिशयेन हितत्वादित्यर्थः| अभ्यङ्गश्चैवेति पुराणसर्पिषा, अस्य त्रिदोषघ्नत्वात्| ग्रहोक्तविधिमुपदिशति- उपयोग इत्यादि| शिग्रुकट्वङ्गेत्यादि| शिग्रुः शोभाञ्जनकः, कट्वङ्गः अरलुः, स्योनाक इत्यन्ये, किणिही श्वेतस्यन्दः; त्वग्रससाधितमिति त्वग् वल्कलं, रसः स्वरसः; एतेन कल्कस्वरसाभ्यां साधितमिति बोद्धव्यम्| गवां मूत्रे इति चेतोविकारहरत्वेन हस्तिच्छागभेडमूत्राणां निर्दिष्टत्वात्तन्निषेधार्थं ‘गवां मूत्रे’ इति कृतम्| तैलं तिलतैलम्||२२-२३||-
Adhikarana 16 (24) · Śloka 25
गोधानकुलनागानां पृषतर्क्षगवामपि ||२४||
पित्तेषु सिद्धं तैलं च पानाभ्यङ्गेषु पूजितम् |२५|
द्वितीयतैलमाह- गोधानकुलनागानामित्यादि| नागो हस्ती| पृषतः चित्रलो मृगः| ऋक्षो भल्लूकः| गोधादीनां पित्तेषु पृथक् स्नेहसमेषु सिद्धं तैलमित्यर्थः||२४||-
Adhikarana 17 (25) · Śloka 25
तीक्ष्णैरुभयतोभागैः शिरश्चापि विशोधयेत् ||२५||
तैलमभिधाय शिरोविरेचनमाह- तीक्ष्णैरित्यादि| तीक्ष्णैरुभयतोभागैः विषाणिकाब्राह्मीकारवेल्लकादिभिः| अन्ये तु ‘तीक्ष्णैरुभयतोभागैः शिरसश्च विरेचनैः’ इति पठन्ति, व्याख्यानयन्ति च- तीक्ष्णैरित्युभयत्र सम्बध्यते| तेन उभयतोभागैर्वमनविरेचनैस्तीक्ष्णैश्च शिरोविरेचनैरुपाचरेदिति सम्बध्यते||२५||
Adhikarana 18 (26) · Śloka 26
पूजां रुद्रस्य कुर्वीत तद्गणानां च नित्यशः |२६|
केचिदत्र दैवव्यपाश्रयं चिकित्सितं पठन्ति- पूजां रुद्रस्येत्यादि|२६|-
Adhikarana 19 (26) · Śloka 27
वातिकं बस्तिभिश्चापि पैत्तिकं तु विरेचनैः ||२६||
कफजं वमनैर्धीमानपस्मारमुपाचरेत् |२७|
सामान्यं चिकित्सितं निर्दिश्य वातादिभेदेनापस्माराणां चिकित्सां निर्दिशन्नाह- वातिकमित्यादि| केचिदिमं पाठं पञ्चगव्याख्यघृतपाठस्याग्रे पठन्ति||२६||-
Adhikarana 20 (27-28) · Śloka 28
कुलत्थयवकोलानि शणबीजं पलङ्कषाम् ||२७||
जटिलां पञ्चमूल्यौ द्वे पथ्यां चोत्क्वाथ्य यत्नतः |
बस्तमूत्रयुतं सर्पिः पचेत्तद्वातिके हितम् ||२८||
वातादिजापस्मारेषु घृतं निर्दिशन्नाह- कुलत्थेत्यादि| कोलं बदरम्| पलङ्कषा गुग्गुलुः| जटिला मांसी| पञ्चमूल्यौ द्वे इति शालिपर्ण्यादिर्बिल्वादिश्च, एरण्डबिल्वाद्ये इत्यन्ये| पथ्या हरीतकी| ‘यत्नत’ इत्यत्रान्ये ‘योगत’ इति पठन्ति| योगतोग्रहणात् क्वाथमूत्रयोर्मध्ये एकं चतुर्गुणमेकं च समं ग्राह्यमिति व्याख्यानयन्ति||२७-२८||
Adhikarana 21 (29) · Śloka 29
काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे |
पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम् ||२९||
काकोल्यादिप्रतीवापमित्यादि| काकोल्यादिप्रतीवापं काकोल्यादिकल्कम्| सिद्धं च प्रथमे गणे विदारिगन्धादिके क्वाथीकृते इति ज्ञेयम्| कुतः? काकोल्यादिकल्कोपदेशात्| पयः क्षीरम्| सिता शर्करा| क्षीरादिप्रक्षेपयुक्तं घृतं हितम्||२९||
Adhikarana 22 (30) · Śloka 30
कृष्णावचामुस्तकाद्यैर्युक्तमारग्वधादिके |
पक्वं च मूत्रवर्गे तु श्लेष्मापस्मारिणे हितम् ||३०||
कृष्णावचेत्यादि| कृष्णावचामुस्तकाद्यैरिति पिप्पल्यादिवचादिमुस्ताद्यैः क्वथितैः, आरग्वधादिकैः कल्कीकृतैः, मूत्रवर्गेऽष्टविधे सिद्धं पक्वं घृतं श्लेष्मापस्मारिणे हितमित्यर्थः| अन्ये मूत्रवर्गेष्वित्यत्र चेतोविकारहरत्वेन छागोरभ्रहस्तिमूत्राणि गृह्णन्ति||३०||
Adhikarana 23 (31-33) · Śloka 33
सुरद्रुमवचाकुष्ठसिद्धार्थव्योषहिङ्गुभिः |
मञ्जिष्ठारजनीयुग्मसमङ्गात्रिफलाम्बुदैः ||३१||
करञ्जबीजशैरीषगिरिकर्णीहुताशनैः |
सिद्धं सिद्धार्थकं नाम सर्पिर्मूत्रचतुर्गुणम् ||३२||
कृमिकुष्ठगरश्वासबलासविषमज्वरान् |
सर्वभूतग्रहोन्मादानपस्मारांश्च नाशयेत् ||३३||
सिद्धार्थकं सर्पिराह- सुरद्रुमेत्यादि| सुरद्रुमः देवदारु| सिद्धार्थः सर्षपः| व्योषं शुण्ठीमरीचपिप्पल्यः| रजनीयुग्मं हरिद्राद्वयम्| समङ्गा लज्जालुः| अम्बुदो मुस्ता| शैरीषं शिरीषबीजम्| गिरिकर्णी श्वेतस्यन्दा| हुताशनः चित्रकः| एतैः कल्कीकृतैर्मूत्रचतुर्गुणं सर्पिः सिद्धं सिद्धार्थकं नामेति सम्बन्धः| गरः कृत्रिमं विषम्| बलासः श्लेष्मा||३१-३३||
Adhikarana 24 (34-37) · Śloka 37
दशमूलेन्द्रवृक्षत्वङ्मूर्वाभार्गीफलत्रिकैः |
शम्पाकश्रेयसीसप्तपर्णापामार्गफल्गुभिः ||३४||
शृतैः कल्कैश्च भूनिम्बपूतीकव्योषचित्रकैः |
त्रिवृत्पाठानिशायुग्मसारिवाद्वयपौष्करैः ||३५||
कटुकायासदन्त्युग्रानीलिनीक्रिमिशत्रुभिः |
सर्पिरेभिश्च गोक्षीरदधिमूत्रशकृद्रसैः ||३६||
साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत् |
चातुर्थकक्षयश्वासानुन्मादांश्च नियच्छति ||३७||
पञ्चगव्यमाह- दशमूलेत्यादि| इन्द्रवृक्षः कुटजः, तस्य त्वक्; अन्ये त्वक्शब्देन त्वचमाहुः| मूर्वा चोरस्नायुः| फल्गुः काष्ठोदुम्बरिका| शृतैः क्वथितैः| भूनिम्बः किरातकः| पूतीकः चिरबिल्वः| व्योषं त्रिकटुकम्| निशायुग्मं हरिद्राद्वयम्| सारिवाद्वयम् आस्फोता काकवल्ली च| पौष्करं पुष्करमूलम्| यासो दुरालभा, दन्ती दन्तिनी, उग्रा वचा, नीलिनी रजनिका शारदफला, कृमिशत्रुः विडङ्गम्, दशमूल्यादिभिः काष्ठोदुम्बरिकान्तैः क्वथितैर्भूनिम्बादिभिः कृमिशत्रुपर्यन्तैः| कल्कीकृतैर्गोक्षीरादिभिः प्रत्येकं स्नेहसमैः साधितं सर्पिः पञ्चगव्याख्यं सर्वापस्मारादीन्नियच्छतीत्यर्थः ||३४-३७||
Adhikarana 25 (38-40) · Śloka 41
भार्गीशृते पचेत् क्षीरे शालितण्डुलपायसम् |
त्र्यहं शुद्धाय तं भोक्तुं वराहायोपकल्पयेत् ||३८||
ज्ञात्वा च मधुरीभूतं तं विशस्यान्नमुद्धरेत् |
त्रीन् भागांस्तस्य चूर्णस्य किण्वभागेन संसृजेत् ||३९||
मण्डोदकार्थे देयश्च भार्गीक्वाथः सुशीतलः |
शुद्धे कुम्भे निदध्याच्च सम्भारं तं सुरां ततः ||४०||
जातगन्धां जातरसां पाययेदातुरं भिषक् |४१|
भार्गीशृते इत्यादि| भार्गीशृते क्षीरे शालितण्डुलपायसं पचेदिति सम्बन्धः| अत्र क्षीरसाधनविधिः- चतुर्थांशं भार्गीकल्कं दत्त्वा चतुर्गुणेन जलेन क्षीरं साधनीयम्| त्र्यहं शुद्धाय त्रिदिनमुपोषिताय वराहाय तं पायसं भोक्तुं प्रकल्पयेत् दद्यादित्यर्थः| मधुरीभूतं श्लेष्मसंसृष्टं विदाहावस्थामप्राप्तम्; अन्ये तु मधुरीभूतं विषीभूतमिति व्याख्यानयन्ति, यतो मधुरशब्दो विषे वर्तते| अथ पायसः कथं विषीभवतीति चेत्? सत्यं, आधारप्रभावात्| विषीभूतं वराहस्यैव लालास्रावमूर्च्छादिविषलिङ्गैर्ज्ञातव्यम्| तं वराहं, विशस्य हत्वा, अन्नं विषीभूतमुद्धरेत्| तस्य चूर्णस्येत्यादि| तस्य उद्धृतस्यान्नस्य शोषितचूर्णीकृतस्य त्रीन् भागान् किण्वभागेन संसृजेत् सुराबीजैकभागेन मिश्रयेत्| मण्डोदकार्थं सन्धानार्थं भार्गीक्वाथो देयः| अन्ये तु मण्डः सुरामण्डः, दकार्थे उदकार्थे भार्गीक्वाथश्च देय इति व्याख्यानयन्ति| शुद्धे कुम्भे इति कृतसंस्कारे चातुर्जातकघृतमधुपिप्पल्यादिविलिप्ते इत्यर्थः| पायसचूर्णकिण्वभागचतुष्टये भार्गीक्वाथस्तावानेव देयो यावता सम्यक्सुराभावं प्राप्नोति, तद्विदश्च कल्पपालाः प्रष्टव्याः| सुरानिष्पत्तिकालप्रमाणं च जातरसामित्यनेनोक्तम्||३८-४०||-
Adhikarana 26 (41) · Śloka 41
सिरां विध्येदथ प्राप्तां मङ्गल्यानि च धारयेत् ||४१||
सिरामित्यादि| प्रोक्तां उरोपाङ्गललाटजाम्| अन्ये तु प्राप्तामिति पठन्ति, हनुसन्धिमध्यगतामिति च व्याख्यानयन्ति| मङ्गल्यानि व्रणितोपासनीयोक्तानि छत्रातिछत्रादीनि | अपरे तु ‘मङ्गल्यादि च कारयेत्’ इति पठन्ति, तच्च मङ्गल्यमथर्ववेदविहितमिति व्याख्यानयन्ति||४१||
Adhikarana puShpikA · Śloka 61
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽपस्मारप्रतिषेधो नाम (द्वितीयोऽध्यायः, आदितः) एकषष्टितमोऽध्यायः ||६१||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रेऽपस्मारप्रतिषेधो नामैकषष्टितमोऽध्यायः||६१||