Adhikarana 1 (1-2) · Śloka 2
अथातो ज्वरप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
कुमारतन्त्रानन्तरं कायचिकित्सारम्भः; यतः कुमारतन्त्रावसाने ‘अपप्रजातारोगांश्च चिकित्सेदुत्तराद्भिषक्’ इति वाक्ये उत्तरादित्यनेन कायचिकित्सितस्य सूचितत्वात्, अथवा कुमाराणामपि ज्वराद्युत्पतौ सत्यां कायचिकित्सितस्योपयोगित्वात्| अत्र कायशब्देन दोषधातुमलसङ्घात उच्यते, तेन कायस्थितानां ज्वरादीनां चिकित्सा कायचिकित्सा, मञ्चाः क्रोशन्तीतिवत्| अन्ये कायशब्देन कायाग्निं वदन्ति, यतोऽग्निं व्याप्य वै ज्वरादयो भवन्ति| अपरे दुष्टकायः कायः तस्य चिकित्सा कायचिकित्सेत्याहुः| तस्यामपि कायचिकित्सायां बहुषूपद्रवेषु रुद्रकोपसम्भवतया ज्वरस्य गरीयस्त्वात् पूर्वं ज्वरप्रतिषेधारम्भ इत्याह- अथात इत्यादि| अथशब्दोऽनन्तरार्थः| कुतोऽनन्तरमित्याह- अत इति; अस्मात् पूर्वाध्यायादित्यर्थः; अतःशब्दो हेतौ वा, यतोऽयं ज्वरो रुद्रकोपसम्भवतया गरीयानतो हेतोरित्यर्थः| प्रतिषेधः चिकित्सा| विः विशेषे विविधप्रकारे च; आङ् अभिव्याप्तौ, आभिमुख्ये वा; व्याख्यास्यामः प्रकर्षेण कथयिष्यामः||१-२||
Adhikarana 2 (3-4) · Śloka 5
येनामृतमपां मध्यादुद्धृतं पूर्वजन्मनि |
यतोऽमरत्वं सम्प्राप्तास्त्रिदशास्त्रिदिवेश्वरात् ||३||
शिष्यास्तं देवमासीनं पप्रच्छुः सुश्रुतादयः |
व्रणस्योपद्रवाः प्रोक्ता व्रणिनामप्यतः परम् ||४||
समासाद् व्यासतश्चैव ब्रूहि नो भिषजांवर |५|
इदानीं ज्वरप्रतिषेधरूपां धन्वन्तरिस्तुतिं प्रतिपादयन् ज्वरप्रतिपादनहेतुकं धन्वन्तरिं गुरुं प्रति शिष्याणां प्रश्नमाह- येनामृतमपामित्यादि| येन धन्वन्तरिणा| अपां मध्यात् क्षीरार्णवमध्यात्| उद्धृतम् आनीतम्| पूर्वजन्मनि देवत्वे सति| यतो यस्मात्| त्रिदशेश्वरात् धन्वन्तरेः| अमरत्वं सम्प्राप्ताः अमृतदानेन; त्रिदशा देवा अमृतप्राप्त्या अमरत्वं सम्प्राप्ताः| तं देवं धन्वन्तरिनामानम्| आसीनम् उपविष्टम्| पप्रच्छुः पृष्टवन्तः| जेज्जटाचार्यस्तु ‘त्रिदशास्त्रिदशेश्वरा’ इति पठित्वा यतो यस्मात् धन्वन्तरेस्त्रिदशा देवा अमृतप्राप्त्या अमरत्वं सम्प्रप्ताः सन्तः त्रिदशेश्वराः सञ्जाता इति व्याख्यानयन्ति| अत्र येनामृतमित्यादिश्लोके अमृतामरयोर्नाम ज्वरप्रतिषेधादौ मङ्गलार्थमुक्तम्| यद्यपि प्राक् सुश्रुतस्य प्रश्नकर्तृत्वेन प्राधान्यं, तथाऽप्यत्र सर्वेषामनुग्रहाय प्रश्नेऽधिकारः| किं पप्रच्छुरित्याह- व्रणस्योपद्रवा इत्यादि| व्रणस्योपद्रवा वेदनावर्णास्रावादयः| प्रोक्ता व्रणास्रावविज्ञानीयादिषु| व्रणिनामिति व्रणिनः पुरुषाः, तेषामुपद्रवा ज्वरातीसारादयः, तान् समासात् सङ्क्षेपतः, व्यासतो विस्तारात्; हे भिषजांवर नोऽस्माकं ब्रूहि| अन्ये तु व्रणस्योपद्रवा वर्णास्राववेदनादयः प्रोक्ताः, व्रणिनामपि समासात् प्रोक्ताः; तथा च- “विसर्पः पक्षघातश्च सिरास्तम्भोऽपतानकः| मोहोन्मादौ व्रणरुजा ज्वरस्तृष्णा हनुग्रहः|| कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः| षोडशोपद्रवाः प्रोक्ता व्रणिनां व्रणचिन्तकैः”- इति; व्यासतश्चातः परं ब्रूहीति व्याख्यानयन्ति||३-४||-
Adhikarana 3 (5-7) · Śloka 7
उपद्रवेण जुष्टस्य व्रणः कृच्छ्रेण सिध्यति ||५||
उपद्रवास्तु व्रणिनः कृच्छ्रसाध्याः प्रकीर्तिताः |
प्रक्षीणबलमांसस्य शेषधातुपरिक्षयात् ||६||
तस्मादुपद्रवान् कृत्स्नान् ब्रूहि नः सचिकित्सितान् |
सर्वकायचिकित्सासु ये दृष्टाः परमर्षिणा ||७||
न परं व्रणितोपद्रवाणामनभिहितत्वात् तान् प्रति प्रश्नः, किं तर्हि सोपद्रवस्य कृच्छ्रेण व्रणप्रशान्तिः व्रणितोपद्रवाणां च कृच्छ्रसाध्यत्वमिति हेतुद्वयेन पुनः शिष्याणां प्रश्नमाह- उपद्रवेण जुष्टस्येत्यादि| उपद्रवेण ज्वरादिना युक्तस्य पुरुषस्य; अन्ये तु ‘उपद्रवेण जुष्टस्तु’ इति व्रणविशेषणं पठन्ति, तन्मते उपद्रवेण व्रणवेदनादिना , जुष्टो व्याप्तः| कृच्छ्रेण कष्टेन| व्रणिन उपद्रवा ज्वरादिकाः, विसर्पादिका इत्यन्ये| कीदृशस्य व्रणिन उपद्रवाः कृच्छ्रसाध्याः इत्याह- प्रक्षीणबलमांसस्येत्यादि| बलम् उत्साहलक्षणं, मांसम् उपचयलक्षणम्| शेषधातवो मेदःप्रभृतयः, तेषां परिक्षयात्; रक्तस्य तु मांसाश्रयत्वान्मांसग्रहणेनैव ग्रहणम्| तस्मादिति यस्मादुपद्रवजुष्टस्यातिकृच्छ्रत्वं तस्मात् कृत्स्नान् समस्तानुपद्रवान् सचिकित्सितान् नोऽस्माकं ब्रूहीति सम्बन्धः| सर्वकायचिकित्सास्विति सर्वस्मिन् काये चिकित्सा तासु| ये दृष्टा उपद्रवा ज्वरादयः| परमर्षिणा धन्वन्तरिणा| अत्र चिकित्साशब्देन प्रतिकार उच्यते; अन्ये त्वत्र चिकित्साशब्देन चिकित्साशास्त्रमभिधाय मूलतन्त्राणामौपधेनवौरभ्रादीनां चिकित्साशास्त्राणामवरोधं मन्यन्ते; अपरे ‘षट्सु कायचिकित्सासु’ इति पठन्ति, तेषां मते षट्शब्देन अग्निवेशभेडजातूकर्णहारीतक्षारपाणिपराशरप्रोक्ताः षट् चिकित्सा लभ्यन्ते; अत्र पक्षे ‘परमर्षिणा’ इत्यत्र ‘परमर्षिभिः’ इति पाठः||५-७||
Adhikarana 4 (8-9) · Śloka 9
तेषां तद्वचनं श्रुत्वा प्राब्रवीद्भिषजांवरः |
ज्वरमादौ प्रवक्ष्यामि स रोगानीकराट् स्मृतः ||८||
रुद्रकोपाग्निसम्भूतः सर्वभूतप्रतापनः |
तैस्तैर्नामभिरन्येषां सत्त्वानां परिकीर्त्यते ||९||
तेषामित्यादि| तेषां शिष्याणाम्| भिषजांवरो धन्वन्तरिः| ज्वरमादावित्यादि| स इति ज्वरः| रोगानीकराडिति रोगसमूहस्य राजा| तैस्तैर्नामभिः पाकलाभितापखोरकभ्रमरकादिभिः| अन्येषां सत्त्वानां गजाश्वादीनाम्||८-९||
Adhikarana 5 (10) · Śloka 10
जन्मादौ निधने चैव प्रायो विशति देहिनम् |
अतः सर्वविकराणामयं राजा प्रकीर्तितः ||१०||
इदानीमुक्तमेव रोगसमूहराट्त्वं सहेतुकं कृत्वा प्रतिपादयति- जन्मेत्यादि| प्रायो विशेषेण||१०||
Adhikarana 6 (11-12) · Śloka 13
ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम् |
कर्मणा लभते यस्माद्देवत्वं मानुषादपि ||११||
पुनश्चैव च्युतः स्वर्गान्मानुष्यमनुवर्तते |
तस्मात्ते देवभावेन सहन्ते मानुषा ज्वरम् ||१२||
शेषाः सर्वे विपद्यन्ते तैर्यग्योना ज्वरार्दिताः |१३|
तिर्यग्योनयस्तेन पीडिता विपद्यन्त एवेति प्रतिपादयितुं ज्वरप्रभावमाह- ऋते इत्यादि| ऋते विना| नान्यो विषहते नान्यः सोढुं शक्नोति| देवाः स्वतपोमाहात्म्यात् सहन्ते; मनुष्याः कथं सोढुं समर्थाः? उच्यते- कर्मणेत्यादि; एनं पाठं केचिन्न पठन्ति, ईदृशे क्रमे निश्चयो नास्ति यत्स्वर्गाच्च्युतो मानुष एव भवति||११-१२||-
Adhikarana 7 (13) · Śloka 14
स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा ||१३||
विकारा युगपद्यस्मिन् ज्वरः स परिकीर्तितः |१४|
इदानीं ज्वरस्य स्वरूपमाह- स्वेदावरोध इत्यादि| स्वेदावरोधः स्वेदानिर्गमः; एतच्च प्रायिकं लक्षणं, पैत्तिके स्वेदनिर्गमात्| सन्ताप इति सन्तापयतीति संशब्दान्मानसोऽपि तापोऽभिप्रेतः; तथा चोक्तं,- ‘सन्तापो देहमानस’ इति| सर्वाङ्गग्रहणं वेदनया| युगपदिति एककाले| ‘स्वेदावरोध ’ इत्यत्र ‘वेगोपरोधः’ इत्यन्ये पठन्ति; वेगोपरोधो वातमूत्रपुरीषादीनामनिर्गमः||१३||-
Adhikarana 8 (14) · Śloka 15
दोषैः पृथक् समस्तैश्च द्वन्द्वैरागन्तुरेव च ||१४||
अनेककारणोत्पन्नः स्मृतस्त्वष्टविधो ज्वरः |१५|
अतः परं हेतुभेदाज्ज्वरस्यानेकत्वमाह- दोषैरित्यादि| पृथक् त्रयः, समस्तैर्दोषैरेकः, द्वन्द्वजास्त्रयः, आगन्तुरेकः, एवमनेककारणोत्पन्नोऽपि ज्वरोऽष्टविधत्वं न त्यजति||१४||-
Adhikarana 9 (15-18) · Śloka 19
दोषाः प्रकुपिताः स्वेषु कालेषु स्वैः प्रकोपणैः ||१५||
व्याप्य देहमशेषेण ज्वरमापादयन्ति हि |
दुष्टाः स्वहेतुभिर्दोषाः प्राप्यामाशयमूष्मणा ||१६||
सहिता रसमागत्य रसस्वेदप्रवाहिणाम् |
स्रोतसां मार्गमावृत्य मन्दीकृत्य हुताशनम् ||१७||
निरस्य बहिरूष्माणं पक्तिस्थानाच्च केवलम् |
शरीरं समभिव्याप्य स्वकालेषु ज्वरागमम् ||१८||
जनयन्त्यथ वृद्धिं वा स्ववर्णं च त्वगादिषु |१९|
ज्वरस्य सम्प्राप्तिमाह- दोषाः प्रकुपिता इत्यादि| दोषाः प्रकुपिताश्चयानुपूर्व्या; स्वेषु कालेषु प्रावृट्शरद्वसन्तेषु अहोरात्रिकेषु च; एतेन प्राकृतो ज्वर उक्तः| स्वैः प्रकोपणैरिति बलवद्विग्रहादिक्रोधादिदिवास्वापादिभिर्व्रणप्रश्नोक्तैः| अनेन च वैकृतः| ब्रह्मदेवस्तु सन्निपातप्रकोपस्य हेतूनत्र पृथगाह; यथा,- “विषमाध्यशनात्यशनं लकुचामफलं शिलोच्चये सलिलम्| पिण्याकमाममूलकसर्षपशाकं यवैः कृता च सुरा|| कृशशुष्कामिषशाकं यावकमशनं च पर्वते वासः| व्यापन्नाम्बुसुरादधिकन्दं पिडकोच्छ्रितिर्देहे|| मृद्विषगरादिभक्षणमनार्तवं दुर्दिनं पुरोवातः| अन्नपरिवर्तभूतावेशौ पीडा ग्रहर्क्षसम्भूता|| अनुचितभेषजगन्धाघ्राणं पापस्य कर्मणोऽभ्यासः| स्नेहस्वेदादीनां मिथ्यायोगः पुराकृतं कर्म|| स्त्रीणां विषमप्रसवो मिथ्यायोगः प्रसूतानाम्| स्नेहस्वेदादीनां रसायनस्यापि च व्यापत्|| एते हेतव उक्ताः प्रकोपणे सन्निपातस्य”- इति| अशेषेण सामस्त्येन| आपादयन्ति जनयन्ति| अन्ये ‘दोषाः प्रकुपिता गाढमपथ्याहारसेवनः’ इति पठन्ति| अत्र गाढशब्देन प्रकृतः, अपथ्याहारसेविन इत्यनेन वैकृतः| अन्ये ज्वरसम्प्राप्तिमनेन पाठेन पठन्ति, तद्यथा- दुष्टाः स्वहेतुभिरित्यादि| दुष्टाः प्रकुपिताश्चयादिरूपेण, स्वेषु कालेषु प्राकृतं ज्वरं, स्वहेतुभिरद्यसम्प्राप्तिश्लोकव्याख्यातैर्बलवद्विग्रहादिभिर्वैकृतम्| ऊष्मणा वह्नयूष्मणा सहिता धातूष्मणा दोषोष्मणा वा सहिता दोषा रसं हृदयस्थमागत्य, हुताशनं जठराग्निं मन्दीकृत्य, ऊष्माणमग्नेरेव, पक्तिस्थानात् अग्निस्थानात्, बहिः निरस्य निक्षिप्य, केवलं सर्वं, स्वकालेषु आर्तवेषु अहोरात्रिकेषु च ज्वरागमं जनयन्ति, अथवा वृद्धिमागतस्य; स्ववर्णं नखत्वङ्नयनादिषु जनयन्ति||१५-१८||-
Adhikarana 10 (19-22) · Śloka 22
मिथ्यातियुक्तैरपि च स्नेहाद्यैः कर्मभिर्नृणाम् ||१९||
विविधादभिघाताच्च रोगोत्थानात् प्रपाकतः |
श्रमात् क्षयादजीर्णाच्च विषात्सात्म्यर्तुपर्ययात् ||२०||
ओषधीपुष्पगन्धाच्च शोकान्नक्षत्रपीडया |
अभिचाराभिशापाभ्यां मनोभूताभिशङ्कया ||२१||
स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः |
स्तन्यावतरणे चैव ज्वरो दोषैः प्रवर्तते ||२२||
न केवलमेवं स्वप्रकोपणैर्व्रणप्रश्नोक्तैः प्रकुपिता दोषा ज्वरमापादयन्ति, अपि तु तेऽन्यैरपि कारणैरित्यत आह- मिथ्यातियुक्तैरित्यादि| मिथ्यातियुक्तैः अयथाविधियुक्तैरतियुक्तैश्च| स्नेहाद्यैः स्नेहस्वेदवमनविरेचनादिकैः| नृणां ज्वरो दोषैः प्रवर्तते इति सम्बन्धः; ‘प्रवर्तत’ इत्यत्र ‘प्रकुप्यति’ इति केचित्| विविधादभिघातात् शस्त्रलोष्ट्रकाष्ठादिप्रहारात्| रोगोत्थानात् रोगा विद्रध्यादयस्तेषामुत्थानात्| श्रमात् अतिव्यायामात्| प्रपाकस्तेषामेव| आमात् अजीर्णात्| क्षयात् राजयक्ष्मणः| सात्म्यर्तुपर्ययात् सात्म्यविपर्ययादृतुविपर्ययाच्च| ओषधीशब्दस्यादौ विषशब्दो लुप्तो द्रष्टव्यः, तेन विषौषधीपुष्पगन्धात्| नक्षत्रं जन्मनक्षत्रं, तस्य पीडा तथा क्रूरग्रहाणां बाधा तया| अभिचारो यन्त्रमन्त्राद्यभिपीडनम्, अभिशापो द्विजगुरुसिद्धानामभिशपनं, ताभ्याम्| मनोभूताभ्यामभिशङ्काशब्दः सम्बध्यते, अभिशङ्का शब्देन अभिषङ्गत्वं कथ्यते; तेन मनोऽभिषङ्गेण कामाद्यभिषङ्गेणेत्यर्थः, भूतशब्देन देवादिग्रहा उच्यन्ते, तेन देवादिग्रहाभिषङ्गेणेत्यर्थः| अपप्रजातानाम् असम्यक्प्रसूतानां, प्रजातानां सम्यक्प्रसूतानाम्, अहितैः कृत्वा| स्तन्यस्य क्षीरस्य, अवतरणे प्रथममुन्मुखीभवने||१९-२२||
Adhikarana 11 (23-24) · Śloka 24
तैर्वेगवद्भिर्बहुधा समुद्भ्रान्तैर्विमार्गगैः |
विक्षिप्यमाणोऽन्तरग्निर्भवत्याशु बहिश्चरः ||२३||
रुणद्धि चाप्यपान्धातुं यस्मात्तस्माज्ज्वरातुरः |
भवत्यत्युष्णगात्रश्च ज्वरितस्तेन चोच्यते ||२४||
एवं ज्वरहेतूनुदाहृत्य यथोष्णगात्रत्वां स्यात्तथा दर्शयति- तैर्वेगवद्भिर्बहुधेत्यादि| तैः दोषैः| वेगवद्भिः प्रसरणशीलैः| समुद्भ्रान्तैः इतश्चेतश्च विक्षिप्तैः| विमार्गगैः तिर्यग्गतैः| विक्षिप्यमाणः प्रेर्यमाणः| अन्तरग्निर्बहिश्चरो भवति ‘रोमकूपैः’ इति शेषः| अपान्धातुं स्वेदं, रुणद्धि| स एव बहिर्निःसृतोऽन्तरग्निर्यस्मादपान्धातुं रुणद्धि तस्मादत्युष्णसर्वाङ्गो भवति, यतोऽत्युष्ण सर्वाङ्गः स्यात्तेन कारणेन ज्वरित इत्युच्यते| अन्ये तु ‘ज्वरितस्तेन चोच्यते’ इत्यत्र ‘न च स्विद्यति सर्वशः’ इति पठन्ति (व्याख्यानयन्ति च सर्वत्र न स्विद्यति, च क्वचित् स्विद्यतीत्यर्थः)||२३-२४||
Adhikarana 12 (25-28) · Śloka 28
श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः |
इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ||२५||
जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः |
अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे ||२६||
सामान्यतो, विशेषात्तु जृम्भाऽत्यर्थं समीरणात् |
पित्तान्नयनयोर्दाहः, कफान्नान्नाभिनन्दनम् ||२७||
सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे |
द्वयोर्द्वयोस्तु रूपेण संसृष्टं द्वन्द्वजं विदुः ||२८||
इदानीं पूर्वरूपमाह- श्रम इत्यादि| अरतिः शयनासनादौ सर्वत्रापि सुखाभावः| नयनप्लवो नयनयोरश्रुपूर्णता| आतपादिष्वित्यादिशब्दग्रहणाच्छय्यासनग्रहणम्| तमः अन्धकारदर्शनम्| अप्रहर्ष आनन्दाभावः| उत्पत्स्यति भाविनि ज्वरे| सामान्यतः सर्वस्मिन्नेव ज्वरे| प्रत्येकदोषजज्वरे पूर्वरूपमाह- विशेषात्तु जृम्भाऽत्यर्थमित्यादि| न अन्नाभिनन्दनम् अन्नानभिलाषः||२५-२८||
Adhikarana 13 (29-30) · Śloka 30
वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम् |
निद्रानाशः क्षुतः स्तम्भो गात्राणां रौक्ष्यमेव च ||२९||
शिरोहृद्गात्ररुग्वक्त्रवैरस्यं बद्धविट्कता |
जृम्भाऽऽध्मानं तथा शूलं भवत्यनिलजे ज्वरे ||३०||
वातादिजत्वेन ज्वरस्य लक्षणान्याह- वेपथुरित्यादि| वेपथुः कम्पः| विषमो वेग इति कदाचिदतिशयितः कदाचिन्मन्दश्च वेगः| क्षुतः स्तम्भः क्षुत् छिक्का तस्याः स्तम्भोऽनिर्गमनं; ‘क्षुत’ इत्यत्र अन्ये ‘क्षव’ इति पठन्ति; तन्मते क्षवः छिक्का, स्तम्भो गात्रस्य| ननु, वातज्वरमोक्षेऽपि छिक्का स्यात्, तत् कथं ज्वरागममोक्षयोर्ज्ञानम्? उच्यते- अपरवेपथ्वादिवातज्वरलक्षणानामभावाज्ज्वरमोक्षो बोद्धव्यः| रौक्ष्यमेव चेति गात्राणां (रूक्षग्रहणेनैव कृष्णारुणवर्णयुक्तमिति ज्ञेयं); चकारात् कृष्णविण्मूत्रत्वं समुच्चीयते; अन्ये तु ‘गात्राणां रौक्ष्यमेव च’ इत्यत्र ‘श्यावाङ्गमलनेत्रता’ इति पठन्ति| शिरसः पृथगुपादानमत्यर्थं शिरोरुग्भवतीति ज्ञापनार्थम्; अन्यथा गात्ररुगित्यनेनैव तत्प्राप्तेः| ‘जृम्भाध्माने भ्रमः शूलं’ इत्यन्ये पठन्ति||२९-३०||
Adhikarana 14 (31-32) · Śloka 32
वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः |
कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ||३१||
प्रलापः कटुता वक्त्रे मूर्च्छा दाहो मदस्तृषा |
पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ||३२||
वेग इत्यादि| ‘प्रलापः कटुता वक्त्रे’ इत्यत्र ‘प्रलापस्तिक्तवक्त्रत्वं’ इति केचित् पठन्ति| मदः पूगफलेनेव मत्तता||३१-३२||
Adhikarana 15 (33-34) · Śloka 34
गौरवं शीतमुत्क्लेशो रोमहर्षोऽतिनिद्रता |
स्रोतोरोधो रुगल्पत्वं प्रसेको मधुरास्यता ||३३||
नात्युष्णगात्रता छर्दिरङ्गसादोऽविपाकता |
प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता ||३४||
गौरवमित्यादि| गौरवं गात्राणां, उत्क्लेशः श्लेष्मनिष्ठीवनं, प्रसेको लालास्रावः, अङ्गसादः अङ्गग्लानिः| अन्ये त्वेवं पठन्ति- ‘स्तैमित्यं स्तिमितो वेग आलस्यं मधुरास्यता| शुक्लमूत्रपुरीषत्वं स्तम्भस्तृप्तिरथापि च|| गौरवं शीतमुत्क्लेशो रोमहर्षोऽतिनिद्रता| प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता’ इति| स्तैमित्यं निश्चलत्वं ज्वरितस्य, वेगोऽपि स्तिमितः सततस्थितो निश्चलः, अन्ये तु स्तिमितो वेगो मन्द उद्गमः||३३-३४||
Adhikarana 16 (35-37) · Śloka 38
निद्रानाशो भ्रमः श्वासस्तन्द्रा सुप्ताङ्गताऽरुचिः |
तृष्णा मोहो मदः स्तम्भो दाहः शीतं हृदि व्यथा ||३५||
पक्तिश्चिरेण दोषाणामुन्मादः श्यावदन्तता |
रसना परुषा कृष्णा सन्धिमूर्धास्थिजा रुजः ||३६||
निर्भुग्ने कलुषे नेत्रे कर्णौ शब्दरुगन्वितौ |
प्रलापः स्रोतसां पाकः कूजनं चेतनाच्युतिः ||३७||
स्वेदमूत्रपुरीषाणामल्पशः सुचिरात् स्रुतिः |३८|
एकैकदोषजं ज्वरमभिधाय सान्निपातिकमाह- निद्रानाश इत्यादि| भ्रमश्चक्रारूढस्येव भ्रमणम्| तन्द्रालक्षणमुच्यते “इन्द्रियार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः| निद्रार्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत्”- इति| सुप्ताङ्गता गात्राणां स्पर्शाज्ञता, मोहोऽत्र मूर्च्छा, मदः पूगफलेनेव मत्तता, स्तम्भः स्तब्धता| उन्मादो मानसो विकारः| रसना जिह्वा, परुषा कर्कशा| सन्धिमूर्धास्थिजा रुज इति सन्धिरुजा मूर्धरुजा अस्थिरुजा च; अन्ये सन्ध्यादिस्थाने ‘लोठनं शिरसो रुजा’ इति पठन्ति, लोठनं शिरसो विधूननम्| निर्भुग्ने कुटिले, कलुषे मलिने | शब्दरुगन्वितौ शब्दान्वितौ रुगन्वितौ च कर्णौ भवतः| प्रलापः असम्बद्धभाषणम्| स्रोतसां मुखनासादिरन्ध्राणाम्| कूजनम् अव्यक्तशब्दोत्थानं कण्ठे| चेतनाच्युतिः चित्तनाशः| अल्पशः सुचिरात् स्रुतिरिति अल्पमल्पं कृत्वा चिरकालेन निःसरतीत्यर्थः||३५-३७||-
Adhikarana 17 (38) · Śloka 38
सर्वजे सर्वलिङ्गानि... |३८|
निद्रानाश इत्यादिपाठेन विकृतिविषमसमवेतस्य सन्निपातस्य लक्षणमभिधाय प्रकृतिसमसमवेतस्य लक्षणमाह- सर्वजे इत्यादि| सर्वदोषजे सर्वलिङ्गानि प्रत्येकवातादिज्वरोक्तलक्षणानि|३८|-
Adhikarana 18 (38-40) · Śloka 41
...विशेषं चात्र मे शृणु ||३८||
नात्युष्णशीतोऽल्पसञ्ज्ञो भ्रान्तप्रेक्षी हतस्वरः |
खरजिह्वः शुष्ककण्ठः स्वेदविण्मूत्रवर्जितः ||३९||
सास्रो निर्भुग्नहृदयो भक्तद्वेषी हतप्रभः |
श्वसन्निपतितः शेते प्रलापोपद्रवायुतः ||४०||
तमभिन्यासमित्याहुर्हतौजसमथापरे |४१|
इदानीमभिन्यासादिसञ्ज्ञाभिः सन्निपातभेदमाह- विशेषमित्यादि| विशेषं भेदम्| अत्र सन्निपातज्वरे| नात्युष्णशीतः साधारणाङ्गस्पर्शः| भ्रान्तप्रेक्षी सर्वपदार्थायथार्थदर्शी| सास्रः अश्रुपूर्णनेत्रः| निर्भुग्नहृदयः कुटिलहृदयः| श्वसन् श्वासं कुर्वन्| निपतित इव शेते, एतेन विकलाङ्ग उक्तः| प्रलाप एवोपद्रवस्तेन आयुतोऽत्यर्थयुक्तः| तं सन्निपातभेदम्||३८-४०||-
Adhikarana 19 (41) · Śloka 41
सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः ||४१||
मतभेदेन सन्निपातज्वरस्य कृच्छ्रसाध्यत्वमसाध्यत्वं चोच्यते- सन्निपातज्वरमित्यादि| असमस्तलक्षणत्वे कृच्छ्रसाध्यत्वं, समस्तलक्षणत्वे विबद्धदोषत्वेऽग्नौ च नष्टे सत्यसाध्यत्वम्||४१||
Adhikarana 20 (42) · Śloka 42
निद्रोपेतमभिन्यासं क्षीणमेनं हतौजसम् |
सन्न्यस्तगात्रं सन्न्यासं विद्यात्सर्वात्मके ज्वरे ||४२||
अभिन्यासस्य भेदमाह- निद्रेत्यादि| तमेव निद्रोपेतमभिन्यासं विद्यात्, एनं क्षीणं सन्तं हतौजसं विद्यात्, तमेव च सन्न्यस्तगात्रं सन्न्यासमिति| केचिदमुमभिन्यासप्रतिपादकं वाक्यं न पठन्ति| निद्रोपेतमभिन्यासमित्यादिपाठस्याग्रे ‘प्रलिम्पन्निव गात्राणि पर्वणां गौरवेण च’ इत्यादिना ‘मन्दज्वरप्रलापस्तु सशीतः स्यात्प्रलेपकः’ इत्यन्तेनापरतन्त्रोक्तपाठेन प्रलेपकलक्षणं केचित् पठन्ति, तच्च न पठनीयं; ‘तथा प्रलेपको ज्ञेय’ इत्यादिपाठेन स्वतन्त्रे तस्य पठितत्वात्| ‘नित्यं मन्दज्वर’ इत्यादिना क्षारपाणिप्रोक्तं वातबलासकलक्षणमपरे पठन्ति, तदपि न पठनीयं, ‘प्रलेपकं वातबलासकं च’ इत्यनेन तस्योक्तेः| नित्यं मन्दज्वर इत्यादिपाठस्याग्रेऽन्ये तृणपुष्पकलक्षणमधीयन्ते- “पुष्पेभ्यो गन्धरजसी तेजस्विभ्यो यदाऽनिलः| उपादाय मनुष्यस्य प्राणापानौ नियच्छति|| सौक्ष्म्यादनुसृतो धातून् मर्माण्यपि च तेजसा| कर्म चितं बलं ज्ञानं तदाऽस्याभ्येति मारुतः|| कर्मादिषु निरुद्धेषु स्वपितीति सुहृज्जनः| मन्यते हतचित्तत्वादोजस्युपरते सति|| तस्यादितः शिरोरोगः ससञ्ज्ञस्येव जायते| विगन्धं च सुगन्धं च दृष्ट्वाऽकस्मात् स मूर्च्छति|| तृणपुष्पकमित्येवं ज्वरं विद्याद्विचक्षणः”- इति; तच्चौषधीगन्धजे ज्वरे तथौपत्यके चान्तर्भूतत्वान्नाध्येयमिति||४२||
Adhikarana 21 (43-44) · Śloka 45
ओजो विस्रंसते यस्य पित्तानिलसमुच्छ्रयात् |
स गात्रस्तम्भशीताभ्यां शयनेप्सुरचेतनः ||४३||
अपि जाग्रत् स्वपन् जन्तुस्तन्द्रालुश्च प्रलापवान् |
संहृष्टरोमा स्रस्ताङ्गो मन्दसन्तापवेदनः ||४४||
ओजोनिरोधजं तस्य जानीयात् कुशलो भिषक् |४५|
केचिदत्र हतौजसलक्षणं पठन्ति; यथा- ओजो विस्रंसते यस्येत्यादि| स ज्वरी गात्रस्तम्भशीताभ्यां कृत्वा शयनेप्सुः स्वपितुमिच्छुः जाग्रदवस्थायां स्वप्नावस्थायां च चेतनारहितो भवति, तस्य सन्निपातिन एतद्गात्रस्तम्भादिकमोजोनिरोधजं लक्षणं जानीयात्| यद्यपि तन्त्रान्तरे सन्निपातभेदास्त्रयोदश प्रोक्ताः, तथाऽपि दोषोत्कर्षापकर्षतारतम्येन धात्वावरणभेदेन च सन्निपातभेदानामानन्त्यान्नेह प्रदर्शिताः||४३-४४||-
Adhikarana 22 (45) · Śloka 46
सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा ||४५||
पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा |४६|
सन्निपातज्वरस्य मोक्षवधयोरवधिमाह- सप्तमे दिवसे प्राप्ते इत्यादि| शीघ्रमध्यमन्दशक्तित्वाद्वातादीनां सप्तमे दिने वाताधिकः सन्निपातज्वरः, दशमे दिने पित्ताधिकः, द्वादशे दिने श्लेष्मधिको विमुञ्चति मलपाकात्, हन्ति च धातुपाकात्; यदि हि तस्य दीर्घजीवनं(ने) कर्मास्ति तदा मलपाको भवति, अन्यथा धातुपाकः| अन्ये तु सप्ताहेऽभिन्यासो, दशाहे हतौजाः, द्वादशाहे सन्न्यासः, मलपाकात् प्रशमं याति धातुपाकाद्धन्तीति मन्यन्ते| धातुपाकास्य लक्षणमाह- “सम्बाध्यमानो हृदि नाभिदेशे गात्रेषु वा पाकरुजोज्झितेषु| पक्वेष्विवाचैति रुजं ज्वरार्तः स धातुपाकी कथितो भिषग्भिः”- इति| शकुनैररिष्टैर्वा मरणकारी धातुपाकी(को) ज्ञेय इति वृद्धाः| ‘द्वादशेऽपि वा’ इत्यत्रापिशब्दाद्भालुकिप्रोक्तः सन्निपातज्वरस्य मोक्षवधयोरवधिः प्राप्यते| तेन “सप्तमी द्विगुणा या तु नवम्येकादशी तथा| एषा त्रिदोषमर्यादा मोक्षाय च वधाय च” इति लब्धम्| पुनर्घोरतर इति पुनःशब्दात् पूर्वं घोर आसीत् ततः पुनर्घोरतर इति लभ्यते||४५||-
Adhikarana 23 (46) · Śloka 46
द्विदोषोच्छ्रायलिङ्गास्तु द्वन्द्वजास्त्रिविधाः स्मृताः ||४६||
इदानीं प्रकृतिसमवेतास्त्रिविधा द्वन्द्वजज्वरा उच्यन्ते- द्विदोषोच्छ्रायलिङ्गा इत्यादि| द्विदोषोच्छ्रायेत्युच्छ्रायग्रहणं द्वयोर्दोषयोः स्वकारणोच्छ्रितत्वज्ञापनार्थं त्रिविधत्वमत्र समवृद्धद्विदोषजापेक्षयेति||४६||
Adhikarana 24 (47) · Śloka 48
तृष्णा मूर्च्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा |
कण्ठास्यदशोषो वमथू रोमहर्षोऽरुचिस्तथा ||४७||
पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः |४८|
इदानीं विकृतिविषमसमवेतान् द्वन्द्वजज्वरानाह- तृष्णेत्यादि| कण्ठास्यशोषः कण्ठशोषो मुखशोषश्च| वमथुः छर्दिः| यतोऽयं विकृतिविषमसमवेतः अतो वातपैत्तिके ज्वरे रोमहर्षारुच्योरभिधानं, कफपैत्तिके तन्द्राभिधानम्||४७||-
Adhikarana 25 (48-49) · Śloka 49
स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च ||४८||
शिरोग्रहः प्रतिश्यायः कासः स्वेदप्रवर्तनम् |
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ||४९||
स्तैमित्यं निश्चलत्वं ज्वरितस्य, पर्वणां भेदो ग्रन्थिस्फुटनं, शिरोग्रहः शिरो गृहीतमिव मन्यते, प्रतिश्यायो नासास्रावः||४८-४९||
Adhikarana 26 (50) · Śloka 3
लिप्तातिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा |
मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः ||५०||
(जृम्भाध्मानमदोत्कम्पपर्वभेदपरिक्षयाः|
तृट्प्रलापाभितापाः स्युर्ज्वरे मारुतपैत्तिके ||१||
शूलकासकफोत्क्लेशशीतवेपथुपीनसाः|
गौरवारुचिविष्टम्भा वातश्लेष्मसमुद्भवे||२||
शीतदाहारुचिस्तम्भस्वेदमोहमदभ्रमाः|
कासाङ्गसादहृल्लासा भवन्ति कफपैत्तिके||३||) |
लिप्तेत्यादि| लिप्तास्यता तिक्तास्यता च| जेज्जटाचार्यस्तु द्वन्द्वजज्वरपाठमेकमेव पठति- जृम्भेत्यादिना| अयं वा पठनीयः पूर्वो वा, न तु द्वयम्||५०||
Adhikarana 27 (51-52) · Śloka 52
कृशानां ज्वरमुक्तानां मिथ्याहारविहारिणाम् |
दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः ||५१||
सततान्येद्युष्कत्र्याख्यचातुर्थान् सप्रलेपकान् |
कफस्थानविभागेन यथासङ्ख्यं करोति हि ||५२||
सन्ततज्वरमभिधायेदानीं विषमज्वरान् सततादीनाह- कृशानामित्यादि| कृशानां मिथ्याहारविहारिणां ज्वरमुक्तानां च मिथ्याहारविहारिणां दोषः स्वल्पोऽपि ‘अपथ्यैः कृत’ इति शेषः, पुनर्मिथ्याहारविहाराभ्यामभिसंवृद्धो वातप्रेरितः सन् सततादीन् यथासङ्ख्यं कफस्थानविभागेन करोतीति सम्बन्धः| कफस्थानानि आमाशयोरःकण्ठशिरःसन्धयो यथासङ्ख्यं कथ्यन्ते| तत्र आमाशयस्थः सततं करोति, स च प्रतिदिनं कालद्वयानुवर्तनात् किञ्चिन्न्यूनः , उरःस्थो अन्येद्युष्कं, कण्ठस्थः तृतीयकं, शिरस्थः चतुर्थकं, सन्धिस्थः प्रलेपकं, सर्वेषु कफस्थानेषु व्यवस्थितो दोषः सन्ततं करोतीति ज्ञातव्यम्| दोषशब्दोऽत्र पृथग्द्वन्द्वसमस्तरूपो वातादिर्ग्राह्यः| अनिलेरितत्वं च वातस्यापि स्थितस्य बाह्यहेतुप्रचुरीभूतेनापरेण वातेन सम्भवति||५१-५२||
Adhikarana 28 (53) · Śloka 53
अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते |
ततश्चामाशयं प्राप्य दोषः कुर्याज्ज्वरं नृणाम् ||५३||
यथा उरआदिस्थितो दोषोऽन्येद्युष्कादीन् करोति तथाऽऽह- अहोरात्रादित्यादि| अहोरात्रादुरःस्थो दोष आमाशयं प्राप्य अन्येद्युष्कं करोति अन्यस्मिन् दिवसे, कण्ठस्थितो द्वाभ्यामहोरात्राभ्यां तृतीयकं तृतीयदिवसे, शिरःस्थितः स्थानत्रयमतिक्रम्य चतुर्थकं चतुर्थदिवसे, सन्धिषु स्थितो नित्यमेव प्रलेपकं करोति, स च राजयक्ष्मिणामेव||५३||
Adhikarana 29 (54) · Śloka 54
तथा प्रलेपको ज्ञेयः शोषिणां प्राणनाशनः |
दुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोषकृत् ||५४||
प्रलेपकलक्षणमाह- तथा प्रलेपको ज्ञेय इत्यादि| दुश्चिकित्स्यतम इति हेतुभावेन सन्निपातात्मकत्वात्| मन्दो मन्दवेगः| सुकष्ट इति हेतुफलभावेन मारणात्मकत्वात्||५४||
Adhikarana 30 (55) · Śloka 55
कफस्थानेषु वा दोषस्तिष्ठन् द्वित्रिचतुर्षु वा |
विपर्ययाख्यान् कुरुते विषमान् कृच्छ्रसाधनान् ||५५||
विषमज्वरानभिधाय तद्विपर्ययज्वरानाह- कफस्थानेष्वित्यादि| कफस्थानयोर्द्वयोरुरआमाशययोस्तिष्ठन् दोषोऽन्येद्युष्कविपर्ययं करोति; कस्तद्विपर्ययः? अहोरात्रे पूर्वाह्णादीनामेककालं मुक्त्वा समस्ताहोरात्रं भवतीति | एवं त्रिषु कफस्थानेषु कण्ठोरआमाशयेषु तिष्ठन् दोषस्तृतीयकविपर्ययं करोति, यस्तृतीयदिने विमुञ्चति| चतुर्षु कफस्थानेषु शिरःकण्ठोरआमाशयेषु तिष्ठन् दोषश्चतुर्थकविपर्ययं करोति, स चतुर्थेऽह्नि मुञ्चतीति| सततस्य तु विपर्ययो न भवति, एकस्मिन्नेव कफस्थाने स्थितेन दोषेण तत्करणाद् व्याधिस्वभावाद्वा| कफस्थानेषु वा दोष इत्यत्र दोषशब्दः पृथग्द्वन्द्वसमस्तदोषप्रतिपादकः|| ५५||
Adhikarana 31 (56) · Śloka 56
परो हेतुः स्वभावो वा विषमे कैश्चिदीरितः |
आगन्तुश्चानुबन्धो हि प्रायशो विषमज्वरे ||५६||
विषमज्वराणां नियतैककालागमने एकीयमतेन हेतुमाह- पर इत्यादि| परो भूतादिः, हेतुः कारणं, स्वभावो वेति विषमज्वरे हेतुरित्यर्थः| अन्ये तु विषमज्वरे स्वभावो वा पर उत्कृष्टो हेतुः कैश्चिदाचार्यैरीरित इति व्याख्यानयन्ति| विषमज्वरे भूतादिर्हेतुरुक्तस्तस्य समर्थनमाह- आगन्तुरित्यादि| प्रायशो बाहुल्येन, आगन्तुः भूतादिः, अनुबन्धः कारणं, हीति यस्मादर्थे||५६||
Adhikarana 32 (57-58) · Śloka 58
वाताधिकत्वात् प्रवदन्ति तज्ज्ञास्तृतीयकं चापि चतुर्थकं च |
औपत्यके मद्यसमुद्भवे च हेतुं ज्वरे पित्तकृतं वदन्ति ||५७||
प्रलेपकं वातबलासकं च कफाधिकत्वेन वदन्ति तज्ज्ञाः |
मूर्च्छानुबन्धा विषमज्वरा ये प्रायेण ते द्वन्द्वसमुत्थितास्तु ||५८||
इदानीमुक्तानामन्येषां चारम्भकदोषकथनायाह- वातेत्यादि| यद्यपि तन्त्रान्तरे ‘कफपित्तात्त्रिकग्राही’ इत्यादिना तृतीयचतुर्थकयोर्द्वन्द्वदोषसमुद्भवत्वं प्रतिपादितं, तथाऽपि स्वतन्त्रे पित्तश्लेष्मलिङ्गत्वेऽपि तयोर्वाताधिकत्वं ज्ञेयम्| औपत्यके पर्वतासन्नभूमिसमुद्भवे ज्वरे| पित्तकृतमिति तत्र औपत्यकमद्यसमुद्भवयोः पित्तं कारणं हेतुं वदन्ति; तत्र औपत्यके ज्वरे पर्वतासन्नभूमिस्थितानां तीक्ष्णोष्णवीर्याणमुग्रगन्धानामौषधीनां पित्तकारित्वं, मद्यसमुद्भवे तु मद्यमेव पित्तकारी हेतुः| अन्ये तु ‘औपत्यपानात्ययसम्प्रभूते हेतुं ज्वरे पित्तमुदाहरन्ति’ इति पठन्ति| प्रलेपके यद्यपि वायुरेव प्रेरयिता, तथाऽपि सन्धीनां श्लेष्मस्थानत्वाच्छ्लेष्मोत्कटोऽयं, अन्यशस्त्रोपपन्नाश्चर्थास्तद्विद्येभ्य एव ज्ञातव्या इति प्रमाणात्तन्त्रान्तराद्वा वातबलासको ज्ञेयः| तथा च- “नित्यं मन्दज्वरो रूक्षः शूनः कृच्छ्रेण सिध्यति| स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातबलासकी ”- इति| मूर्च्छानुबन्धा इत्यादि| मूर्च्छानुबन्धाः सततमूर्च्छा ये विषमज्वरास्ते प्रायेण द्वन्द्वसमुच्छ्रिताः; एवंविधास्ते विषमा दुश्चिकित्स्याश्च भवन्ति| ‘मुञ्चानुबन्धा’ इत्येके पठन्ति; तत्र मुञ्चन्ति अनुबध्नन्ति ये ते मुञ्चानुबन्धाः सततकादयः सविपर्ययाः| केचित् ‘मुक्त्वाऽनुबन्धान्’ इति पठन्ति; तत्र, अनुबन्धान् अनुबन्धज्वरानेव विषमान् मुक्त्वा येऽन्ये विषमज्वरास्ते द्वन्द्वसमुत्थिता इति| अन्ये तु व्याख्यानयन्ति- अनुबन्धानुपद्रवज्वरान्मुक्त्वा येऽन्ये मौलाः सततकादयो विषमज्वरत्वेनाभिमतास्ते प्रायेण द्वन्द्वसमुत्थिताः; प्रायोग्रहणात् पृथक्समस्तैश्च जन्यन्ते इति||५७-५८||
Adhikarana 33 (59-61) · Śloka 61
त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे |
तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ||५९||
करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च |
प्रशान्ते कुरुतस्तस्मिंश्छीतमन्ते च तावपि ||६०||
द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ |
दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यश्च स स्मृतः ||६१||
अतः परं सततादीनां शीतदाहपूर्वत्वेन द्वैविध्यमाह- त्वक्स्थावित्यादि| तयोः श्लेष्मानिलयोः, प्रशान्तयोः स्वकालापगमात् प्रत्यनीकप्राप्त्या वा| अन्ते दाहं करोति चेत्यत्र चकारात् मोहमूर्च्छादयः| तस्मिन् पित्ते| तावपि श्लेष्मानिलौ; अपिशब्दात् वमथुतन्द्रादयः| यद्यप्येतौ ज्वरौ दोषत्रयजौ तथाऽप्यत्र दोषद्वयोक्त्या संसर्गजावित्युक्तं, एककार्यकरत्वात्कफवातयोरेकेन व्यपदेशाद्वेत्यन्ये| द्वयोः दाहपूर्वशीतपूर्वकयोः| कष्टः कृच्छ्रसाध्य इति विशेषणद्वयोपादानादत्यर्थं दुःसाध्यत्वं दर्शितं; दाहपूर्वोऽत्यन्तकष्टसाध्यः, शीतपूर्वः सुखसाध्य इति कुतः? रोगशक्तेरचिन्त्यत्वात्||५९-६१||
Adhikarana 34 (62) · Śloka 62
प्रसक्तश्चाभिघातोत्थश्चेतनाप्रभवस्तु यः |६२|
अभिघातकामादिजयोरप्यत्यन्तकष्टत्वं दर्शयन्नाह- प्रसक्त इत्यादि| प्रसक्तः प्रकर्षेण सङ्गी, एतच्चाभिघातोत्थचेतनाप्रभवज्वरयोर्विशेषणम्| अभिघातोत्थः काष्ठलोष्टाद्यभिघातजः| चेतनाप्रभवः कामादिजः|६२|-
Adhikarana 35 (62) · Śloka 63
रात्र्यह्नोः षट्सु कालेषु कीर्तितेषु यथा पुरा ||६२||
प्रसह्य विषमोऽभ्येति मानवं बहुधा ज्वरः |६३|
इदानीं सततादीनां स्वकालेषूद्गमं दर्शयति- रात्र्यह्नोरित्यादि| षट्सु कालेषु पूर्वाह्णमध्याह्नापराह्णप्रदोषार्धरात्रप्रत्यूषेषु, कीर्तितेषु कथितेषु, यथा पुरा येन प्रकारेण पूर्वं व्रणप्रश्नाध्याये| तत्र पूर्वाह्णप्रदोषयोः कफस्य, मध्याह्नार्धरात्रयोः पित्तस्य, अपराह्णप्रत्यूषयोर्वातस्य प्रकोप इति; एवं पूर्वोक्तकथितेषु स्वस्वदोषप्रकोपकालेषु प्रसह्य हठाद्विषमो ज्वरोऽभ्येति अभि समन्ततो व्याप्य मानवमागच्छति| बहुधेति अहोरात्रे कालद्वयं, एककालं, एकदिनानन्तरं, द्विदिनानन्तरं; अन्ये तु व्याख्यानयन्ति- बहुधा कदाचिच्छीतः, कदाचिदुष्णः, कदाचिद्धस्तपादयोः, कदाचिदंसाद्यवयवेषु, नियतकालं, चिरकालमल्पकालं चेति| एतेन विषमज्वराणामानन्त्यमुक्तम्||६२||-
Adhikarana 36 (63-64) · Śloka 64
स चापि विषमो देहं न कदाचिद्विमुञ्चति ||६३||
ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते |
वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते ||६४||
विषमज्वराणामुपशान्तवेगानामपि देहावस्थानं दर्शयति- स चापीत्यादि| विषमो विषमज्वरः| समाहारत्वेन कार्श्यादिति सिद्धे यत् कार्श्येभ्य इति बहुवचनं तेन लक्षणान्तरमपि गृह्यते| तथा च- “शिरसो गौरवं ग्लानिर्नातिश्रद्धा च भोजने| माधुर्यमथ वैरस्यं तिक्तत्वमथवा पुनः| वक्त्रस्य जायते यस्मात् प्रवेगेऽपि गते सति| तस्मात्तु नियतो लीनः शरीरे विषमज्वरः”- इति||६३-६४||
Adhikarana 37 (65) · Śloka 65
धात्वन्तरस्थो लीनत्वान्न सौक्ष्म्यादुपलभ्यते |
अल्पदोषेन्धनः क्षीणः क्षीणेन्धन इवानलः ||६५||
यदि वेगापगमेऽपि न विमुच्यते तर्हि किमिति नोपलभ्यत इत्याह- धात्वन्तरस्थो लीनत्वादित्यादि| एकस्माद्धातोरन्यो धातुः धात्वन्तरं तत्रस्थः, अन्ये तु धात्वन्तरशब्देन सप्त कलाः कथयन्ति| लीनत्वादेकदेशस्थितत्वात्| सूक्ष्मत्वात् अणुत्वात्| अल्पदोषेत्यादि अल्पदोष इव इन्धनत्वेन क्षीणोऽल्पीभूतो ज्वरः; ‘अल्पदोषा एव इन्धनं यस्य स अल्पदोषेन्धनः’ इत्यन्ये||६५||
Adhikarana 38 (66) · Śloka 66
दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः |
धातुमन्यतमं प्राप्य करोति विषमज्वरम् ||६६||
इदानीं भोजभालुकिपुष्कलावतप्रभृतीनां शल्यतन्त्रविदां मतेन विषमज्वरोत्पत्तिमभिधाय कायचिकित्साविदामग्निवेशादीनां मतेन धातुस्थानैर्दोषैर्विषमज्वराणामुत्पत्तिं दर्शयति- दोष इत्यादि| अहितसम्भूतः अपथ्याद्वृद्धिं गतः| ज्वरोत्सृष्टस्य ज्वरमुक्तस्य, वाशब्देन कृशस्येति समुच्चीयते| कृशानामित्यादिना कफस्थानविभागेन प्राक् सततादयो दर्शिताः, अत्र तु धात्वन्तरगतभेदेनेति न पुनरुक्तता||६६||
Adhikarana 39 (67) · Śloka 68
सततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः |
मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः ||६७||
कुर्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम् |६८|
इदानीं रसादीनां धातूनां मध्ये यं यं धातुमाश्रित्य यं यं दोषो यं यं विषमज्वरमारभते तं तं दर्शयन्नाह- सततं रसरक्तस्थ इत्यादि| रसरक्तस्थो दोषः सततं ज्वरं करोति, येऽपि ‘दोषो रक्ताश्रयः प्रायः करोति सततज्वरं’ इति पठन्ति तैरपि प्रायोग्रहणाद्रसोऽङ्गीकर्तव्यः, यतो रसमादाय दोषा ज्वरमापादयन्ति| अन्ये तु सततमित्यत्रैव सन्ततमिति पठन्ति, तत्र सन्ततमित्येतस्याग्रे सततमिति शब्दो लुप्तो ज्ञेयः; तेन रसस्थः सन्ततं, रक्तस्थः सततमिति व्याख्यानयन्ति| केचित्तु सततपर्यायं सन्ततं मन्यन्ते| सन्ततज्वरस्य विषमज्वरत्वं नास्ति, तत्सन्निधौ पाठान्तरेण व्याख्यानान्तरेण च यद्ग्रहणं तत् सन्ततापेक्षया सततादीनां विषमत्वाद् विषमत्वप्रतिपादनार्थं; अन्यथा किमपेक्ष्यैषां विषमत्वं भवेत्| स दोषः पिशिताश्रितोऽन्येद्युष्कं कुर्यादिति सम्बन्धः| मेदोगतो दोषस्तृतीयेऽह्नि कुर्यात् तृतीयकं ज्वरमिति बोद्धव्यम्| घोरं कष्टकारिणम्| अन्तकं यमसदृशं, मारणात्मकत्वाच्चिरं क्लेशनत्वाच्च ||६७||-
Adhikarana 40 (68) · Śloka 68
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ||६८||
इदानीं धात्वन्तरस्थदोषारब्धत्वेऽपि सततकादावेकीयमतेन भूताभिषङ्गं हेतुमाह- केचिदित्यादि| भूताभिषङ्गो ग्रहावेशः| पूर्वं दोषप्रस्तावे दोषोत्थिता एव परं विषमज्वरा भूतादिजा अपि भवन्तीति प्रतिपादनार्थं ‘परो हेतुः स्वभावो वा’ इत्यादि पठितं; इह तु धात्वाश्रितप्रकरणत्वादिति न पौनरुक्त्यम्||६८||
Adhikarana 41 (69) · Śloka 69
सप्ताहं वा दशाहं वा द्वादशाहमथापि वा |
सन्तत्या योऽविसर्गी स्यात्सन्ततः स निगद्यते ||६९||
सन्निपातारब्धस्य सन्ततज्वरस्य ‘सप्तमे दिवसे प्राप्ते’ इत्यादिना मोक्षवधयोरवधिमभिधायेदानीमेकदोषजद्विदोषजस्य विसर्गकालावधिद्वारेण लक्षणमाह- सप्ताहमित्यादि| सन्तत्या नैरन्तर्येण, अविसर्गी अविसर्जनशीलः| अयं च सुखसाध्यः; यदुक्तं,- “सन्ततज्वर एवान्यः स्वल्पदुर्बलकारणः| एकदोषो द्विदोषो वा सुखसाध्यः प्रकीर्तितः”- इति||६९||
Adhikarana 42 (70) · Śloka 71
अहोरात्रे सततको द्वौ कालावनुवर्तते |
अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्तते ||७०||
तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः |७१|
सततादीनां लक्षणमाह- अहोरात्र इत्यादि| पूर्वाह्णादीनां कालानां मध्ये कालद्वयमनुवर्तते| एककालमिति अन्येद्युष्को ज्वरः अहोरात्रादन्यस्मिन्नहोरात्रे एककालमागच्छतीत्यर्थः| तृतीयकस्तृतीयेऽह्नीत्यत्रैककालमिति सम्बध्यते| चतुर्थकश्चतुर्थेऽह्नीत्यत्रापि एककालमिति योज्यम्| अत्र दोषोत्कर्षापकर्षाभ्यामधिककालत्वं हीनकालत्वमपि च ज्ञातव्यं, नतु नियमः||७०||-
Adhikarana 43 (71-74) · Śloka 75
वातेनोदीर्यमाणाश्च ह्रीयमाणाश्च सर्वतः |
एकद्विदोषा मर्त्यानां तस्मिन्नेवोदितेऽहनि ||७१||
वेलां तामेव कुर्वन्ति ज्वरवेगे मुहुर्मुहुः |
(वातेनोद्धूयमानस्तु यथा पूर्येत सागरः ||७२||
वातेनोदीरितास्तद्वद्दोषाः कुर्वन्ति वै ज्वरान् |
यथा वेगागमे वेलां छादयित्वा महोदधेः ||७३||
वेगहानौ तदेवाम्भस्तत्रैवान्तर्निलीयते |
दोषवेगोदये तद्वदुदीर्येत ज्वरोऽस्य वै ||७४||
वेगहानौ प्रशाम्येत यथाऽम्भः सागरे तथा) |७५|
इदानीं धातुस्थदोषारब्धानां विषमज्वराणामुद्गमकालं पूर्वोक्तमेवाह- वातेनेत्यादि| तस्मिन् पूर्वे, उदिते कथिते विषमज्वराणां सम्बन्धिन्यहनि दिने, मानुषाणामेकद्विदोषाः पृथग्द्वन्द्वभावेन स्थिता वातेनोत्कटीक्रियमाणा ह्रीयमाणा आकृष्यमाणाश्च सर्वतः, तामेव पूर्वाह्णादिकां वेलां ज्वरवेगविषये मुहुर्मुहुः कुर्वन्ति| ‘ज्वरवेगात्’ इति केचित्; तत्र ज्वरवेगाद्धेतोस्तां वेलां कुर्वन्ति| केचिदत्र ‘वातेनोद्धूयमानास्तु’ इत्यादिकं यावत् ‘प्राप्ते प्राप्ते प्रवर्तते’ इत्यन्तं ग्रन्थपाठं पठन्ति; स च उक्तार्थः, अतः सर्वैरपि निबन्धकारैः परिहृतः, तस्मान्न पठनीयः||७१-७४||-
Adhikarana 44 (75) · Śloka 76
विविधेनाभिघातेन ज्वरो यः सम्प्रवर्तते ||७५||
यथादोषप्रकोपं तु तथा मन्येत तं ज्वरम् |७६|
इदानीं वातादिकृतान् सप्तज्वरानभिधाय आगन्तुज्वरमनेकमेदभिन्नं दर्शयन्नाह- विविधेनाभिघातेनेत्यादि| विविधेनेति शस्त्रलोष्टकाष्ठादिना, दोषप्रकोपजत्वेऽपि आद्यनिमित्तेन व्यपदेशादभिघातज इत्युच्यते||७५||-
Adhikarana 45 (76-79) · Śloka 80
श्यावास्यता विषकृते दाहातीसारहृद्ग्रहाः ||७६||
अभक्तरुक् पिपासा च तोदो मूर्च्छा बलक्षयः |
ओषधीगन्धजे मूर्च्छा शिरोरुक् वमथुः क्षवः ||७७||
कामजे चित्तविभ्रंशस्तन्द्राऽऽलस्यमरोचकः |
हृदये वेदना चास्य गात्रं च परिशुष्यति ||७८||
भयात् प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः |
अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ||७९||
भूताभिषङ्गादुद्वेगहास्यकम्पनरोदनम् |८०|
केषुचिद्विशिष्टेषु निमित्तेषु वैशेषिकं लक्षणमाह- श्यावास्यतेत्यादि| विषस्य त्रिदोषकरत्वेऽप्यत्यन्तपित्तकरत्वात् श्यावास्यता स्यात्| अभक्तरुक् अरोचकः| औषधिगन्धजे मूर्च्छेत्यादि| वमथुः छर्दिः, क्षवः छिक्का| कामजे इत्यादि| चित्तविभ्रंशः किङ्कर्तव्यतामूढत्वम्| भयादित्यादि| प्रलापः असम्बद्धभाषणं; यद्यपि प्रलाप इति सामान्यं लक्षणं तथाऽपि निदानादिभिः कृत्वा विशेषो ज्ञातव्य इति| वेपथुः कम्पः| अभिचारेत्यादि| अभिचारो मन्त्रादिभिर्मारणप्रयोगः, अभिशापो ब्रह्मर्षिगुरुसिद्धानामाक्रोशः| भूताभिषङ्गादित्यादि| भूतानां देवादिग्रहाणामभि समन्ततो भावेन सङ्गो भूताभिषङ्गः| उद्वेग उद्विग्नचित्तता||७६-७९||-
Adhikarana 46 (80) · Śloka 81
श्रमक्षयाभिघातेभ्यो देहिनां कुपितोऽनिलः ||८०||
पूरयित्वाऽखिलं देहं ज्वरमापादयेद्भृशम् |८१|
श्रमादिजानां ज्वराणां सम्प्राप्तिद्वारेण लक्षणमाह- श्रमेत्यादि| पूरयित्वा व्याप्य||८०||-
Adhikarana 47 (81-82) · Śloka 82
रोगाणां तु समुत्थानाद्विदाहागन्तुतस्तथा ||८१||
ज्वरोऽपरः सम्भवति तैस्तैरन्यैश्च हेतुभिः |
दोषाणां स तु लिङ्गानि कदाचिन्नातिवर्तते ||८२||
इदानीमन्यथाऽऽगन्तुज्वरं विवक्षुराह- रोगाणामित्यादि| रोगाणां विद्रध्यादीनां; विदाहागन्तुतस्तथेति विदाहतः पाकात् तेषामेव, आगन्तुतः अभिघातात्, अपक्वविद्रध्यादिपाटनादित्यर्थः; अन्ये तु विदाहतः सामान्यसन्तापात्, आगन्तुतः सामान्याभिघातादिभिरिति व्याख्यानयन्ति| ज्वरोऽपरोऽन्यः, भेदात्| तैस्तैरन्यैश्च हेतुभिरिति विद्रध्यादिसमुत्थानात् प्रागुक्तैरन्यैश्च ज्वरकारिभिर्हेतुभिः| स त्विति स पुनर्ज्वरो हेतुभेदाद्भिन्नोऽपि वातादीनां लिङ्गानि नातिवर्तते न परित्यज्य याति||८१-८२||
Adhikarana 48 (83-89) · Śloka 90
गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ |
रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते ||८३||
रक्तनिष्ठीवनं दाहः स्वेदश्छर्दनविभ्रमौ |
प्रलापः पिटिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ||८४||
पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता |
ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ||८५||
भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च |
दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ||८६||
भेदोऽस्थ्नां कुञ्च(ज)नं श्वासो विरेकश्छर्दिरेव च |
विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे ||८७||
तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा |
अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे |
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे ||८८||
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः |
दग्ध्वेन्धनं यथा वह्निर्धातून् हत्वा यथा विषम् ||८९||
कृतकृत्यो व्रजेच्छान्तिं देहं हत्वा तथा ज्वरः |९०|
केचिदत्र रसादिधातुगतज्वरस्य लक्षणं पठन्ति- “रसस्थे तु ज्वरे वत्स! लक्षणानि निबोध मे| गुरुत्वं दैन्यमुत्क्लेशः सदनं छर्द्यरोचकौ|| रागोष्णपिटिकास्तृष्णा सरक्तं ष्ठीवनं भ्रमः| दाहो मूर्च्छाऽरुचिश्छर्दिः प्रलापो रक्तसंस्थिते|| पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता| ऊष्माऽन्तर्मोहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे|| वेगस्तीव्रः पिपासा च मूर्च्छा छर्दिः प्रलापकः| गन्धस्य चासहत्वं च मेदःस्थे ग्लान्यरोचकौ|| विरेकवमने चोभे त्वस्थिभेदः प्रकूजनम्| विक्षेपणं च गात्राणां श्वासश्चास्थिगते ज्वरे|| हिक्का कासो महाश्वासस्तमसश्च प्रवेशनम्| मर्मच्छेदो बहिः शैत्यं दाहोऽन्तश्चैव मज्जगे|| तस्मान्मरणमाप्नोति शुक्रस्याप्युपसर्पणे| शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः”- इति| एतच्च न पठनीयम्| कुतः? यतः सर्वशरीरं सन्ततेन व्याप्तं, सततादिभिश्च रसादिधातव इति कुतोऽपरो रसादिधातुगतज्वरावकाश इति रसादिस्थज्वराणां पाठो न पठनीय एवेति जेज्जटाचार्याभिमतम्| श्रीगयदासाचार्येण चायं पाठोऽन्यादृशः पठितो व्याख्यातश्च, तन्मतानुसारिभिरस्माभिरपि पठ्यते व्याख्यायते च- गुरुतेत्यादि| गुरुता गात्राणाम्| सदनं च गात्राणामेव| दैन्यं ग्लानिः| अस्येति प्राणिनः| यद्यपि रसैकधातुप्राप्त्या सन्तत एवायं तथाऽप्यनुक्तधात्वाश्रितलक्षणकथनार्थमत्र निर्देशः| रक्तेत्यादि| मोहो विगतचित्तता| पिण्डिकेत्यादि| पिण्डिकोद्वेष्टनं जङ्घाक्रोडे जानुनोऽधोभागे पीडा| ऊष्माऽन्तः अन्तर्दाहः| विक्षेपः अङ्गविक्षेपः| भृशमित्यादि| असहिष्णुता क्रोधनत्वं, केचित्तु स्वगन्धस्यासहिष्णुत्वमिति मन्यन्ते| कुञ्चनं सङ्कोचः, स च सान्निध्यादस्थ्नामित्यनेन सम्बध्यते| तम इत्यादि| तमःप्रवेशनम् अन्धकारदर्शनम्| महाश्वासो वक्ष्यमाणलक्षणः| मर्मच्छेदश्चेति हृदयस्य छेदनमिव| शुक्रस्थानगत इति| ननु शुक्रगे ज्वरे मरणमित्युक्तं तन्न, शुक्रं सर्वदेहगतं ततश्च रसादिधात्वाभिभवेनापि शुक्रप्राप्तेस्तद्गतेऽपि मरणमिति| नैवं, सर्वशरीरस्थस्यापि शुक्रस्य कलान्तरितत्वेन त्वचां क्रमेण मर्मप्राप्तेः| यद्येवमनुक्रमादेव शुक्रं ज्वरेण कथं प्राप्यत इति चेत्? धात्वन्तरानतिक्रम्य शुक्रमार्गगमनदिति| शुक्रगतो ज्वरोऽपरव्यापाराभावाद्देहघातेनैवोपशाम्यतीति दर्शयति- दग्ध्वेत्यादि| मृतशरीरे ऊष्माभावाज्ज्वरोपशमो ज्ञायते, विषाक्तकाण्डविद्धसर्पदष्टमृगादेर्मरणाद्विषोपशान्तिः प्रतीयते||८३-८९||-
Adhikarana 49 (90-91) · Śloka 92
वातपित्तकफोत्थानां ज्वराणां लक्षणं यथा ||९०||
तथा तेषां भिषग्ब्रूयाद्रसादिष्वपि बुद्धिमान् |
समस्तैः सन्निपातेन धातुस्थमपि निर्दिशेत् ||९१||
द्वन्द्वजं द्वन्द्वजैरेव दोषैश्चापि वदेत् कृतम् |९२|
इदानीं धातुगतानामपि ज्वराणामुक्तैरेव वातादिज्वरलक्षणैर्दोषात्मकत्वेनावगम इति दर्शयति- वातेत्यादि| यथा येन प्रकारेण तेषां वातादिज्वराणां रसादिषु सप्तसु धातुषु गतानां लक्षणं बुद्धिमान् भिषक् ब्रूयादिति सम्बन्धः| समस्तैः दोषलक्षणैः द्वन्द्वजं ज्वरं, द्वन्द्वजैरेवेति द्विदोषजनितैः| दोषैश्चापीति दोषलक्षणैः धातुस्थं वदेदिति||९०-९१||-
Adhikarana 50 (92) · Śloka 93
गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया ||९२||
आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च |९३|
गम्भीर इत्यादि| आनद्धत्वेन दोषपुरीषविबन्धेन| आनद्धत्वेन चेत्यत्र चकारात् प्रलापभ्रमसन्ध्यस्थिशूलादिपरिग्रहः; एतद्विपर्ययेणान्ये ज्वरा ज्ञेयाः||९२||-
Adhikarana 51 (93) · Śloka 94
हतप्रभेन्द्रियं क्षीणमरोचकनिपीडितम् ||९३||
गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत् |९४|
गम्भीरज्वरस्यासाध्यत्वमाह- हतेत्यादि| हतप्रमेन्द्रियं हतशरीरदीप्तिं तथा हतश्रोत्रचक्षुरादिशक्तिकम्| अन्ये प्रभाशब्देन इन्द्रियशक्तिं वदन्ति; तेन हतेन्द्रियशक्तिकमित्यर्थः| गम्भीर इव गम्भीरोऽन्तर्वेगः, तीक्ष्णोऽतिदुःसहो बहिरन्तश्च वेगः, ताभ्यामन्योन्यमार्तं पीडितं; एतेन क्षीणं गम्भीरार्तं विवर्जयेत्, तीक्ष्णवेगार्तं च क्षीणमिति| ‘अरोचकनिपीडितं’ इत्यत्र ‘दुरात्मानमुपद्रुतं’ इति तथा ‘उपद्रवनिपीडितं’ इति च केचित् पठन्ति| दुरात्मानं दुःखितान्तःकरणं, उपद्रुतं ज्वरोपद्रवैः| ‘अपरे दुरात्मभिरुपद्रुतम्’ इति पठन्ति, तत्र प्रेतभूतपिशाचरक्षोभिः पीडितम्||९३||-
Adhikarana 52 (94) · Śloka 95
हीनमध्याधिकैर्दोषैस्त्रिसप्तद्वादशाहिकः ||९४||
ज्वरवेगो भवेत्तीव्रो यथापूर्वं सुखक्रियः |९५|
अतोऽनन्तरं तीक्ष्णवेगस्य सुखक्रियत्वमाह- हीनेत्यादि| हीनैर्दोषैस्त्र्यहं सुखक्रियस्तीक्ष्णवेगः, मध्यैः सप्ताहं, अधिकैर्द्वादशाहानीति| अत्र हीनमध्यत्वं वृद्धापेक्षया| यथापूर्वं सुखक्रिया इति द्वादशाहिकात्तीक्ष्णवेगात् सप्ताहिकः सुचिकित्स्यः, सप्ताहिकात्तीक्ष्णवेगात् त्र्याहिकः सुचिकित्स्यः| हीनमध्याधिकैर्दोषैस्त्रिसप्तद्वादशाहिक इति यदुक्तं तदवधिमात्रद्योतकं; तेन दोषतारतम्याद्दोषभेदानामानन्त्यादुक्तावधेर्न्यूनो न्यूनतरो न्यूनतमो, अधिकोऽधिकतरोऽधिकतमोऽप्यवधिर्बोद्धव्यः||९४||-
Adhikarana 53 (95-96) · Śloka 96
कालो ह्योष यमश्चैव नियतिर्मृत्युरेव च ||९५||
तस्मिन् व्यपगते देहाज्जन्मेह पुनरुच्यते |
इति ज्वराः समाख्याताः कर्मेदानीं प्रवक्ष्यते ||९६||
इदानीं कालनामभिर्विशेषणैर्मारणात्मकत्वं ज्वरस्य सूचयन् तन्मुक्तस्य पुनर्जन्म प्रतिपादयति- काल इत्यादि| इतिशब्दो निदानपरिसमाप्तौ| कर्मेत्यादि| कर्मचिकित्सा||९५-९६||
Adhikarana 54 (97-98) · Śloka 98
ज्वरस्य पूर्वरूपेषु वर्तमानेषु बुद्धिमान् |
पाययेत घृतं स्वच्छं ततः स लभते सुखम् ||९७||
विधिर्मारुतजेष्वेष, पैत्तिकेषु विरेचनम् |
मृदु, प्रच्छर्दनं तद्वत्कफजेषु विधीयते ||९८||
ज्वरस्येत्यादि| ज्वरस्येति निरामवातजनितस्य| घृतं पुराणं, तस्य कालदिसंस्कारेण विशेषगुणकारित्वात्| स्वच्छं सुष्ठु अच्छं केवलं, स्वच्छवचनाद्द्रव्यान्तयोगो निषिध्यते, न तु संस्कारः पाकेन कालेन च| मारुतजेषु श्रमक्षयादिकुपितवातज्वरपूर्वरूपेषु, नत्वामाशयानुपूर्व्योत्पन्नेषु सामवातज्वरपूर्वरूपेषु| अत एव बुद्धिमान् पाययेदित्युक्तम्| एष सर्पिःपानविधिः| सुखमिति तावदच्छं केवलं घृतं पातव्यं यावत् सुखं प्राप्नोति, तदनन्तरं लघुभोजनादि| पैत्तिकेषु पित्तज्वरपूर्वरूपेषु| मृदु अतीक्ष्णम्| तद्वन्मृदु| कफजेषु कफज्वरपूर्वरूपेषु||९७-९८||
Adhikarana 55 (99) · Śloka 99
सर्वद्विदोषजेषूक्तं यथादोषं विकल्पयेत् |९९|
सर्वेत्यादि| सर्वेषु सन्निपातज्वरपूर्वरूपेषु, द्विदोषजेषु द्वन्द्वज्वरपूर्वरूपेषु; उक्तं यथादोषं सर्पिःपानादिकं, विकल्पयेत् अवधारयेत्|९९|-
Adhikarana 56 (99) · Śloka 99
अस्नेहनीयोऽशोध्यश्च संयोज्यो लङ्घनादिना ||९९||
इदानीं घृताद्यनर्हस्य ज्वरपूर्वरूपे किं विधेयमित्याह- अस्नेहनीय इत्यादि| अस्नेहनीयोऽजीर्णी तरुणज्वरीत्यादिकः| अशोध्यो वमनविरेचनायोग्यः| लङ्घनादिनेत्यादिग्रहणात् षडङ्गादिशृतशीतोष्णोदकादिकं गृह्यते||९९||
Adhikarana 57 (100) · Śloka 100
रूपप्राग्रूपयोर्विद्यान्नानात्वं वह्निधूमवत् |१००|
अथ नवज्वरे स्नेहसंशोधनवर्जनात् कथं पूर्वरूपे तदुपदेश इत्याह- रूपप्राग्रूपयोरित्यादि| रूपप्राग्रूपयोः नानात्वं पृथक्त्वं वह्निधूमवत् विद्यात्; वह्निधूमदृष्टान्तेन नानात्वमनयोर्न घटपटादिवत्, अतोऽनयोर्ज्ञाने यत्नो विधेयः|१००|-
Adhikarana 58 (100) · Śloka 100
प्रव्यक्तरूपेषु हितमेकान्तेनापतर्पणम् ||१००||
पूर्वरूपे चिकित्सितमभिधाय रूपे चिकित्सितमाह- प्रव्यक्तरूपेष्वित्यादि| एकान्तेन अतिशयेन| अतर्पणमत्र उपवासः, शेषाणामतर्पणभेदानामवस्थाविशेषेण वक्ष्यमाणत्वात्| तेनामाशयानुपूर्व्योत्पन्नेषु ज्वरेषूपवासार्हेषु हितमित्यर्थः||१००||
Adhikarana 59 (101) · Śloka 101
आमाशयस्थे दोषे तु सोत्क्लेशे वमनं परम् |१०१|
अवस्थाविशेषेणापतर्पणविशेषमाह- आमाशयस्थे इत्यादि| हृल्लासलालाप्रसेकादिना दोषोत्क्लेशो ज्ञेयः|१०१|-
Adhikarana 60 (101) · Śloka 102
आनद्धः स्तिमितैर्दोषैर्यावन्तं कालमातुरः ||१०१||
कुर्यादनशनं तावत्ततः संसर्गमाचरेत् |१०२|
लङ्घनं कियन्तं कालं कार्यमित्याह- आनद्ध इत्यादि| यावन्तं कालमातुरः स्तिमितैर्दोषैरप्रचलितरूपैरानद्धो बद्ध इव भवेत्तावन्तं कालं लङ्घयेदिति सम्बन्धः| स्तिमितत्वं च दोषाणामामरसावनद्धत्वात्| तत आनद्धत्वे निवृत्ते, अत्राभिलाषे सति, संसर्गं पेयादिक्रममाचरेत्| अन्ये श्लोकोत्तरार्धमन्यथा पठन्ति,- “कालं तावन्तमश्नीयाल्लघ्वन्नं तु विरिक्तवत्” इति| लघ्वन्नमिति अत्रान्नद्रव्यकृतं लघ्वन्नं; विरिक्तवदित्यनेन मात्रालघुत्वम्||१०१||-
Adhikarana 61 (102) · Śloka 103
न लङ्घयेन्मारुतजे क्षयजे मानसे तथा ||१०२||
अलङ्घ्याश्चापि ये पूर्वं द्विव्रणीये प्रकीर्तिताः |१०३|
उचितस्यापि लङ्घनस्य क्वचिन्निषेधमाह- न लङ्घयेदित्यादि| क्षयजे धातुक्षयजे यक्ष्मज्वरे वा, मानसे कामक्रोधादिसम्भूते| अलङ्घ्या “गर्भिणीवृद्धबालदुर्बलभीरुभिः ” इत्यनेनोक्ताः| अन्ये तु व्याख्यानयन्ति- मारुतजे ज्वरे न लङ्घयेत्; किम्भूते? क्षयजे| एतेन धातुक्षयप्रकुपितवातज इत्युक्तं; अथवा क्षयजे न लङ्घयेत्; किम्भूते? मारुतजे| एतेन यक्ष्मज्वरे मारुतसम्भूते न लङ्घयेत्| (यः सामावस्थायां मारुतज्वरो यक्ष्मज्वरश्च स लङ्घनीय एव, निरामे मारुतजे ज्वरे न लङ्घयेत्)||१०२||-
Adhikarana 62 (103) · Śloka 104
अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् ||१०३||
ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् |१०४|
अतो लङ्घनवर्णनमाह- अनवस्थितदोषाग्नेरित्यादि| अनवस्थितदोषाग्नेरिति ‘पुरुषस्य’ इति शेषः| तत्र दोषा अनवस्थिताः स्थानान्तरगमनात्, वह्निश्चानवस्थितो बहिर्विक्षिप्तत्वात्| आहारेच्छा हृदि काङ्क्षा, मुखोपनीतस्याहारस्य रसनेन्द्रियस्येच्छा रुचिः||१०३||-
Adhikarana 63 (104) · Śloka 105
सृष्टमारुतविण्मूत्रं क्षुत्पिपासाऽसहं लघुम् ||१०४||
प्रसन्नात्मेन्द्रियं क्षामं नरं विद्यात् सुलङ्घितम् |१०५|
सम्यग्लङ्घितलक्षणमाह- सृष्टमारुतविण्मूत्रमित्यादि| सृष्टमारुतविण्मूत्रमिति अधःप्रवृत्तवातपुरीषमूत्रं, क्षुत्पिपासासहमिति सम्यग्लङ्घनादेकस्मिन्नेव काले ये क्षुत्पिपासे समवेते भवतस्ते सोढुमशक्तम्| तथा च तन्त्रान्तरं,- “वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे| हृदयोदरकण्ठास्यशुद्धौ तन्द्राक्लमे गते|| स्वेदे जाते रुचौ चापि क्षुत्पिपासासहोदये| कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि”- इति| लघुम् अङ्गगौरवादिरहितम्| आत्मा अन्तःकरणम्| क्षामं सर्वाक्षमम्| एवम्भूतं सुलङ्घितं विद्यात्||१०४||-
Adhikarana 64 (105) · Śloka 106
बलक्षयस्तृषा शोषस्तन्द्रानिद्राभ्रमक्लमाः ||१०५||
उपद्रवाश्च श्वासाद्याः सम्भवन्त्यतिलङ्घनात् |१०६|
अतिलङ्घनलक्षणमाह- बलक्षय इत्यादि| बलक्षय इति कालजयुक्तिजसहजानां बलानां हानिः, अथवा बलक्षय ओजःक्षयः| शोषो मुखशोषः| तन्द्रा शारीरोक्तलिङ्गा निद्राभेदः| निद्रा प्रसिद्धा| ननु श्लेष्मणा निद्रा उत्पद्यते, अतिलङ्घनात्तु श्लेष्मक्षये जाते कथं सा उत्पद्यते? सत्यं; निद्रेव निद्रेत्युपमया चेष्टोपरमान्निद्रात्वेन विवक्षिता| अन्ये तु तन्द्रानिद्रयोर्मध्ये अकारप्रश्लेषं मन्यन्ते, ततश्चानिद्रेति व्याख्यानयन्ति| भ्रमः चक्रारूढस्येव भ्रमणं, क्लमः अनायासश्रमः| आदिशब्दात् कासस्वरक्षयच्छर्दिहिक्कादयः| तन्त्रान्तरोक्तपर्वभेदादीन्यतिलङ्घनलक्षणानि सुलङ्घनलक्षणोक्तप्रसन्नात्मेन्द्रियादिवैपरीत्यादधिगन्तव्यानि||१०५||-
Adhikarana 65 (106) · Śloka 107
दीपनं कफविच्छेदि पित्तवातानुलोमनम् ||१०६||
कफवातज्वरार्तेभ्यो हितमुष्णाम्बु तृट्छिदम् |
तद्धि मार्दवकृद्दोषस्रोतसां ... |१०७|
अर्धावशिष्टोदकगुणमाह- दीपनमित्यादि| कफविच्छेदि स्त्यानश्लेष्मणो विच्छेदकम्| कफवातज्वरार्तेभ्य इति बहुवचननिर्देशात् कफज्वरार्तवातज्वरार्तकफवातज्वरार्तेभ्यो हितमित्यर्थः| यद्यपि पानीयवर्गे उष्णोदकगुणा वर्णितास्तथाऽपि तत्रोक्तगुणेभ्योऽधिकविधानार्थमत्रोक्ताः| यद्येवं तर्ह्येते गुणास्तत्रैव कुतो न निर्दिष्टाः? स्वस्थातुरयोप्युष्णोदकस्य हितत्वापादनार्थं; तच्चोष्णोदकं मार्दवकृत् मृदुकारि; दोषस्रोतसां दोषवहस्रोतसाम्, अथवा दोषाणां स्रोतसां मृदुत्वं विदधाति| एवङ्गुणमप्युष्णोदकं ज्वरेऽल्पं देयमित्याहुराचार्याः||१०६||-
Adhikarana 66 (107) · Śloka 108
... शीतमन्यथा ||१०७||
सेव्यमानेन तोयेन ज्वरः शीतेन वर्धते |१०८|
शीतोदकगुणमाह- शीतमन्यथेत्यादि| शीतम् अक्वथितम्| अन्यथा उष्णोदकगुणविपरीतगुणम्| किं शीतोदकमुष्णाम्बुगुणविपरीतमेव स्यादुतान्यत् किमपि कुरुत इत्याह- सेव्यमानेनेत्यादि||१०७||-
Adhikarana 67 (108) · Śloka 109
पित्तमद्यविषोत्थेषु शीतलं तिक्तकैः शृतम् ||१०८||
गाङ्गेयनागरोशीरपर्पटोदीच्यचन्दनैः |१०९|
इदानीं शृतशीतस्य गुणमाह- पित्तेत्यादि| पित्तमद्यविषोत्थेषु ज्वरेषु तिक्तकैः शृतशीतलं जलं देयं, केवलं वा शृतशीतलं जलं देयं, तन्त्रान्तरवचनात्| तान्येव तिक्तद्रव्याण्याह- गाङ्गेयेत्यादि| गाङ्गेयं मुस्तम्, उदीच्यं वालकं, चन्दनं रक्तचन्दनम्| कल्पनोच्यते- गाङ्गेयादिसर्वद्रव्यं कर्षमात्रमुदकप्रस्थे क्वाथ्यार्धशृतं कृत्वा प्रयोक्तव्यं; वृद्धवैद्यास्तु गाङ्गेयादिसर्वद्रव्यपलमुदकाढके पक्त्वाऽर्धाढकमवशेषयन्ति| यद्यप्यतिक्ता शुण्ठी तथाऽपि पाचनीयत्वेन यौगिकत्वादस्मिन् योगे प्रक्षेपः| तन्त्रान्तरे तु, “कर्षमात्रं ततो द्रव्यं साधयेत् प्रास्थिकेऽम्भसि| अर्धशृतं प्रयोक्तव्यं पाने पेयादिसंविधौ”- इति| पञ्जिकाकारस्तु पूर्वार्धमेव पठति नोत्तरार्धं; तिक्तकैस्तिक्तद्रव्यैः पर्पटादिभिरिति च व्याख्यानयन्ति||१०८||-
Adhikarana 68 (109) · Śloka 110
दीपनी पाचनी लघ्वी ज्वरार्तानां ज्वरापहा ||१०९||
अन्नकाले हिता पेया यथास्वं पाचनैः कृता |११०|
दीपनीत्यादि| अन्नकाले स्वस्थवृत्ताभिधास्यमाने ‘विसृष्टे विण्मूत्रे’ इत्यादिके, ‘दिनान्ते’ इत्यन्ये| यथास्वं पाचनैः कृता पञ्चमूलीप्रभृतिभिः संस्कृता| अन्ये तु पाचनैरित्यत्र बहुवचनमाद्यर्थे, तेन दीपनपाचनसंशमनीयादिभिः संस्कृतेति व्याख्यानयन्ति| पुनः पेयागुणाभिधानमुष्णोदकगुणाभिधानवत्, अतो न पुनरुक्तिः||१०९||-
Adhikarana 69 (110-111) · Śloka 112
बहुदोषस्य मन्दाग्नेः सप्तरात्रात् परं ज्वरे ||११०||
लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते |
तदा तं मुखवैरस्यतृष्णारोचकनाशनैः ||१११||
कषायैः पाचनैर्हृद्यैर्ज्वरघ्नैः समुपाचरेत् |११२|
कृतलङ्घनादेर्ज्वरिणो यस्यामवस्थायां पाचनं देयं तामाह- बहुदोषस्येत्यादि| ननु, तन्त्रान्तरे स्वेदतिक्तकरसौ पाचनार्थमुक्तौ, तावत्र कस्मान्न निर्दिष्टौ? सत्यं, उष्णोदकविधानेन तावत् कफवातज्वरस्य स्वेदो लब्धः, षडङ्गकल्पनया पानीयसंस्कारेण च तिक्तकरसो गृहीत इत्यत्र द्वावपि निर्दिष्टौ| मुखवैरस्यतृष्णारोचकनाशनैरिति वक्ष्यमाणैःमरुत्पित्तकफज्वरपाचनैः, वातादिलक्षणत्वाद्वदनवैरस्यादीनाम्| कषायैः क्वाथैः| आमदोषपाचनार्थं यवागूः कथमामे प्रयुज्यते? सत्यं, द्विप्रकारा ह्यामता प्रभूता अल्पा च, तत्र प्रभूतामतां विहायाल्पामतायां प्रयुज्यत इति न दोषः||११०-१११||-
Adhikarana 70 (112-113) · Śloka 114
पञ्चमूलीकषायं तु पाचनं पवनज्वरे ||११२||
सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्रयवैः कृतम् |
पिप्पल्यादिकषायं तु कफजे परिपाचनम् ||११३||
द्वन्द्वजेषु तु संसृष्टं दद्यात् ... |११४|
तान्येव पाचनानि प्रतिदोषमाह- पञ्चमूलीत्यादि| पञ्चमूली महती| अन्ये तु कफानुगे वातज्वरे महती, पित्तानुगे च कनीयसी, इति द्विविधामपि पञ्चमूलीं गृह्णन्ति| संसृष्टं मिश्रम्| सन्निपातचिकित्सा द्वन्द्वजचिकित्सायामेवान्तर्भूता, अतः पृथङ्नोक्ता||११२-११३||-
Adhikarana 71 (114) · Śloka 114
... अथ विवर्जयेत् |
पीताम्बुर्लङ्घितो भुक्तोऽजीर्णी क्षीणः पिपासितः ||११४||
येषां पाचनमहितं तानाह- अथेत्यादि| विवर्जयेत् ‘पाचनम्’ इति शेषः| पीताम्बुः सद्य एव पीतोदकः| लङ्घितः कृतोपवासः| भुक्तः सद्य एव कृताहारः| अजीर्णी अपरिपक्वभोजनः||११४||
Adhikarana 72 (115) · Śloka 115
(तीक्ष्णे ज्वरे गुरौ देहे विबद्धेषु मलेषु च|
सामदोषं विजानीयाज्ज्वरं पक्वमतोऽन्यथा ||) मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च |
पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम् ||११५||
इदानीं पक्वदोषलक्षणमाह- मृदावित्यादि| तत् वक्ष्यमाणशमनशोधनाख्यमौषधम्||११५||
Adhikarana 73 (116) · Śloka 116
दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्षणम् |११६|
एकीयमतमाह- दोषप्रकृतिवैकृत्यादित्यादि| दोषप्रकृतिवैकृत्यादिति ज्वरोत्पादिकाया दोषप्रकृतेरुच्छ्रिताया अन्यथात्वादित्यर्थः|११६|-
Adhikarana 74 (116-118) · Śloka 119
हृदयोद्वेष्टनं तन्द्रा लालास्रुतिररोचकः ||११६||
दोषाप्रवृत्तिरालस्यं विबन्धो बहुमूत्रता |
गुरूदरत्वमस्वेदो न पक्तिः शकृतोऽरतिः ||११७||
स्वापः स्तम्भो गुरुत्वं च गात्राणां वह्निमार्दवम् |
मुखस्याशुद्धिरग्लानिः प्रसङ्गी बलवाञ्ज्वरः ||११८||
लिङ्गैरेभिर्विजानीयाज्ज्वरमामं विचक्षणः |११९|
इदानीं सामान्यमामज्वरलक्षणमाह- हृदयोद्वेष्टनमित्यादि| हृदयोद्वेष्टनं हृदयस्य आमोटनमिव| दोषाप्रवृत्तिः वातादीनां निश्चलता| विबन्धो विड्वातयोरप्रवर्तनम्| अरतिः न कुत्रचिदवस्थितिश्चेतसः| अग्लानिः ईषच्छान्तिः| प्रसङ्गी संसक्तः| एतानि लक्षणानि प्रायेण सप्तरात्रं यावद्भवन्ति| अमुं पाठं पञ्जिकाकारो ‘लालाप्रसेको हृल्लासो हृदयाशुद्ध्यरोचकाः| तन्द्रालस्याविपाकास्यवैरस्यं गुरुगात्रता|| क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवाञ्ज्वरः| आमज्वरस्य लिङ्गानि न दद्यात्तत्र भेषजम्’ इत्यादिना ग्रन्थेन पठति||११६-११८||-
Adhikarana 75 (119) · Śloka 120
सप्तरात्रात्परं केचिन्मन्यन्ते देयमौषधम् ||११९||
दशरात्रात्परं केचिद्दातव्यमिति निश्चिताः |१२०|
इदानीं कषायरसस्यौषधस्योपयोगकालं परमतेनाह- सप्तेत्यादि| औषधं कषायरसमपि, नतु तिक्तरसमेव, तस्य सामेऽप्युपयोगार्हत्वात्| ननु, ‘मृदौ ज्वरे लघौ देहे’ इत्यादिनैव पक्वलक्षणेऽभिहिते भेषजदानमुक्तं, तत्कथं सप्तरात्रादित्यादिकं परमतमङ्गीक्रियते? सत्यं, सप्तरात्रादर्वाक् पाचनस्यापि निषेधार्थं सप्तरात्रग्रहणं, दशाहादनन्तरमविद्यमानेऽपि पाकलक्षणे औषधं देयमिति दर्शनार्थं च दशरात्रग्रहणम्| निश्चिता निश्चयकारिणो वैद्याः||११९||-
Adhikarana 76 (120) · Śloka 121
पैत्तिके वा ज्वरे देयमल्पकालसमुत्थिते ||१२०||
अचिरज्वरितस्यापि देयं स्याद्दोषपाकतः |१२१|
यदा पुनः सप्ताहादर्वागपि पित्तज्वरोऽल्पदोषश्च शीघ्रं पाकं यायात्तदौषधं देयमित्याह- पैत्तिके इत्यादि| अल्पकालसमुत्थितेऽपि पैत्तिके ज्वरे यदौषधं देयं दातव्यं भवेत् तत्तदा देयमिति पिण्डार्थः| वाशब्दात् वातश्लेष्मादिज्वरे दोषपाके सत्यौषधं देयम्||१२०||-
Adhikarana 77 (121) · Śloka 122
भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् ||१२१||
शोधनं, शमनीयं तु करोति विषमज्वरम् |१२२|
कस्माद्दोषाणां पाके सत्येवौषधं देयमित्याह- भेषजमित्यादि| शोधनमौषधमामदोषस्य पुरुषस्य ज्वरं ज्वलयति दीपयतीत्यर्थः; शमनीयं तु पुनरौषधं दत्तं विषमज्वरं करोति| केचित् ‘ज्वलयति’ इत्यत्र ‘वर्धयति’ इति पठन्ति||१२१||-
Adhikarana 78 (122) · Śloka 123
च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा ||१२२||
अतिप्रवर्तमानं च साधयेदतिसारवत् |१२३|
इदानीं ज्वरिणामावस्थिकं कर्तव्यमाह- च्यवमानमित्यादि| उत्क्लिष्टमिति यतो ज्वरेणामाशयाच्चालितमत एव च्यवमानं, मलं वातादिकं, सदाऽऽमावस्थायां पक्वावस्थायां च| अतिसारवदित्यनेन पाचयन् सङ्ग्रहं नयेदित्यर्थः सूच्यते| मलोऽत्र न पुरीषमेव, अनिर्गमने वमनादिभिर्निर्हरणोपदेशात्||१२२||-
Adhikarana 79 (123) · Śloka 124
यदा कोष्ठानुगाः पक्वा विबद्धाः स्रोतसां मलाः ||१२३||
अचिरज्वरितस्यापि तदा दद्याद्विरेचनम् |१२४|
तर्हि कदा शोधनं प्रयोज्यमित्याह- यदा कोष्टानुगा इत्यादि| विरेचनमत्र शोधनं, न त्वधोरेचनमेव| केचित् पूर्वत्र अस्मिंश्च वाक्ये मलं पुरीषं कथयन्ति||१२३||-
Adhikarana 80 (124-125) · Śloka 125
पक्वो ह्यनिर्हृतो दोषो देहे तिष्ठन् महात्ययम् ||१२४||
विषमं वा ज्वरं कुर्याद्बलव्यापदमेव च |
तस्मान्निर्हरणं कार्यं दोषाणां वमनादिभिः ||१२५||
पक्वदोषोपेक्षणे दूषणमाह- पक्व इत्यादि| अनिर्हृतो वमनादिना, महात्ययं गम्भीरं, बलव्यापदं बलापचयं कुर्यात्| तस्मादित्यादि| निर्हरणम् ईषद्धरणम्||१२४-१२५||
Adhikarana 81 (126) · Śloka 127
प्राक्कर्म वमनं चास्य कार्यमास्थापनं तथा |
विरेचनं तथा कुर्याच्छिरसश्च विरेचनम् ||१२६||
क्रमशः... |१२७|
इदानीं क्रमशो वमनादिपरिपाटीमाह- प्रागित्यादि| यद्यपि प्रथमं लङ्घनस्योपदेशः, तथाऽप्यवस्थाप्राप्तत्वाद्वमनस्यापि प्राक्कर्मत्वम्| क्रमश इति क्रमेण, न युगपत्; अथवा लङ्घनपाचनानन्तरं स्नेहादिना कोष्ठप्राप्तेषु दोषेषु मध्यमावस्थायां ज्वरस्येति क्रमशो देयम्| प्राक्कर्म वमनं चास्येत्यत्र चकारादग्रेऽनुवासनमित्यपि||१२६||-
Adhikarana 82 (127-129) · Śloka 129
...बलिने देयं वमनं श्लैष्मिके ज्वरे |
पित्तप्राये विरेकस्तु कार्यः प्रशिथिलाशये ||१२७||
सरुजेऽनिलजे कार्यं सोदावर्ते निरूहणम् |
कटीपृष्ठग्रहार्तस्य दीप्ताग्नेरनुवासनम् ||१२८||
शिरोगौरवशूलघ्नमिन्द्रियप्रतिबोधनम् |
कफाभिपन्ने शिरसि कार्यं मूर्धविरेचनम् ||१२९||
यादृशस्य पुंसो यदात्मके ज्वरे वमनादिकं प्रयुज्यते तदाह- बलिने इत्यादि| बलिने पुरुषाय श्लैष्मिके ज्वरे वमनं देयम्, ‘आमाशयस्थे दोषे तु सोत्क्लेशे’ इत्यादिना या पूर्वं वमनावस्था कथिता तस्यां जातायामित्यर्थः| पित्तप्राये पित्तबाहुल्ये, प्रशिथिलाशये अस्तब्धपक्वाशये| तुशब्दाद्वमनमपि पित्ते देयम्| तथा च,- “उपस्थिते श्लेष्मपित्ते व्याधावामाशयाश्रये| वमनार्थं प्रयुञ्जीत भिषग्देहमदूषयन्”- इति| सरुजे कोष्ठरुग्युक्ते| सोदावर्ते सविबन्धे| शिरोगौरवशूलघ्नमित्यादिकं मूर्धविरेचनमिति| जीर्णज्वरे मूर्धविरेचनं न तु तरुणज्वरे परं सान्निपातकं विहाय, सान्निपातके पुनः सञ्ज्ञाप्रबोधनार्थं तरुणेऽपि प्रयुज्यते| पञ्जिकाकारस्तु ‘क्रमेण बलिने देयं वमनं श्लैष्मिके ज्वरे’ इत्यत्र ‘आमाशयस्थे दोषे तु सोत्क्लेशे वमने परम्’ इत्यादि पूर्वोक्तमेव पाठं पठति||१२७-१२९||
Adhikarana 83 (130) · Śloka 131
दुर्बलस्य समाध्मातमुदरं सरुजं दिहेत् |
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः ||१३०||
अम्लपिष्टैः सुखोष्णैश्च... |१३१|
अतः परं दुर्बलस्योदरलेपमाह- दुर्बलस्येत्यादि| दारु देवदारु, हैमवती वचा, अम्लं काञ्जिकम्||१३०||-
Adhikarana 84 (131) · Śloka 131
...पवने तूर्ध्वमागते |
रुद्धमूत्रपूरीषाय गुदे वर्तिं निधापयेत् ||१३१||
वर्तिविषयमाह- पवने इत्यादि| वर्तिरत्र दारुहैमवत्यादिभिःकृता, अन्ये तु मदनफलसैन्धवपिप्पल्यादिभिर्यौगिकैर्द्रव्यैः कृता इति व्याख्यानयन्ति||१३१||
Adhikarana 85 (132) · Śloka 132
पिप्पलीपिप्पलीमूलयवानीचव्यसाधिताम् |
पाययेत यवागूं वा मारुताद्यनुलोमिनीम् ||१३२||
ऊर्ध्वगतपवने रुद्धमूत्रपुरीषस्यान्यत् किं कुर्यादित्याह- पिप्पलीत्यादि||१३२||
Adhikarana 86 (133) · Śloka 133
शुद्धस्योभयतो यस्य ज्वरः शान्तिं न गच्छति |
सशेषदोषरूक्षस्य तस्य तं सर्पिषा जयेत् ||१३३||
सशेषदोषत्वाद्रूक्षत्वाच्च ज्वरेऽप्रशाम्यति सति रूक्षस्य शुद्धस्य प्रतीकारमाह- शुद्धस्येत्यादि||१३३||
Adhikarana 87 (134) · Śloka 134
कृशं चैवाल्पदोषं च शमनीयैरुपाचरेत् |
उपवासैर्बलस्थं तु ज्वरे सन्तर्पणोत्थिते ||१३४||
शोधनविधिमभिधाय संशमनविधिमाह- कृशमित्यादि| उपवासैरिति भोजनपरित्यागैः| जेज्जटाचार्यस्तु- उपवासस्यापि संशमनीयत्वाद्विशिष्टविषये तन्नियोगमाह- उपवासैरित्यादि| उपवासैरिति बहुवचनाद्दशविधमपि लङ्घनं यथावस्थं योज्यम्| तथा च,- “चतुष्प्रकारा संशुद्धिः पिपासामारुतातपौ| पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम्”- इति| ईदृशे च व्याख्याने संशमनप्रस्तावेऽपि पुनः शोधनमभिहितं भवति||१३४||
Adhikarana 88 (135) · Śloka 135
क्लिन्नां यवागूं मन्दाग्निं तृषार्तं पाययेन्नरम् |१३५|
संशमनेष्वाहारस्य वरत्वात्तदभिधानमाह- क्लिन्नामित्यादि| क्लिन्नाम् अल्पसिक्थत्वेन; ‘क्लिन्नां’ इत्यत्र ‘तन्वीं’ इति केचित् पठन्ति, तत्रापि स एवार्थः|१३५|-
Adhikarana 89 (135-137) · Śloka 138
तृट्छर्दिदाहघर्मार्तं मद्यपं लाजतर्पणम् ||१३५||
सक्षौद्रमम्भसा पश्चाज्जीर्णे यूषरसौदनम् |
उपवासश्रमकृते क्षीणं(णे) वाताधिके ज्वरे ||१३६||
दीप्ताग्निं भोजयेत् प्राज्ञो नरं मांसरसौदनम् |
मुद्गयूषौदनश्चापि हितः कफसमुत्थिते ||१३७||
स एव सितया युक्तः शीतः पित्तज्वरे हितः |१३८|
यवाग्वनर्हस्य तर्पणमाह- तृडित्यादि| हित इति ‘अन्नकाले’ इति शेषः| स इत्यादि| स एव मुद्गयूष एव||१३५-१३७||-
Adhikarana 90 (138-140) · Śloka 140
दाडिमामलमुद्गानां यूषश्चानिलपैत्तिके ||१३८||
ह्रस्वमूलकयूषस्तु वातश्लेष्माधिके हितः |
पटोलनिम्बयूषस्तु पथ्यः पित्तकफात्मके ||१३९||
दाहच्छर्दियुतं क्षामं निरन्नं तृष्णयाऽर्दितम् |
सिताक्षौद्रयुतं लाजतर्पणं पाययेत च ||१४०||
द्वन्द्वज्वराणां पथ्यमाह- दाडिमेत्यादि| ह्रस्वमूलको लघुमूलकः| लाजतर्पणं पाययेत चेत्यत्र द्रवानुक्तेः शीतोदकेन लाजतर्पणपानं; केचिच्छृतशीतेन पानमिच्छन्ति, अन्ये तु ज्वरापहैः फलरसैः पानं लाजतर्पणस्य पथ्यमाहुः ||१३८-१४०||
Adhikarana 91 (141) · Śloka 142
कफपित्तपरीतस्य ग्रीष्मेऽसृक्पित्तिनस्तथा |
मद्यनित्यस्य न हिता यवागूस्तमुपाचरेत् ||१४१||
यूषैरम्लैरनम्लैर्वा जाङ्गलैश्च रसैर्हितैः |१४२|
इदानीं प्रशस्ताया यवाग्वा विशिष्टविषयेऽहितत्वं दर्शयन्नाह- कफपित्तपरीतस्येत्यादि| कफपित्तपरीतस्य कफपित्ताभ्यां मिलिताभ्यां व्याप्तस्य| यद्यपि रक्तपित्तप्रतिषेधे घृतमिश्राया यवाग्वा हितत्वमभिधास्यति, तथाऽप्यत्र ज्वरे सति रक्तपित्ते यवागूरहिता, संयोगे पुनस्तथेति तस्य यवगूरहिता| तस्य पथ्यमाह- तमुपाचरेदित्यादि| यूषैः अम्लैरनम्लैर्वेति विकल्पः सात्म्यापेक्षया अग्न्यपेक्षया च| यूषजाङ्गलरसोपदेशोऽपि सात्म्यापेक्षया अवस्थापेक्षया च| यूषो मुद्गादियूषः| कफपित्तपरीतादीनां दाहाद्यभिभूतानां यूषरसोपदेशस्तत्र कालिको मन्तव्यः||१४१||-
Adhikarana 92 (142) · Śloka 142
मद्यं पुराणं मन्दाग्नेर्यवान्नोपहितं हितम् ||१४२||
इदानीं शमनत्वान्मद्यतक्रेऽवस्थावशेन द्रव्यान्तरोपहिते हिततया दर्शयन्नाह- मद्यमित्यादि| मद्यं पुराणं सम्यक् पक्वं, दीपनीयत्वात् कफघ्नत्वाच्च ||१४२||
Adhikarana 93 (143) · Śloka 143
सव्योषं वितरेत्तक्रं कफारोचकपीडिते |१४३|
तक्रप्रयोगमाह- सव्योषमित्यादि| सव्योषं त्रिकटुकसंस्कृतं, वितरेत् दद्यात्||१४३||-
Adhikarana 94 (143-144) · Śloka 144
कृशोऽल्पदोषो दीनश्च नरो जीर्णज्वरार्दितः ||१४३||
विबद्धः सृष्टदोषश्च रूक्षः पित्तानिलज्वरी |
पिपासार्तः सदाहो वा पयसा स सुखी भवेत् ||१४४||
क्षीरावस्थामाह- कृश इत्यादि| दीनः क्लिष्टचित्तः| विबद्धदोषः अप्रवृत्तदोषः, सृष्टदोषः च्युतदोषः| ननु, यदि विबद्धदोषे क्षीरं प्रयुज्यते तत्कथं प्रच्युतेऽपि प्रयुज्यते? सत्यं, उभयशक्तिकत्वात् प्रच्युतेऽपि प्रयुज्यते; अथवा प्रच्युतो दोषः स्तोकस्तोकेन यस्य प्रवर्तते, अत्र सोऽभिप्रेतः; ततः सम्यग्दोषप्रवर्तनार्थं भेदनं क्षीरं च्युतदोषेऽपि प्रयुज्यते इत्यर्थः| एष पाठो निबन्धकारैः कियन्मात्रः पठितः कियन्मात्रश्च परित्यक्तः, अस्माभिर्वृद्धपठितत्वात् सर्वोऽपि लिखितः||१४३-१४४||
Adhikarana 95 (145) · Śloka 145
तदेव तरुणे पीतं विषवद्धन्ति मानवम् |१४५|
तरुणज्वरे पयः पीतं सत् किं कुर्यादित्याह- तदेवेत्यादि| तदेवेति पयः| तरुणे तरुणज्वरे|१४५|-
Adhikarana 96 (145) · Śloka 146
सर्वज्वरेषु सुलघु मात्रावद्भोजनं हितम् ||१४५||
वेगापायेऽन्यथा तद्धि ज्वरवेगाभिवर्धनम् |१४६|
इदानीं सर्वज्वरोचितस्याहारस्य यथाकालमुपयोगमाह- सर्वज्वरेष्वित्यादि| सुलघु पुराणरक्तशाल्यादि, मात्रावत् अल्पं, वेगापाये ज्वरवेगहानौ, अन्यथा उक्तप्रकारवैपरीत्येन, तत् भोजनं, हि यस्मादर्थे| केचित् ‘वेगापाये’ इत्यत्र ‘दिनापाये’ इति पठन्ति; दिनान्ते इति च व्याख्यानयन्ति| ‘सर्वज्वरेषु सप्ताहं मात्रावल्लघु भोजयेत्’ इतीदृशं पूर्वार्धं केचित् पठन्ति, स च निबन्धेषु न दृश्यते||१४५||-
Adhikarana 97 (146-148) · Śloka 149
ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् ||१४६||
अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽथवा |
स क्षीणः कृच्छ्रतां याति यात्यसाध्यत्वमेव च ||१४७||
तस्माद्रक्षेद्बलं पुंसां बले सति हि जीवितम् |
गुर्वभिष्यन्द्यकाले च ज्वरी नाद्यात् कथञ्चन ||१४८||
न तु तस्याहितं भुक्तमायुषे वा सुखाय वा |१४९|
इदानीं जीर्णज्वरितस्यारुचावपि हितभोजनोपदेशमाह- ज्वरित इत्यादि| अस्य जीर्णज्वरिणो यदि हितभोजने कथञ्चिदरुचिस्तदा हितमेवानेकप्रकाराभिः कल्पनाभिर्मुखाप्रियं कृत्वाऽरुचिनिवृत्त्यर्थं ज्वरितोऽश्नीयात्| तथा च तन्त्रान्तरं,- “सातत्यात् स्वाद्वभावाच्च पथ्यं द्वेष्यत्वामागतम्| कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत् पुनः”- इति| कस्मादेवंविधमपि कृत्वा ज्वरितोऽश्नीयादित्याह- अन्नकाले ह्यभुञ्जान इत्यादि| अन्ये तु यद्यस्य जीर्णज्वरिणोऽरुचिः स्यात्तदा अहितमप्यश्नीयादिति व्याख्यानयन्ति| ननु, यद्यरुचौ सत्यामहितभोजनं क्रियते तदा ‘गुर्वभिष्यन्द्यकाले च’ इत्याद्युत्तरोक्तश्लोकेन सह कथं न विरोधः? सत्यं, अहितस्य सातत्यसेवननिराकरणार्थं गुर्वभिष्यन्द्यकाले चेत्यादिश्लोकः| गुर्वित्यादि अभिष्यन्दि दोषधातुमलस्रोतसां क्लेदप्राप्तिजननम्| कथञ्चन सकृदपि| तुशब्दो यस्मादर्थे, तेन यस्मादहितं भुक्तं भोजनं ज्वरितस्य न आयुषोऽर्थे सुखार्थे वा भवति, तस्माद्गुर्वादि न भक्षयेत्| यद्यपि कैश्चिन्निबन्धकारैरेष पाठो न पठितस्तथाऽपि सर्वनिबन्धोपजीविना मया पञ्जिकाकारपठित्वात् पठितः||१४६-१४८||-
Adhikarana 98 (149) · Śloka 150
सन्ततं विषमं वाऽपि क्षीणस्य सुचिरोत्थितम् ||१४९||
ज्वरं सम्भोजनैः पथ्यैर्लघुभिः समुपाचरेत् |१५०|
इदानीं दुर्बलस्य चिरोत्थिते ज्वरे पथ्यसम्भोजनैर्बृंहणविधिमाह- सन्ततमित्यादि| सन्ततं नित्यलग्नं, विषमं सततान्येद्युष्कादिकम्| सम्भोजनैः यथेष्टभोजनैः||१४९||-
Adhikarana 99 (150) · Śloka 151
मुद्गान्मसुरांश्चणकान् कुलत्थान् समकुष्ठकान् ||१५०||
आहारकाले यूषार्थं ज्वरिताय प्रदापयेत् |१५१|
मुद्गान् मसूरांश्चणकानित्यादि| पूर्वं दोषप्रत्यनीकत्वदर्शनार्थं मुद्गादियूषाणामुपादानं, अत्र तु विकारप्रत्यनीकत्वदर्शनार्थम्, अतो न पुनरुक्तिः||१५०||-
Adhikarana 100 (151-152) · Śloka 152
पटोलपत्रं वार्ताकं कठिल्लं पापचैलिकम् ||१५१||
कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम् |
पत्रं गुडूच्याः शाकार्थे ज्वरितानां प्रदापयेत् ||१५२||
पटोलपत्रमित्यादि| कठिल्लं पुनर्नवाशाकं, पापचैलिकं पाठाशाकं, गोजिह्वां गोजीशाकम्||१५१-१५२||
Adhikarana 101 (153) · Śloka 154
लावान् कपिञ्जलानेणान् पृषताञ्छरभाञ्छशान् |
कालपुच्छान् कुरङ्गांश्च तथैव मृगमातृकान् ||१५३||
मांसार्थे मांससात्म्यानां ज्वरितानां प्रदापयेत् |१५४|
लावानित्यादि| कपिञ्जलो गौरतित्तिरिः, एणः कृष्णमृगः, पृषतः चित्रमृगः ‘चीतल’ इति लोके, शरभः अष्टपादुष्ट्रप्रमाणो महाशृङ्गः, कालपुच्छः स च प्रसिद्धः, कुरङ्गः चतुःशृङ्गः ‘मेदुली’ इति लोके| मांसार्थे मांसप्रयोगे; केचिन्मांसार्थे बृंहणार्थे इति व्याख्यानयन्ति, ‘मांसं मांसेन वर्धते’ इत्युक्तत्वात्||१५३||-
Adhikarana 102 (154) · Śloka 155
सारसक्रौञ्चशिखिनः कुक्कुटांस्तित्तिरां(रीं)स्तथा ||१५४||
गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः |१५५|
अतः परं सारसादीनमप्रशस्तत्वं परमतेन दर्शयन्नाह- सारसक्रौञ्चशिखिन इत्यादि| सारसो रक्तचञ्चुकः पक्षिविशेषः, क्रौञ्चः ‘क्रौञ्चि’ इति प्रसिद्धः, शिखी मयूरः, तित्तिरः कृष्णतित्तिरिः, तित्तिरिशब्द अकारान्तोऽप्यस्ति| यद्यपि मांसवर्गे कुक्कुटतित्तिरी परमुष्णौ दर्शितौ न सारसादयस्तथाऽप्यत एव विधानात् ‘उष्णौ मयूरतित्तिरौ’ इति दर्शनात् सारसादयोऽप्युष्णा ज्ञेयाः||१५४||-
Adhikarana 103 (155) · Śloka 156
ज्वरितानां प्रकोपं तु यदा याति समीरणः ||१५५||
तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः |१५६|
निषिद्धानामपि सारसादीनामवस्थायां ज्वरे प्रयोगमाह- ज्वरितानामित्यादि||१५५||-
Adhikarana 104 (156-158) · Śloka 158
परिषेकान् प्रदेहांश्च स्नेहान् संशोधनानि च ||१५६||
(स्नानाभ्यङ्गदिवास्वप्नशीतव्यायामयोषितः) |
कषायगुरुरूक्षाणि क्रोधादीनि तथैव च ||१५७||
सारवन्ति च भोज्यानि वर्जयेत्तरुणज्वरी |
तथैव नवधान्यादिं वर्जयेच्च समासतः ||१५८||
इदानीं नवज्वरे यानि वर्जनीयानि तान्याह- परिषेकानित्यादि| परिषेको धाराप्रसेकः| अवगाहः जलपूर्णकटाहादौ निमज्जनम्| स्नेहान् स्नेहपानम्| संशोधनानि वमनादीनि| कषायः कषायद्रव्यकृतः क्वाथः| क्रोधादीनीत्यत्र आदिशब्दाच्छोकादीनि| सारवन्ति स्निग्धान्यभिष्यन्दीनि च| नवधान्यादिवर्गस्तक्रान्तो व्रणितोपासनीयोक्तः| समासतः सङ्क्षेपतः| यद्यपि परिषेकादिवर्जनमामज्वरलक्षणानन्तरं पठितुमुचितं स्यात्, तथाऽपि नवज्वरे भेषजस्यात्यन्तनिषेधज्ञापनार्थं तत्र नोक्तम्| केचिदमुमेव पाठमीदृशं पठन्ति- “परिषेकान् प्रदेहांश्च स्नेहान् संशोधनानि च| सारवन्ति च भोज्यानि वर्जयेत्तरुणज्वरी|| तथैव नवधान्यानि क्रोधादीनि च वर्जयेत्’ इति व्याख्यानयन्ति च- स्नाननिषेधादवगाहनिषेधो बोद्धव्यः, अभ्यङ्गनिषेधश्च स्नेहनिषेधात्, क्रोधादीनि चेत्यत्र चकारात् कषायो गृहीतव्यः||१५६-१५८||
Adhikarana 105 (159) · Śloka 159
अनवस्थितदोषाग्नेरेभिः सन्धुक्षितो ज्वरः |
गम्भीरतीक्ष्णवेगत्वं यात्यसाध्यत्वमेव च ||१५९||
इदानीं नवज्वरे परिषेकादिसेवनात्किं स्यादित्याह- अनवस्थितेत्यादि| अनवस्थितदोषाग्नेः नवज्वरिणः, एभिः परिषेकादिभिः सन्धुक्षितो वृद्धो ज्वरो गम्भीरादिवेगित्वं यातीति पिण्डार्थः| अनवस्थितदोषा विमार्गगाः, वह्निरनवस्थितो बहिर्गमनात्||१५९||-
Adhikarana 106 (160-162) · Śloka 162
शीततोयदिवास्वप्नक्रोधव्यायामयोषितः |
न सेवेत ज्वरोत्सृष्टो यावन्न बलवान् भवेत् ||१६०||
मुक्तस्यापि ज्वरेणाशु दुर्बलस्याहितैर्ज्वरः |
प्रत्यापन्नो दहेद्देहं शुष्कं वृक्षमिवानलः ||१६१||
तस्मात्कार्यः परीहारो ज्वरमुक्तैर्विरिक्तवत् |
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ||१६२||
इदानीं ज्वरमुक्तस्य शीततोयादिनिषेधार्थमाह- शीतेत्यादि| ज्वरोत्सृष्टो ज्वरविमुक्तः| इदानीं ज्वरमुक्तस्य शीततोयादिसेवनात् किं स्यादित्याह- मुक्तस्येत्यादि| अहितैः शीततोयादिभिः| प्रत्यापन्नः पुनरागतः| दहेत् विनाशयेत्| यस्मादहितसेवनात् पुनरागतो ज्वरो देहं दहेत्, तस्मादहितानां परिहारो ज्वरमुक्तेन पुरुषेण कार्य इति पिण्डार्थः| प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथेति दोषाणामविकृतकार्यकारित्वेन दोषतः प्रकृतिस्थत्वं ज्ञेयं, व्यायामादिसेवनसामर्थ्येन च प्राणतः प्रकृतिस्थत्वं ज्ञेयम्||१६०-१६२||
Adhikarana 107 (163) · Śloka 163
ज्वरे प्रमोहो भवति स्वल्पैरप्यवचेष्टितैः |
निषण्णं भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत् ||१६३||
ज्वरे आयासनिषेधार्थमाह- ज्वरे इत्यादि| ज्वरे ज्वरकर्शिते पुरुषे| प्रमोहोऽत्र मूर्च्छा| अवचेष्टितैः उत्थानचङ्क्रमणादिभिः| निषण्णं शय्यायामेव आसीनमुपविष्टमिति यावत्, मूत्रोच्चारौ च कारयेदित्यत्रापि निषण्णमिति सम्बन्धनीयम्| उच्चारो विष्ठा||१६३||
Adhikarana 108 (164) · Śloka 164
अरोचके गात्रसादे वैवर्ण्येऽङ्गमलादिषु |
शान्तज्वरोऽपि शोध्यः स्यादनुबन्धभयान्नरः ||१६४||
अतः परं ज्वरोपशमेऽरोचकादिप्रतिषेधार्थमाह- अरोचके इत्यादि| गात्रसादः अङ्गग्लानिः| शान्त इव शान्तो लीनज्वर इत्यर्थः, नतु सर्वथोपशान्तज्वरः, यस्मादुपशान्तज्वरेऽरोचकादीनामभाव एव| शोध्यः शोधनीयः| अनुबन्धभयात् पुनरुद्भवशङ्कया||१६४||
Adhikarana 109 (165) · Śloka 165
न जातु स्नापयेत् प्राज्ञः सहसा ज्वरकर्शितम् |
तेन सन्दूषितो ह्यस्य पुनरेव भवेज्ज्वरः ||१६५||
अतः परं ज्वरकर्शितस्य स्नाननिषेधमाह- न जातु स्नापयेदित्यादि| जातु कथञ्चन| प्राज्ञो वैद्यः| सहसा शीघ्रं, यावद्बलं न प्राप्नोतीत्यर्थः| तेन स्नानेन||१६५||
Adhikarana 110 (166-167) · Śloka 167
चिकित्सेच्च ज्वरान् सर्वान्निमित्तानां विपर्ययैः |
श्रमक्षयाभिघातोत्थे मूलव्याधिमुपाचरेत् ||१६६||
स्त्रीणामपप्रजातानां स्तन्यावतरणे च यः |
तत्र संशमनं कुर्याद्यथादोषं विधानवित् ||१६७||
इदानीं सङ्क्षेपतः सर्वज्वरचिकित्सामाह- चिकित्सेदित्यादि| निमित्तानां कारणानां, विपर्ययैः विपरीतैः; यथा- सन्तर्पणोत्थेऽपतर्पणम्, अपतर्पणजे सन्तर्पणमिति| श्रमक्षयाभिघातोत्थे इत्यादि| मूलव्याधिमित्यत्र व्याधिशब्दो दोषे प्रवर्तते, कारणे कार्योपचारात्; तेन मूलदोषं वायुं, श्रमादिभिर्वातकोपादित्यर्थः| स्त्रीणामित्यादि| अपप्रजाताः पतितगर्भाः स्त्रियः, तासां यो ज्वरः, तथा स्तन्यावतरणे च स्त्रीणां यो ज्वरः, तत्र संशमनं कुर्यादिति पिण्डार्थः| यथादोषमिति यस्य दोषस्य तत्र प्रकोपो भवेत्तस्य प्रत्यनीकं संशमनं कुर्यादित्यर्थः| संशमनशब्देन पाचनमपि गृहीतम्| केचिदमुं पाठं न पठन्ति; श्रीजेज्जटाचार्यपठितत्वादस्माभिः पठितः||१६६-१६७||
Adhikarana 111 (168) · Śloka 168
अतः संशमनीयानि कषायाणि निबोध मे |
सर्वज्वरेषु देयानि यानि वैद्येन जानता ||१६८||
एवं सङ्क्षेपेण चिकित्सामुपदिश्य, अधुना संशमनकषायान् विवक्षुराह- अत इत्यादि| निबोध जानीहि| मे मत्सकाशात्||१६८||
Adhikarana 112 (169) · Śloka 169
पिप्पलीसारिवाद्राक्षाशतपुष्पाहरेणुभिः |
कृतः कषायः सगुडो हन्याच्छ्वसनजं ज्वरम् ||१६९||
इदानीं प्रथमं वातज्वरे संशमनमाह- पिप्पलीत्यादि| सारिवा उत्पलसारिवा, हरेणुः रेणुका| श्वसनजं वातजम्| पिप्पल्यादिद्रव्यपलमुदकस्य षोडशभिः पलैरुत्क्वाथ्य, चतुर्भागावशिष्टं पलचतुष्टयं गृहीत्वा, गुडकर्षसंयुक्तं पाययेत्| तथा चोक्तम्,- “भेषजात् षोडशगुणं जलं; क्वाथ्यं पलं मतम्| चतुर्भागावशेषं तु पेयमेवं सुखार्थिना”- इति| क्वाथ्यद्रव्यस्य यत् पलं प्रमाणं तदुत्तमानां; तथा चोक्तम्,- “उत्तमस्य पलं मानं त्रिभिः कर्षैश्च मध्यमे| जघन्यस्य पलार्धं च स्नेहक्वाथौषधेषु च”- इति| वृद्धवैद्याश्च मध्यमप्रमाणेनाष्टौ शरावानुदकस्य प्रक्षिप्याष्टभागावशेषितं शरावमेकं गृह्णन्ति, शेषं सममेव व्याख्यानयन्ति; गुडावापमपि वृद्धवैद्या न मन्यन्ते||१६९||
Adhikarana 113 (170) · Śloka 170
शृतं शीतकषायं वा गुडूच्याः पेयमेव तु |१७०|
शृतमित्यादि| शृतम् अनन्तरोक्तकल्पनया क्वाथीकृतम्| उष्णोदकपाचिताद्द्रव्याद्रात्रिपर्युषिताद्यो रसोऽभिनिर्याति स शीतकषायशब्दवाच्यः| तथा चोक्तं- “द्रव्यादापोत्थितात्तोये प्रतप्ते संस्थितान्निशि| कषायो योऽभिनिर्याति स शीतः समुदाहृतः”- इति| शृतकषायपानं कफानुबन्धवातज्वरे, पित्तानुबन्धे तु शीतकषायपानमिति|१७०|-
Adhikarana 114 (170) · Śloka 171
बलादर्भश्वदंष्ट्राणां कषायं पादशेषितम् ||१७०||
शर्कराघृतसंयुक्तं पिबेद्वातज्वरापहम् |१७१|
बलादर्भश्वदंष्ट्राणामित्यादि| श्वदंष्ट्रा गोक्षुरकः, कषायः पूर्वोक्तकल्पनया क्वथितः| शर्कराघृतयोः प्रमाणं कर्षम्||१७०||-
Adhikarana 115 (171-172) · Śloka 172
शतपुष्पावचाकुष्ठदेवदारुहरेणुकाः ||१७१||
कुस्तुम्बुरूणि नलदं मुस्तं चैवाप्सु साधयेत् |
क्षौद्रेण सितया चापि युक्तः क्वाथोऽनिलाधिके ||१७२||
शतपुष्पेत्यादि| हरेणुका रेणुका, कुस्तुम्बुरु धान्यकं नलदम् उशीरम्| शर्कराक्षौद्रप्रमाणं पूर्ववत्| शतपुष्पादिहरेणुकान्तैरेको योगः परं शर्कराहीनः; कुस्तुम्बुरुप्रभृतिभिश्च द्वितीयः||१७१-१७२||
Adhikarana 116 (173-174) · Śloka 174
द्राक्षागुडूचीकाश्मर्यत्रायमाणाः ससारिवाः |
निष्क्वाथ्य सगुडं क्वाथं पिबेद्वातकृते ज्वरे ||१७३||
गुडूच्याः स्वरसो ग्राह्यः शतावर्याश्च तत्समः |
निहन्यात्सगुडः पीतः सद्योऽनिलकृतं ज्वरम् ||१७४||
द्राक्षागुडूचीत्यादि| काश्मर्यं गम्भारीफलम्| सगुडमिति क्वाथोपरि कर्षप्रमाणस्य गुडस्य पश्चान्निक्षेपः||१७३-१७४||
Adhikarana 117 (175) · Śloka 175
घृताभ्यङ्गस्वेदलेपानवस्थासु च योजयेत् |१७५|
घृतेत्यादि| ननु, यथाप्रतिज्ञं कषायेषु वाच्येषु स्नेहनाद्युपदेशः कुतोऽभिधीयते? उच्यते- वातज्वरप्रतीकारप्रस्तावात्| अवस्थासु शीतोद्गमादिषु| तत्र जीर्णज्वरे त्वग्गते घृताभ्यङ्गः, शीतोद्गमे च स्वेदलेपाविति|१७५|-
Adhikarana 118 (175) · Śloka 176
श्रीपर्णीचन्दनोशीरपरूषकमधूकजः ||१७५||
शर्करामधुरो हन्ति कषायः पैत्तिकं ज्वरम् |१७६|
पैत्तिकज्वरसंशमनमाह- श्रीपर्णीत्यादि| श्रीपर्णीशब्देन गम्भारीफलं, चन्दनं रक्तचन्दनं, परूषकं स्वनामप्रसिद्धं, मधूको गुडपुष्पः , तस्यापि फलं ग्राह्यम्| यावत्प्रमाणया शर्करया मधुरः क्वाथो भवति तावत्येव शर्करा प्रक्षेप्तव्या, वृद्धवैद्या आदिद्रव्यसमां शर्करामाहुः||१७५||
Adhikarana 119 (176) · Śloka 176
पीतं पित्तज्वरं हन्यात्सारिवाद्यं सशर्करम् ||१७६||
पीतं पित्तज्वरमित्यादि| सारिवाद्यं सारिवादिद्रव्यगणजातं कषायकल्पनया निष्क्वाथ्य कर्षप्रमाणशर्करायुतं पीतं सत् पित्तज्वरं हन्यादिति सम्बन्धः||१७६||
Adhikarana 120 (177) · Śloka 177
सयष्टीमधुकं हन्यात्तथैवोत्पलपूर्वकम् |१७७|
सयष्टीमधुकमित्यादि| उत्पलादिगणोक्तं द्रव्यजातं सयष्टीमधुकं निष्क्वाथ्य पीतं सत् पित्तज्वरं हन्यादिति सम्बन्धः| यद्यपि उत्पलादिगणेनैव यष्टीमधुकं प्राप्तं तथाऽपि पुनः सयष्टीमधुकमिति यत्कृतं तद्यष्टीमधुकस्य भागद्वयप्रतिपादनार्थम्|१७७|-
Adhikarana 121 (177) · Śloka 177
शृतं शीतकषायं वा सोत्पलं शर्करायुतम् ||१७७||
शृतमित्यादि| शृतं शीतकषायं वेति विकल्पो दाहादितारतम्याद्यपेक्षया| सोत्पलमित्यत्र आदिशब्दो लुप्तो द्रष्टव्यः; तेन, उत्पलादिगणसहितम्, उत्पलादिगणकृतमित्यर्थः||१७७||
Adhikarana 122 (178) · Śloka 178
गुडूचीपद्मरोध्राणां सारिवोत्पलयोस्तथा |
शर्करामधुरः क्वाथः शीतः पित्तज्वरापहः ||१७८||
गुडूचीत्यादि| पद्मं कमलम्, उत्पलम् ईषन्नीलम्| एते च सर्व एवानन्तरोक्ताः पाक्यकषायाः शीतकषाया वा दोषादिबलं दृष्ट्वा वैद्येन योज्याः||१७८||
Adhikarana 123 (179) · Śloka 180
द्राक्षारग्वधयोश्चापि काश्मर्यस्याथवा पुनः |
स्वादुतिक्तकषायाणां कषायैः शर्करायुतैः ||१७९||
सुशीतैः शमयेत्तृष्णां प्रवृद्धां दाहमेव च |१८०|
इदानीं पित्तज्वरे आवस्थिकं क्रममाह- द्राक्षारग्वधयोरित्यादि| द्राक्षारग्वधयोश्चापीत्येको योगः, काश्मर्यस्याथवेति द्वितीयः, स्वादुतिक्तकषायाणामिति तृतीयः| आरग्वधः कृतमालफलं, काश्मर्यं गम्भारीफलम्| स्वादुतिक्तकषायाणामिति स्वादूनि द्राक्षामधुकसारिवादीनि, तिक्तानि दुरालभापर्पटककिराततिक्तकप्रभृतीनि, कषायाणि पद्मोत्पलप्रभृतीनि, तेषां कषायैः| सुशीतैरिति शीतकषायैरेवेति कार्तिककुण्डाचार्यः, जेज्जटाचार्यस्तु पूर्व क्वथितैः पश्चाच्छीतीकृतैरिति मन्यते||१७९||-
Adhikarana 124 (180) · Śloka 181
शीतं मधुयुतं तोयमाकण्ठाद्वा पिपासितम् ||१८०||
वामयेत्पाययित्वा तु तेन तृष्णा प्रशाम्यति |१८१|
पित्तज्वरेऽपरमावस्थिकं कार्यमाह- शीतं मधुयुतमित्यादि| यद्यपि संशमनप्रस्तावे वमनं नोपयुक्तं, तथाऽपि प्रवृद्धायां तृष्णायां वमनस्यापि संशमनकार्यकरत्वादुपदेशः||१८०||-
Adhikarana 125 (181) · Śloka 182
क्षीरैः क्षीरिकषायैश्च सुशीतैश्चन्दनायुतैः ||१८१||
अन्तर्दाहे विधातव्यमेभिश्चान्यैश्च शीतलैः |१८२|
क्षीरैरित्यादि| क्षीरिकषायैः वटादिक्वाथैः, विधातव्यं पानलेपनपरिषेकावगाहादिकम्| कार्तिककुण्डस्तु बहिःपरिमार्जनमेवेच्छति| अन्यैश्च शीतलैः काकोल्यादिभिः शीतवीर्यैः, तथा शीतस्पर्शैरपीत्यर्थः||१८१||-
Adhikarana 126 (182-183) · Śloka 184
पद्मकं मधुकं द्राक्षां पुण्डरीकमथोत्पलम् ||१८२||
यवान् भृष्टानुशीराणि समङ्गां काश्मरीफलम् |
निदध्यादप्सु चालोड्य निशापर्युषितं ततः ||१८३||
क्षौद्रेण युक्तं पिबतो ज्वरदाहौ प्रशाम्यतः |१८४|
पित्तज्वरावस्थायां शीतकषायमाह- पद्मकं मधुकमित्यादि| समङ्गा अञ्जलिकारिका, वराहक्रान्तामपरे| यद्यपि काश्मरीफलमित्युक्तं तथाऽपि काश्मरीफलमज्जा गृह्यते, अत्यन्तपित्तहरत्वात्| निदध्यात् धारयेत्| अप्सु चालोड्येति अर्धक्वथिताम्बुनि प्रतप्ते आलोड्येत्यर्थः; अथवा अनुष्णमपि वार्यौषधान्वितं पर्युषितं शीतकषायम्, अविशेषात्| ज्वरदाहौ प्रशाम्यत इति ज्वरश्च दाहश्च, तौ प्रशाम्यतः; एतेन ज्वरसंयुक्तो दाहः शाम्यति, तथा ज्वरं विनाऽपि यो दाहः सोऽपि शाम्यतीत्यर्थः| अन्ये तु ‘ज्वरो दाहश्च शाम्यति’ इति पठन्ति| तत्र पाठे ज्वरोऽपि शाम्यतीति लभ्यते| अनेन शीतकषायविधानेनान्यान्यपि शीतकषायाणि कार्याणि| केचित् ‘पद्मकं मधुकं द्राक्षां पुण्डरीकमथोत्पलम्’ इति पाठं न पठन्ति||१८२-१८३||-
Adhikarana 127 (184) · Śloka 184
जिह्वातालुगलक्लोमशोषे मूर्ध्नि च दापयेत् ||१८४||
पित्तज्वरावस्थायां मूर्धप्रलेपमाह- जिह्वातालुगलक्लोमेत्यादि| क्लोम तिलकम्| मूर्ध्नि मस्तके| दापयेत् पद्मकादिशीतकषायस्य जिह्वादिशोषे मस्तकरुजासु चाभ्यन्तरमुपयोगः स्पर्शे चेति व्याख्यानयन्ति| ननु, कषायाधिकारे कथं मूर्ध्नि लेपो गण्डूषश्च निर्दिश्यते? उच्यते- कषायाणीति बाहुल्येन निर्देशात्; यथा छत्रिणः, तेनादोष इति||१८४||
Adhikarana 128 (185) · Śloka 186
केशरं मातुलङ्गस्य मधुसैन्धवसंयुतम् |
शर्करादाडिमाभ्यां वा द्राक्षाखर्जूरयोस्तथा ||१८५||
वैरस्ये धारयेत्कल्कं गण्डूषं च तथा हितम् |१८६|
पित्तज्वरे आवस्थिकं क्रममाह- केशरमित्यादि| केशरादिः मधुसैन्धवसंयुतमित्यन्त एको योगः, शर्करादिः खर्जूरयोस्तथेत्यन्तो द्वितीयः| वैरस्ये मुखवैरस्ये| धारयेत् ‘मुखे’ इति शेषः| कल्को दृषदि पेषितः सद्रवः| तथा हितमिति विशिष्टदोषारब्धज्वरप्रत्यनीकमित्यर्थः| केचिज्जिह्वाताल्वादिशोषे मातुलुङ्गकेशरस्यैव केवलं मधुसैन्धवयुक्तस्य मूर्ध्नि धारणमिच्छन्ति, तथा द्राक्षाखर्जूरकल्कस्य शर्करादाडिमयुतस्य वैरस्ये आस्ये धारणमिच्छन्ति| यद्यपि मुखवैरस्यं वातलिङ्गं, तथाऽपि पित्तादपि वैरस्यं ज्ञेयं, तन्त्रान्तरोक्तत्वात्| केचित् ‘पद्मकं मधुकं द्राक्षां’ इत्यादिकं ‘गण्डूषं च तथा हितं’ इति पर्यन्तं न पठन्ति; स च पाठः पठनीयः, सर्वनिबन्धकारैः पठितत्वात्||१८५||-
Adhikarana 129 (186) · Śloka 187
सप्तच्छदं गुडूचीं च निम्बं स्फूर्जकमेव च ||१८६||
क्वाथयित्वा पिबेत् क्वाथं सक्षौद्रं कफजे ज्वरे |१८७|
कफज्वरसंशमनान्याह- सप्तच्छदमित्यादि| सप्तच्छदः सप्तपर्णः, स्फूर्जको वनकुरण्टकाकारः फणिज्जकापरपर्यायः| क्वाथमित्यत्र कल्कमित्यन्ये| पिबेत् परं शीतीकृतं, मधुना उष्णेन सह निषिद्धत्वात्; मधु चात्र क्वाथ्यद्रव्यचतुर्थांशम्||१८६||-
Adhikarana 130 (187) · Śloka 188
कटुत्रिकं नागपुष्पं हरिद्रा कटुरोहिणी ||१८७||
कौटजं च फलं हन्यात् सेव्यमानं कफज्वरम् |१८८|
कटुत्रिकमित्यादि| नागपुष्पं नागकेशरम्| सेव्यमानम् असकृदुपयोगात्||१८७||-
Adhikarana 131 (188-189) · Śloka 189
हरिद्रां चित्रकं निम्बमुशीरातिविषे वचाम् ||१८८||
कुष्ठमिन्द्रयवान् मूर्वां पटोलं चापि साधितम् |
पिबेन्मरिचसंयुक्तं सक्षौद्रं कफजे ज्वरे ||१८९||
हरिद्रामित्यादि| मूर्वा चोरस्नायुः, ‘सक्षौद्रं’ इत्यत्र ‘सगुडं’ इत्यन्ये पठन्ति||१८८-१८९||
Adhikarana 132 (190) · Śloka 190
सारिवातिविषाकुष्ठपुराख्यैः सदुरालभैः |
मुस्तेन च कृतः क्वाथः पीतो हन्यात् कफज्वरम् ||१९०||
सारिवातिविषाकुष्ठेत्यादि| पुरो गुग्गुलुः||१९०||
Adhikarana 133 (191) · Śloka 191
मुस्तं वृक्षकबीजानि त्रिफला कटुरोहिणी |
परूषकाणि च क्वाथः कफज्वरविनाशनः ||१९१||
मुस्तमित्यादि| वृक्षकबीजानि इन्द्रयवाः||१९१||
Adhikarana 134 (192) · Śloka 192
राजवृक्षादिवर्गस्य कषायो मधुसंयुतः |
कफवातज्वरं हन्याच्छीघ्रं कालेऽवचारितः ||१९२||
इदानीं यद्यप्युद्देशशास्त्रसामर्थ्यात् कफज्वरचिकित्सानन्तरं सन्निपातज्वरचिकित्सितं पठितुमुचितं, तथाऽपि सन्निपाते द्वन्द्वजचिकित्सा कर्तव्येति दर्शनार्थं पूर्वं द्वन्द्वजचिकित्सामाह- राजवृक्षादिवर्गस्येत्यादि| राजवृक्षादिः आरग्वधादिः, कालेऽवचारित औषधकाले दत्तः| पूर्वोक्तं वातपित्तद्वन्द्वजक्रमं विहाय वातश्लेष्मद्वन्द्वजचिकित्सितं प्रथमं यदत्र कृतं तत् केवलकफज्वरेऽपि वातश्लेष्मद्वन्द्वजचिकित्सितं विधेयमिति दर्शनार्थम्||१९२||
Adhikarana 135 (193-194) · Śloka 195
नागरं धान्यकं भार्गीमभयां सुरदारु च |
वचां पर्पटकं मुस्तं भूतीकमथ कट्फलम् ||१९३||
निष्क्वाथ्य कफवातोत्थे क्षौद्रहिङ्गुसमन्वितम् |
दा(पा)तव्यं श्वासकासघ्नं श्लेष्मोत्सेके गलग्रहे ||१९४||
हिक्कासु कण्ठश्वयथौ शूले हृदयपार्श्वजे |१९५|
नागरमित्यादि| भूतीकं सुगन्धितृणं ‘रोहिषं’ इति प्रसिद्धम्| निष्क्वाथ्य पूर्वोक्तया कषायकल्पनया| मधु कर्षप्रमाणम्| हिङ्गु माषकप्रमाणं, “माषिके हिङ्गुसिन्धूत्थे” इति वचनात्| श्लेष्मोत्सेके श्लेष्मवृद्धौ| हृदयपार्श्वजे इत्यत्रापि ‘शूले’ इति सम्बध्यते| एष योगः शृङ्गीसहितः कट्फलादिः| केचिदमुं पाठं देवदार्वभयेत्यादिना पठन्ति||१९३-१९४||-
Adhikarana 136 (195-198) · Śloka 199
बलापटोलत्रिफलायष्ट्याह्वानां वृषस्य च ||१९५||
क्वाथो मधुयुतः पीतो हन्ति पित्तकफज्वरम् |
कटुकाविजयाद्राक्षामुस्तपर्पटकैः कृतः ||१९६||
कषायो नाशयेत् पीतः श्लेष्मपित्तभवं ज्वरम् |
भार्गीवचापर्पटकधान्यहिङ्ग्वभयाघनैः ||१९७||
काश्मर्यनागरैः क्वाथः सक्षौद्रः श्लेष्मपित्तजे |
सशर्करामक्षमात्रां कटुकामुष्णवारिणा ||१९८||
पीत्वा ज्वरं जयेज्जन्तुः कफपित्तसमुद्भवम् |१९९|
बलापटोलत्रिफलेत्यादि| विजया हरीतकी| भार्गीवचेत्यादि| अक्षमात्रां कर्षप्रमाणाम्||१९५-१९८||-
Adhikarana 137 (199-200) · Śloka 201
किराततिक्तममृतां द्राक्षामामलकं शटीम् ||१९९||
निष्क्वाथ्य वातपित्तोत्थे तं क्वाथं सगुडं पिबेत् |
रास्ना वृषोऽथ त्रिफला राजवृक्षफलैः सह ||२००||
कषायः साधितः पीतो वातपित्तज्वरं जयेत् |२०१|
किराततिक्तमित्यादि| जेज्जटाचार्यस्तु सन्निपातज्वरचिकित्सां पठित्वा द्वन्द्वजचिकित्सां पठति, ‘दोषैः पृथक् समस्तैश्च द्वन्द्वैरागन्तुभिस्तथा’ इत्युक्तत्वात्||१९९-२००||-
Adhikarana 138 (201) · Śloka 201
सर्वदोषसमुत्थे तु संसृष्टानवचारयेत् ||२०१||
इदानीं समसन्निपातज्वरचिकित्सामाह- सर्वदोषेत्यादि| सर्वदोषसमुत्थे समसन्निपाते| संसृष्टानवचारयेदिति वातादिविहितान् कषायानेकीकृत्य प्रयुञ्जीतेत्यर्थः| अस्याग्रे केचित् ‘वर्धनैः क्षपणैर्वापि’ इत्यादिकं पाठं पठन्ति, स च वर्तमानेषु पुस्तकेषु न दृश्यते, अतो न लिखितः||२०१||
Adhikarana 139 (202) · Śloka 202
यथादोषोच्छ्रयं चापि ज्वरान् सर्वानुपाचरेत् |२०२|
विषमसन्निपातचिकित्सामाह- यथादोषोच्छ्रयमित्यादि| यथादोषोच्छ्रयमिति यस्य दोषस्य उच्छ्रयो भवति तद्दोषप्रतीकारेणेत्यर्थः| सर्वान् विषमसन्निपातज्वरान्| एतत् सामान्यं सर्वेषामेव ज्वराणां चिकित्सितेषु आगन्तूनामपि चिकित्सिते च|२०२|-
Adhikarana 140 (202) · Śloka 203
वृश्चीवबिल्ववर्षाभ्वः पयश्चोदकमेव च ||२०२||
पचेत् क्षीरावशिष्टं तु तद्धि सर्वज्वरापहम् |२०३|
सामान्यसन्निपातचिकित्सां निर्दिदिक्षुरादौ क्षीरस्य जीवनतया क्षीरप्रयोगमाह- वृश्चीवेत्यादि| वृश्चीवः श्वेतपुनर्नवा, वर्षाभूः रक्तपुनर्नवा| पचेदिति “द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्| क्षीरावशेषं कर्तव्यं क्षीरपाके त्वयं विधिः”- इति परिभाषया| केचिदग्रिमश्लोकोक्तमेवोदकप्रमाणमिच्छन्ति| अन्ये एनं योगद्वयं मन्यन्ते, तन्त्रान्तरोक्तत्वात्; वृश्चीवबिल्वमित्येको योगः, वर्षाभ्वादिः द्वितीयः||२०२||-
Adhikarana 141 (203) · Śloka 204
उदकांशास्त्रयः क्षीरं शिंशपासारसंयुतम् ||२०३||
तत् क्षीरशेषं क्वथितं पेयं सर्वज्वरापहम् |२०४|
सन्निपातेऽपरमपि क्षीरयोगमाह- उदकांशास्त्रय इत्यादि| उदकांशास्त्रयः क्षीरांशापेक्षया, क्षीरस्याष्टौ पलानि, शिंशपासारः पलप्रमितः||२०३||-
Adhikarana 142 (204-207) · Śloka 207
नलवेतसयोर्मूले मूर्वायां देवदारुणि ||२०४||
कषायं विधिवत् कृत्वा पेयमेतज्ज्वरापहम् |
हरिद्रा भद्रमुस्तं च त्रिफला कटुरोहिणी ||२०५||
पिचुमन्दः पटोली च देवदारु निदिग्धिका |
एषां कषायः पीतस्तु सन्निपातज्वरं जयेत् ||२०६||
अविपक्तिं प्रसेकं च शोफं कासमरोचकम् |
त्रैफलो वा ससर्पिष्कः क्वाथः पेयस्त्रिदोषजे ||२०७||
नलवेतसयोरित्यादि| कषायं विधिवत् कृत्वेति पूर्वोक्तकषायकल्पनया| क्षीरसाध्यायामवस्थायामयमपि योगो देयः| केचिन्नलवेतसादियोगं न पठन्ति; स च पठनीयः, सर्वनिबन्धकारैः पठितत्वात्||२०४-२०७||
Adhikarana 143 (208) · Śloka 209
अनन्तां बालकं मुस्तां नागरं कटुरोहिणीम् सुखाम्बुना प्रागुदयात्पाययेताक्षसम्मितम् ||२०८||
एष सर्वज्वरान् हन्ति दीपयत्याशु चानलम् |२०९|
अनन्तामित्यादि| अनन्ता दुरालभा| सुखाम्बुना अत्रोष्णोदकेन पलप्रमितेन| प्रागुदयादिति अत्रोदयः सूर्यस्य बोद्धव्यः; न तु ज्वरस्य; तेन सूर्योदयात् पूर्वं देयं, एतेन प्रातरेव| अक्षसम्मितं कर्षसमम्| सुखाम्बुना प्रागुदयात्’ इत्यत्र ‘पिष्ट्वा सुखाम्बुना कल्कं’ इति केचित् पठन्ति||२०८||-
Adhikarana 144 (209) · Śloka 210
द्रव्याणि दीपनीयानि तथा वैरेचनानि च ||२०९||
एकशो वा द्विशो वाऽपि ज्वरघ्नानि प्रयोजयेत् |२१०|
इदानीमुक्तानुक्तसङ्ग्रहार्थमाह- द्रव्याणि दीपनीयानीत्यादि| दीपनीयानि पिप्पल्यादीनि, वैरेचनानि त्रिवृदभयादीनि, ज्वरघ्नानि दीर्घज्वरघ्नानि| प्रयोजयेत् दोषबलमपेक्ष्य सन्निपातजीर्णज्वरावस्थायामेकशो द्विशो वा दापयेत्| ये त्वेवं वदन्ति- पिप्पल्यादीनि प्रायशः कटुकानि, तानि च ज्वरे न प्रायोगिकान्युष्णवीर्यत्वात्; विरेचनान्यपि गुरुत्वादयौगिकानि; तेषां सम्यक् शास्त्रावबोधो नास्ति, पिप्पल्यादीनां ज्वरे पठितत्वात्||२०९||-
Adhikarana 145 (210) · Śloka 211
सर्पिर्मध्वभयातैललेहोऽयं सर्वजं ज्वरम् ||२१०||
शान्तिं नयेत्त्रिवृच्चापि सक्षौद्रा प्रबलं ज्वरम् |२११|
सर्पिरित्यादि| प्रबलं दाहादिसमन्वितम्| लेहावस्था च तन्त्रान्तराज्ज्ञेया| तथा च तन्त्रान्तरं- “पथ्यातैलघृतक्षौद्रैर्लेहो दाहश्रमज्वरान्| कासासृक्पित्तवीसर्पश्वासान् हन्ति वमीरपि”- इति| ‘सक्षौद्रा विषमज्वरं’ इति केचित् पठन्ति; तन्न, विषमज्वरस्य परतोऽभिधास्यमानत्वात्||२१०||-
Adhikarana 146 (211) · Śloka 211
ज्वरे तु विषमे कार्यमूर्ध्वं चाधश्च शोधनम् ||२११||
इदानीं विषमज्वरचिकित्सामाह- ज्वरे त्वित्यादि| ऊर्ध्वशोधनं वमनं, तच्च कफाधिके विषमज्वरे| अधःशोधनं विरेचनं, तच्च पित्ताधिके| एतेन सर्वेष्वेव विषमज्वरेषु कफपित्ताधिकतया वमनविरेचने प्रयोक्तव्ये इत्युक्तम्| अन्ये तु विषमज्वरे इत्यत्र यद्यपि विषमज्वरशब्देन सन्ततं विहायान्ये विषमज्वराः प्रोक्ताः, तथाऽप्यत्र तृतीयचतुर्थकौ ग्राह्यौ, यतस्तयोरेव साधारणं वातादिहरमास्थापनविरेचनवमनादिकं युक्तमिति व्याचक्षते||२११||
Adhikarana 147 (212) · Śloka 212
घृतं प्लीहोदरोक्तं वा निहन्याद्विषमज्वरम् |२१२|
घृतमित्यादि| प्लीहोदरोक्तं घृतं षट्पलं, तच्च कफोत्तरे विषमज्वरे देयं, तीक्ष्णत्वात्|२१२|-
Adhikarana 148 (212) · Śloka 212
गुडप्रगाढां त्रिफलां पिबेद्वा विषमार्दितः ||२१२||
गुडप्रगाढामित्यादि| गुडप्रगाढां किञ्चिदधिककर्षगुडप्रतिवापयुतां त्रिफलां पिबेत्, ‘क्वथितां’ इति शेषः| विषमार्दितो विषमज्वरपीडितः||२१२||
Adhikarana 149 (213) · Śloka 213
गुडूचीनिम्बधात्रीणां कषायं वा समाक्षिकम् |२१३|
गुडूचीनिम्बधात्रीणामित्यादि| धात्री आमलकी| एष योगश्चातुर्थकज्वरघ्नः, समानतन्त्रोक्तत्वात्|२१३|-
Adhikarana 150 (213) · Śloka 213
प्रातः प्रातः ससर्पिष्कं रसोनमुपयोजयेत् ||२१३||
प्रातः प्रातः ससर्पिष्कमित्यादि||२१३||
Adhikarana 151 (214) · Śloka 215
त्रिचतुर्भिः पिबेत् क्वाथं पञ्चभिर्वा समन्वितैः |
मधुकस्य पटोलस्य रोहिण्या मुस्तकस्य च ||२१४||
हरीतक्याश्च सर्वोऽयं त्रिविधो योग इष्यते |२१५|
मधुकादीनां हरीतक्यन्तानां द्रव्याणां त्रिभिः, चतुर्भिः, पञ्चभिर्वा द्रव्यैः समन्वितैः कृतं क्वाथं पिबेदिति सम्बन्धः| मधुकं यष्टीमधु, रोहिणी कटुका, मुस्तं प्रसिद्धम्| सर्वोऽयं त्रिविधो योग इष्यते; अयं मधुकादियोगस्त्रिप्रकारो वक्ष्यते| कथं? मधुकपटोलरोहिणीभिस्त्रिरेको योगः, मधुकपटोलरोहिणीमुस्तकैश्चतुर्भिर्द्वितीयः, मधुकपटोलरोहिणीमुस्तकहरीतकीभिः पञ्चभिस्तृतीयः, एवं त्रयो योगाः| केचिन्मुस्तकस्थाने ‘वत्सकं’ पठित्वाऽन्यथा व्याख्यानयन्ति; तद्यथा- मधुकादिहरीतकीपर्यन्तानां द्रव्याणां रसभेदवत् त्रियोगचतुष्कसंयोगपञ्चसंयोगसंस्कृतं क्वाथं पिबेत्; तद्यथा,- मधुकपटोलरोहिणीभिः, मधुकपटोलवत्सकैः, मधुकपटोलहरीतकीभिः, मधुकरोहिणीवत्सकैः, मधुकरोहिणीहरीतकीभिः, मधुकवत्सकहरीतकीभिः, पटोलरोहिणीवत्सकैः, पटोलवत्सकहरीतकीभिः, पटोलरोहिणीहरीतकीभिः, रोहिणीवत्सकहरीतकीभिः, एवं त्रिभिर्द्रव्यैर्दशविकल्पा भवन्ति; मधुकपटोलरोहिणीवत्सकैः, मधुकपटोलरोहिणीहरीतकीभिः, मधुकरोहिणीवत्सकहरीतकीभिः, मधुकपटोलवत्सकहरीतकीभिः, पटोलरोहिणीवत्सकहरीतकीभिः, एवं चतुर्भिः पञ्च विकल्पाः; मधुकरोहिणीवत्सकपटोलकहरीतकीभिः पञ्चभिरेकः; इत्थं त्रिप्रकरस्यापि योगस्य षोडश विकल्पा भवन्ति, ते च सूक्ष्ममतिना वैद्येन दोषापेक्षया प्रयोक्तव्याः||२१४||-
Adhikarana 152 (215) · Śloka 216
सर्पिःक्षीरसिताक्षौद्रमागधीर्वा यथाबलम् ||२१५||
दशमूलीकषायेण मागधीर्वा प्रयोजयेत् |२१६|
सर्पिःक्षीरसिताक्षौद्रेत्यादि| सर्पिःप्रभृतीनां समुदितानामयं प्रयोगो विषमज्वरे ज्ञेयः| दशमूलीकषायेण पातव्यकषायकल्पनया क्वथितेन, कर्षणप्रमाणां पिप्पलीं पिबेत्, यस्मादयं पिप्पलीवर्धमानो न भवति||२१५||-
Adhikarana 153 (216) · Śloka 216
पिप्पलीवर्धमानं वा पिबेत् क्षीररसाशनः ||२१६||
वर्धमानपिप्पलीप्रयोगमाह- पिप्पलीवर्धमानमित्यादि| वर्धमानपिप्पलीप्रयोगो वातव्याधिचिकित्सितमवलोक्य कर्तव्यः||२१६||
Adhikarana 154 (217) · Śloka 217
ताम्रचूडस्य मांसेन पिबेद्वा मद्यमुत्तमम् |२१७|
ताम्रचूडस्येत्यादि| ताम्रचूडः कुक्कुटः| मद्यमुत्तमं मार्द्वीकं सस्यकं च| जेज्जटाचार्यस्तु मार्द्वीकस्थाने माध्वीकमाह| कुक्कुटमांसेन सहोत्तममद्यपानं वातप्रधानस्य मन्दाग्नेश्च| एतानि वक्ष्यमाणानि पूर्वोक्तानि च यद्यपि विषमज्वरे पठितानि, तथाऽपि जीर्णज्वरेऽपि देयानि|२१७|-
Adhikarana 155 (217) · Śloka 218
कोलाग्निमन्थत्रिफलाक्वाथे दध्ना घृतं पचेत् ||२१७||
तिल्वकावापमेतद्धि विषमज्वरनाशनम् |२१८|
कोलाग्निमन्थत्रिफलेत्यादि| कोलं पञ्चकोलं, तिल्वकः पट्टिकारोध्रः| कल्पनामाह- पञ्चकोलादिद्रव्याणां पलशतं, पानीयपलानि द्वादशाधिकानि पञ्चशतानि, एकीकृत्य विपचेत्, यावच्चतुर्थांशमष्टाविंशत्यधिकशतं निष्पद्यते; तेन क्वाथेन चतुर्गुणेन तथा चतुर्गुणेन च दध्ना द्वात्रिंशत्पलप्रमितं घृतम्, अष्टपलप्रमाणं तिल्वकावापं दत्त्वा पचेत्| अनेन विधिनाऽनुक्तप्रमाणानि तैलघृतानि पाचनीयानि| ब्रह्मदेवाचार्यस्तु पञ्चकोलादीनां कषायत्रयेण पृथक् स्नेहचतुर्गुणेन तथा चतुर्थेन दध्ना स्नेहचतुर्गुणेन च घृतं तिल्वकावापं साधयति; तच्च प्रमादव्याख्यानं, पञ्चकोलादिकषायत्रयस्य जेज्जटादिष्वनुक्तेः||२१७||-
Adhikarana 156 (218-220) · Śloka 221
पिप्पल्यतिविषाद्राक्षासारिवाबिल्वचन्दनैः ||२१८||
कटुकेन्द्रयवोशीरसिंहीतामलकीघनैः |
त्रायमाणास्थिराधात्रीविश्वभेषजचित्रकैः ||२१९||
पक्वमेतैर्घृतं पीतं विजित्य विषमाग्निताम् |
जीर्णज्वरशिरःशूलगुल्मोदरहलीमकान् ||२२०||
क्षयकासं ससन्तापं पार्श्वशूलानपास्यति |२२१|
पिप्पल्यतिविषेत्यादि| सारिवा उत्पलसारिवा सुगन्धमूला, सिंही बृहत्कण्टकारिका, तामलकी दरफलिका, भूम्यामलकीति लोके, स्थिरा शालपर्णी, तेषां कल्ककषायाभ्यां घृतं साधयेत्||२१८-२२०||-
Adhikarana 157 (221-222) · Śloka 223
गुडूचीत्रिफलावासात्रायमाणायवासकैः ||२२१||
क्वथितैर्विधिवत्पक्वमेतैः कल्कीकृतैः समैः |
द्राक्षामागधिकाम्भोदनागरोत्पलचन्दनैः ||२२२||
पीतं सर्पिः क्षयश्वासकासजीर्णज्वरान् जयेत् |२२३|
गुडूचीत्रिफलेत्यादि| एभिः द्राक्षादिभिः||२२१-२२२||-
Adhikarana 158 (223-225) · Śloka 226
कलशीबृहतीद्राक्षात्रायन्तीनिम्बगोक्षुरैः ||२२३||
बलापर्पटकाम्भोदशालपर्णीयवासकैः |
पक्वमुत्क्वथितैः सर्पिः कल्कैरेभिः समन्वितम् ||२२४||
शटीतामलकीभार्गीमेदामलकपौष्करैः |
क्षीरद्विगुणसंयुक्तं जीर्णज्वरमपोहति ||२२५||
शिरःपार्श्वरुजाकासक्षयप्रशमनं परम् |२२६|
कलशीत्यादि| कलशी पृश्निपर्णी, त्रायन्ती त्रायमाणा, अम्भोदो मुस्ता| एभिः शट्यादिभिः| अनुक्तमपि चतुर्गुणं जलं देयं, तद्विना पाको न स्यादिति वृद्धभिषजः||२२३-२२५||-
Adhikarana 159 (226-228) · Śloka 229
पटोलीपर्पटारिष्टगुडूचीत्रिफलावृषैः ||२२६||
कटुकाम्बुदभूनिम्बयासयष्ट्याह्वचन्दनैः |
दार्वीशक्रयवोशीरत्रायमाणाकणोत्पलैः ||२२७||
धात्रीभृङ्गरजोभीरुकाकमाचीरसैर्घृतम् |
सिद्धमाश्वपचीकुष्ठज्वरशुक्रार्जुनव्रणान् ||२२८||
हन्यान्नयनवदनश्रवणघ्राणजान् गदान् |२२९|
पटोलीपर्पटारिष्टेत्यादि| पटोल्यादीनां कुष्ठान्तानां कल्कैः, धात्र्यादीनां स्वरसैश्च घृतं पाचनीयम्| अरिष्टो निम्बः, वृषो वासकः, अम्बुदो मुस्तं, भूनिम्बः किराततिक्तकः, यासो दुरालभा, शक्रयवः इन्द्रयवः, उत्पलं कुष्ठम् ||२२६-२२८||-
Adhikarana 160 (229-233) · Śloka 234
विडङ्गत्रिफलामुस्तमञ्जिष्ठादाडिमोत्पलैः ||२२९||
प्रियङ्ग्वेलैलवालूकचन्दनामरदारुभिः |
बर्हिष्ठकुष्ठरजनीपार्णिनीसारिवाद्वयैः ||२३०||
हरेणुकात्रिवृद्दन्तीवचातालीशकेसरैः |
द्विक्षीरं विपचेत्सर्पिर्मालतीकुसुमैः सह ||२३१||
जीर्णज्वरश्वासकासगुल्मोन्मादगरापहम् |
एतत्कल्याणकं नाम सर्पिर्माङ्गल्यमुत्तमम् ||२३२||
अलक्ष्मीग्रहरक्षोग्निमान्द्यापस्मारपापनुत् |
शस्यते नष्टशुक्राणां वन्ध्यानां गर्भदं परम् ||२३३||
मेध्यं चक्षुष्यमायुष्यं रेतोमार्गविशोधनम् |२३४|
विडङ्गत्रिफलामुस्तेत्यादि| उत्पलं नीलोत्पलं, एला सूक्ष्मैला, एलवालुकं कुष्ठगन्धिकं, चन्दनं रक्तचन्दनं, अमरदारुः देवदारुः, बर्हिष्ठं वालुकं, रजनीद्वयं पिण्डहरिद्रा दारुहरिद्रा च, पर्णिनीद्वयं शालपर्णी पृश्निपर्णी च, सारिवाद्वयं सारिवा उत्पलसारिवा च| विडङ्गादिद्रव्यकल्कमष्टपलप्रमाणं गव्यघृतप्रस्थं चोदकस्य चतुर्भिः प्रस्थैः साधयेत्| कार्तिककुण्डस्तु इदं घृतमन्यथा पठति, स चादर्शनान्न लिखितः||२२९-२३३||-
Adhikarana 161 (234-239) · Śloka 240
एतैरेव तथा द्रव्यैः सर्वगन्धैश्च साधितम् ||२३४||
कपिलाया घृतप्रस्थं सुवर्णमणिसंयुतम् |
तत्क्षीरेण सहैकध्यं प्रसाध्य कुसुमैरिमैः ||२३५||
सुमनश्चम्पकाशोकशिरीषकुसुमैर्वृतम् |
तथा नलदपद्मानां केशरैर्दाडिमस्य च ||२३६||
तिथौ प्रशस्ते नक्षत्रे साधकस्यातुरस्य च |
कृतं मनुष्यदेवाय ब्राह्मणैरभिमन्त्रितम् ||२३७||
दत्तं सर्वज्वरान् हन्ति महाकल्याणकं त्विदम् ||२३८||
दर्शनस्पर्शनाभ्यां च सर्वरोगहरं शिवम् |
अधृष्यः सर्वभूतानां वलीपलितवर्जितः ||२३९||
अस्याभ्यासाद्घृतस्येह जीवेद्वर्षशतत्रयम् |२४०|
महाकल्याणकमाह- एतैरेव तथा द्रव्यैरित्यादि| एतैर्द्रव्यैस्तथा सर्वगन्धैश्च कपिलाघृतप्रस्थं सुवर्णादियुक्तं, तत्साधितं सर्पिरेतैः सुमनादिजैः कुसुमैः कपिलाक्षीरेण सहैकध्यं कृतं, पुनः प्रसाध्य ब्राह्मणैरभिमन्त्रितं, वैद्यातुरयोः प्रशस्ततिथ्यादौ मनुष्यदेवाय राज्ञे दत्तमिदं कल्याणकं घृतं सर्वज्वरान् हन्तीति पिण्डार्थः| एतैः कल्याणकोक्तैर्विडङ्गादिभिः, सर्वगन्धैः एलादिपठितैः, मणिभिः स्फटिकादिभिः| तत्क्षीरेण कपिलाक्षीरेण| सुमना जाती, वृतं युक्तं, नलदं मांसी, पद्मं लोहितपद्मम्| साधकस्य वैद्यस्य| मनुष्यदेवाय नृपतये| अधृष्यः अजेयः| एतद्घृतं पाकद्वयसाधितं बोद्धव्यम्||२३४-२३९||-
Adhikarana 162 (240-242) · Śloka 242
गव्यं दधि च मूत्रं च क्षीरं सर्पिः शकृद्रसः ||२४०||
समभागानि पाच्यानि कल्कांश्चैतान् समावपेत् |
त्रिफलां चित्रकं मुस्तं हरिद्रातिविषे वचाम् ||२४१||
विडङ्गं त्र्यूषणं चव्यं सुरदारु तथैव च |
पञ्चगव्यमिदं पानाद्विषमज्वरनाशनम् ||२४२||
गव्यमित्यादि| शकृद्रसो गोपुरीषोत्थरसः| पाच्यानि पचनीयानि| कल्कप्रमाणमत्र स्नेहचतुर्थांशम्||२४०-२४२||
Adhikarana 163 (243) · Śloka 243
पञ्चगव्यमृते गर्भात्पाच्यमन्यद्... |२४३|
अगर्भपञ्चगव्यमाह- पञ्चगव्यमृते गर्भादित्यादि| अन्यत् द्वितीयं पञ्चगव्यम्| ऋते गर्भादिति द्वितीयं पञ्चगव्यं कल्कं विना पचनीयम्; एतेनैतदुक्तं भवति- पूर्वं पञ्चगव्यं सकल्कं, एतच्च द्वितीयमकल्कं; फलं च तुल्यम्|२४३|-
Adhikarana 164 (243) · Śloka 244
... वृषेण च |
बलयाऽथ परं पाच्यं गुडूच्या तद्वदेव तु ||२४३||
जीर्णज्वरे च शोफे च पाण्डुरोगे च पूजितम् |२४४|
इदानीं पञ्चगव्योक्तत्रिफलादिकल्केन वृषादिपृथक्स्वरसत्रयेण घृतत्रयस्य साधनं निर्दिशन्नाह- वृषेण चेत्यादि| तद्वदिति पूर्वोक्तकल्पनयेत्यर्थः | तद्वच्छब्दो घृतत्रयेऽपि सम्बध्यते||२४३||-
Adhikarana 165 (244) · Śloka 244
एतेनैव तु कल्पेन घृतं पञ्चाविकं पचेत् |
पञ्चाजं पञ्चमहिषं चतुरुष्ट्रमथापि च ||२४४||
इदानीं पञ्चगव्योक्तविधिना पञ्चाविकादीनि घृतानि पचनीयानीति दर्शयन्नाह- एतेनैव तु कल्पेनेत्यादि| अनेनैव कल्पेन पूर्वोक्तपञ्चगव्यविधिना| चतुरुष्ट्रं शकृद्रसवर्जनेन||२४४||
Adhikarana 166 (245-253) · Śloka 254
त्रिफलोशीरशम्पाककटुकातिविषाघनैः |
शतावरीसप्तपर्णगुडूचीरजनीद्वयैः ||२४५||
चित्रकत्रिवृतामूर्वापटोलारिष्टवालकैः |
किराततिक्तकवचाविशालापद्मकोत्पलैः ||२४६||
सारिवाद्वययष्ट्याह्वचविकारक्तचन्दनैः |
दुरालभापर्पटकत्रायमाणाटरूषकैः ||२४७||
रास्नाकुङ्कुममञ्जिष्ठामागधीनागरैस्तथा |
धात्रीफलरसैः सम्यग्द्विगुणैः साधितं हविः ||२४८||
परिसर्पज्वरश्वासगुल्मकुष्ठनिवारणम् |
पाण्डुप्लीहाग्निसादिभ्य एतदेव परं हितम् ||२४९||
पटोलकटुकादार्वीनिम्बवासाफलत्रिकम् |
दुरालभापर्पटकत्रायमाणाः पलोन्मिताः ||२५०||
प्रस्थमामलकानां च क्वाथयेत्सलिलार्मणे |
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ||२५१||
कल्कैः कुटजभूनिम्बघनयष्ट्याह्वचन्दनैः |
सपिप्पलीकैस्तत्सिद्धं चक्षुष्यं शुक्लयोर्हितम् ||२५२||
घ्राणकर्णाक्षिवदनवर्त्मरोगव्रणापहम् |
रक्तपित्तकफस्वेदक्लेदपूयोपशोषणम् ||२५३||
कामलाज्वरवीसर्पगण्डमालाहरं परम् |२५४|
त्रिफलेत्यादि| शुक्लयोः नेत्रगतरोगयोः||२४५-२५३||-
Adhikarana 167 (254-255) · Śloka 255
शृतं पयः शर्करा च पिप्पल्यो मधुसर्पिषी ||२५४||
पञ्चसारमिदं पेयं मथितं विषमज्वरे |
क्षतक्षीणे क्षये श्वासे हृद्रोगे चैतदिष्यते ||२५५||
पञ्चसारमाह- शृतं पय इत्यादि| शृतं पयः क्वथितं दुग्धं, मथितं ‘हस्तेन’ इति शेषः||२५४-२५५||
Adhikarana 168 (256) · Śloka 256
लाक्षाविश्वनिशामूर्वामञ्जिष्ठास्वर्जिकामयैः |
षड्गुणेन च तक्रेण सिद्धं तैलं ज्वरान्तकृत् ||२५६||
इदानीमन्तःपरिमार्जनमभिधाय बहिःपरिमार्जनार्थं तैलमाह- लाक्षेत्यादि| विश्वं शुण्ठी, निशा हरिद्रा, मूर्वा चोरस्नायुः, आमयं कुष्ठम्| लाक्षादिकल्कस्याष्टौ पलानि, तैलस्य द्वात्रिंशत्पलानि, तैलात् षड्गुणेन तक्रेण तैलं साधनीयम्| ज्वरान्तकृत् शीतपूर्वदाहपूर्वयोर्विनाशकारीत्यर्थः||२५६||
Adhikarana 169 (257-258) · Śloka 258
क्षीरिवृक्षासनारिष्टजम्बूसप्तच्छदार्जुनैः |
शिरीषखदिरास्फोटामृतवल्ल्याटरूषकैः ||२५७||
कटुकापर्पटोशीरवचातेजोवतीघनैः |
साधितं तैलमभ्यङ्गादाशु जीर्णज्वरापहम् ||२५८||
क्षीरिवृक्षेत्यादि| क्षीरिवृक्षा न्यग्रोधादयः, असनो बीजकः, अरिष्टो निम्बः, सप्तच्छदः सप्तपर्णः, अर्जुनः ककुभः, आस्फोटा सारिवा अर्को वा, तेजोवती काकमर्दनिका| क्षीरिवृक्षादिकल्केनाष्टपलमितेन तैलप्रस्थं चतुर्गुणजलेन साधयेत्||२५७-२५८||
Adhikarana 170 (259-261) · Śloka 261
निर्विषैर्भुजगैर्नागैर्विनीतैः कृततस्करैः |
त्रासयेदागमे चैनं तदहर्भोजयेन्न च ||२५९||
अत्यभिष्यन्दिगुरुभिर्वामयेद्वा पुनः पुनः |
मद्यं तीक्ष्णं पाययेत घृतं वा ज्वरनाशनम् ||२६०||
पुराणं वा घृतं काममुदारं वा विरेचनम् |
निरूहयेद्वा मतिमान् सुस्विन्नं तदहर्नरम् ||२६१||
इदानीं विषमज्वराणां विशिष्टावस्थायां भूताभिषङ्गजादीनां वा विषमज्वराणां चिकित्सामाह- निर्विषैरित्यादि| निर्विषैःभुजगैः डुण्डुभाहिपताकाप्रभृतिभिः, नागैः हस्तिभिः, विनीतैः हस्तिशिक्षाविद्भिर्विनम्रीकृतैः , कृततस्करैः मिथ्याध्यारोपितचौरैः| आगमे ज्वरागमकाले, यस्माज्ज्वरारम्भोन्मुखस्य दोषस्य निर्विषभुजगादिभयात् क्षुभितेन वायुना विक्षेपणं क्रियते तस्माज्ज्वरानुत्पादो ज्वरकालविस्मारकत्वाद्वा| तदहरिति ज्वरागमनदिने, न भोजयेन्न चाश्नीयात्; शेषदोषक्षपणार्थम्| अत्यभिष्यन्दिगुरुभिरित्यादि| अत्यभिष्यन्दिगुरुभिः क्षीरदधियवागूभिः मदनफलसंस्कृताभिर्वामयेत्, तदहरिति शेषः| अत्यभिष्यन्द्यादिभिर्यद्वमनं तद्बलरक्षणार्थम्| मद्यं तीक्ष्णमित्यादि| घृतं वा ज्वरनाशनं षट्पलं; यद्येवं ‘घृतं प्लीहोदरोक्तं यत्’ इत्यनेन तस्योक्तेः कुतः पुनरभिधानम्? उच्यते, कामं तत्पानस्य तदहः प्रतिपादनार्थम्| पुराणं घृतमौषधार्थे संस्कृतं पाययेत्| कामं स्वेच्छया, उदारं विरेचनमपीडाकरं, नत्वप्रशिथिलाशयस्य विरेचनानर्हस्य विधेयम्| तं विरेचनार्थं पुनर्निरूहयेत्| तदहरिति सर्वत्र सम्बन्धनीयम्||२५९-२६१||
Adhikarana 171 (262) · Śloka 262
अजाव्योश्चर्मरोमाणि वचा कुष्ठं पलङ्कषा |
निम्बपत्रं मधुयुतं धूपनं तस्य दापयेत् ||२६२||
विषमज्वरे धूपनमाह- अजेत्यादि| अजा छागी, अविः मेषी, पलङ्कषा गुग्गुलुः| विषमज्वरोक्तोऽप्यसौ योगो जीर्णज्वरे भूतविषमज्वरे च प्रयोक्तव्यः, समानतन्त्रोक्तत्वात्||२६२||
Adhikarana 172 (263) · Śloka 263
बैडालं वा शकृद्योज्यं वेपमानस्य धूपनम् |२६३|
अवस्थाविशेषेण धूपनमाह- बैडालमित्यादि| बैडालं शकृत् बिडालविष्ठा|२६३|-
Adhikarana 173 (263) · Śloka 263
पिप्पली सैन्धवं तैलं नेपाली चेक्षणाञ्जनम् ||२६३||
विषमज्वरेऽञ्जनमाह- पिप्पलीत्यादि| यद्यपि अञ्जनमित्युक्तोऽपि नेत्राञ्जनं प्राप्तं, तथाऽप्यत्रेक्षणाञ्जनमिति यदुक्तं तदभ्यङ्गवाचिनोऽञ्जनशब्दस्य निषेधार्थम्||२६३||
Adhikarana 174 (264) · Śloka 264
उदरोक्तानि सर्पिंषि यान्युक्तानि पुरा मया |
कल्पोक्तं चाजितं सर्पिः सेव्यमानं ज्वरं जयेत् ||२६४||
इदानीं विषमज्वरेऽतिदेशेन चिकित्सितमाह- उदरोक्तानि सर्पिंषीत्यादि| कल्पोक्तं कल्पस्थानोक्तम्| अजितम् अजेयाख्यम्| केचित् ‘यान्युक्तानि पुरा मया’ इत्यत्र ‘कुर्यात् सर्वगणेषु च’ इति पठन्ति, सर्वज्वरसमूहेष्विति च व्याख्यानयन्ति| अपरे तु ‘सर्वज्वरेषु च’ इति पठन्ति||२६४||
Adhikarana 175 (265) · Śloka 265
भूतविद्यासमुद्दिष्टैर्बन्धावेशनपूजनैः |
जयेद्भूताभिषङ्गोत्थं... |२६५|
भूतज्वरे चिकित्सितमतिदेशेनाह- भूतविद्यासमुद्दिष्टैरित्यादि| बन्धः समन्त्रे रज्ज्वादिभिः, आवेशनं समन्त्रसर्षपादिताडनं, पूजनं बल्युपहारस्तुत्यादिभिः| यद्यपि निदानप्रस्तावे पूर्वं विषादिज्वरस्योपदेशः पश्चाद्भूताभिषङ्गजस्य, तथाऽप्यत्र पूर्वं यद्भूताभिषङ्गज्वरचिकित्सितमुक्तं तद्भूतविद्यासमुद्दिष्टस्य विधेर्विषमज्वरेऽपि हितत्वं बोधयति|२६५|-
Adhikarana 176 (265) · Śloka 265
... विज्ञानाद्यैश्च मानसम् ||२६५||
विज्ञानाद्यैरिति मानसं ज्वरं विज्ञानाद्यैर्जयेदिति सम्बन्धः| आदिशब्दात् धैर्यस्मृतिज्ञानसमाधयो गृह्यन्ते| मानसं कामशोकक्रोधभयजम्| विज्ञानाद्यैरित्यत्र ‘मनःसान्त्वैश्च’ इति केचित् पठन्ति, मनःप्रसादनैरिति च व्याख्यानयन्ति||२६५||
Adhikarana 177 (266) · Śloka 266
श्रमक्षयोत्थे भुञ्जीत घृताभ्यक्तो रसौदनम् |२६६|
श्रमक्षयोत्थे भुञ्जीतेत्यादि| यद्यपि रसौदनभोजनं पूर्वमेवोक्तं, तथाऽपि घृताभ्यङ्गयोगादधिकफलदर्शनार्थमत्रोक्तम्|२६६|-
Adhikarana 178 (266) · Śloka 266
अभिशापाभिचारोत्थौ ज्वरौ होमादिना जयेत् ||२६६||
अभिशापभिचारोत्थावित्यादि| अभिशापः सिद्धादीनामाक्रोशः, अभिचारो यन्त्रमन्त्रादिभिरवपीडनं, आदिशब्दात् शान्तिप्रयश्चित्तमङ्गलजपादयः||२६६||
Adhikarana 179 (267) · Śloka 267
दानस्वस्त्ययनातिथ्यैरुत्पातग्रहपीडितम् |२६७|
दानस्वस्त्ययनातिथ्यैरित्यादि| स्वस्त्ययनम् आशीर्वादः, आतिथ्यम् अतिथिपूजनम्| उत्पातः अनिष्टसूचकं निर्घातादि, ग्रहा आदित्यादयः|२६७|-
Adhikarana 180 (267) · Śloka 268
अभिघातज्वरे कुर्यात् क्रियामुष्णविवर्जिताम् ||२६७||
कषायमधुरां स्निग्धां यथादोषमथापि वा |२६८|
अभिघातज्वरे कुर्यादित्यादि| यस्माद्वातरक्तबहुलोऽभिघातज्वरः तस्मादेवम्भूतास्तत्र क्रियाः कार्याः||२६७||-
Adhikarana 181 (268-269) · Śloka 269
ओषधीगन्धविषजौ विषपित्तप्रसाधनैः ||२६८||
जयेत् कषायं च हितं सर्वगन्धकृतं तथा |
निम्बदारुकषायं वा हितं सौमनसं यथा ||२६९||
ओषधीगन्धविषजावित्यादि| विषपित्तप्रसाधनैः विषपित्तचिकित्सितैरित्यर्थः| अन्ये ‘विषपीतप्रसाधनैः’ इति पठन्ति, व्याख्यानयन्ति च- विषपीतस्य यानि प्रसाधनानि चिकित्सितानि तैरित्यर्थः| ओषधीगन्धविषजज्वरयोरपरमपि योगमाहजयेदित्यादि| सर्वगन्धकृतम् एलादिकृतं, सौमनसं जातीकृतम्| भूताभिषङ्गादिजानां ज्वराणां विषमज्वरमध्ये व्यतिक्रमेण यदुपादानं तद्भूताभिषङ्गादिजा अपि ज्वराः प्रायेण वैषम्येण भवन्तीति बोधयति||२६८-२६९||
Adhikarana 182 (270) · Śloka 270
यवान्नविकृतिः सर्पिर्मद्यं च विषमे हितम् |२७०|
यवान्नविकृतिरित्यादि| यवान्नविकृतिः यवभक्ष्यविकारः| सर्पिर्मद्ययोर्विषमज्वरेऽत्यन्तहितत्वोपादानार्थं पुनरभिधानम्| अन्ये ‘यावान्नविकृतिः’ इति पठन्ति; यावान्नो यवौदनः, विकृतिः यवविकारः; यद्यपि यवविकृतिशब्देनैव यवौदनो लब्धस्तथाऽपि यवौदनस्यात्यन्तहितत्वोपादानार्थं यावान्नग्रहणमिति च व्याख्यानयन्ति|२७०|-
Adhikarana 183 (270) · Śloka 270
सम्पूजयेद्द्विजान् गाश्च देवमीशानमम्बिकाम् ||२७०||
विषमज्वरे युक्तिव्यपाश्रयं चिकित्सितमभिधायेदानीं दैवव्यपाश्रयमाह- सम्पूजयेदित्यादि| ईशानो महेश्वरः, अम्बिका चण्डी, द्विजादिपूजनाद्दुरितोपशान्तिर्धर्मोत्पत्तिश्च||२७०||
Adhikarana 184 (271-281) · Śloka 281
कफवातोत्थयोश्चापि ज्वरयोः शीतपीडितम् |
दिह्यादुष्णेन वर्गेण परश्चोष्णो विधिर्हितः ||२७१||
सिञ्चेत् कोष्णैरारनालशुक्तगोमूत्रमस्तुभिः |
दिह्यात् पलाशैः पिष्टैर्वा सुरसार्जकशिग्रुजैः ||२७२||
क्षारतैलेन वाऽभ्यङ्गः सशुक्तेन विधीयते |
पानमारग्वधादेश्च क्वथितस्य विशेषतः ||२७३||
अवगाहः सुखोष्णश्च वातघ्नक्वाथयोजितः |
जित्वा शीतं क्रमैरेभिः सुखोष्णजलसेचितम् ||२७४||
प्रवेश्यौर्णिककार्पासकौशेयाम्बरसंवृतम् |
शाययेत् क्षामदेहं च कालागुरुविभूषितम् ||२७५||
स्तनाढ्या रूपसम्पन्नाः कुशला नवयौवनाः |
भजेयुः प्रमदा गात्रैः शीतदैन्यापहाः शुभाः ||२७६||
शरच्छशाङ्कवदना नीलोत्पलविलोचनाः |
स्फुरितभ्रूलताभङ्गललाटतटकम्पनाः ||२७७||
प्रलम्बबिम्बप्रचलद्बिम्बीफलनिभाधराः |
कृशोदर्योऽतिविस्तीर्णजघनोद्वहनालसाः ||२७८||
कुङ्कुमागुरुदिग्धाङ्ग्यो घनतुङ्गपयोधराः |
सुगन्धिधूपितश्लक्ष्णस्रस्तांशुकविभूषणाः ||२७९||
गाढमालिङ्गयेयुस्तं तरुं वनलता इव |
प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः ||२८०||
तासामङ्गपरिष्वङ्गनिवारितहिमज्वरम् |
भोजयेद्धितमन्नं च यथा सुखमवाप्नुयात् ||२८१||
इदानीं जीर्णज्वराणां द्वन्द्वजानां बहिःपरिमार्जनप्रलेपाभिषेकाभ्यङ्गशयनानुलेपनस्त्रीसंवाहनादिकमाह- कफवातोत्थयोश्चापि ज्वरयोरित्यादि| दिह्यात् लिम्पेत्| उष्णेन वर्गेण भद्रदार्वादिना सुरसादिना एलादिना वा| परश्चोष्णो विधिरिति पर उत्कृष्टः, उष्णो विधिः स्वेदः| आरनालं काञ्जिकं, शुक्तं चुक्रं तच्च तण्डुलाम्बुसौवीरादिभिः कृतसन्धानं, तथा च तन्त्रान्तरे पठ्यते- “प्रस्थमेकं तु भक्तस्य त्रयं सौवीरकस्य च| अर्धं प्रस्थं तु दध्नश्च भिषगम्लस्य दापयेत्|| पलषोडशकं चैव शोधितस्यार्द्रकस्य च| सैन्धवं पिप्पलीं चैव चूर्णीकृत्य विनिक्षिपेत्|| स्थापयेत् सुदृढे भाण्डे सर्पिषा परिभाविते| हेमन्ते वासराण्यष्टौ वसन्ते षट् दिनानि च|| प्रावृट्काले चतुरहं वर्षास्वपि च वासयेत्| अत ऊर्ध्वं क्षिपेच्चूर्णं चातुर्जातात्पलद्वयम्”- इत्यादि| अस्य शुक्तस्य गुणवर्णनं बहुत्वान्न लिखितम्| पलाशैः पत्रैः| अर्जकः कुठेरकः; अन्ये सितपर्णासमाहुः; शिग्रुः शोभाञ्जनानुकारी विटपः, शोभाञ्जनमपरे| क्षारतैलं क्षारेण सिद्धं तैलं क्षारतैलमाहुः; अपरे तन्त्रान्तरोक्तं ‘शुष्कमूलकशुण्ठीनां क्षार’ इत्यादिकं क्षारतैलमिच्छन्ति; तन्न, तस्य सशुक्तस्य सशुक्तेनेति विशेषणवैयर्थ्यात्| अवगाहो द्रवपूर्णभाजने निमज्जनं, सुखोष्ण ईषदुष्णः| क्रमैरेभिः उष्णवर्गप्रलेपादिभिः| प्रवेश्य ‘निवातागारे’ इति शेषः| और्णिका नानाप्रकाराः कम्बलाः, कार्पासाः कार्पासतन्तुरचिताः, कौशेयाः कोशकारक्रिमिलालातन्तुरचिताः ‘तसर ’ इति लोके| क्षामदेहमित्यादि| एवम्भूताः स्त्रियो ग्लानदेहं कृष्णागुरुविभूषितं पुरुषं मृदुमर्दनार्थं गात्रैः कृत्वा भजेयुरिति सम्बन्धः| कुशलाः कामसूत्रज्ञाः| दैन्यं क्लिष्टचेतनात्वम्| शरच्छशाङ्कवदना इत्यादि| एवंविधाश्च ललनास्तं पुरुषं गाढमालिङ्गयेयुरिति सम्बन्धः| प्रह्लादमित्यादि| अस्य पुरुषस्य प्रह्लादं हर्षं ज्ञात्वा ताः पूर्वोक्तवनिता अपनयेत्, अन्यथा तत्संसर्गान्महाननर्थ इति| हितमन्नं वातश्लेष्महरम् आहारम्| ‘अवगाहः सुखोष्णश्च वातघ्नक्वाथसंयुतः’ इत्यत्र ‘अवगाहः सुखोष्णश्च वातघ्नः क्वाथभोजने’ इति केचित् पठन्ति, व्याख्यानयन्ति च- वातघ्नोऽवगाहः कार्यः, सुखोष्णे च क्वाथभोजने कार्ये| अत्र द्वितीयश्चकारो लुप्तो ज्ञेयः; तेन क्वाथभोजनेऽपि वातघ्ने बोद्धव्ये| प्रवेश्यौर्णिकेत्यत्र ‘प्रवेण्यौर्णिके’ इति केचित् पठन्ति, व्याख्यानयन्ति च- प्रवेणी सूचीबाणाख्यो वस्त्रविशेषः| ‘कालागुरुविभूषितं’ इत्यत्र ‘कृष्णागुरुविभावितं’ इति केचित् पठन्ति, कृष्णागुरुलिप्तमिति च व्याख्यानयन्ति||२७१-२८१||
Adhikarana 185 (282-285) · Śloka 286
दाहाभिभूते तु विधिं कुर्याद्दाहविनाशनम् |
मधुफाणितयुक्तेन निम्बपत्राम्भसाऽपि वा ||२८२||
दाहज्वरार्तं मतिमान् वामयेत् क्षिप्रमेव च |
शतधौतघृताभ्यक्तं दिह्याद्वा यवशत्कुभिः ||२८३||
कोलामलकसंयुक्तैः शुक्तधान्याम्लसंयुतैः |
अम्लपिष्टैः सुशीतैश्च फेनिलापल्लवैस्तथा ||२८४||
अम्लपिष्टैः सुशीतैर्वा पलाशतरुजैर्दिहेत् |
बदरीपल्लवोत्थेन फेनेनारिष्टकस्य च ||२८५||
लिप्तेऽङ्गे दाहतृण्मूर्च्छाः प्रशाम्यन्ति च सर्वशः |२८६|
दाहाभिभूते इत्यादि| दाहविनाशनविधिः वक्ष्यमाणः| ननु यथा शीतप्रतीकारे पूर्वं ‘कफवातोत्थयोश्चापि ज्वरयोः शीतपीडितम्’ इत्युक्तं तथाऽत्रापि पित्तज्वराभिभूत इति कथं नोक्तं? सत्यं, ज्वररहितदाहे असौ विधिः कार्य इति दर्शनार्थम्| मधुफाणितयुक्तेनेत्यादि| ‘मधुफाणितमिश्रेण’ इति केचित् पठन्ति| ते च ‘अपि वा’ इति शब्दं पादपूरणार्थं वर्णयित्वा निम्बपत्राम्भसेत्यस्य विशेषणमाचक्षते| यद्यपि कफे वमनं प्रयुज्यते न पित्ते, तथाऽपि प्रवृद्धं पित्तं किञ्चिद्वमनेनापि निर्ह्रियते| तथा च तन्त्रान्तरं,- “स्वस्थानगतमुत्क्लिष्टमग्निनिर्वापकं भिषक्| पित्तं ज्ञात्वा विरेकेण वमनेनाथवा हरेत्”- इति| अपरे तु ‘मधुफाणितमिश्रेण निम्बपत्राम्भसा पिबेत्’ इति पठन्ति| शतधौतघृताभ्यक्तमित्यादि| शतवारान् शीतजलेन धौतं फेनिलं घृतं शतधौतघृतम्| दिह्यात् लिम्पेत्| शुक्तं चुक्रं, धान्याम्लं काञ्जिकं; ‘शुक्तधान्याम्लसंयुतैः’ इत्यत्रापरे तु ‘धान्याम्लैरपि बुद्धिमान्’ इति पठन्ति; तत्र धान्याम्लयुक्तैर्यवशक्तुभिरिति ज्ञेयम्| अम्लपिष्टैरित्यादि| अम्लं काञ्जिकं, फेनिला उपोदिका| तथाशब्दात् कोलामलकशुक्तसंयुक्तैः फेनिलापल्लवैर्लिम्पेदिति ज्ञेयम्| अम्लपिष्टैः सुशीतैरित्यादि| पलाशतरुजैः पलाशपल्लवैः| अरिष्टो निम्बः, फेनिलावृक्षो वा| फेनकल्पनामाह- बदरीपल्लवान् काञ्जिकपिष्टान् काञ्जिकपूर्णभाजने निक्षिप्य करेण विलोडयेत्, ततो यः फेन उत्तिष्ठेत् तेन लिम्पेत्||२८२-२८५||-
Adhikarana 186 (286-287) · Śloka 287
यवार्धकुडवं पिष्ट्वा मञ्जिष्ठार्धपलं तथा ||२८६||
अम्लप्रस्थशतोन्मिश्रं तैलप्रस्थं विपाचयेत् |
एतत् प्रह्लादनं तैलं ज्वरदाहविनाशनम् ||२८७||
प्रह्लादनतैलमाह- यवार्धकुडवमित्यादि| अम्लप्रस्थशतोन्मिश्रं काञ्जिकप्रस्थशतयुक्तम्||२८६-२८७||
Adhikarana 187 (288-293) · Śloka 293
न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यो गणः |
उत्पलादिर्गणो यस्तु पिष्टैर्वा तैः प्रलेपयेत् ||२८८||
तत्कषायाम्लसंसिद्धाः स्नेहाश्चाभ्यञ्जने हिताः |
तेषां शीतकषाये वा दाहार्तमवगाहयेत् ||२८९||
दाहवेगे त्वतिक्रान्ते तस्मादुद्धृत्य मानवम् |
परिषिच्याम्बुभिः शीतैः प्रलिम्पेच्चन्दनादिभिः ||२९०||
ग्लानं वा दीनमनसमाश्लिषेयुर्वराङ्गनाः |
पेलवक्षौमसंवीताश्चन्दनार्द्रपयोधराः ||२९१||
बिभ्रत्योऽब्जस्रजश्चित्रा मणिरत्नविभूषिताः |
भजेयुस्ताः स्तनैः शीतैः स्पृशन्त्योऽम्बुरुहैः सुखैः ||२९२||
प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः |
हितं च भोजयेदन्नं तथाऽऽप्नोति सुखं महत् ||२९३||
तत्कषायाम्लसंसिद्धा इति न्यग्रोधादिकाकोल्याद्युत्पलादिक्वाथकाञ्जिकविपक्वा इत्यर्थः| तेषामित्यादि| तेषां न्यग्रोधादीनाम्| दाहवेगे त्वतिक्रान्ते इत्यादि| तस्मात् न्यग्रोधादिप्रभृतिशीतकषायावगाहात्| चन्दनादिना चन्दनादिगणेन; अपरे तु चन्दनं श्रीचन्दनम्, आदिशब्दात् उशीरलामज्जकादय इति व्याख्यानयन्ति| ग्लानं वा दीनमनसमित्यादि| दीनमनसं क्लिष्टचित्तम्| आश्लिषेयुः आलिङ्गेयुः| पेलवं सुकुमारं , क्षौमं दुकूलं, पट्टवस्त्रमित्यर्थः| संवीताः सम्यगाच्छादिताः| बिभ्रत्यो धारयन्त्यः, अब्जस्रज उत्पलादिमालाः, चित्रा नानावर्णाः| भजेयुरित्यादि| ताः स्त्रियः, अम्बुरुहैः सुखैरुत्पलादिभिर्विकचैः स्पृशन्त्यः, स्तनैः कृत्वा भजेयुरिति पिण्डार्थः| हितमन्नं पित्तहरम्||२८८-२९३||
Adhikarana 188 (294) · Śloka 294
पित्तज्वरोक्तं शमनं विरेकोऽन्यद्धितं च यत् |२९४|
ज्वरदाहेऽतिदेशेनापरमपि चिकित्सितमाह- पित्तज्वरोक्तमित्यादि| अन्यदपि यद्धितं भवेत्तत्कर्तव्यमित्यर्थः|२९४|-
Adhikarana 189 (294) · Śloka 295
निर्हरेत्पित्तमेवादौ दोषेषु समवायिषु ||२९४||
दुर्निवारतरं तद्धि ज्वरार्तानां विशेषतः |२९५|
इदानीं दाहप्रतीकारप्रस्तावे संसर्गज्वरे तावत् प्रकृतिकालापेक्षया क्वचित् सन्निपातेऽपि पित्तस्यादौ प्रतिकारार्थमाह- निर्हरेदित्यादि| समवायिषु संसर्गिषु, नतु सन्निपातेषु; तत्र प्रतीकारस्यादावुक्तत्वात्| पित्तान्वितसंसर्गस्य द्वित्वात् समवायिष्वित्यत्र बहुवचनं न सम्भवति, तथाऽपि कालप्रकृत्यपेक्षया सन्निपातेऽपि कफविरोधेनादौ कदाचित् पित्तस्य प्रतिक्रिया कार्येति दर्शनार्थं बहुवचनम्| अन्ये तु ‘शमयेत् पित्तमेवादौ ज्वरेषु समवायिषु’ इति पठन्ति, व्याख्यानयन्ति च- समवायिषु ज्वरेषु सन्निपातज्वरेष्वादौ पित्तं शमयेत् लङ्घनाम्बुयवाग्वादिभिः प्रकृतिस्थं कुर्यात्, यस्मादग्निमुपहत्य ज्वरो भवति, अग्निश्च पित्तान्तर्गतः, तस्मात् पित्तसंशमने आदौ यत्नः कार्यः| तथा चोक्तं,- “समवाये तु दोषाणां पूर्वं पित्तमुपाचरेत्| ज्वरे चैवातिसारे च सर्वत्रान्यत्र मारुतम्”- इति| ननु, सन्निपातज्वरेष्वादावन्यत्रामश्लेष्मणो निर्हरणं कथितं, तथा च- “सन्निपातज्वरे पूर्वं कुर्यादामविशोषणम्| पश्चाच्छ्लेष्मणि सङ्क्षीणे शमयेत् पित्तमारुतौ”- इति, तत् कथमत्र सन्निपातेष्वादौ पित्तशमनं? सत्यं, शमनशब्देनात्र प्रकृतिस्थापनमुच्यते न निर्हरणमित्यदोषः | दुर्निवारतरमिति वातकफावपि समवाये दुर्निवारौ पित्तं च दुर्निवारतरम्| हि यस्मादर्थे| अत्र निबन्धकारैर्बहूक्तं तच्च शिष्यबुद्धिव्याकुलहेतुत्वात् परिहृतम्||२९४||-
Adhikarana 190 (295) · Śloka 296
छर्दिमूर्च्छापिपासादीनविरोधाज्ज्वरस्य च ||२९५||
उपद्रवाञ्जयेच्चापि प्रत्यनीकेन हेतुना |२९६|
इदानीं ज्वरचिकित्सितमभिधायोपद्रवचिकित्सितमाह- छर्दिमूर्च्छेत्यादि| छर्द्यादीनुपद्रवान् ज्वरस्याविरोधेन प्रत्यनीकेन हेतुना जयेदिति सम्बन्धः| ननु, छर्द्यादय उपद्रवाः कथं प्रोच्यन्ते, यावता ज्वरलक्षणान्येतानि? सत्यं, ये ज्वरेण सहोत्पन्नाश्छर्द्यादयस्ते ज्वरलक्षणानि, ये तु ज्वरस्योत्तरकालजास्त उपद्रवाः; तथा चोक्तं,- “व्याधेरुपरि यो व्याधिर्भवत्युत्तरकालजः| उपक्रमाविरोधी च स उपद्रव उच्यते”- इति| यद्यपि प्रागुक्तात्- ‘सोपद्रवमन्योन्याविरोधेनोपचरेद्बलवन्तमुपद्रवं च’- इति वाक्यादेवान्योन्याविरोधेन चिकित्सा सिद्धा, तथाऽपि ‘अविरोधाज्ज्वरस्य’ इति यत् पुनरुक्तं तन्नियमार्थं; तेन बलवन्तमुपद्रवं विहायान्यत्र सर्वत्राप्यविरोधेनैव चिकित्सा कर्तव्येति; अन्ये तु पूर्वं सामान्येनोक्तमत्र तु विशेषेणेति न दोषः| प्रत्यनीकेन स्वचिकित्सितेन| यद्येवं तर्हि हेतुनेति पदं व्यर्थं; तन्न, युक्तिव्यपाश्चयदैवव्यपाश्रयसत्त्वावजयेति त्रिप्रकारस्यापि चिकित्सितस्य सङ्ग्रहार्थत्वात्; अथवा हेतुग्रहणं हेतुविपरीतप्राप्त्यर्थं, यस्मात्त्रिविधमौषधं- हेतुविपरीतं व्याधिविपरीतं, तदर्थकारि चेति||२९५||
Adhikarana 191 (296-299) · Śloka 299
विशेषमपरं चात्र शृणूपद्रवनाशनम् ||२९६||
मधुकं रजनी मुस्तं दाडिमं साम्लवेतसम् |
अञ्जनं तिन्तिडीकं च नलदं पत्रमुत्पलम् ||२९७||
त्वचं व्याघ्रनखं चैव मातुलुङ्गरसो मधु |
दिह्यादेभिर्ज्वरार्तस्य मधुशुक्तयुतैः शिरः ||२९८||
शिरोभितापसम्मोहवमिहिक्काप्रवेपथून् |
प्रदेहो नाशयत्येष ज्वरितानामुपद्रवान् ||२९९||
विशेषमपरमित्यादि| अञ्जनं रसाञ्जनं, नलदं मांसी, पत्रं पत्रकं, उत्पलं नीलोत्पलं, व्याघ्रनखो नखः| मधुशुक्तं जम्बीररसकृतः सन्धानविशेषः; तथा चोक्तं,- “जम्बीरस्य फलरसं पिप्पलीचूर्णसंयुतम्| मधुभाण्डे विनिक्षिप्य धान्यराशौ निधापयेत्|| मासेन तज्जातरसं मधुशुक्तं प्रकीर्तितम्”- इति| प्रदिह्यात् लिम्पेत्| शिरोभितापः शिरोरुक्| सम्मोहो मूर्च्छा||२९६-२९९||
Adhikarana 192 (300-301) · Śloka 301
मधूकमथ ह्रीबेरमुत्पलानि मधूलिकाम् ||३००||
लीढ्वा चूर्णानि मधुना सर्पिषा च जयेद्वमिम् |
कफप्रसेकासृक्पित्तहिक्काश्वासांश्च दारुणान् ||३०१||
मधूकमित्यादि| ह्रीबेरं वालकं, मधूलिका जलयष्टी||३००-३०१||
Adhikarana 193 (302) · Śloka 302
लिहन् ज्वरार्तस्त्रिफलां पिप्पलीं च समाक्षिकाम् |
कासे श्वासे च मधुना सर्पिषा च सुखी भवेत् ||३०२||
लिहन् ज्वरार्तस्त्रिफलामित्यादि| अत्र योगे यन्मधुनो वारद्वयमुपादानं तदेकस्य मधुनः पेष्यद्रव्यवत् प्रमाणं, अन्यस्य त्वालोडनवत्प्रमाणम्||३०२||
Adhikarana 194 (303) · Śloka 303
विदारी दाडिमं लोध्रं दधित्थं बीजपूरकम् |
एभिः प्रदिह्यान्मूर्धानं तृड्दाहार्तस्य देहिनः ||३०३||
विदारीमित्यादि| दधित्थं कपित्थम्||३०३||
Adhikarana 195 (304) · Śloka 305
दाडिमस्य सितायाश्च द्राक्षामलकयोस्तथा |
वैरस्ये धारयेत् कल्कं गण्डूषं च यथाहितम् ||३०४||
क्षीरेक्षुरसमाक्षीकसर्पिस्तैलोष्णवारिभिः |३०५|
दाडिमस्येत्यादि| वैरस्ये मुखवैरस्ये| क्षीरेक्षुरसमाध्वीकेत्यादि| माक्षीकं मधु, अत्रापि मुखवैरस्ये धारयेदिति योजनीयम्||३०४||-
Adhikarana 196 (305) · Śloka 305
शून्ये मूर्ध्नि हितं नस्यं जीवनीयशृतं घृतम् ||३०५||
शून्ये इत्यादि| शून्ये रिक्ते| जीवनीयानि काकोल्यादीनि दश| तथा चोक्तं,- “जीवन्ती काकोल्यौ द्वे मेदे मुद्गमाषपर्ण्यौ च| जीवकर्षभकौ मधुकं चेती गणो जीवनीयाख्यः”||३०५||
Adhikarana 197 (306) · Śloka 307
चूर्णितैस्त्रिफलाश्यामात्रिवृत्पिप्पलिसंयुतैः |
सक्षौद्रः शर्करायुक्तो विरेकस्तु प्रशस्यते ||३०६||
पक्वे पित्तज्वरे रक्ते चोर्ध्वगे वेपथौ तथा |३०७|
चूर्णितैरित्यादि| श्यामा वृद्धदारकः| ऊर्ध्वगे ऊर्ध्वप्रवृत्ते रक्ते||३०६||-
Adhikarana 198 (307) · Śloka 307
कफवातोत्थयोरेवं स्नेहाभ्यङ्गैर्विशोधयेत् ||३०७||
कफवातोत्थयोरेवमित्यादि| विशोधयेत् विशुद्धिं नयेत्, शमं नयेदिति तात्पर्यार्थः| कफवाताविति कर्मपदं शेषीभूतमत्र योजनीयम्||३०७||
Adhikarana 199 (308) · Śloka 308
हृतदोषो भ्रमार्तस्तु लिह्यात् क्षौद्रसिताभयाः |३०८|
हृतेत्यादि| हृतदोषोऽपि यो भ्रमार्तो भवेत् स क्षौद्रेण सिताभया लिह्यादिति पिण्डार्थः|३०८|-
Adhikarana 200 (308) · Śloka 309
वातघ्नमधुरैर्योज्या निरूहा वातजे ज्वरे ||३०८||
अवेक्ष्य दोषं प्राणं च यथास्वं चानुवासनाः |३०९|
इदानीं वातज्वरे निरूहद्रव्याण्याह- वातघ्नमधुरैरित्यादि| वातघ्ना भद्रदार्वादयः, मधुराः काकोल्यादयः| अवेक्ष्य दोषं प्राणं चेति हीनम्ध्योत्तमादिभेदेन दोषं बलं च वीक्ष्येत्यर्थः| तेनाल्पप्रकुपितदोषे अल्पो निरूहः, मध्यमे मध्यमः, उत्तमे उत्तमः; एवं बलेऽपि| यथास्वं चानुवासना इति वातहरद्रव्यसाधितस्नेहानुवासना योज्या इति||३०८||-
Adhikarana 201 (309-311) · Śloka 312
उत्पलादिकषायाद्या(ढ्या)श्चन्दनोशीरसंयुताः ||३०९||
शर्करामधुराः शीताः पित्तज्वरहरा मताः |
आम्रादीनां त्वचं शङ्खं चन्दनं मधुकोत्पले ||३१०||
गैरिकाञ्जनमञ्जिष्ठामृणालान्यथ पद्मकम् |
श्लक्ष्णपिष्टं तु पयसा शर्करामधुसंयुतम् ||३११||
सुपूतं शीतलं बस्तिं दह्यमानाय दापयेत् |३१२|
पित्तज्वरे निरूहद्रव्याण्याह- उत्पलादिकषायाद्या इत्यादि| आद्याः प्रधानाः| उत्पलादिकषायाद्या इत्यादि विशेषणयुक्ता निरूहा ज्ञेयाः| पित्तज्वरे निरूहद्रव्याण्यभिधायापराण्यपि निरूहद्रव्याण्याह- आम्रादीनां न्यग्रोधादिगणान्तर्भूतत्वात् पूर्वद्रव्याणि विहाय आम्रादिकानि द्रव्याणि नन्दीवृक्षकपर्यन्तानि ग्राह्याणि| चन्दनं रक्तचन्दनम्, उत्पलं नीलोत्पलम्, अञ्जनं स्रोतोऽञ्जनं, तदभावे रसाञ्जनं सौवीराञ्जनं वा, मृणालं बिसं, पद्मकं पद्मकाष्ठं, बस्तिः निरूहबस्तिः||३०९-३११||-
Adhikarana 202 (312) · Śloka 312
ज्वरदाहापहं तेषु सिद्धं चैवानुवासनम् ||३१२||
पित्तज्वरेऽनुवासनद्रव्याण्यतिदेशेनाह- ज्वरदाहपहमित्यादि| तेषु न्यग्रोधादित्वक्प्रभृतिषु||३१२||
Adhikarana 203 (313) · Śloka 313
आरग्वधगणक्वाथाः पिप्पल्यादिसमायुताः |
सक्षौद्रमूत्रा देयाः स्युः कफज्वरविनाशनाः ||३१३||
कफज्वरे निरूहद्रव्याण्याह- आरग्वधेत्यादि| देयाः स्युः दातव्या भवेयुः, ‘निरूहा’ इति शेषः| अन्ये तु ‘आरग्वधादिसंसिद्धाः कफजे क्षौद्रसंयुताः| ज्वरं हन्युर्निरूहाश्च तत्सिद्धाश्चानुवासनाः’- इति पठन्ति||३१३||
Adhikarana 204 (314) · Śloka 314
कफघ्नैरेव संसिद्धा द्रव्यैश्चाप्यनुवासनाः |३१४|
कफजेऽनुवासनमाह- कफघ्नैरित्यादि| कफघ्नैर्द्रव्यैः आरग्वधादिभिः|३१४|-
Adhikarana 205 (314) · Śloka 314
संसर्गे सन्निपाते च संसृष्टा बस्तयो हिताः ||३१४||
संसर्गसन्निपातयोर्निरूहद्रव्याण्याह- संसर्गे इत्यादि| संसर्गे सन्निपातादौ, संसृष्टा मिलिताः, बस्तयो निरूहा इति||३१४||
Adhikarana 206 (315) · Śloka 315
संसृष्टैरेव संसृष्टा द्रव्यैश्चाप्यनुवासनाः |३१५|
संसर्गसन्निपातयोरतिदेशेनानुवासनद्रव्याण्याह- संसृष्टैरित्यादि| संसृष्टैः सम्मिलितैः, संसृष्टा मिलिताः|३१५|-
Adhikarana 207 (315) · Śloka 316
वातरोगापहाः सर्वे स्नेहा ये सम्यगीरिताः ||३१५||
विना तैलं त एव स्युर्योज्या मारुतजे ज्वरे |३१६|
इदानीं वातज्वरेऽनुवासनविषये तैलनिषेधमाह- वातरोगापहा इत्यादि| सर्वे स्नेहाः सर्पिस्तैलवसामज्जानः, योज्याः ‘अनुवासने’ इति शेषः||३१५||-
Adhikarana 208 (316) · Śloka 316
निखिलेनोपयोज्याश्च त एवाभ्यञ्जनादिषु ||३१६||
वातज्वरेऽनुवासननिषिद्धस्यापि तैलस्याभ्यङ्गादौ प्रयोगमाह- निखिलेनेत्यादि| निखिलेन सामस्त्येन| एतेन तैलस्यापि ग्रहणम्| त एव सर्पिस्तैलवसामज्जान एव| एते चत्वारः स्नेहा व्यस्ताः समस्ता वा संस्कृताश्च प्रयोज्याः| अत एव षट्कट्वरादितैलमपि शस्यते||३१६||
Adhikarana 209 (317) · Śloka 317
पैत्तिके मधुरैस्तिक्तैः सिद्धं सर्पिश्च पूज्यते |३१७|
पित्तज्वरे पुनरभ्यङ्गार्थं विशिष्टं स्नेहमाह- पैत्तिके मधुरैरित्यादि| पूज्यते अभ्यङ्गादिषु|३१७|-
Adhikarana 210 (317) · Śloka 317
श्लैष्मिके कटुतिक्तैश्च, संसृष्टानीतरेषु च ||३१७||
श्लैष्मिके पानाभ्यङ्गार्थं स्नेहविशेषमाह- श्लैष्मिके इत्यादि| कटुतिक्तैश्चेत्यत्र सर्पिः सिद्धमिति योजनीयम्| यद्यपि कफस्य तुल्यगुणं सर्पिस्तथाऽपि विशिष्टसंस्कारवशात् कफेऽपि सर्पिः प्रयुज्यते| अन्ये तु चकारात् अनुक्तमपि तैलं कथयन्ति; तन्न, अन्यतन्त्रसंवादाभावात् संसर्गसन्निपातेष्वभ्यङ्गार्थं विशिष्टस्नेहमाह- संसृष्टानीतरेषु चेति|- संसृष्टानि सर्पिरादीनि अन्योन्यमिश्राणि तथा वातादिहरद्रव्यैर्मिश्रैरेव साधितानि च; इतरेषु सन्निपातेषु||३१७||
Adhikarana 211 (318) · Śloka 319
हृतावशेषं पित्तं तु त्वक्स्थं जनयति ज्वरम् |
पिबेदिक्षुरसं तत्र शीतं वा शर्करोदकम् ||३१८||
शालिषष्टिकयोरन्नमश्नीयात् क्षीरसम्प्लुतम् |३१९|
इदानीं हृतावशेषस्य पित्तस्य प्रतीकारमाह- हृतावशेषमित्यादि| तत्र हृतावशेषपित्तज्वरे| अन्नम् ओदनम्| यद्यपि त्वक्स्थिते पित्ते बहिःपरिमार्जनं युक्तं नान्तःपरिमार्जनं, तथाऽपि तद्वीर्ययुक्तस्य रसस्य सर्वतोगमनादन्तःपरिमार्जनमुक्तम्||३१८||-
Adhikarana 212 (319) · Śloka 319
कफवातोत्थयोरेव स्वेदाभ्यङ्गौ प्रयोजयेत् ||३१९||
इदानीं कफवातयोरपि हृतावशेषयोः प्रतीकारार्थमाह- कफवातोत्थयोरेवेत्यादि| कफवातोत्थयोरिति हृतावशेषकफवातज्वरयोरित्यर्थः||३१९||
Adhikarana 213 (320) · Śloka 320
घृतं द्वादशरात्रात्तु देयं सर्वज्वरेषु च |
तेनान्तरेणाशयं स्वं गता दोषा भवन्ति हि ||३२०||
अधुना यावता कालेन ज्वरे सर्पिर्देयं तावन्तं कालं सकारणं दर्शयन्नाह- घृतमित्यादि| सर्वज्वरेषु चेति ये ज्वरा लङ्घनोष्णोदकपानपेयापाचनैस्तु पक्वास्तेषु सर्वज्वरेषु द्वादशाहादनन्तरं घृतं देयम्| तेनान्तरेण तेनावसरेण तेन कालेनेत्यर्थः, द्वादशरात्रादूर्ध्वमिति तात्पर्यार्थः| आशयं स्वं गता दोषा इति स्थानमात्मीयं प्राप्ता वातादयो भवन्ति, पाकप्राप्तत्वात्| यद्यप्यष्टाहेन दशाहात्परं वा ज्वरपाको भवति तथाऽपि सन्निपातज्वरस्य द्वादशाहेन पाको भवतीति दर्शनार्थं द्वादशाहग्रहणम्| केचिदत्र नस्यार्थं घृतं पठन्ति; तन्न पठनीयं, नस्यार्थघृतस्य गण्डूषोत्तरं प्रागेव पठितत्वात्||३२०||
Adhikarana 214 (321) · Śloka 321
धातून् प्रक्षोभयन् दोषो मोक्षकाले बलीयते |
तेन व्याकुलचित्तस्तु म्रियमाण इवेहते ||३२१||
शान्तिं गच्छत्यपि ज्वरे यथा क्लेशातिशयो भवति तथा दर्शयन्नाह- धातूनित्यादि| मोक्षकाले धातूंश्चालयन् दोषो बलीयते बलीवाचरतीति पिण्डार्थः| ननु, प्रक्षीणावस्थायां कस्माद्दोषो बलीवाचरति? सत्यं, प्रभावात्; यथा दीपो निर्वाणावस्थायां महतीं ज्वालां प्रदर्शयन् निर्वाणं याति , तद्वदयमपि ज्वरारम्भको दोषो बलीयत इति| केचित् बलीयते बलीयान् गच्छति इति व्याख्यानयन्ति, ईयते इति इदधातोर्दिवादिकस्य कर्तरि प्रयोगात्| अपरे तु ‘अवलीयते’ इति पठन्ति, व्याख्यानयन्ति च- अवलीयते तादृग्रूपेण नोपलभ्यते| तेन दोषेण, म्रियमाण इवेहते मुमूर्षुवद्गात्रविक्षेपणादिकां क्रियां करोतीत्यर्थः||३२१||
Adhikarana 215 (322) · Śloka 322
लघुत्वं शिरसः स्वेदो मुखमापाण्डु पाकि च |
क्षवथुश्चान्नकाङ्क्षा च ज्वरमुक्तस्य लक्षणम् ||३२२||
ज्वरमुक्तलक्षणमाह- लघुत्वमित्यादि| लघुत्वं शिरस इति शिरोलघुत्वं, आपाण्डु ईषत्पाण्डु, क्षवथुः छिक्का| ज्वरातीसारयोर्महाव्याधित्वान्मुक्तिलक्षणं कथितं नान्येषाम्| केचिदाचार्या ‘घातून् प्रक्षोभयन् दोष’ इत्यादिकमनन्तरोक्तं सन्निपातज्वरमुक्तिलक्षणं, ‘लघुत्वं शिरस’ इत्यादिकं चेतरज्वरमुक्तिलक्षणमिति ब्रुवते||३२२||
Adhikarana 216 (323-324) · Śloka 324
शम्भुक्रोधोद्भवो घोरो बलवर्णाग्निसादकः |
रोगराट् रोघसङ्घातो ज्वर इत्युपदिश्यते ||३२३||
व्यापित्वात् सर्वसंस्पर्शात् कृच्छ्रत्वादन्तसम्भवात् |
अन्तको ह्येष भूतानां ज्वर इत्युपदिश्यते ||३२४||
इदानीं ज्वरस्यातिशयेन प्रतीकरणाय गरीयस्त्वं दर्शयन्नाह- शम्भुक्रोधोद्भव इत्यादि| एतैर्हेतुभिर्ज्वरोऽन्तक इत्युपदिश्यत इति सम्बन्धः| व्यापित्वमस्य पुरुषपश्वादिसर्वप्राणिव्यापनात्, सर्वसंस्पर्शित्वं समनस्केन्द्रियस्य देहस्य तापनात्, कृच्छ्रत्वम् अग्नेरुपघातादत्यन्तपीडाकरत्वाद्वा, अन्तसम्भवत्वं चापरव्याधिग्रस्तस्यापि पुरुषस्य ज्वरेणैव प्राणनाशित्वात्| अन्तक इव अन्तकः, अन्तकारित्वात्| यद्यप्ययमध्यायो निबन्धकारैरन्यक्रमपाठैः पठितः, तथाऽपि मया यथा गुरुणोपदिष्टस्तेन क्रमेण पठितः||३२३-३२४||
Adhikarana puShpikA · Śloka 39
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे ज्वरप्रतिषेधो नाम(प्रथमोऽध्यायः, आदित) एकोनचत्वारिंशोऽध्यायः ||३९||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गतकायचिकित्सायां ज्वरप्रतिषेधाध्याय एकोनचत्वारिंशत्तमः||३९||