Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अस्मादनन्तरं श्वित्रकृमिचिकित्सितं व्याख़्यायते| चिकित्सासाम्यमित्याह-
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अस्मादनन्तरं श्वित्रकृमिचिकित्सितं व्याख़्यायते| चिकित्सासाम्यमित्याह-
Adhikarana shvitrakRumicitsitAdhyAyaH shvitre shIghracikitsAyAhetuH (2-1) · Śloka 1
अथातः श्वित्रकृमिचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) कुष्ठादपि बीभत्सं यच्छीघ्रतरं च यात्यसाध्यत्वम्| श्वित्रमतस्तच्छान्त्यै यतेत दीप्ते यथा भवने||१||
🔊 Audio coming soon
स०-यत्-यस्मात्, कुष्ठादपि बीभत्सं-जुगुप्सितं निन्द्यं, तथा शीघ्रतरमसाध्यत्वं श्वित्रं याति| अतः-अस्माद्धेतोः, तस्य-श्वित्रस्य शमाय, यत्नं कुर्यात्| यथा ज्वलिते गृहे| आर्या|
Adhikarana shvitre pUrvaM saMshodhanaM shvitre virikte pipAsite ca peyA (2-3) · Śloka 3
संशोधनं विशेषात्प्रयोजयेत्पूर्वमेव देहस्य| श्वित्रे स्रंसनमग्र्यं मलयूरस इष्यते सगुडः||२|| तं पीत्वाऽभ्यक्ततनुर्यथाबलं सूर्यपादसन्तापम्| सेवेत निरिक्ततनुस्त्र्यहं पिपासुः पिबेत्पेयाम्||३||
🔊 Audio coming soon
स०-प्रथममेव शरीरस्य संशोधनं विशेषेण प्रयोजयेत्| तदेवाह-श्वित्रे मलयूरसो-बाकुचीक्वाथः, सह गुडया-स्नुह्या, सगुडो विरेचनमिष्यते| मुख़चपला| तं-क्वाथं, पीत्वाऽव्यक्तशरीरः सन् यथाशक्ति सूर्यकिरणसन्तापं भजेत्| विरिक्तश्च सन् पिपासितः पेयां त्रीणि दिनानि पिबेत्|
Adhikarana shvitre kaNTakena sPoTaBedanaM shvitre nistrutasPoTe malayvAdikvAthaH shvitre nistru pAlAshakShAraH (4-5) · Śloka 5
श्वित्रेऽङ्गे स्फोटा जायन्ते कण्टकेन तान्भिन्द्यात्| स्फोटेषु निःस्रुतेषु प्रातः प्रातः पिबेत् त्रिदिनम्||४|| मलयूमसनं प्रियङ्गूं शतपुष्पां चाम्भसा समुत्क्वाथ्य| पालाशं वा क्षारं यथाबलं फाणितोपेतम्||५||
🔊 Audio coming soon
स०-श्वित्रे साभ्यङ्गे ये स्फोटा उद्भवन्ति, तान्-स्फोटकान्, कण्टकेन भिन्द्यात्| स्फोटेषु निःस्रुतेषु सत्सु प्रातः प्रातस्त्रीणि दिनानि मलय्वादीनि समुत्क्वाथ्य पिबेत्| पालाशं वा क्षारं फाणितयुक्तं यथाशक्ति पिबेत्| तिस्र आर्याः|
Adhikarana shvitre sPoTodBave PalgvAdi kvAthAdi (6) · Śloka 6
फल्ग्वक्षवृक्षवल्कलनिर्यूहेणेन्दुराजिकाकल्कम्| पीत्वोष्णस्थितस्य जाते स्फोटे तक्रेण भोजनं निर्लवणम्||६||
🔊 Audio coming soon
स०-फल्गोरक्षेस्य च त्वचो यो निर्यूहः-क्वाथः, तेन [इन्दुराजिकायाः-] बाकुच्याः, कल्कं पीत्वा उष्णे-आतपे, स्थितस्य स्फोटेषु जातेषु सत्सु तक्रेण सह भोजनं निर्लवणं हितम्| आर्या गीतिः (?)|
Adhikarana shvitre gomUtrAriShTam (7) · Śloka 7
गव्यं मूत्रं चित्रकव्योषयुक्तं सर्पिःकुम्भे स्थापितं क्षौद्रमिश्रम्| पक्षादूर्ध्वं श्वित्रिणा पेयमेतत् कार्यं चास्मै कुष्ठदृष्टं विधानम्||७||
🔊 Audio coming soon
स०-गोमूत्रं चित्रकादियुक्तं माक्षिकान्वितं घृतकुम्भे स्थापितं पक्षं यावत् पक्षादूर्ध्वं श्वित्रवतैतत्पेयम्| अस्मै च-श्वित्रिणे, कुष्ठोक्तं विधानम्| अस्मै इति क्रियाग्रहणात्सम्प्रदानत्वम्| [शालिनीवृत्तम्| ]
Adhikarana shvitre mArkavaM BuktvA bIjakaShRutaM dugdham (8) · Śloka 8
मार्कवमथवा स्वादेद्भृष्ठं तैलेन लोहपात्रस्थम्| बीजकशृतं च दुग्धं तदनु पिबोच्छ्वित्रनाशाय||८||
🔊 Audio coming soon
स०-भृङ्गराजं वा तैलेन भृष्टं लोहपात्रस्थं ख़ादेत्| भुक्त्वा च पश्चाद्बीजकशृतं क्षीरं श्वित्रशान्त्यै पिबेत्| आर्या|
Adhikarana shvitre pUtIkapallavAdilepaH (9) · Śloka 9
पूतिकार्कव्याधिघातस्नुहीनां मुत्रे पिष्टाः पल्लवा जातिजाश्च| घ्नन्त्यालेपाच्छ्वित्रदुर्नामदद्रू- पामाकोठान् दुष्टनाडीव्रणांश्च||९||
🔊 Audio coming soon
स०-पूतिकादीनां पल्लवा गोमूत्रे पिष्टास्तथा जातिपल्लवा गोमूत्रे पिष्टाः प्रलेपेन श्वित्रादीन् घ्नन्ति|
Adhikarana shvitre dagdhadvIpicarmalepaH (10) · Śloka 10
द्वैपं दग्धं चर्म मातङ्गजं वाश्वित्रे लेपस्तैलयुक्तो वरिष्ठः| |१०|
🔊 Audio coming soon
स०-द्वीपसम्बन्धि चर्म दग्धं हस्तिजं च चर्म दग्धं तैलान्वितो लेपः श्वित्रेऽतिशयेन वरः|
Adhikarana shvitre pUtiH kITalepaH (10) · Śloka 10
| पूतिःकीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेकोऽपि हन्ति||१०||
🔊 Audio coming soon
स०-पूतिःकीटो राजवृक्षजेन क्षारेण लेपत एक एव श्वित्रं हन्ति| पूतिःकीटो-वर्षाकालोद्भवः पिलिन्दिकेति लोके प्रसिद्धः| शालिन्यौ वृत्ते|
Adhikarana shvitre BallAtakalepaH (11) · Śloka 11
रात्रौ गोमूत्रे वासितान् जर्जराङ्गा- नह्नि च्छायायां शोषयेत्स्फोटहेतून्| एवं वारांस्त्रींस्तैस्ततः श्लक्ष्णपिष्टैः स्नुह्याः क्षीरेण श्वित्रनाशाय लेपः||११||
🔊 Audio coming soon
स०-स्फोटहेतून्-भल्लातकान्, जर्जरीकृतान् निशि गोमूत्रे स्थितान् दिवसे छायायां शोषयेत्| एवं त्रीन् वारान् मूत्रस्थितान् शोषितांश्च| ततः-अनन्तरं, तैः स्नुहीक्षीरेण श्लक्ष्णपिष्टैः श्वित्रशान्त्यै लेपः| वैश्वदेवी|
Adhikarana shvitre kRuShNasarpamaShIlepaH,shvitre mayUrapittalepaH shvitre dagdhahrIberalepaH (12) · Śloka 12
अक्षतैलद्रुता लेपः कृष्णसर्पोद्भवा मषी| शिख़िपित्तं तथा, दग्धं ह्रीबेरं वा तदाप्लुतम्||१२||
🔊 Audio coming soon
स०-कृष्णसर्पजा मषी अक्षतैलेन द्रुता लेपः| मयूरपित्तं च लेपः पूर्वगुणः| अथवा, ह्रीबेरं दग्धं तेन-अक्षतैलेनालोडितं, लेपस्तद्वत्|
Adhikarana shvitre savarNakaro bAkucIbIjAdilepaH (13) · Śloka 13
कुडवोऽवल्गुजबीजाद्धरितालचतुर्थभागसम्मिश्रः| मूत्रेण गवां पिष्टः सवर्णकरणं परं श्वित्रे||१३||
🔊 Audio coming soon
स०-बाकुचीबीजं पलचतुष्टयं हरितालपलं गोमूत्रेण पिष्टं श्वित्रे सवर्णकरं स्यात्| आर्या|
Adhikarana shvitre gajapurIShakShArAdilepaH (14-15) · Śloka 15
क्षारे सुदग्धे गजलिण्डजे च गजस्य मूत्रेण परिस्रुते च| द्रोणप्रमाणे दशभागयुक्तं दत्त्वा पचेद्बीजमवल्गुजानाम्||१४|| श्वित्रं जयेच्चिक्कणतां गतेन तेन प्रलिम्पन् बहुशः प्रघृष्टम्| कुष्ठं मषं वा तिलकालकं वा यद्वा व्रणे स्यादधिमांसजातम्||१५||
🔊 Audio coming soon
स०-गजपुरीषजे क्षारे सुदग्धे द्रोणप्रमाणे यथाप्रमाणं गजस्य मूत्रेण क्षारविधिना परीस्रुतेऽस्मिन् बाकुचीबीजं दत्त्वा पचेत्| किम्भूतम् ? दशभागयुक्तम्,-दशभिर्भागैः प्रकृतत्वात् क्षारस्य सम्बन्धिभिर्मिश्रितम्| तेन चिक्कणतां-मदनरूपतां, गतेन पुरुषो बहुशः प्रघृष्टं श्वित्रं प्रलिम्पन् जयेत्, कुष्ठादींश्च| अधिमांसरूपतो यच्च स्यात्तच्च जयेत्| उपजाती|
Adhikarana shvitre BallAtakAdilepaH (16-17) · Śloka 17
भल्लातकं द्वीपिसुधार्कमूलं गुञ्जाफलं त्र्यूषणशङ्खचूर्णम्| तुत्थं सकुष्ठं लवणानि पञ्च क्षारद्वयं लाङ्गलिकां च पक्त्वा||१६|| स्नुगर्कदुग्धे घनमायसस्थं शलकया तद्विदधीत लेपम्| कुष्ठे किलासे तिलकालकेषु मषेषु दुर्नामसु चर्मकीले||१७||
🔊 Audio coming soon
स०-भल्लातकादिकं स्नुगर्कयोर्दुग्धे पक्त्वा घनमायसपात्रे स्थितं तत्-एतत्, शलाकया लेपं कुष्ठादिषु विदधीत| इन्द्रवज्रोपजाती|
Adhikarana shvitre kShINapApasya shuddhayAdiBiH shvitraprashamaH (18-1) · Śloka 1
शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्| श्वित्रं कस्यचिदेव प्रशाम्यति क्षीणपापस्य||१८|| इति श्वित्रचिकित्सितम्||१||
🔊 Audio coming soon
श्वित्रं कस्यचिदेव नरस्य क्षीणकल्मषस्य शुद्ध्यादिभिः शाम्यति| आर्या| इति श्वित्रचिकित्सा| अस्मादनन्तरं कृमिचिकित्सितं व्याख़्यायते, चिकित्सासामान्यात्|
Adhikarana kRumiShu snehasvedapUrvakaH surasAdigaNakvAthabastiH, tatastrivRutkalkavirecanam, tataH kaTvAdi kaShAyaiH pariShecanam, tato viDa~ggatailenAnu vAsanam (19-23) · Śloka 23
अथ कृमिचिकित्सितम्| स्निग्धस्विन्ने गुडक्षीरमत्स्याद्यैः कृमिणोदरे| उत्क्लेशितकृमिकफे शर्वरीं तां सुख़ोषिते||१९|| सुरसादिगणं मूत्रे क्वाथयित्वाऽर्धवारिणि| तं कषायं कणागालकृमिजित्कल्कयोजितम्||२०|| सतैलस्वर्जिकाक्षारं युञ्ज्याद्वस्तिं ततोऽहनि| तस्मिन्नेव निरूढं तं पाययेत विरेचनम्||२१|| त्रिवृत्कल्कं फलकणाकषायालोडितं ततः| ऊर्ध्वाधःशोधिते कुर्यात्पञ्चकोलयुतं क्रमम्||२२|| कटुतिक्तकषायाणां कषायैः परिषेचनम्| काले विडङ्गतैलेन ततस्तमनुवासयेत्||२३||
🔊 Audio coming soon
स०-कृमिणमदुरं यस्येति पामादित्वान्नप्रत्ययः| तस्मिन् कृमिणोदरे नरे स्निग्धस्विन्ने तथा गुडादिभिरुत्क्लेशिताः-स्वस्थानाच्च्याविताः , कृमयः कफश्च यस्य तस्मिंस्तथाभूत उदरे तथा समुत्क्लेशितादनन्तरं तां रात्रिं सुख़ोषिते सति सतैलस्वर्जिकाक्षारं बस्तिं युञ्ज्यात्| कथम् ? इत्याह-सुरसादिगणं (हृ. सू. अ. १५|३०) गोमूत्रेऽर्धवारिणि क्वाथयित्वा ततस्तं कषायं कणादीनां कल्केन योजितं-मिश्रं कृत्वा| ततो-निरूहादनन्तरं , तस्मिन्नेवाहनि तं-निरूढं , विरेचनं त्रिवृत्कल्कं फलादिकषायालोडितं पाययेत्| ततः-अनन्तरं , ऊर्ध्वाधःशोधिते तस्मिन् पञ्चकोलयुतं क्रमं-पेयाविलेप्यादिकं , कुर्यात्| ततः कट्वादिभिः कषायैः परिषेचितं समनन्तरं यदा सन्धुक्षितोऽग्निस्तदा तस्मिन् काले विडङ्गतैलेन तमनुवासयेत्|
Adhikarana kRumiShu mUrdhageShu shiroroganiShedhoktamanupraBUtatiktakAdiBojanam (24) · Śloka 24
शिरोरोगनिषेधोक्तमाचरेन्मूर्धगेष्वनु| उद्रिक्ततिक्तकटुकमल्पस्नेहं च भोजनम्||२४||
🔊 Audio coming soon
स०-शिरोरोगप्रतिषेधे यदुक्तं तन्मूर्धगेषु कृमिष्वाचरेत्| अनु-पश्चात्, प्रभूततिक्तकटुकमल्पस्नेहं च भोजनमाचरेत्|
Adhikarana kRumiShu takrasAdhitA yavAgUH (25) · Śloka 25
विडङ्गकृष्णामरिचपिप्पलीमूलशिग्रुभिः| पिबेत्सस्वर्जिकाक्षारैर्यवागूं तक्रसाधितम्||२५||
🔊 Audio coming soon
स०-तथा विडङ्गादिभिस्तक्रसाधितां पेयां पिबेत्|
Adhikarana kRumiShu shirIShAdInAM pRuthagrasAH (26-27) · Śloka 27
रसं शिरीषकिणिहीपारिभद्रककेम्बुकात्| पलाशबीजपत्तरपूतिकाद्वा पृथक् पिबेत्||२६|| सक्षौद्रं, सुरसादीन् वा लिह्यात्क्षौद्रयुतान् पृथक्| |२७|
🔊 Audio coming soon
स०-शिरीषादिरसं पिबेत्| किणिही-गिरिकर्णिका| पलाशबीजादीनां वा रसं माक्षिकान्वितं पृथक् पिबेत्| अथवा , सुरसादीन् (हृ. सू. अ. १५|३०) क्षौद्रयुतान् पृथग् लिह्यात्|
Adhikarana kRumiShu ashvaviTcUrNam (27-28) · Śloka 28
| शतकृत्वोऽश्वविट्चूर्णं विडङ्गक्वाथभावितम्||२७|| कृमिमान् मधुना लिह्याद्भावितं वा वरारसैः| |२८|
🔊 Audio coming soon
स०-अश्वपुरीषचूर्णं बहून् वारान् विडङ्गक्वाथेन भावितमथवाऽश्वशकृच्चूर्णं त्रिफलाक्वाथेन भावितं मधुना कृमिमान् लिह्यात्|
Adhikarana kRumiShu tasya pradhamanaM ca (28) · Śloka 28
| शिरोगतेषु कृमिषु चूर्णं प्रधमनं च तत्||२८||
🔊 Audio coming soon
शिरोगतेषु कृमिषु तत्-शिरोरोगनिषेधोक्तं, चूर्णं प्रधमनं-नस्यं , चाचरेत्|
Adhikarana kRumiShu AkhuparNIpallavAdipUpalikA (29-30) · Śloka 30
आख़ुकर्णीकिसलयैः सुपिष्टैः पिष्टमिश्रितैः| पक्त्वा पूपलिकां ख़ादेद्धान्याम्लं च पिबेदनु||२९|| सपञ्चकोललवणमसान्द्र तक्रमेव वा| |३०|
🔊 Audio coming soon
स०-तथा, मूषककर्णीपल्लवैः सूक्ष्मचूर्णितैः शालिचूर्णमिश्रितैः पूपलिकां पक्त्वा ख़ादेत्| तदनु-पश्चाच्च, धान्याम्लं पिबेत्| अथवा , तक्रं-मथितं , पञ्चकोललवणयुतं पिबेत्|
Adhikarana kRumiShu mUrdhageShu tadanu dhAnyAmlaM takraM vA kRumiShu mUrdhaviD~ggacUrNamishrABakShyAH (30-31) · Śloka 31
| नीपमार्कवनिर्गुण्डीपल्लवेष्वप्ययं विधिः||३०|| विडङ्गचूर्णमिश्रैर्वा पिष्टैर्भक्ष्यान् प्रकल्पयेत्| |३१|
🔊 Audio coming soon
स०-नीपादिष्वयमेव-पूर्वोक्तो मूषककर्णीपल्लवविधिः , कल्प्यः| अथवा , पिष्टैर्विडङ्गचूर्णमिश्रितैर्भक्ष्यान् प्रकल्पयेत्|
Adhikarana kRumiShu mUrdhageShu pAne bastau ca ArUShkaraM tailam (31-32) · Śloka 32
| विडङ्गतण्डुलैर्युक्तमर्धांशैरातपे स्थितम्||३१|| दिनमारुष्करं तैलं पाने बस्तौ च योजयेत्| सुराह्वसरलस्नेहं पृथगेवं च कल्पयेत्||३२||
🔊 Audio coming soon
स०-अरुष्करजं तैलं पाने बस्तौ च योजयेत्| किम्भूतम् ? अर्धभागप्रमाणैर्विडङ्गतण्डुलैर्मिश्रितं तथा दिनमातपे स्थितम्| दिनमित्यत्यन्तसंयोगे द्वितीया| देवदार्वादितैलं पृथगेवं-विडङ्गतण्डुलान्वितमातपे स्थितं , कल्पयेत्|
Adhikarana kRumiShu mUrdhageShu surAhvasaralayoH snehau kRumiShu purIShajeShu basti virecane (33) · Śloka 33
पुरीषजेषु सुतरां दद्याद्बस्तिविरेचने| |३३|
🔊 Audio coming soon
स०-पुरीषजेषु कृमिषु सुतरां बस्तिं विरेचनं च दद्यात्|
Adhikarana kRumiShu kaPajeShu nasyaM vamanaM shamanaM ca (33) · Śloka 33
| शिरोविरेकं वमनं शमनं कफजन्मसु||३३||
🔊 Audio coming soon
कफजन्मसु कृमिषु शिरोविरेकं-नस्यं , वमनं शमनं च कुर्यात्|
Adhikarana kRumiShu raktajeShu kuShThcikitstoktAkriyA (34) · Śloka 34
रक्तजानां प्रतीकारं कुर्यात्कुष्ठचिकित्सितात्| |३४|
🔊 Audio coming soon
स०-रक्तोत्थानां कृमीणां कुष्ठचिकित्सितात् प्रतीकारं विदध्यात्| ल्यब्लोपे पञ्चमी , कुष्ठचिकित्सितोक्तपेक्ष्येत्यर्थः|
Adhikarana kRumiShu romaBojiShu indraluptavidhiH (34) · Śloka 34
| इन्द्रलुप्तविधिश्चात्र विधेयो रोमभोजिषु||३४||
🔊 Audio coming soon
स०-रोमभोजिषु कृमिष्विन्द्रलुप्तविधिः (हृ. उ. अ. २४|२८) कार्यः|
Adhikarana kRumiShu kShIrAdIni varjyAni (20) · Śloka 20
क्षीराणि मांसानि घृतं गुडं च दधीनि शाकानि च पर्णवन्ति| समासतोऽम्लान्मधुरान् रसांश्च कृमीन् जिहासुः परिवर्जयेत्||३५|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने श्वित्रकृमिचिकित्सितं नाम विंशोऽध्यायः||२०||
🔊 Audio coming soon
स०-कृमीन् जिहासुः क्षीरादीन् वर्जयेत्| उपजातिवृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख़्यायां चतुर्थे चिकित्सितस्थाने श्वित्रकृमिचिकित्सितं नाम विंशोऽध्यायः समाप्तः|| २०||