Adhikarana udaranidAnAdhyAyaH, udarasya nidAnam (2-1) · Śloka 1
तस्मादतोऽनन्तरमुदरनिदानमुच्यते इत्याह - - - - अथात उदरनिदानं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे)|२|
रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि तु|
अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसञ्चयात्||१||
Adhikarana udarasya samprAptiH (2-3) · Śloka 3
अधुना सम्प्राप्तिविशेषमाह - - - - ऊर्ध्वाधो धातवो रुद्ध्वा वाहिनीरम्बुवाहिनीः|
प्राणाग्न्यपानान् सन्दूष्य कुर्यस्त्वङ्मांससन्धिगाः||२||
आध्माप्य कुक्षिमुदरम्|
|३|
Adhikarana udaramaShTavidham (3) · Śloka 3
अष्टधा तच्च भिद्यते|
पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः||३||
Adhikarana udarArtAnAM lakShaNam (4-5) · Śloka 5
तेनार्ताः शुष्कताल्वोष्ठाः शूनपादकरोदराः|
नष्टचेष्टाबलाहाराः कृशाः प्रध्मातकुक्षयः||४||
स्युः प्रेतरूपाः पुरुषाः|
|५|
Adhikarana udarasya pUrvarUpam (5-8) · Śloka 8
भाविनस्तस्य लक्षणम्|
क्षुन्नाशोऽन्नं चिरात्सर्वं सविदाहं च पच्यते||५||
जीर्णाजीर्णं न जानाति सौहित्यं सहते न च|
क्षीयते बलतः शश्वच्छ्वसित्यल्पेऽपि चेष्टिते||६||
वृद्धिर्विशोऽप्रवृत्तिश्च किञ्चिच्छोफश्च पादयोः|
रुग्बस्तिसन्धौ ततता लघ्वल्पाभोजनैरपि||७||
राजीजन्म वलीनाशो जठरे|
|८|
Adhikarana udarasya sAmAnyalakShaNam (8-9) · Śloka 9
जठरेषु तु|
सर्वेषु तन्द्रा सदनं मलसङ्गोऽल्पवह्निता||८||
दाहः श्वयथुराध्मानमन्ते सलिलसम्भवः|
|९|
Adhikarana atoyasyodarasya lakShaNam (9-12) · Śloka 12
अतोयमदुरं किं लक्षणम् ? इत्याह - - - - |
सर्वं त्वतोयमरुणमशोफं नातिभारिकम्||९||
गवाक्षितं सिराजालैः सदा गुडगुडायते|
नाभिमन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति||१०||
मारुतो हृत्कटीनाभिपायुवङ्क्षणवेदनाः|
सशब्दो निश्चरेद्वायुर्विड्बद्धा मूत्रमल्पकम्||११||
नातिमन्दोऽनलो लौल्पं न च स्याद्विरसं मुखम्|
|१२|
Adhikarana vAtodarasya lakShaNam (12-15) · Śloka 15
|
तत्र वातोदरे शोफः पाणिपान्मुष्ककुक्षिषु||१२||
कुक्षिपार्श्वोदरकटीपृष्ठरुक् पर्वभेदनम्|
शुष्ककासोऽङ्गमर्दोऽधोगुरुता मलसङ्ग्रहः||१३||
श्यावारुणत्वगादित्वमकस्माद्वृद्धिह्लासवत्|
सतोदभेदमुदरं तनुकृष्णसिराततम्||१४||
आध्मातदृतिवच्छब्दमाहतं प्रकरोति च|
वायुश्चात्र सरुक्शब्दो विचरेत्सर्वतोगतिः||१५||
Adhikarana pittodarasya lakShaNam (16-17) · Śloka 17
पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता|
भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित्||१६||
पीतताम्रसिरानद्धं सस्वेदं सोश्म दह्यते|
धूमायति मृदुस्पर्शं क्षिप्रपाकं प्रदूयते||१७||
Adhikarana kaphodarasya lakShaNam (18-19) · Śloka 19
श्लेष्मोदरेऽङ्गसदनं स्वापः श्वयथुगौरवम्|
निद्रोत्क्लेशारुचिश्वासकासशुक्लत्वगादिता||१८||
उदरं स्तिमितं श्लक्ष्णं शुक्लराजीततं महत्|
चिराभिवृद्धि कठिनं शीतस्पर्शं गुरु स्थिरम्||१९||
Adhikarana sannipAtodarasya lakShaNam (20-22) · Śloka 22
अधुना सन्निपातोदरं लक्षयितुमाह - - - - त्रिदोषकोपनैस्तैस्तैः स्त्रीदत्तैश्च रजोमलैः|
गरदूषीविषाद्यैश्च सरक्ताः सञ्चिता मलाः||२०||
कोष्ठं प्राप्य विकुर्वाणाः शोषमूर्च्छाभ्रमान्वितम्|
कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम्||२१||
बाधते तच्च सुतरां शीतवाताभ्रदर्शने|
|२२|
Adhikarana plIhodarasya lakShaNam (22-26) · Śloka 26
प्लीहोदरादीन्यधुना लक्षयति - - - - |
अत्याशितस्य सङ्क्षोभाद्यानयानादिचेष्टितैः||२२||
अतिव्यवायकर्माध्ववमनव्याधिकर्शनैः|
वामपार्श्वाश्रितः प्लीहाच्युतः स्थानाद्विवर्द्धते||२३||
शोणितं वा रसादिभ्यो विवृद्धं तं विवर्द्धयेत्|
सोऽष्ठीलेवातिकठिनः प्राक् ततः कूर्मपृष्ठवत्||२४||
क्रमेण वर्द्धमानश्च कुक्षावुदरमावहेत्|
श्वासकासपिपासास्यवैरस्याध्मानरुग्ज्वरैः||२५||
पाण्डुत्वमूर्च्छाछर्दीभिर्दाहमोहैश्च संयुतम्|
अरुणाभं विवर्णं वा नीलहारिद्रराजिमत्||२६||
Adhikarana plIhodare doShAnubandhaH (27) · Śloka 27
उदावर्तरुजानाहैर्मोहतृड्दहनज्वरैः|
गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात्||२७||
Adhikarana yakRududarasya lakShaNam (28) · Śloka 28
अथ यकृल्लक्षयति - - - - प्लीहवद्दक्षिणात्पार्श्वात् कुर्याद्यकृदपि च्युतम्|
|२८|
Adhikarana baddhodarasya lakShaNam (28-32) · Śloka 32
अथ बद्धोदरं लक्षयति - - - - |
पक्ष्मवालैः सहान्नेन भुक्तैर्बद्धायने गुदे||२८||
दुर्नामभिरुदावतैरन्यैर्वाऽन्त्रोपलोपिभिः|
वर्चःपित्तकफान् रुद्ध्वा करोति कुपितोऽनिलः||२९||
अपानो जठरं तेन स्युर्दाहज्वरतृट्क्षवाः|
कासश्वासोरुसदनं शिरोहृन्नाभिपायुरुक्||३०||
मलसङ्गोऽरुचिश्च्छर्दिरुदरं मूढमारुतम्|
स्थिरं नीलारुणसिराराजिनद्धमराजि वा||३१||
नाभेरुपरि च प्रायो गोपुच्छाकृति जायते|
|३२|
Adhikarana chidrodarasya lakShaNam (32-36) · Śloka 36
अधुना छिद्रोदरं लक्षयति - - - - |
अस्थ्यादिशल्यैः सान्नैश्चद्भुक्तैरत्यशनेन वा||३२||
भिद्यते पच्यते वाऽन्त्रं तच्छिद्रैश्च स्रवन्बहिः|
आम एव गुदादेति ततोऽल्पाल्पं सविड्रसः||३३||
तुल्यः कुणपगन्धेन पिच्छिलः पीतलोहितः|
शेषश्चापूर्य जठरं जठरं घोरमावहेत्||३४||
वर्द्धयेत्तदधो नाभेराशु चैति जलात्मताम्|
उद्रिक्तदोषरूपं च व्याप्तं च श्वासतृड्भ्रमैः||३५||
छिद्रोदरमिदं प्राहुः परिस्रावीति चापरे|
|३६|
Adhikarana udakodarasya lakShaNam (36-40) · Śloka 40
अथोदकोदरदर्शनार्थमाह - - - - |
प्रवृत्तस्नेहपानादेः सहसाऽऽमाम्बुपायिनः||३६||
अत्यम्बुपानान्मन्दाग्नेः क्षीणस्यातिकृशस्य वा|
रुद्ध्वाऽम्बुमार्गाननिलः कफश्च जलमूर्छितः||३७||
वर्धयेतां तदेवाम्बु तत्स्थानादुदराश्रितौ|
ततः स्यादुदरं तृष्णागुदस्रुतिरुजान्वितम्||३८||
कासश्वासारुचियुतं नानावर्णसिराततम्|
तोयपूर्णदृतिस्पर्शशब्दप्रक्षोभवेपथु||३९||
दकोदरं महत्स्निग्धं स्थिरमावृत्तनाभि तत्|
|४०|
Adhikarana upekShayA sarveShUdareShu jalasaMbhave saMprAptirlakShaNaM ca (40-44) · Śloka 44
अधुना जठरेऽप्यवसाने यथा जलसम्भवः स्यात्तथाऽऽह - - - - |
उपेक्षया च सर्वेषु दोषाः स्वस्थानतश्च्युताः||४०||
पाकाद्द्रवा द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि|
स्वदेश्च बाह्यस्रोतःसु विहतस्तिर्यगास्थितः||४१||
तदेवोदकमाप्याय्य पिच्छां कुर्यात्तदा भवेत्|
गुरूदरं स्थिरं वृत्तमाहतं च न शब्दवत्||४२||
मृदु व्यपेतराजीकं नाभ्यां स्पृष्टं च सर्पति|
तदनूदकजन्मास्मिन्कुक्षिवृद्धिस्ततोऽधिकम्||४३||
सिरान्तर्धानमुदकजठरोक्तं च लक्षणम्|
|४४|
Adhikarana udarANAM kRucchrasAdhyAsAdhyatvam (44-45) · Śloka 45
इदानीमुदराणां सुखसाध्यत्वाभावात् कृच्छ्रसाध्यासाध्यत्वे वेदयति - - - - |
वातपित्तकफप्लीहसन्निपातोदकोदरम्||४४||
कृच्छ्रं यथोत्तरम् पक्षात्परं प्रायोऽपरे हतः|
सर्वं च जातसलिलं रिष्टोक्तोपद्रवान्वितम्||४५||
Adhikarana udarasya yatnasAdhyatvam (12) · Śloka 12
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्|
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम्||४६||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने उदरनिदानं नाम द्वादशोऽध्यायः||१२||