Adhikarana bAlAmayapratiShedhAdhyAyaH bAlastrividhaH (2-1) · Śloka 1
अथातो बालामयप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
गद्यसूत्रे|२|
त्रिविधः कथितो बालः क्षीरान्नोभयवर्तनः|
स्वास्थ्यं ताभ्यामदुष्टाभ्यां दुष्टाभ्यां रोगसम्भवः|१|
अस्मादनन्तरं बालस्योपचर्यमाणस्य ये रोगास्तच्चिकित्सार्थो बालामयप्रतिषेध उच्यते- स०-बालस्त्रिप्रकारः कथितो मुनिभिः| क्षीरवर्तनोऽन्नवर्तन उभयवर्तनः-क्षीरान्नाभ्यां यो वर्तते| ताभ्यां-अन्नक्षीराभ्यां, अदुष्टाभ्यां स्वास्थ्यं भवति| दुष्टाभ्यां तु क्षीरान्नाभ्यां रोगोद्भूतिः| शुद्धं क्षीरं लक्षयति|
Adhikarana bAlAmayapratiShedhAdhyAyaH bAlastrividhaH (2-1) · Śloka 1
शुद्धं क्षीरं लक्षयति अथातो बालामयप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
गद्यसूत्रे|२|
त्रिविधः कथितो बालः क्षीरान्नोभयवर्तनः|
स्वास्थ्यं ताभ्यामदुष्टाभ्यां दुष्टाभ्यां रोगसम्भवः||१||
अस्मादनन्तरं बालस्योपचर्यमाणस्य ये रोगास्तच्चिकित्सार्थो बालामयप्रतिषेध उच्यते- स०-बालस्त्रिप्रकारः कथितो मुनिभिः| क्षीरवर्तनोऽन्नवर्तन उभयवर्तनः-क्षीरान्नाभ्यां यो वर्तते| ताभ्यां-अन्नक्षीराभ्यां, अदुष्टाभ्यां स्वास्थ्यं भवति| दुष्टाभ्यां तु क्षीरान्नाभ्यां रोगोद्भूतिः|
Adhikarana vAtaduShTastanyasya lakShaNam (2-3) · Śloka 3
|
वाताद्दुष्टं तु प्लवतेऽम्भसि||२||
कषायं फेनिलं रूक्षं वर्चोमूत्रविबन्धकृत्|
|३|
स०-वातदुष्टं क्षीरं जले प्लवते-तरतीव नैकतां गच्छति| कषायादिगुणयुक्तं च स्यात्|
Adhikarana pittaduShTasya lakShaNam (3) · Śloka 3
|
पित्तादुष्णाम्लकटुकं पीतराज्यप्सु दाहकृत्||३||
स०-पित्ताद्दुष्टं क्षीरमुष्णाम्लकटुकम्, तथा तोये प्रक्षिप्तं पीतराजि स्यात् दाहकरं च|
Adhikarana kaphaduShTasya lakShaNam (4) · Śloka 4
कफात्सलवणं सान्द्रं जले मज्जति पिच्छिलम्|
|४|
स०-कफात् क्षीरं दुष्टं सलवणं घनं च स्यात्| अप्सु च मज्जति|
Adhikarana dvidoShaduShTasya lakShaNam tridoShaduShTasya lakShaNam tattadduShTaM stanyaM yathAsvaM vyAdhijanakam (4-5) · Śloka 5
|
संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम्||४||
यथास्वलिङ्गांस्तद्व्याधीन् जनयत्युपयोजितम्|
|५|
स०-संसर्गाद् दुष्टं क्षीरं संसृष्टलिङ्गं स्यात्| सान्निपातिकं क्षीरं त्रिलिङ्गं स्यात्| स०-तच्च क्षीरमुपयोजितं बालस्य च यथास्वलिङ्गान् व्याधीन् जनयति|
Adhikarana rodanAt pIDAj~jAnam (5) · Śloka 5
|
शिशोस्तीक्ष्णमभीक्ष्णं च रोदनाल्लक्षयेद्रुजम्||५||
स०-बालस्य तीक्ष्णं-खरं, अभीक्ष्णं च रुजं-पीडां, रोदनाल्लक्षयेत्,- अतिरोदनेन किञ्चिद्रोदनेन च यथायोगं रुजं विद्यादित्यर्थः|
Adhikarana pIDAsthAnaj~jAnam (6) · Śloka 6
स यं स्पृशेद्भृशं देशं यत्र च स्पर्शनाक्षमः|
तत्र विद्याद्रुजं|६|
स०-यं देहदेशं स भृशं स्पृशेत् यत्र च देहदेशे स्पर्शनाक्षमः स्यात् तत्र देशे रुजं विद्यात्|
Adhikarana mUrdhAdau pIDAj~jAnam (6-8) · Śloka 8
|
मूर्ध्नि रुजं चाक्षिनिमीलनात्||६||
हृदि जिह्वौष्ठदशनश्वासमुष्टिनिपीडनैः|
कोष्ठे विबन्धवमथुस्तनदंशान्त्रकूजनैः||७||
आध्मानपृष्ठनमनजठरोन्नमनैरपि|
बस्तौ गुह्ये च विण्मूत्रसङ्गोत्त्रासदिगीक्षणैः||८||
स०-शिरसि पीडामक्षिनिमीलनाद्विद्यात्| विनाशहेतुमत एव जिह्वौष्ठदशनादिभिर्हृदि पीडां विद्यात्| विबन्धादिभिराध्मानादिभिश्च कोष्ठे रुजं विद्यात्| बस्तौ गुह्ये च पीडां विट्सङ्गादिभिर्विद्यात्|
Adhikarana dhAtryAScikitsitam (9) · Śloka 9
अथ धात्र्याः क्रियां कुर्याद्यथादोषं यथामयम्|
|९|
स०-अथ-अनन्तरं, एवं ज्ञात्वा धात्र्या वैद्यो यथादोषं यथारोगं क्रियां कुर्यात्|
Adhikarana vAtaduShTe stanye daSamUlAdi (9-10) · Śloka 10
|
तत्र वातात्मके स्तन्ये दशमूलं त्र्यहं पिबेत्||९||
अथवाऽग्निवचापाठाकटुकाकुष्ठदीप्यकम्|
सभार्गीदारुसरलवृश्चिकालीकणोषणम्||१०||
स०-तत्र-तेषु, वातेन दुष्टे स्तन्ये त्रीणि दिनानि दशमूलं पिबेत्| अथवा चित्रकादीनि क्वथितानि त्र्यहं पिबेत्|
Adhikarana vAtaduShTe vAtavyAdhiharaM ghRutAdi (11-12) · Śloka 12
ततः पिबेदन्यतमं वातव्याधिहरं घृतम्|
अनु चाच्छसुरामेवं स्निग्धां मृदु विरेचयेत्||११||
बस्तिकर्म ततः कुर्यात्स्वेदादींश्चानिलापहान्|
|१२|
स०-अनन्तरं वातव्याधिचिकित्सितोक्तं घृतं पिबेत्| पश्चादच्छसुरां पिबेत्| एवं स्निग्धां सतीं मृदु विरेचयेत्-आरग्वधेन| अनन्तरं बस्तिकर्म कुर्यात्| स्वेदादींश्च मारुतापहान्| आदिशब्देनाभ्यङ्गादेर्ग्रहः|
Adhikarana vAtaduShTe bAlArthaM rAsnAdighRutam (12-13) · Śloka 13
|
रास्नाजमोदासरलदेवदारुरजोन्वितम्||१२||
बालो लिह्याद् घृतं तैर्वा विपक्वं ससितोपलम्|
|१३|
स०-रास्नादिचूर्णान्वितं शिशुः सर्पिर्लिह्यात्| अथवा तैः सिद्धं सशर्करं घृतं लिह्यात्|
Adhikarana pittaduShTe stanye bAladhAtryoramRutAdikvAthAH ghRutAdIni ca (13-16) · Śloka 16
|
पित्तदुष्टेऽमृताभीरुपटोलीनिम्बचन्दनम्||१३||
धात्री कुमारश्च पिबेत् क्वाथयित्वा ससारिवम्|
अथवा त्रिफलामुस्तभूनिम्बकटुरोहिणीः||१४||
सारिवादिं पटोलादिं पद्मकादिं तथा गणम्|
घृतान्येभिश्च सिद्धानि पित्तघ्नं च विरेचनम्||१५||
शीतांश्चाभ्यङ्गलेपादीन् युञ्ज्यात्|
|१६|
स०-पित्तदुष्टे गुडूच्यादीनि क्वाथयित्वा बालः पिबेत् धात्री च| अथवा त्रिफलादीन् पिबेत्| अथवा सारिवादिगणं(गणाद्यन्यतमं) पिबेत् सं-अथवा सारिवादिभिर्गणैः पृथक् पृथक् सिद्धानि घृतानि लिह्यात्| विरेचनद्रव्यं च पित्तघ्नं कुर्या(युञ्ज्या)त्| अभ्यङ्गादींश्च शीतान् युञ्ज्यात्|
Adhikarana SleShmaduShTe stanye yaShTyAdi ghRutam SleShmaduShTe stanayorubhayoroShThayoScalepaH (16-18) · Śloka 18
श्लेष्मात्मके पुनः|
यष्ट्याह्वसैन्धवयुतं कुमारं पाययेद् घृतम्||१६||
सिन्धूत्थपिप्पलीमद्वा, पिष्टैः, क्षौद्रयुतैरथ|
राठपुष्पैः स्तनौ लिम्पेच्छिशोश्च दशनच्छदौ||१७||
सुखमेवं वमेद्बालः|
|१८|
स०-श्लेष्मदुष्टे स्तन्ये मधुयष्टीसैन्धवयुक्तं घृतं बालं पाययेत्| सैन्धवपिप्पलियुक्तं घृतं वा पाययेत्| मदनकुसुमैर्माक्षिकयुक्तैः स्तनौ लिम्पेत्| बालस्य चोष्ठौ लिम्पेत्| एवं कृते सति बालः सुखं वमेत्|
Adhikarana SleShmaduShTe dhAtryA vamanAdi (18) · Śloka 18
तीक्ष्णैर्धात्रीं तु वामयेत्|
|१८|
स०-धात्रीं तीक्ष्णैर्वमनैर्वामयेत्|
Adhikarana tridoShaduShTe stanye kShIrAlasakarogotpattiH (18-19) · Śloka 19
|
अथाचरितसंसर्गी मुस्तादिं क्वथितं पिबेत्||१८||
तद्वत्तगरपृथ्वीकासुरदारुकलिङ्गकान्|
अथवाऽतिविषामुस्तषड्ग्रन्थापञ्चकोलकम्||१९||
स०-अनन्तरं कृते संसर्गे सति मुस्तादिं क्वथितं पिबेत्| तगरादीन् वा अतिविषादीन् वा पिबेत्|
Adhikarana tridoShaduShTe dhAtrIbAlayorvamanam (20-23) · Śloka 23
स्तन्ये त्रिदोषमलिने दुर्गन्ध्यामं जलोपमम्|
विबद्धमच्छं विच्छिन्नं फेनिलं चोपवेश्यते||२०||
शकृन्नानाव्यथावर्णं, मूत्रं पीतं सितं घनम्|
ज्वरारोचकतृट्छर्दिशुष्कोद्गारविजृम्भिकाः||२१||
अङ्गभङ्गोऽङ्गविक्षेपः कूजनं वेपथुर्भ्रमः|
घ्राणाक्षिमुखपाकाद्या जायन्तेऽन्येऽपि तं गदम्||२२||
क्षीरालसकमित्याहुरत्ययं चातिदारुणम् तत्राशु धात्रीं बालं च वमनेनोपपादयेत्||२३||
स०-त्रिदोषदुष्टे स्तन्ये दुर्गन्ध्यादिगुणं शकृदुपवेश्यते, तथा नानाव्यथावर्णम्| मूत्रं च पीतं सितं घनं-स्त्यानं, च स्यात्| तथा ज्वरादयः, अन्येऽपि-एवंप्रकारा रोगाः, जायन्ते| तं-ईदृशं, गदं क्षीरालसकमिति कथयन्ति| अत्ययं-विनाशहेतुम्, अत एवातिदारुणम् स०-तत्र-क्षीरालसके, शीघ्रमेव धात्रीं बालं च वमनेनोपक्रमेत्|
Adhikarana tridoShaduShTe tato vacAdigaNAdyauShadham (24) · Śloka 24
विहितायां च संसर्ग्यां वचादिं योजयेद्गणम्|
निशादिं वाऽथवा माद्रीपाठातिक्ताघनामयान्||२४||
स०-[ विहितायां ] संसर्ग्यां-पेयादिके क्रमे कृते, वचादिं निशादिं वा गणं प्रयोजयेत्| माद्र्यादीन् वा योजयेत्|
Adhikarana stanyadoShaharAH pATAdayaH (25) · Śloka 25
पाठाशुण्ठ्यमृतातिक्ततिक्तादेवाह्वसारिवाः|
समुस्तमूर्वेन्द्रयवाः स्तन्यदोषहराः परम्||२५||
स०-पाठादय उपयुक्ताः परं स्तन्यदोषहराः| तिक्तः किराततिक्तः|
Adhikarana anubandhe yathArogaM cikitsitam (26) · Śloka 26
अनुबन्धे यथाव्याधि प्रतिकुर्वीत कालवित्|
|२६|
स०-अनुबन्धे तु सति यथारोगं चिकित्सितं कुर्याद्वैद्यः|
Adhikarana dantodbhedo sarvarogANAM hetuH (26-27) · Śloka 27
|
दन्तोद्भेदश्च रोगाणां सर्वेषामपि कारणम्||२६||
विशेषाज्जवरविड्भेदकासच्छर्दिशिरोरुजाम्|
अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते||२७||
स०-रोगाणां च सर्वेषामपि दन्तोद्भेदो हेतुर्जायते| विशेषेण ज्वरादीनां तु हेतुः सम्पद्यते|
Adhikarana tatra yathAdoShaM cikitsitam (28-29) · Śloka 29
पृष्ठभङ्गे बिडालानां बर्हिणां च शिखोद्गमे|
दन्तोद्भेदे च बालानां न हि किञ्चिन्न दूयते||२८||
यथादोषं यथारोगं यथोद्रेकं यथाभयम्|
विभज्य देशकालादींस्तत्र योज्यं भिषग्जितम्||२९||
स०-मार्जाराणां पृष्ठभङ्गे सति, मयूराणां च शिकोद्भवे सति, दन्तोत्थाने च शिशूनां, ननेति द्वौ प्रतिषेधौ प्रकृतमर्थं गमयतः, तेन सर्वं वपुर्बालस्योत्तप्तं भवेत्| न किञ्चिन्न दूयते,- अपि तु सर्वाण्येवाङ्गानि पीड्यन्त इत्यर्थः| स०-तत्र दोषानुसारेण तथा दोषादिक्यानुरोधेन तथा रोगानुसारेण च देशकालसत्त्वसात्म्यप्रकृतीर्निरूप्याउषधं प्रयोजयेत्|
Adhikarana bAle~alpA bheShajamAtrA (30-31) · Śloka 31
त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च यत्|
अतस्तदेव भैषज्यं मात्रा त्वस्य कनीयसी||३०||
सौकुमार्याल्पकायत्वात् सर्वान्नानुपसेवनात्|
|३१|
स०-यत्-यस्मात्, त एव वातादयो दोषाः, त एव रसादयो दूष्याः, ज्वरादयश्च रोगाः पूर्वोक्तास्त एव, तस्मात् तदेव पूर्वोक्तं भैषज्यम्| अस्य तु-बालस्य, मात्रा कनीयसी| कुतोऽस्य ह्रस्वतरा मात्रा ? इत्याह-सौकुमार्येत्यादि|
Adhikarana bAle mRuduvamanam (31-32) · Śloka 32
|
स्निग्धा एव सदा बाला घृतक्षीरनिषेवणात्||३१||
सद्यस्तान् वमनं तस्मात् पाययेन्मतिमान् मृदु|
|३२|
स०-शिशवः सर्वदैव स्निग्धाः| कुतः ? घृतक्षीरनिषेवणात्| यतश्चैवं तस्मात् तान्-बालान्, सद्यो वमनं मृदु धीमान् पाययेत्|
Adhikarana bAle vamanApUrvaM stanyAdinA tRuptiH (32-33) · Śloka 33
|
स्तन्यस्य तृप्तं वमयेत् क्षीरक्षीरान्नसेविनम्||३२||
पीतवन्तं तनुं पेयामन्नादं घृतसंयुताम्|
|३३|
स०-क्षीरसेविनं तथा क्षीरान्नसेविनं बालं स्तन्यस्य तृप्तं सन्तं वामयेत्| स्तन्यस्य तृप्तमिति "अधिकरणवाचिनश्च" इति षष्ठी| वा(व)मयेदिति "ग्लास्नावनुवमां च" इति मित्त्वविकल्पः स०-अन्नादं बालं तनुं-अघनां, पेयां ससर्पिष्कां पीतवन्तं वामयेत्|
Adhikarana bAle virekAdisAdhye bastyAdi (33-34) · Śloka 34
|
बस्तिं साध्ये विरेकेण, मर्शेन प्रतिमर्शनम्||३३||
युञ्जयाद्विरेचनादींस्तु धात्र्या एव यथोदितान्|
|३४|
स०-विरेकेण साध्ये रोगे बस्तिं युञ्जयात्| मर्शेन साध्ये रोगे प्रतिमर्शं युञ्ज्यात्| विरेचनादीन् पुनर्यथोदितान् धात्र्या एव युञ्ज्यात्|
Adhikarana stanyadoShaharA mUrvAdayaH (34-35) · Śloka 35
|
मूर्वाव्योषवराकोलजम्बूत्वक्दारुसर्षपाः||३४||
सपाठा मधुना लीढाः स्तन्यदोषहराः परम्|
|३५|
स०-मूर्वादयो मधुना लीढाः सुष्ठु स्तन्यदोषहराः|
Adhikarana dantapAlyAH pippalyAdi pratisAraNam (35-36) · Śloka 36
|
दन्तपालीं समधुना चूर्णेन प्रतिसारयेत्||३५||
पिप्पल्या धातकीपुष्पधात्रीफलकृतेन वा|
|३६|
स०-शिशोर्दन्तपालीं पिप्पल्याश्चूर्णेन समाक्षिकेण प्रतिसारयेत्| अथवा धातकीपुष्पादिकृतेन चूर्णेन प्रतिसारयेत्|
Adhikarana dantodbhave lAvAdirajaH (36-37) · Śloka 37
|
लावतित्तिरिवल्लूररजः पुष्परसद्रुतम्||३६||
द्रुतं करोति बालानां दन्तकेसरवन्मुखम्|
|३७|
स०-लावादिचूर्णं माक्षिकद्रवीकृतमुपयुक्तं शिशूनां शीघ्रं दन्तकेसरवन्मुखं करोति| दन्ता एव केसरं तत् (राणि तानि) विद्यते(न्ते) यस्मिन्निति मतुप्|
Adhikarana dantodbhave vacAdighRutam (37-38) · Śloka 38
|
वचाद्विबृहतीपाठाकटुकातिविषाघनैः||३७||
मधुरैश्च घृतं सिद्धं सिद्धं दशनजन्मनि|
|३८|
स०-वचादिभिः पक्वं घृतं दन्तोत्थाने सिद्धम्,- अव्याहतशक्तित्वात्|
Adhikarana dantodbhave bAlasarvaroge rajanyAdicUrNam (38-40) · Śloka 40
|
रजनीदारुसरलश्रेयसीबृहतीद्वयम्||३८||
पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा|
ग्रहणीदीपनं श्रेष्ठं मारुतस्यानुलोमनम्||३९||
अतीसारज्वरश्वासकामलापाण्डुकासनुत्|
बालस्य सर्वरोगेषु पूजितं बलवर्णदं||४०||
स०-रजन्यादिचूर्णं माक्षिकयुक्तेन सर्पिषा लीढं ग्रहण्या दीपनं सुष्ठु वातस्य चानुलोमनम्| तथाऽतीसारादिजित्| बालस्य सर्वामयेषु हितं बलवर्णदं च|
Adhikarana dantodbhave sama~ggAdighRutam (41-43) · Śloka 43
समङ्गाधातकीरोध्रकुटन्नटबलाद्वयैः|
महासहाक्षुद्रसहामुद्गबिल्वशलाटुभिः||४१||
सकार्पासीफलैस्तोये साधितैः साधितं घृतम्|
क्षीरमस्तुयुतं हन्ति शीघ्रं दन्तोद्भवोद्भवान्||४२||
विविधानामयानेतद्वृद्धकाश्यपनिर्मितम्|
|४३|
स०-समङ्गादिभिः सामान्यपरिभाषया तोये साधितं घृतं क्षीरमस्तुयुतं पक्वं दन्तोत्थान् रोगाननेकप्रकारान् हन्ति| एतच्च वृद्धकाश्यपेन निर्मितम्|
Adhikarana dantodbhave nAtiyantraNam (43-44) · Śloka 44
|
दन्तोद्भवेषु रोगेषु न बालमतियन्त्रयेत्||४३||
स्वयमप्युपशाम्यन्ति जातदन्तस्य यद्गदाः|
|४४|
स०-दन्तोद्भवेषु रोगेषु बालं नातीव यन्त्रयेत्-पथ्यभोजनादिना नातीव नियमयेत्, यथाऽन्यरोगिणम्| किम् ? इत्याह-यत्-यस्मात्, स्वयमेव(मपि)-चिकित्सामन्तरेणापि, जातदन्तस्य सतो बालस्य रोगाः प्रशाम्यन्ति|
Adhikarana SiSorarocakAdayo rogAH SuShkatvaM ca (44-46) · Śloka 46
|
अत्यहःस्वप्नशीताम्बुश्लैष्मिकस्तन्यसेविनः||४४||
शिशोः कफेन रुद्धेषु स्रोतःसु रसवाहिषु|
अरोचकः प्रतिश्यायो ज्वरः कासश्च जायते||४५||
कुमारः शुष्यति ततः स्निग्धशुक्लमुखेक्षणः|
|४६|
स०-भृशं दिवास्वप्नादिसेविनोऽर्भकस्य कफेन रसवाहिषु स्रोतःसु रुद्धेषु सत्सु अरोचकादयः प्रादुर्भवन्ति| ततः-तेषु जातेषु, कुमारः शुष्यति| स्निग्धं शुक्लं वदननयनं यस्य स एवंभूतः सन्|
Adhikarana tatra saindhavAdicUrNam (46-47) · Śloka 47
|
सैन्धवव्योषशार्ङ्गेष्टापाठागिरिकदम्बकान्||४६||
शुष्यतो मधुसर्पिर्भ्यामरुच्यादिषु योजयेत्|
||४७||
स०-तस्यारोचकादिषु सैन्धवादीन् समधुघृतान् योजयेत्|
Adhikarana tatra pa~jcakolAdicUrNam (47-48) · Śloka 48
|
अशोकरोहिणीयुक्तं पञ्चकोलं च चूर्णितम्||४७||
बदरीधातकीधात्रीचूर्णं वा सर्पिषा द्रुतम्|
|४८|
स०-तथा पञ्चकोलं रजीकृतमशोककटुकाभ्यां युक्तं योजयेत्| अथवा बदर्यादिचूर्णं सर्पिषा द्रवीकृतं योजयेत्|
Adhikarana tatra badaryAdicUrNam tatra sthirAdighRutaM srotaHSodhanam (48-50) · Śloka 50
|
स्थिरावचाद्विबृहतीकाकोलीपिप्पलीनतैः||४८||
निचुलोत्पलवर्षाभूभार्गीमुस्तैश्च कार्षिकैः|
सिद्धं प्रस्थार्धमाज्यस्य स्रोतसां शोधनं परम्||४९||
सिम्ह्यश्वगन्धासुरसाकणागर्भं च तद्गुणम्|
|५०|
स०-स्थिरादिभिः कार्षिकैर्घृतस्य प्रस्थार्धं सिद्धं परं स्रोतसां विशोधनम्| स०-सिम्ह्यादिभिर्घृतं पूर्वगुणम्|
Adhikarana tatra yaShTyAdighRutaM shoShajit (50-51) · Śloka 51
|
यष्ट्याह्वपिप्पलीरोध्रपद्मकोत्पलचन्दनैः||५०||
तालीससारिवाभ्यां च साधितं शोषजिद्घृतम्|
|५१|
स०-मधुयष्टिकादिभिः साधितं सर्पिः शोषजित्|
Adhikarana tatra SRu~ggyAdighRutaM puShTikRut (51-53) · Śloka 53
|
शृङ्गीमधूलिकाभार्गीपिप्पलीदेवदारुभिः||५१||
अश्वगन्धाद्विकाकोलीरास्नर्षभकजीवकैः|
शूर्पपर्णीविडङ्गैश्च कल्कितैः साधितं घृतम्||५२||
शशोत्तमाङ्गनिर्यूहे शुष्यतः पुष्टिकृत्परम्|
|५३|
स०-शृङ्ग्यादिभिः कल्कितैः शशस्य शिरःक्वाथेन साधितं घृतं शुष्यतो बालस्यातिपुष्टिकरम्|
Adhikarana tatra abhya~jjane vacAditailam (53-54) · Śloka 54
|
वचावयःस्थातगरकायस्थाचोरकैः शृतम्||५३||
बस्तमूत्रसुराभ्यां च तैलमभ्यञ्जने हितम्|
|५४|
स०-वचादिभिश्छागमूत्रसुराभ्यां च सिद्धं तैलमभ्यङ्गे हितम्|
Adhikarana tatra lAkShAditailam (54-57) · Śloka 57
|
लाक्षारससमं तैलप्रस्थं मस्तु चतुर्गुणम्||५४||
अश्वगन्धानिशादारुकौन्तीकुष्ठाब्दचन्दनैः|
समूर्वारोहिणीरास्नाशताह्वामधुकैः समैः||५५||
सिद्धं लाक्षादिकं नाम तैलमभ्यञ्जनादिदम्|
बल्यं ज्वरक्षयोन्मादश्वासापस्मारवातनुत्||५६||
यक्षराक्षसभूतघ्नं गर्भिणीनां च शस्यते|
|५७|
स०-लाक्षारसतुल्यं तैलप्रस्थं मस्तुचतुर्गुणमश्वगन्धादिभिः सामान्यपरिभाषोक्तप्रमाणैः सिद्धं लाक्षादिकसंज्ञम्| एतत्तैलमभ्यङ्गाद् बल्यं ज्वरादिजित् यक्ष्मादिघ्नं गर्भिणीभ्यश्च हितम्|
Adhikarana kAsajvarAdAvativiShAdilehaH (57-58) · Śloka 58
|
मधुनाऽतिविषाशृङ्गीपिप्पलीर्लेहयेच्छिशुम्||५७||
एकां वाऽतिविषां कासज्वरच्छर्दिरुपद्रुतम्|
|५८|
स०-अतिविषादीन् मधुना कासादिपीडितं शिशुं-बालं, लेहयेत्| अथवा, अतिविषामेकां लेहयेत्|
Adhikarana stanyavaminAshakA lehAH (58-60) · Śloka 60
|
पीतं पीतं वमति यः स्तन्यं तं मधुसर्पिषा||५८||
द्विवार्ताकीफलरसं पञ्चकोलं च लेहयेत्|
पिप्पलीपञ्चलवणं कृमिजित्पारिभद्रकम्||५९||
तद्वल्लिह्यात्तथा व्योषं मषीं वा रोमचर्मणाम्|
लाभतः शल्यकश्वाविद्गोधर्क्षशिखिजन्मनाम्||६०||
स०- यो बालः पीतं पीतं स्तन्यं वमेत् तं बृहतीद्वयस्य फलस्वरसं पञ्चकोलं च घृतमाक्षिकाभ्यां लेहयेत्| अथवा पिप्पल्यादिकं तद्वत्-पूर्ववत् मधुसर्पिषा, बालो लिह्यात्| व्योषं तथा-मधुसर्पिषा, लिह्यात्| [ अथवा ] शल्यकादिजन्मनां रोम्णां चर्मणां च यथालाभं मषीं मधुघृताभ्यां लिह्यात्|
Adhikarana stanyavaminAshakaM ghRutam (61) · Śloka 61
खदिरार्जुनतालीसकुष्ठचन्दनजे रसे|
सक्षीरं साधितं सर्पिर्वमथुं विनियच्छति||६१||
स०-खदिरादिरसे सक्षीरं सर्पिः पक्वमुपयुक्तं वमिं शमयति|
Adhikarana tAlukaNTakasya lakShaNam (63-65) · Śloka 65
|
तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम्||६३||
तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते|
तालुपातः स्तनद्वेषः कृच्छ्रात्पानं शकृद्द्रवम्||६४||
तृडास्यकण्ड्वक्षिरुजा ग्रीवादुर्धरता वमिः|
|६५|
स०-कफो मधुराद्यैस्तालुमांसे प्रकुपितस्तालुकण्टकं कुर्यात्| तेन-तालुकण्टकेन, शिरसि तालुप्रदेशे निम्नता स्यात्| तथा तालुनः पतनं स्तनद्वेषः कृच्छ्रेण स्तनपानं शकृच्च द्रवं स्यात्| तथा तृडाद्याः स्युः|
Adhikarana tAlukaNTakasya cikitsA (65-66) · Śloka 66
|
तत्रोत्क्षिप्य यवक्षारक्षौद्राभ्यां प्रतिसारयेत्||६५||
तालु तद्वत्कणाशुण्ठीगोशकृद्रससैन्धवैः|
|६६|
स०-तत्र तालूत्क्षिप्य यवक्षारक्षौद्राभ्यां प्रतिसारयेत्| तथैव कणादिभिः प्रतिसारयेत्
Adhikarana tAlukaNTakasya SRu~ggaberAdipuTapAkarasaH (66-67) · Śloka 67
|
शृङ्गवेरनिशाभृङ्गं कल्कितं वटपल्लवैः||६६||
बध्वा गोशकृता लिप्तं कुकूले स्वेदयेत्ततः|
रसेन लिम्पेत्ताल्वास्यं नेत्रे च परिषेचयेत्||६७||
स०-तथा शुण्ठ्यादिकं कल्कितं वटपल्लवैर्बध्वा गोशकृता लिप्तं ततः कुकूले स्वेदयेत्| अनन्तरं रसेन च-ततः स्रुतेन, तालु आस्यं च लिम्पेत्| तथा नेत्रे परिषेचयेत्|
Adhikarana tAlukaNTakasya harItakyAdikalkaH (68) · Śloka 68
हरीतकीवचाकुष्ठकल्कं माक्षिकसंयुतम्|
पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात्||६८||
स०-हरीतक्यादिकं माक्षिकयुक्तं स्तन्येन शिशुः पीत्वा तालुकण्टकाद्विमुच्यते
Adhikarana ahipUtanasya lakShaNam ahipUtanasya cikitsA (69-70) · Śloka 70
मलोपलेपात्स्वेदाद्वा गुदे रक्तकफोद्भवः|
ताम्रो व्रणोऽन्तः कण्डूमान् जायते भूर्युपद्रवः||६९||
केचित्तं मातृकादोषं वदन्त्यन्येऽहिपूतनम्|
पृष्टारुर्गुदकुट्टं च केचिच्च तमनामिकम्||७०||
स०-गुदे रक्तकफोद्भवो मलोपलेपात् स्वेदाद्वा ताम्रो व्रणः कण्डूमानान्तरो बहूपद्रवो जायते| तं-तथाविधं, केचिन्मातृकादोषं कथयन्ति| अपरे च पूतनसंज्ञमित्याहुः| केचित् पृष्टारुरिति, केचित् गुदकुट्टमिति, केचिच्च तमनामिकं, ब्रुवते|
Adhikarana ahipUtanasya dhAttryAH kShIraM Sodhyam (71) · Śloka 71
तत्र धात्र्याः पयः शोध्यं पित्तश्लेष्महरौषधैः|
|७१|
स०-तत्र-तस्मिन्ननेकनाम्नि रोगे, धात्र्याः क्षीरं शोधनीयम् कैः ? पित्तश्लेष्महृद्भिरौषधैः|
Adhikarana ahipUtanasya antarapAnakam ahipUtanasya vraNe lepAdi (71-75) · Śloka 75
|
शृतशीतं च शीताम्बुयुक्तमन्तरपानकम्||७१||
सक्षौद्रतार्क्ष्यशैलेन व्रणं तेन च लेपयेत्|
त्रिफलाबदरीप्लक्षत्वक्क्वाथपरिषेचितम्||७२||
कासीसरोचनातुत्थमनोह्वालरसाञ्जनैः|
लेपयेदम्लपिष्टैर्वा चूर्णितैर्वाऽवचूर्णयेत्||७३||
सुश्लक्ष्णैरथवा यष्टीशङ्खसौवीरकाञ्जनैः|
सारिवाशङ्खनाभिभ्यामसनस्य त्वचाऽथवा||७४||
रागकण्डूत्कटे कुर्याद्रक्तस्रावं जलौकसा|
सर्वं च पित्तव्रणजिच्छस्यते गुदकुट्टके||७५||
स०-सह क्षौद्रेण वर्तते यत्तत् सक्षौद्रम्, सक्षौद्रम् च तत् तार्क्ष्यशैलं च, तेन युक्तं शीताम्बु, अन्तरं पानकं च हितम्| किम्भूतम् ? शृतशीतम्| अत्र च शीतमात्रस्य शीतत्वेनैव लब्धत्वाच्छीताम्बिवत्यतिशयार्थम्| एवं हि पित्तोपशान्तिर्भवति| अत एव च तत्सहितस्य कफस्य शमनाय माक्षिकरसाञ्जनयोगोऽत्र कृतः| तेन च जलेन व्रणं लेपयेत्| किम्भूतं व्रणम् ? त्रिफलादिक्वाथेन परिषेचितं सन्तं कासीसादिभिरम्लपिष्टैर्वा लेपयेत्| अथवा, एतैरेव चूर्णितैर्व्रणमवचूर्णयेत्| अथवा मधुकादिभिः सुपिष्टैरवचूर्णयेत्| सारिवाशङ्खनाभिभ्यामवचूर्णयेत्| अथवा, असनत्वचा लिम्पेत्| रागकण्ड्वाधिक्ये जलौकोभिरस्रस्रावं कुर्यात्| जलौकसा "जातौ" इत्येकवचनात् तस्य प्रयोगो न दोषाय, तथा सल्लक्षस्य दृष्तत्वात्| सर्वं चिकित्सितं पित्तव्रणतुल्यं गुदकुट्टके शस्यते|
Adhikarana mRuttikodbhave roge pAThAdighRutam (76-77) · Śloka 77
पाठावेल्लद्विरजनीमुस्तभार्गीपुनर्नवैः|
सबिल्वत्र्यूषणैः सर्पिवृश्चिकालीयुतैः शृतम्||७६||
लिहानो मात्रया रोगैर्मुच्यते मृत्तिकोद्भवैः|
|७७|
स०-पाठादिभिः पक्वं घृतं मात्रया लिहन् मृत्तिकोद्भवैरामयैर्मुच्यते|
Adhikarana tattadvyAdhinAshakaH stanapralepaH (2) · Śloka 2
व्याधेर्यद्यस्य भैषज्यं स्तनस्तेन प्रलेपितः|
स्थितो मुहूर्तं धौतोऽनु पीतस्तं तं जयेद्गदम्||७७||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता यामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने बाला- मयप्रतिषेधो नाम द्वितीयोऽध्यायः||२||
स०-यस्य रोगस्य यदौषधमुक्तं तेनैवौषधेन स्तनः प्रलेपितो मुहूर्तमात्रं-नाडिकाद्वयं यावद् विधृतः, स्तनोऽनु धौतः पश्चात् पीतस्तं तं-अनियतं रोगं, जयेत्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरछितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने बाला मयप्रतिषेधो नाम द्वितीयोऽध्यायः समाप्तः|| २||