Adhikarana rasAyanavidhiradhyAyaH ------- rasAyanasya phalam, rasAyanasya niruktiH (2) · Śloka 2
अधुना पूर्वोक्तहेतुसम्बन्धं रसायनाध्यायं जिगदिषुराह अथातो रसायनविधिमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे)||२||
दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः|
प्रभावर्णस्वरौदार्यं देहेन्द्रियबलोदयम्||१||
वाक्सिद्धिं वृषतां कान्तिमवाप्नोति रसायनात्|
लाभोपायो हि शस्तानां रसादीनां रसायनम्||२||
Adhikarana rasAyanasya prayogakAlAdiH (3) · Śloka 3
पूर्वे वयसि मध्ये वा तत्प्रयोज्यं जितात्मनः|
स्निग्धस्य स्रुतरक्तस्य विशुद्धस्य च सर्वथा||३||
Adhikarana rasAyanasya niShphalatvam (4) · Śloka 4
अविशुद्धे शरीरे हि युक्तो रासायनो विधिः|
वाजीकरो वा मलिने वस्त्रे रङ्ग इवाफलः||४||
Adhikarana rasAyanasya dvividhatvam (5) · Śloka 5
रसायनानां द्विविधं प्रयोगमृषयो विदुः|
कुटीप्रावेशिकं मुख्यं वातातपिकमन्यथा||५||
Adhikarana rasAyanArthaM kuTI (6-7) · Śloka 7
पुरे प्राप्योपकरणे हर्म्यनिर्वातनिर्भये|
दिश्युदीच्यां शुभे देशे त्रिगर्भां सूक्ष्मलोचनाम्||६||
धूमातपरजोव्यालस्त्रीमूर्खाद्यविलङ्घिताम्|
सज्जवैद्योपकरणां सुमृष्टां कारयेत्कुटीम्||७||
Adhikarana puNye~ahni kuTIpraveshaH, rasAyanasevanakarturniyamAH (8-10) · Śloka 10
अथ पुण्येऽह्नि सम्पूज्य पूज्यांस्तां प्रविशेच्छुचिः|
तत्र संशोधनैः शुद्धः सुखी जातबलः पुनः||८||
ब्रह्मचारी धृतियुतः श्रद्दधानो जितेन्द्रियः|
दानशीलदयासत्यव्रतधर्मपरायणः||९||
देवतानुस्मृतौ युक्तो युक्तस्वप्नप्रजागरः|
प्रियौषधः पेशलवागारभेत रसायनम्||१०||
Adhikarana rasAyane pUrvaM harItakyAdivirecanam (11-12) · Śloka 12
हरीतकीमामलकं सैन्धवं नागरं वचाम्|
हरिद्रां पिप्पलीं वेल्लं गुडं चोष्णाम्बुना पिबेत्||११||
स्निग्धस्विन्नो नरः पूर्वं, तेन साधु विरिच्यते|
|१२|
Adhikarana tataH shuddhasharIrAya ghRutAnvitaM yAvakaM deyam (12-13) · Śloka 13
|
ततः शुद्धशरीराय कृतसंसर्जनाय च||१२||
त्रिरात्रं पञ्चरात्रं वा सप्ताहं वा घृतान्वितम्|
दद्याद्यावकमाशुद्धेः पुराणशकृतोऽथवा||१३||
Adhikarana itthaM saMskRutakoShThasya yaugikaM rasAyanaM deyam (14) · Śloka 14
इत्थं संस्कृतकोष्ठस्य रसायनमुपाहरेत्|
यस्य यद्यौगिकं पश्येत्सर्वमालोच्य सात्म्यवित्||१४||
Adhikarana brAhmaM rasAyanam (15-23) · Śloka 23
पथ्यासहस्रं त्रिगुणधात्रीफलसमन्वितम्|
पञ्चानां पञ्चमूलानां सार्धं पलशतद्वयम्||१५||
जले दशगुणे पक्त्वा दशभागस्थिते रसे|
आपोथ्य कृत्वा व्यस्थीनि विजयामलकान्यथा||१६||
विनीय तस्मिन्निर्यूहे योजयेत्कुडवांशकम्|
त्वगेलामुस्तरजनीपिप्पल्यगुरुचन्दनम्||१७||
मण्डूकपर्णीकनकशङ्खपुष्पीवचाप्लवम्|
यष्ट्याह्वयं विडङ्गं च चूर्णितं तुलयाऽधिकम्||१८||
सितोपलार्धभारं च पात्राणि त्रीणि सर्पिषः|
द्वे च तैलात् पचेत्सर्वं तदग्नौ लेहतां गतम्||१९||
अवतीर्णं हिमं युञ्ज्याद्विंशैः क्षौद्रशतैस्त्रिभिः|
ततः खजेन मथितं निदध्याद् घृतभाजने||२०||
या नोपरुन्ध्यादाहारमेकं मात्राऽस्य सा स्मृता|
षष्टिकः पयस चात्र जीर्णे भोजनमिष्यते||२१||
वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः|
ब्रह्मणा विहितं धन्यमिदं प्रश्य रसायनम्||२२||
तन्द्राश्रमाक्लमवलीपलितामयवर्जिताः|
मेघास्मृतिबलोपेता बभूवुरमितायुषः||२३||
Adhikarana abhayAmalakaM rasAyanam (24-27) · Śloka 27
अभयामलकसहस्रं निरामयं पिप्पलीसहस्रयुतम्|
तरुणपलाशक्षरद्रवीकृतं स्थापयेद्भाण्डे||२४||
उपयुक्ते च क्षारे छायासंशुष्कचूर्णितं योज्यम्|
पादांशेन सितायाश्चतुर्गुणाभ्यां मधुघृताभ्याम्||२५||
तद्घृतकुम्भे भूमौ निधाय षण्माससंस्थमुद्धृत्य|
प्राह्णे प्राश्य यथानलमुचिताहारो भवेत्सततम्||२६||
इत्युपयुञ्ज्याशेषं वर्षशतमनामयो जरारहितः|
जीवति बलपुष्टिवपुःस्मृतिमेधाद्यन्वितो विशेषेण||२७||
Adhikarana AmalakaM rasAyanam (28-32) · Śloka 32
नीरुजार्द्रपलाशस्य छिन्ने शिरसि तत्क्षतम्|
अन्तर्द्विहस्तं गम्भीरं पूर्यमामलकैर्नवैः||२८||
आमूलं वेष्टितं दर्भैः पद्मिनीपङ्कलेपितम्|
आदीप्य गोमयैर्वन्यैर्निर्वाते स्वेदयेत्ततः||२९||
स्विन्नानि तान्यामलकानि तृप्त्या खदेन्नरः क्षौद्रघृतान्वितानि|
क्षीरं शृतं चानु पिबेत्प्रकामं तेनैव वर्तेत च मासमेकम्||३०||
वर्ज्यानि वर्ज्यानि च तत्र यत्नात् स्पृश्यं च शीताम्बु न पाणिनाऽपि|
एकादशाहेऽस्य ततो व्यतीते पतन्ति केशा दशना नखाश्च||३१||
अथाल्पकैरेव दिनैः सुरूपः स्त्रीष्वक्षयः कुञ्जरतुल्यवीर्यः|
विशिष्टमेधाबलबुद्धिसत्त्वो भवत्यसौ वर्षसहस्रजीवी||३२||
Adhikarana cyavanaprAsho rasAyanam (33-41) · Śloka 41
दशमूलबलामुस्तजीवकर्षभकोत्पलम्|
पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटिः||३३||
जीवन्ती जोङ्गकं द्राक्षा पौष्करं चन्दनं शठी|
पुनर्नवर्द्धिकाकोलीकाकनासामृताद्वयम्||३४||
विदारी वृषमूलं च तदैकध्यं पलोन्मितम्|
जलद्रोणे पचेत्पञ्च धात्रीफलशतानि च||३५||
पादशेषं रसं तस्माद्व्यस्थीन्यामलकानि च|
गृहीत्वा भर्जयेत्तैलघृताद् द्वादशभिः पलैः||३६||
मत्स्यण्डिकातुलार्धेन युक्तं तल्लेहवत् पचेत्|
स्नेहार्धं मधु सिद्धे तु तवक्षीर्याश्चतुष्पलम्||३७||
पिप्पल्या द्विपलं दद्याच्चतुर्जातं कणार्धितम्|
अतोऽवलेहयेन्मात्रां कुटीस्थः पथ्यभोजनः||३८||
इत्येष च्यवनप्राशो यं प्राश्य च्यवनो मुनिः|
जराजर्जरितोऽप्यासीन्नारीनयनन्दनः||३९||
कासं श्वासं ज्वरं शोषं हृद्रोगं वातशोणितम्|
मूत्रशुक्राश्रयान् दोषान् वैस्वर्यं च व्यपोहति||४०||
बालवृद्धक्षतक्षीणकृशानामङ्गवर्धनः|
मेधां स्मृतिं कान्तिमनामत्व- मायुःप्रकर्षं पवनानुलोम्यम्|
स्त्रीषु प्रहर्षं बलमिन्द्रियाणा- मग्नेश्च कुर्याद्विधिनोपयुक्तः||४१||
Adhikarana triPalA rasAyanam (42-43) · Śloka 43
मधुकेन तवक्षीर्या पिप्पल्या सिन्धुजन्मना|
पृथग्लोहैः सुवर्णेन वचया मधुसर्पिषा||४२||
सितया वा समा युक्ता समायुक्ता रसायनम्|
त्रिफला सर्वरोगघ्नी मेधायुःस्मृतिबुद्धिदा||४३||
Adhikarana maNDUkaparNyAdIni rasAyanam (44-45) · Śloka 45
मण्डूकपर्ण्याः स्वरसं यथाग्नि क्षीरेण यष्टीमधुकस्य चूर्णम्|
रसं गुडूच्याः सहमूलपुष्प्याः कल्कं प्रयुञ्जीत च शङ्खपुष्प्याः||४४||
अयुष्प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि|
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी||४५||
Adhikarana naladAdi ; vAgmitvAdi karam (46-47) · Śloka 47
नलदं कटुरोहिणी पयस्या मधुकं चन्दनसारिवोग्रगन्धाः|
त्रिफला कटुकत्रयं हरिद्रे सपटोलं लवणं च तैः सुपिष्टैः||४६||
त्रिगुणेन रसेन शङ्खपुष्प्याः सपयस्कं घृतनल्वणं विपक्वम्|
उपयुज्य भवेज्जडोऽपि वाग्मी श्रुतधारी प्रतिभानवानरोगः||४७||
Adhikarana pa~jcAravindaM rasAyanam pauruShAdikaram (48) · Śloka 48
पैष्यैर्मृणालबिसकेसरपत्रबीजैः सिद्धं सहेमशकलं पयसा च सर्पिः|
पञ्चारविन्दमिति तत्प्रथितं पृथिव्यां प्रभ्रष्टपौरुषबलप्रतिभैर्निषेव्यम्||४८||
Adhikarana catuShkuvalayaM rasAyanam medhyam (49) · Śloka 49
यन्नालकन्ददलकेसरवद्विपक्वं नीलोत्पलस्य तदपि प्रथितं द्वितीयम्|
सर्पिश्चतुष्कुवलयं सहरिण्यपत्रं मेध्यं गवामपि भवेत् किमु मानुषाणाम्||४९||
Adhikarana brAhmyAdi rasAyanamkuShThAdinGnam (50-53) · Śloka 53
ब्राह्मीवचासैन्धवशङ्खपुष्पी- मत्स्याक्षकब्रह्मसुवर्चलैन्द्र्यः|
वैदेहिका च त्रियवाः पृथक्स्यु- र्यवौ सुवर्णस्य तिलो विषस्य||५०||
सर्पिषश्च पलमेकत एत- द्योजयेत्परिणते च घृताढ्यम्|
भोजनं समधु वत्सरमेवं शीलयन्नधिकधीस्मृतिमेधः||५१||
अतिक्रान्तजराव्याधितन्द्रालस्यश्रमक्लमः|
जीवत्यब्दशतं पूर्णं श्रीतेजःकान्तिदीप्तिमान्||५२||
विशेषतः कुष्ठकिलासगुल्म विषजवरोन्मादगरोदराणि|
अथर्वमन्त्रादिकृताश्च कृत्याः शाम्यन्त्यनेनातिबलाश्च वाताः||५३||
Adhikarana nAdabalArasAyanam (54-55) · Śloka 55
शरन्मुखे नागबलां पुष्ययोगे समुद्धरेत्|
अक्षमात्रं ततो मूलाच्चूर्णितात्पयसा पिबेत्||५४||
लिह्यान्मधुघृताभ्यां व क्षीरवृत्तिरनन्नभुक्|
एवं वर्षप्रयोगेण जीवेद्वर्षशतं बली||५५||
Adhikarana gokShurakarasAyanam (56-57) · Śloka 57
फलोन्मुख़ो गोक्षुरकः समूल- श्छायाविशुष्कः सुविचूर्णिताङ्गः|
सुभवितः स्वेन रसेन तस्मा- न्मात्रां परां प्रासृतिकीं पिवेद्यः||५६||
क्षीरेण तेनैव च शालिमश्नन् जीर्णे भवेत्स द्वितुलोपयोगात्|
शक्तः सुरूपः सुभगः शतायुः कामी कुकुद्मानिव गोकुलस्थः||५७||
Adhikarana vArAhIkandarasAyanAni (58-59) · Śloka 59
वाराहीकन्दमाऱ्द्राद्रं क्षीरेण क्षीरपः पिबेत्|
मासं निरन्नो मासं च क्षीरान्नादो जरां जयेत्||५८||
तत्कन्दश्लक्ष्णचूर्णं वा स्वरसेन सुभावितम्|
घृतक्षौद्रप्लुतं लिह्यात्तत्पक्वं वा घृतं पिबेत्||५९||
Adhikarana vidAryAdirasAyanAni (60-61) · Śloka 61
तद्वद्विदार्यतिबलाबलामधुकवायसीः|
श्रेयसीश्रेयसीयुक्तापथ्याधात्रीस्थिरामृताः||६०||
मण्डूकीशङ्खकुसुमावाजिगन्धाशतावरीः|
उपयुञ्जीत मेधाधीवयः स्थैर्यबलप्रदाः||६१||
Adhikarana citrakarasAyanam (62-65) · Śloka 65
यथास्वं चित्रकः पुष्पैर्ज्ञेयः पीतसितासितैः|
यथोत्तरं स गुणवान् विधिना च रसायनम्||६२||
छायाशुष्कं ततो मूलं मासं चूर्णीकृतं लिहन्|
सर्पिषा मधुसर्पिर्भ्यां पिबन् वा पयसा यतिः||६३||
अम्भसा वा हितान्नाशी शतं जीवति नीरुजः|
मेधावी बलवान् कान्तो वपुष्मान् दीप्तपावकः||६४||
तैलेन लीढो मासेन वातान् हन्ति सुदुस्तरान्|
मूत्रेण श्वित्रकुष्ठानि पीतस्तक्रेण पायुजान्||६५||
Adhikarana BallAtakasahasrarasAyanam (66-71) · Śloka 71
भल्लातकानि पुष्टानि धान्यराशौ निधापयेत्|
ग्रीष्मे संगृह्य हेमन्ते स्वादुस्निग्धहिमैर्वपुः||६६||
संस्कृत्य तान्यष्टगुणे सलिलेऽष्टौ विपाचयेत्|
अष्टांशशिष्टं तत्क्वाथं सक्षीरं शीतलं पिबेत्||६७||
वर्धयेत्प्रत्यहं चानु तत्रैकैकमरुष्करम्|
सप्तरात्रत्रयं यावत् त्रीणि त्रीणि ततः परम्||६८||
आचत्वारिंशतस्तानि ह्रासयेद्द्वृद्धिवत्ततः|
सहस्रमुपयुञ्जीत सप्ताहैरिति सप्तभिः||६९||
यन्त्रितात्मा ग़ृतक्षीरशालिषष्टीकभोजनः|
तद्वत्त्रिगुणितं कालं प्रयोगान्तेऽपि चाचरेत्||७०||
आशेषो लभतेऽपूर्वा वह्नेर्दीप्तिं विशेषतः|
प्रमेहकृमिकुष्ठार्शोमेदोदोषविवर्जितः||७१||
Adhikarana bhallAtakasvarasarasAyanam (72-74) · Śloka 74
पिष्टस्वेदनमरुजैः पूर्णं भल्लातकैर्विजर्जरितैः|
भूमिनिखाते कुम्भे प्रतिष्ठितं कृष्णमृल्लिप्तम्||७२||
परिवारितं समन्तात्पचेत्ततो गोमयाग्निना मृदुना|
तत्स्वरसो यश्च्यवते गृह्णीयात्तं दिनेऽन्यस्मिन्||७३||
अमुमुपयुज्य स्वरसं मध्वष्टमभागिकं द्विगुणसर्पिः|
पूर्वविधियन्त्रितात्मा प्राप्नोति गुणान् स तानेव||७४||
Adhikarana bhallAtakaghRutarasAyanam (75-78) · Śloka 78
पुष्टानि पाकेन परिच्युतानि भल्लातकान्याढकसम्मितानि|
घृष्ट्वेष्टिकाचूर्णकणैर्जलेन प्रक्षाल्य संशोष्य च मारुतेन||७५||
जर्जराणि विपचेज्जलकुम्भे पादशेषधृतगालितशीतम्|
तद्रसं पुनरपि श्रपयेत क्षीरकुम्भसहितं चरणस्थे||७६||
सर्पिः पक्वं तत्र तुल्यप्रमाणं युञ्ज्यात्स्वेच्छं शर्कराया रजोभिः|
एकीभूतं तत्खजक्षोभणेन स्थाप्यं धान्ये सप्तरात्रं सुगुप्तम्||७७||
तममृतरसपाकं यः प्रगे प्राशमश्नन् अनु पिबति यथेष्टं वारि दुग्धं रसं वा|
स्मृतिमतिबलमेधासत्त्वसारैरुपेतः कनकनिचयगौरः सोऽश्नुते दीर्घमायुः||७८||
Adhikarana bhallAtakasiddhatailaM kuShThaghnam (79) · Śloka 79
द्रोणेऽंभसो व्रणकृतां त्रिशताद्विपक्वात् क्वाथाढके पलसमैस्तिलतैलपात्रम्|
तिक्ताविषाद्वयवरागिरिजन्मतार्क्ष्यैः सिद्धं परं निखिलकुष्ठनिबर्हणाय||७९||
Adhikarana bhallAtako AmalakashuktyAdibhirAyuShkaraH (80) · Śloka 80
सहामलकशुक्तिभिर्दधिसरेण तैलेन वा गुडेन पयसा घृतेन यवसक्तुभिर्वा सह|
तिलेन सह माक्षिकेण पललेन सूपेन वा वपुष्करमरुष्करं परममेध्यमायुष्करम्||८०||
Adhikarana bhallAtako yathAvidhiprayukto~amRutakalpaH (81) · Śloka 81
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च|
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि||८१||
Adhikarana bhallAtakasya kaphajarogAdinAshatve prashaMsA (82) · Śloka 82
कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन|
यं न भल्लातकं हन्याच्छीघ्रमग्निबलप्रदम्||८२||
Adhikarana BllAkasya vAtArapavidhAne~api kulatthAdi varjanam (83) · Śloka 83
वातातपविधानेऽपि विशेषेण विवर्जयेत्|
कुलत्थदधिशुक्तानि तैलाभ्यङ्गाग्निसेवनम्||८३||
Adhikarana tuvarakatailaM kuShThaghnam (84-91) · Śloka 91
वृक्षास्तुवरका नाम पश्चिमार्णवतीरजाः|
वीचीतरङ्गविक्षोभमारुतोद्धूतपल्लवाः||८४||
तेभ्यः फलान्याददीत सुपक्वान्यम्बुदागमे|
मज्ज्ञः फलेभ्यश्चादाय शोषयित्वाऽवचूर्ण्य च||८५||
तिलवत् पीडयेद् द्रोण्यां, क्वाथयेद्वा कुसुम्भवत्|
तत्तैलं सम्भृतं भूयः पचेदासलिलक्षयात्||८६||
अवतार्य करीषे च पक्षमात्रं निधापयेत्|
स्निग्धस्विन्नो हृतमलः पक्षादुद्धृत्य तत्ततः||८७||
चतुर्थभक्तान्तरितः प्रातः पाणितलं पिबेत्|
मन्त्रेणानेन पूतस्य तैलस्य दिवसे शुभे||८८||
"मज्जसार महावीर्य सर्वान् धातून् विशोधय|
शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः||८९||
तेनास्योर्ध्वमधस्ताच्च दोषा यान्त्यसकृत्ततः|
सायमस्नेहलवणां यवागूं शीतलां पिबेत्||९०||
पञ्चाहानि पिबेत्तैलमित्थं वर्ज्यान् विवर्जयन्|
पक्षं मुद्गरसान्नाशी सर्वकुष्ठैर्विमुच्यते||९१||
Adhikarana tuvarakatailaM khadirakvAthasiddhaM kuShThaghnam (92-93) · Śloka 93
तदेव खदिरक्वाथे त्रिगुणे साधु साधितम्|
निहितं पूर्ववत्पक्षं पिबेन्मासं सुयन्त्रितः||९२||
तेनाभ्यक्तशरीरश्च कुर्वन्नाहारमीरितम्|
|
भिन्नस्वरं रक्तनेत्रं शीर्णाङ्गं कृमिभक्षितम्|
] अनेनाशु प्रयोगेण साधयेत्कुष्ठिनं नरम्||९३||
Adhikarana tuvarakatailaM sarpirmadhuyutaM dvishatAyuShkaram (94) · Śloka 94
सर्पिर्मधुयुतं पीतं तदेव खदिराद्विना|
पक्षं मांसरसाहारं करोति द्विशतायुषम्||९४||
Adhikarana tuvarakatailaM nasyopayojitaM trishatAyuShkaram (95) · Śloka 95
तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम्|
|
वलीपलितनिर्मुक्तं स्थिरस्मृतिकचद्विजम्|
] वपुष्मतं श्रुतधरं करोति त्रिशतायुषम्||९५||
Adhikarana pippalIrasAyanam (96) · Śloka 96
पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा|
रसायनगुणान्वेषी समामेकां प्रयोजयेत्||९६||
Adhikarana anyaM pippalI rasAyanam (97-98) · Śloka 98
तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाऽग्रे भोजनस्य च|
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः||९७||
प्रयोज्या मधुसम्मिश्रा रसायनगुणैषिणा|
|९८|
Adhikarana vardhamAnapippalIsahasram (98-1) · Śloka 1
|
क्रमवृद्ध्या दशाहानि दशपैप्पलिकं दिनम्||९८||
वर्धयेत्पयसा सार्धं तथैवापनयेत्पुनः|
जीर्णौषधश्च भुञ्जीत षष्टिकं क्षीरसर्पिषा||९९||
पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम्|
पिष्टास्ता बलिभिः पेयाः शृता मध्यबलैर्नरैः||१००||
|
शीतीकृता हीनबलैर्वीक्ष्य दोषामयान् प्रति|
]||१||
Adhikarana vardhamAnapippalIsahasradvayam (101) · Śloka 101
तद्वच्च छागदुग्धेन द्वे सहस्रे प्रयोजयेत्|
|१०१|
Adhikarana eShAM pippalIprayogANAM phalam (101-102) · Śloka 102
|
एभिः प्रयोगैः पिप्पल्यः कासश्वासगलग्रहान्||१०१||
यक्ष्ममेहग्रहण्यर्शःपाण्डुत्वविषमज्वरान्|
घ्नन्ति शोफं वमिं हिध्मां प्लीहानं वातशोणितम्||१०२||
Adhikarana lohapAtralIptapippalI prayogaH (103) · Śloka 103
बिल्वार्धमात्रेण च पिप्पलीनां पात्रं प्रलिम्पेदयसो निशायाम्|
प्रातः पिबेत्तत्सलिलाञ्जलिभ्यां वर्षं यथेष्टाशनपानचेष्टः||१०३||
Adhikarana lohapAtralIptanAM shuNThacAdInAM prayogaH (104-105) · Śloka 105
शुण्ठीविडङ्गत्रिफलागुडूची- यष्टीहरिद्रातिबलाबलाश्च|
मुस्तासुराह्वागुरुचित्रकाश्च सौगन्धिकं पङ्कजमुत्पलानि||१०४||
धवाश्वकर्णासनबालपत्र- सारास्तथा पिप्पलिवत् प्रयोज्याः|
लोहोपलिप्ताः पृथगेव जीवे- त्समाः शतं व्याधिजराविमुक्तः||१०५||
Adhikarana eShAM rasAyanAnAM dviguNaprakarShakaraH prayogaH (106) · Śloka 106
क्षीराञ्जलिभ्यां च रसायनानि युक्तान्यमून्यायसलेपनानि|
कुर्वन्ति पूर्वोक्तगुणप्रकर्ष- मायुःप्रकर्षं द्विगुणं ततश्च||१०६||
Adhikarana somarAjIrasAyanam (107) · Śloka 107
असनखदिरयूषैर्भावितां सोमराजीं मधुघृतशिखिपथ्यालोहचूर्णैरुपेतां|
शरदमवलिहानः पारिणामान् विकारां- स्त्यजति मितहिताशी तद्वदाहारजातान्||१०७||
Adhikarana anyaM somarAjIrasAyanam kuShThaghnam (108) · Śloka 108
तीव्रेण कुष्ठेन परीतमूर्ति- र्यः सोमराजीं नियमेन खादेत्|
संवत्सरं कृष्णतिलद्वितीयां स सोमराजीं वपुषाऽतिशेते||१०८||
Adhikarana anyaM somarAjIrasAyanam kuShThaghnam (109-110) · Śloka 110
ये सोमराज्या वितुषीकृताया- श्चूर्णैरूपेतात् पयसः सुजातात्|
उद्धृत्य सारं मधुना लिहन्ति तक्रं तदेवानु पिबन्ति चान्ते||१०९||
कुष्ठिनः शीर्यमाणाङ्गास्ते जाताङ्गुलिनासिकाः|
भान्ति वृक्षा इव पुनः प्ररूढनवपल्लवाः||११०||
Adhikarana rasonasyotpattiH (1-112) · Śloka 112
|
शीतवातहिमदग्धतनूनां स्तब्धभग्नकुटिलव्यथितास्थ्नाम्|
भेषजस्य पवनोपहतानां वक्ष्यते विधिरतो लशुनस्य||१||
] राहोरमृतचौर्येण लूनाद्ये पतिता गलात्|
अमृतस्य कणा भूमौ ते रसोनत्वमागताः||१११||
द्विजा नाश्नन्ति तमतो दैत्यदेहसमुद्भवम्|
साक्षादमृतसम्भूतेर्ग्रामणीः स रसायनम्||११२||
Adhikarana doShovisheSheNa lashunashIlanakAlaH (113-114) · Śloka 114
शीलयेल्लशुनं शीते, वसन्तेऽपि कफोल्बणः|
घनोदयेऽपि वार्तातः, सदा वा ग्रीष्मलीलया||११३||
स्निग्धशुद्धतनुः शीतमधुरोपस्कृताशयः|
तदुत्तंसावतंसाभ्यां चर्चितानुचराजितः||११४||
Adhikarana lashunasvarasavidhiH kaNThanADIshuddhaye (115-119) · Śloka 119
तस्य कन्दान् वसन्तान्ते हिमवच्छकदेशजान्|
अपनीतत्वचो रात्रौ तिमयेन्मदिरादिभिः||११५||
तत्कल्कस्वरसं प्रातः शुचितान्तवपीडितम्|
मदिरायाः सूरूढायास्त्रिभागेन समन्वितम्||११६||
मद्यस्यान्यस्य तक्रस्य मस्तुनः काञ्जिकस्य वा|
तत्काल एव वा युक्तं युक्तमालोच्य मात्रया||११७||
तैलसर्पिर्वसामज्जक्षीरमांसरसैः पृथक्|
क्वाथेन वा यथाव्याधि रसं केवलमेव वा||११८||
पिबेद्गण्डूषमात्रं प्राक् कण्ठनाडीविशुद्धये|
|११९|
Adhikarana lashunarasasevane vamimUrcCAyayormukhe shItalajasekaH lashunarasasevane vedanAyAM svedanam (119-120) · Śloka 120
|
प्रततं स्वेदनं चानु वेदनायां प्रशस्यते||११९||
शीताम्बुसेकः सहसा वमिमूर्च्छाययोर्मुखे|
|१२०|
Adhikarana lashunarasasevane klamApAye sheSharasapAnam (120) · Śloka 120
|
शेषं पिबेत् क्लमापाये स्थिरतां गत ओजसि||१२०||
Adhikarana lashunarasasevane vidAhaparihArArthaM shItAnulepanAdi (121) · Śloka 121
विदाहपरिहाराय परं शीतानुलेपनः|
धारयेत्साम्बुकणिका मुक्ताकर्पूरमालिकाः||१२१||
Adhikarana lashunarasasevane parAmAtrAdi (122) · Śloka 122
कुडवोऽस्य पर मात्रा तदर्धं केवलस्य तु|
पलं पिष्टस्य तन्मज्ज्ञः सभक्तं प्राक् च शीलयेत्||१२२||
Adhikarana lashunarasasevane jIrNaSAlyodanaBojanAdi (123) · Śloka 123
जीर्णशाल्योदनं जीर्णे शङ्खकुन्देन्दुपाण्डुरम्|
भुञ्जीत यूषैः पयसा रसैर्वा धन्वचारिणाम्||१२३||
Adhikarana lashunarasasevane madyAdipAnam (124) · Śloka 124
मद्यमेकं पिबेत्तत्र तृट्प्रबन्धे जलान्वितम्|
अमद्यपस्त्वारनालं फलाम्बु परिसिक्थकाम्||१२४||
Adhikarana lashunakalkarasAyanam (125) · Śloka 125
तत्कल्कं वा समघृतं घृतपात्रे खजाहतम्|
स्थितं दशाहादश्नीयात्तद्वद्वा वसया समम्||१२५||
Adhikarana lashunagarbhashUlyamAMsarasAyanam (126) · Śloka 126
विकञ्चुकप्राज्यरसोनगर्भान् सशूल्यमांसान् विविधोपदंशान्|
निमर्दकान् वा घृतशुक्तयुक्तान् प्रकाममद्याल्लघु तुच्छमश्नन्||१२६||
Adhikarana pittaraktavihInasamastAvaraNA vRuteshuddhe ca vAyau lashunAtparaM dravyaM na vidyates (127) · Śloka 127
पित्तरक्तविनिर्मुक्तसमस्तावरणावृते|
शुद्धे वा विद्यते वायौ न द्रव्यं लशुनात्परम्||१२७||
Adhikarana priyAmbuguDadugdhAdernarasya rasono vyApattaye (128) · Śloka 128
प्रियाम्बुगुडदुग्धस्य मांसमद्याम्लविद्विषः|
अतितिक्षोरजीर्णं च रसोनो व्यापदे ध्रुवम्||१२८||
Adhikarana lashunaprayogAnte mRudu virecanam (129) · Śloka 129
पित्तकोपभयादन्ते युञ्ज्यान्मृदु विरेचनम्|
रसायनगुणानेवं परिपूर्णान् समश्रुते||१२९||
Adhikarana shilAjatuna utpattiH (130) · Śloka 130
अधुना शिलाजतुकल्पं ब्रूते ग्रीष्मेऽर्कतप्ता गिरयो जतुतुल्यं वमन्ति यत्|
हेमादिषड्धातुरसं प्रोच्यते तच्छिलाजतु||१३०||
Adhikarana shilAjatuna lakShaNam shilAjatuna prAshastyam (131) · Śloka 131
सर्वं च तिक्तकटुकं नात्युष्णं कटु पाकतः|
छेदनं च विशेषेण लौहं तत्र प्रशस्यते||१३१||
Adhikarana shreShThasya shilAjatuna lakShaNam (132) · Śloka 132
गोमूत्रगन्धि कृष्णं गुग्गुल्वाभं विशर्करं मृत्स्नम्|
स्निग्धमनम्लकषायं मृदु गुरु च शिलाजतु श्रेष्ठम्||१३२||
Adhikarana lohapAtre shilAjatuna bhAvanA prakAraH (133-135) · Śloka 135
व्याधिव्याधितसात्म्यं समनुस्मरन् भावयेदयःपात्रे|
प्राक् केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम्||१३३||
समगिरिजमष्टगुणिते निःक्वाथ्यं भावनौषधं तोये|
तन्निर्यूहेऽष्टांशे पूतोष्णे प्रक्षिपेद् गिरिजम्||१३४||
तत्समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः|
स्वैः स्वैरेवं क्वाथैर्भाव्यं वारान् भवेत्सप्त||१३५||
Adhikarana shilAjatuna sevanavidhiH (136-138) · Śloka 138
अथ स्निग्धस्य शुद्धस्य घृतं तिक्तकसाधितम्|
त्र्यहं युञ्जीत गिरिजमेकैकेन तथा त्र्यहम्||१३६||
फलत्रयस्य यूषेण पटोल्या मधुकस्य च|
योगं योग्यं ततस्तस्य कालापेक्षं प्रयोजयेत्||१३७||
शिलाजमेवं देहस्य भवत्यत्युपकारम्|
गुणान् समग्रान् कुरुते सहसा व्यापदं न च||१३८||
Adhikarana shilAjatuna hInamadhyottamo yogaH (139) · Śloka 139
एकत्रिसप्तसप्ताहं कर्षमर्धपलं पलम्|
हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः||१३९||
Adhikarana rAsAyanaphalaH shilAjatuprayogaH (140-141) · Śloka 141
संस्कृतं संस्कृते देहे प्रयुक्तं गिरिजाह्वयम्|
युक्तं व्यस्तैः समस्तैर्वा ताम्रायोरूप्यहेमभिः||१४०||
क्षीरेणालोडितं कुर्याच्छीघ्रं रासायनं फलम्|
कुलत्थान् काकमाचीं च कपोतांश्च सदात्यजेत्||१४१||
Adhikarana sarvaroganAshane shilAjatusAmarthyam,guggulukalpaH (142) · Śloka 142
न सोऽस्ति रोगो भुवि साध्यरूपो जत्वश्मजं यं न जयेत् प्रसह्य|
तत् कालयोगैर्विधिवत् प्रयुक्तं स्वस्थस्य चोर्जां विपुलां दधाति||१४२||
Adhikarana kuTIpraveshavidherviShayaH,sauryamArUtikavidherviShayaH (143) · Śloka 143
कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः|
अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः||१४३||
Adhikarana ato vAtAtapasahA yogAH (144) · Śloka 144
वातातपसहा योगा वक्ष्यन्तेऽतो विशेषतः|
सुखोपचारा भ्रंशेऽपि ये न देहस्य बाधकाः||१४४||
Adhikarana vayaH sthApakAH shItodakAdiyogAH (145) · Śloka 145
शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः|
त्रिशः समस्तमथवा प्राक् पीतं स्थापयेद्वयः||१४५||
Adhikarana varShashatajIvano harItakIyogaH (146) · Śloka 146
गुडेन मधुना शुण्ठ्या कृष्णया लवणेन वा|
द्वे द्वे खादन् सदा पथ्ये जीवेद्वर्षशतं सुखी||१४६||
Adhikarana cirasthAyibalakaro kIyogAH (147) · Śloka 147
हरीतकीं सर्पिषि सम्प्रताप्य समश्नतस्तत् पिबेतो घृतं च|
भवेच्चिरस्थायि बलं शरीरे सकृत् कृतं साधु यथा कृतज्ञे||१४७||