Adhikarana shirorogavij~jAnIyAdhyAyaH||23|| shirogatA dasha rogAH| shirorogANAM nidAnaM samprAptishca (2-3) · Śloka 3
अथ क्रमप्राप्तं शिरोरोगविज्ञानमाह अथातः शिरोरोगविज्ञानीयं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे||२||
) धूमातपतुषाराम्बुक्रीडातिस्वप्नजागरैः|
उत्स्वेदाधिपुरोवातबाष्पनिग्रहरोदनैः||१||
अत्यम्बुमद्यपानेन कृमिभिर्वेगधारणैः|
उपधानमृजाभ्यङ्गद्वेषाधःप्रततेक्षणैः||२||
असात्म्यगन्धदुष्टामभाष्याद्यैश्च शिरोगताः|
जनयन्त्यामयान् दोषाः|३|
स०-धूमादिभिः शिरोगता दोषा रोगान् जनयन्ति|
Adhikarana 1 vAtajasya shirobhitApasya lakShaNam (3-7) · Śloka 7
|
तत्र मारुतकोपतः||३||
निस्तुद्येते भृशं शङ्खौ घाटा सम्भिद्यते तथा|
भ्रुवोर्मध्यं ललाटं च पततीवातिवेदनम्||४||
बाध्येते स्वनतः श्रोत्रे निष्कृष्येत इवाक्षिणी|
घूर्णतीव शिरः सर्वं सन्धिभ्य इव मुच्यते||५||
स्फुरत्यति सिराजालं कन्धराहनुसङ्ग्रहः|
प्रकाशासहता घ्राणस्रावोऽकस्माद्यथाशमौ||६||
मार्दवं मर्दनस्नेहस्वेदबन्धैश्च जायते|
शिरस्तापोऽयम्|७|
स०-तत्र-तेषु मध्ये, वातकोपात् शङ्खनिस्तोदादयः स्युः| तथा मर्दनादिभिर्मार्दवं जायते| घूर्णतीवेति घूर्णस्तुदादिः| अयमीदृशः शिरस्ताप उच्यते|
Adhikarana 2 vAtajasya ardhAvabhedakasya lakShaNam (7-8) · Śloka 8
|
अर्धे तु मूर्ध्नः सोऽर्धावभेदकः||७||
पक्षात्कुप्यति मासाद्वा स्वयमेव च शाम्यति|
अतिवृद्धस्तु नयनं श्रवणं वा विनाशयेत्||८||
सं-अर्धे तु शिरसः, अर्धावभेदक उच्यते| स च पक्षेण कुप्यति| मासेन वा कुप्यति| स्वयमेव-चिकित्सितं विनैव, उपशाम्यति| अतिवृद्धस्त्वयं लोचनं कर्णं वा हन्यात्|
Adhikarana 3 pittajasya shirobhitApasya lakShaNam 4 kaphajasya shirobhitApasya lakShaNam 5raktajasya shirobhitApasya lakShaNam 6 sannipAtajasya shirobhitApasya lakShaNam (9-11) · Śloka 11
शोरोभितापे पित्तोत्थे शोरोधूमायनं ज्वरः|
स्वेदोऽक्षिदहनं मूर्च्छा निशि शीतैश्च मार्दवम्||९||
अरुचिः कफजे मूर्ध्नो गुरुस्तिमितशीतता|
शिरानिस्पन्दताऽऽलस्यं रूङ्मन्दाऽह्न्यधिकानिशि||१०||
तन्द्रा शूनाक्षिकूटत्वं कर्णकण्डूयनं वमिः|
रक्तात् पित्ताधिकरुजः सर्वैः स्यात्सर्वलक्षणः||११||
स०-कफजे शिरोभितापेऽरुच्यादयः स्युः| दिवा पीडा मन्दा भवति, विभावर्यामधिका| तथा तन्द्रादयः स्युः| स०-रक्तोद्भवो मूर्धतापः पित्ताधिकरुजः स्यात्| स०-सन्निपातेन सर्वलक्षणः स्यात्|
Adhikarana 7 kRumijasya shirobhitApasya lakShaNam (12-15) · Śloka 15
सङ्कीर्णैर्भोजनैर्मूर्ध्नि क्लेदित्ते रुधिरामिषे|
कोपिते सन्निपाते च जायन्ते मूर्ध्नि जन्तवः||१२||
शिरसस्ते पिबन्तोऽस्रं घोराः कुर्वन्ति वेदनाः|
चित्तविभ्रंशजननीर्ज्वरः कासो बलक्षयः||१३||
रौक्ष्यशोफव्यधन्च्छेददाहस्फुरणपूतिताः|
कपाले तालुशिरसोः कण्डूः शोषः प्रमीलकः||१४||
ताम्राच्छसिङ्घाणकता कर्णनादश्च जन्तुजे|
|१५|
स०-सङ्कीर्णैराहारैः शिरसि क्लेदिते रुधिरे मांसे च सन्निपाते च कोपिते कृमयो मूर्ध्नि जायन्ते| ते च मूर्ध्नौ रक्तं पिबन्तो दारुणाः पीडा मनोविभ्रंशकारिणीर्जनयन्ति| ज्वरादयश्च स्युः| तथा कपाले तालुशिरसोः कण्ड्वाद्याः स्युः| तथा ताम्राच्छसिङ्घाणकत्वं कर्णनादश्च कृमिजे स्यात्|
Adhikarana 8 shiraHkampasya shirobhitApasya lakShaNam 9 sha~gkhakasya shirobhitApasya lakShaNam (15-17) · Śloka 17
|
वातोल्बणाः शिरःकम्पं तत्संज्ञं कुर्वते मलाः||१५||
पित्तप्रधानैर्वाताद्यैः शङ्खे शोफः सशोणितैः|
तीव्रदाहरुजारागप्रलापज्वरतृड्भ्रमाः||१६||
तिक्तास्यः पीतवदनः क्षिप्रकारी स शङ्खकः|
त्रिरात्राज्जीवितं हन्ति सिध्यत्यप्याशु साधितः||१७||
स०-वाताधिका दोषाः शिरःकम्पं शिरः कम्पाख्यं कुर्वते| स०-पित्ताधिकैर्दोषैः सरक्तैः शङ्खे शोफोऽतिदाहादयश्च स्युः| स च शङ्खकस्तिक्तास्यः पीतवर्णमुखः क्षिप्रकारी च स्यात्| तिक्तं-तिक्तस्वादमास्यं, यस्मिन् शङ्खके सः| एवमन्यदपि योज्यम्| स चानुपक्रान्तस्त्रिरात्रेण जीवितं हरति| शीघ्रं च चिकित्सितः सिध्यत्यपि| अपिशब्दात् कदाचिन्न सिध्यति|
Adhikarana 10 sUryAvartasya lakShaNam (18-20) · Śloka 20
पित्तानुबद्धः शङ्खाक्षिभ्रूललाटेषु मारुतः|
रुजं सस्पन्दनां कुर्यादनुसूर्योदयोदयाम्||१८||
आमध्याह्नं विवर्धिष्णुः क्षुद्वतः सा विशेषतः|
अव्यवस्थितशीतोष्णसुखा शाम्यत्यतः परम्||१९||
सूर्यावर्तः स इत्युक्ता दश रोगाः शिरोगताः|
|२०|
स०-पित्तानुबद्धो मारुतः शङ्खादिषु रुजं सस्पन्दनां कुर्यात्| किम्भूतां रुजम् ? अनुसूर्योदयं उदयो यस्याः सा ताम्| आमध्याह्नं-मध्याह्नं मर्यादीकृत्य वर्धनशीला, सा पीडा बुभुक्षितस्य विशेषेण| तथाऽनियतशीतोष्णसुखा| अतो-मध्याह्नात्, परं शमं गच्छति| सः-इत्येवं, सूर्यावर्त उक्तः| स०-दशैते मूर्धगता रोगा उक्ताः|
Adhikarana shiraHkapAle nava rogAH| 1 upashIrShakasya lakShaNam (20-21) · Śloka 21
|
शिरस्येव च वक्ष्यन्ते कपाले व्याधयो नव||२०||
कपाले पवने दुष्टे गर्भस्थस्यापि जायते|
सवर्णो नीरुजः शोफस्तं विद्यादुपशीर्षकम्||२१||
स०-शिरस्येव कपाले नव रोगा भणिष्यन्ते| स०-कपाले पवने दुष्टे गर्भस्थितस्यापि नीरुजः शोफस्तत्सवर्णः-कायसमानवर्णो, जायते| तमुपशीर्षकाख्यं रोगं जानीयात्|
Adhikarana 2 piTikAyAH lakShaNam 3 arbudasya lakShaNam 4 vidradheH lakShaNam 5 arUMShikAnAM lakShaNam (22-23) · Śloka 23
यथादोषोदयं ब्रूयात् पिटिकार्बुदविद्रधीन्|
कपाले क्लेदबहुलाः पित्तासृक्श्लेष्मजन्तुभिः||२२||
कङ्गुसिद्धार्थकनिभाः पिटिकाः स्युररुंषिकाः|
|२३|
स०-पिटिकादीन् त्रीन् यथादोषोदयं ब्रूयात्| स०-कपाले क्लेदबहुलाः पित्तासृक्श्लेष्मजन्तुभिः कङ्गुसिद्धार्थकफलरूपाः पिटिका अरुंषिकाः स्युः|
Adhikarana 6 dAruNakasya lakShaNam 7 idraluptasya lakShaNam (23-26) · Śloka 26
|
कण्डूकेशच्युतिस्वापरौक्ष्यकृत् स्फुटनं त्वचः||२३||
सुसूक्ष्मं कफवाताभ्यां विद्याद्दारुणकं तु तत्|
रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्||२४||
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः|
रोमकूपान् रुणद्ध्यस्य तेनान्येषामसम्भवः||२५||
तदिन्द्रलुप्तं रुज्यां च प्राहुश्चाचेति चापरे|
|२६|
स०-कण्ड्वादिकृत् त्वचः स्फुटनं सुसूक्ष्मं यत् तद्दारुणकं कफवाताभ्यां विद्यात्| अं-पित्तं वातेन सह मूर्च्छितं रोमकूपानुगतं रोमाणि प्रच्यावयति| ततः श्लेष्मा रक्तसहितो रोमकूपान् रुणद्धि| तेन कारणेनास्य-इन्द्रलुप्तवतः, अन्येषां रोम्णामनुत्पत्तिः| तत्-एतत्, इन्द्रलुप्तं रुज्यां चाचेत्यन्य आहुः|
Adhikarana 8 khalateH sAmAnyaM lakShaNam vAtajAyAH khalateH lakShaNam pittajAyAH khalateH lakShaNam kaphajAyAH khalateH lakShaNam (26-27) · Śloka 27
|
खलतेरपि जन्मैवं शातनं तत्र तु क्रमात्||२६||
सा वातादग्निदग्धाभा, पित्तात्स्विन्नसिरावृता|
कफाद्धनत्वग्वर्णाश्च यथास्वं निर्दिशेत् त्वचि||२७||
स०-एवं-एतत्तुल्यरूपा, खलतेरुत्पत्तिः| किन्तु[तत्र-] खलतौ, क्रमेण केशानां शातो न त्विन्द्रलुप्त इव सहसा| स०-सा-खलतिः, वातादग्निदग्धाभा स्यात्| पित्तात् स्विन्नसिरावृता स्यात्| कफेन घनत्वक्| त्वचि वर्णाश्च यथादोषं निर्दिशेत्|
Adhikarana sannipAtajAyAH khalateH lakShaNam 9 palitasya nidAnasamprAptI (28) · Śloka 28
दोषैः सर्वाकृतिः सर्वैरसाध्या सा नखप्रभा|
दग्धाग्निनेव निर्लोमा सदाहा या च जायते||२८||
स०-सर्वैर्दोषैः सर्वाकृतिः सर्वलक्षणा खलतिः| नखप्रभा सा चासाध्या स्यात्| अग्निदग्धतुल्या रोमरहिता सदाहा च या जायते, साऽप्यसाध्या स्यात्|
Adhikarana vAtajasya palitasya lakShaNam pittajasya palitasya lakShaNam kaphajasya palitasya lakShaNam sannipAtajasya palitasya lakShaNam (29-31) · Śloka 31
शोकश्रमक्रोधकृतः शरीरोष्मा शिरोगतः|
केशान् सदोषः पचति पलितं सम्भवत्यतः||२९||
तद्वातात्स्फुटितं श्यावं खरं रूक्षं जलप्रभम्|
पित्तात्सदाहं पीताभं, कफात् स्निग्धं विवृद्धिमत्||३०||
स्थूलं सुशुक्लं, सर्वैस्तु विद्याद्व्यामिश्रलक्षणम्|
|३१|
स०-शोकादिभिरुद्गतः शरीरोष्मा मूर्ध्नि दोषैः सहितः केशान् पचति| अतः पलितं जायते| स०-तच्च-पलितं, वातात् स्फिटितादिगुणं स्यात्| पित्तेन सदाहं पीतवर्णम्| कफात् स्निग्धं विवृद्धिमत् स्थूलं सुशुक्लं च| सर्वैस्तु दोषैः सङ्कीर्णलक्षणं विद्यात्
Adhikarana shirorujodbhavasya palitasya lakShaNam sannipAtajakhalatipalitAnAmasAdhyatvam (31-32) · Śloka 32
|
शिरोरुजोद्भवं चान्यद्विवर्णं स्पर्शनासहम्||३१||
असाध्या सन्निपातेन खलतिः पलितानि च|
|३२|
स०-शिरोरुजोत्थं चापरं पलितं विवर्णं स्पर्शनासहं स्यात्| स०-खलतिः सन्निपातेनासाध्या| पलितानि च सन्निपातोत्थान्यसाध्यानि| दोषैः सर्वैः खलतिरसाध्येति प्रागुक्तमेव| इदं तु वचनं स्पष्टार्थमेवेति मन्ये, तथा सन्निपातोद्भूतानि पलितान्यसाध्यानीति|
Adhikarana sharIrapariNAmotthAnAM rasAyanApekShatvam (23) · Śloka 23
|
शरीरपरिणामोत्थान्यपेक्षन्ते रसायनम्||३२||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर- चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने शिरोरोगविज्ञानीयो नाम त्रयोविंशोऽध्यायः||२३||
स०-शरीरपरिणामोद्भवानि तु पलितानि रसायनमपेक्षन्त इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने शिरोरोगविज्ञानीयो नाम त्रयोविंशो- ऽध्यायः समाप्तः|| २३||