Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

13. mūtrāghātacikitsitam

Adhikarana atha mUtrAghAtacikitsitannAma trayodasho~adhyAyaH adhyAyapratij~jA (1) · Śloka 1

अथातो मूत्राघातचिकित्सितं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Adhikarana vAtaje mUtrakRucchre (2) · Śloka 2

वातान्मूत्रकृच्छ्रे वातहरतैलाभ्यक्तगात्रस्याधोनाभेः सर्व मङ्गं पिण्डेन सेकावगाहैश्च वातघ्नैः कम्भीस्वेदेन च स्वेदयेत्| दशमूलबलैरण्डमूलपुनर्नवाशतावरीवृश्चीवपत्तूरपाषा णभेदककोलकुलत्थयवक्वाथेन तत्कल्केन च तैलं सर्पिः सूकरर्क्षवसालवणपञ्चकोपेतं सिद्धं पानाय दद्यात्| एतान्येव चौषधान्यन्नपाने पिण्डोपनाहस्वेदयांश्च तैल फलस्नेहाम्लयुक्तानि कल्पयेत्| प्रसन्नां च सौवर्चलाढ्यां पिबेत्||२||

🔊 Audio coming soon

Adhikarana pittaje mUtrakRucchre (3) · Śloka 3

पित्तजे शीतसेकावगाहप्रदेहान् प्रयुञ्जीत| तृणपञ्चमूल श्वदंष्ट्राभीरुविदारीकशेरुकक्वाथं शीतं समधुशर्करं पिबेत्| तद्वच्च काण्डेक्षुरकमूलम्| कमलोत्पलविदारी शृङ्गाटकानि वा| द्राक्षारसेन वा त्रपुसकुसुम्भोर्वारू बीजवृषककुङ्कुमकल्कं सर्वमूत्राघातघ्नम्| मधुकदार्व्यु र्वारूबीजानि वा तण्डुलधावनेन| समाक्षिकां वा दार्वी मामलकरसेन| मृद्वीकाकल्कं वा पर्युषिताम्भसा||३||

🔊 Audio coming soon

Adhikarana kaphaje mUtrakRucchre (4) · Śloka 4

कफजे यथास्वं स्वेदो वमनं कटुतीक्ष्णोष्णक्षारमन्न पानं यवान्नं तक्रं च| पिबेच्च मद्येन सूक्ष्मैलामामलकरसेन वा मधुयुतां वा कदलीरसेन कैडर्यकरसेन वा| शीति वारकबीजं वा तक्रेण| प्रवालचूर्णं वा तण्डुलाम्बुना| धवकुटजकरञ्जामृताकेबुकैलारग्वधसप्रच्छदक्वाथं वा शीतं सक्षौद्रम्| तत्सिद्धां वा यवागूम्| कण्टकारि कास्वरसं वा समाक्षिकम्| व्योषैलागोक्षुरकसारसा स्थीनि वा मधुमूत्रयुक्तानि| पाटलीक्षारं वा बहुकृत्वः परिस्रुतं तैलयुक्तम्| तिलपाटलीपाऱ्रिभद्रयावशूक क्षारोदकानुविद्धां वा त्वगेलोषकचूर्णयुक्तां प्रसन्नाम्| तिलादीनां वा पृथक्क्षारं गुडोपदंशमश्नीयात्| तीक्ष्णो ष्णद्रव्यसिद्धं व तैलं पानाभ्यङ्गार्थे||४||

🔊 Audio coming soon

Adhikarana sAnnipAtike mUtrakRucchre (5) · Śloka 5

सन्निपातात्मके वातादीनां स्थानानुपूर्व्या यथासन्नं प्रति कुर्वीत| यथोल्बणं वा सर्वेषु समस्थितेषु वा समसितं यवक्षारं भक्षयेत्| अपि च एलाश्मभेदकशिलाजतुपिप्लीनां चूर्णानि तण्डुलजलालुडितानि पीत्वा| तद्वद्गुडेन सहितान्युपयुज्य मास मासन्नमृत्युरपि जीवति मूत्रकृच्छ्री| एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुपूगैः| क्वाथं पिबेच्छर्करयावगाढं कृच्छ्रे सदाहे सरुजे विबन्धे| हरीतकीगोक्षुरराजवृक्षपाषाणाभिद्धन्वयवासकानाम्| क्वाथं पिबेदश्मजतुप्रधानं सशर्करे साश्मरिमूत्रकृच्छ्रे||५||

🔊 Audio coming soon

Adhikarana ashmaryAdiShvatideshaH (6) · Śloka 6

अश्मर्यामचिरोत्थितायां वातबस्त्यादिषु च यथादोष मिदमेवाचरेत्||६||

🔊 Audio coming soon

Adhikarana tatra vAtAshmaryAm (7) · Śloka 7

पाषाणभेदकवसुकवसिराश्मन्तकशतावरीश्वदंष्ट्राबृहती द्वयकपोतपङ्काबलातिबलाकच्छुरोशीरगुन्धुवृक्षादनी भल्लूकवरणयवकोलकुलत्थशाकफलकतकफलक्वाथे सर्पिरूषकादिप्रतीवापं विपाच्य पीतमाशु वाताश्मरीं भिनत्ति, एभिरेव च द्रव्यैः कषायक्षारान्नपानानि कल्प येत्| सिंहीव्याघ्रीगोक्षुरकेक्षुरकोरूबूकमूलकल्कोऽमधुरेण दध्ना पीतः सप्ताहादश्मरीं भिनत्ति| शिग्रुमूलकल्केन दधिलवणयकसिद्धो यूषः||७||

🔊 Audio coming soon

Adhikarana pittAshmaryAm (8) · Śloka 8

वीरतरादिगुन्द्रेत्कटपत्तूरवाराहीपाठापाटलीशिरीषशालि मूलविदारीद्विपुनर्नवक्वाथे त्रपुसकुसुम्भैर्वारूर्कारूबीज मधुकशिलाजतुप्रतीवापं सर्पिर्विपाच्य पीतमाशु पित्ता श्मरीं भिनत्ति| पूर्ववच्च कषायादीनेभिः कल्पयेत्||८||

🔊 Audio coming soon

Adhikarana shleShmAshmaryAm (9) · Śloka 9

वरणादिभद्रदार्वादिगुग्गुल्वेलाद्वयकुष्ठमरिचचित्रक मुस्तासुरसाह्वयैः कल्कीकृतैः साधितमूषकादिप्रतीवापं सर्पिः श्लेष्माश्मरीं भिन्नत्तिति समानं पूर्वेण| मस्तुना बहुशः पाटलीभस्म गालयित्वा भस्म विस र्जयेत्| ततस्तन्मस्तु गृहीत्वा कुलत्थैः सह क्वाथयेत्| तं क्वाथं गोक्षुरकमूलैलात्रपुसकुटजबीजपाषाणभेद कचूर्णं क्षौद्रेण लीढ्वाऽनुपिबेत्| तथा शीघ्रमेवाश्मरी भिद्यते च्यवते च||९||

🔊 Audio coming soon

Adhikarana pUrvoktauShadhAnAM kShArakalpanA (10) · Śloka 10

अश्मरीभेषजानां घृताक्तानामन्तर्धूमदग्धानां क्षारं ग्राम्य पशुशकृत्क्षारञ्च गोमूत्रेण बहुकृत्वो गालयित्वा तमच्छ मग्नौ साधयेत्| घनीभवति च तस्मिंस्त्र्यूषणोषकादिचूर्णं दद्याद्दर्वीप्रलेपं चावतारयेत्| एष क्षीराशिनः क्षाराव लेहोऽश्मरीम् भिनत्ति पातयति च शर्कराम्||१०||

🔊 Audio coming soon

Adhikarana tilAdyanye kShArAH (11) · Śloka 11

तिलकदलीयवापामार्गपलाशक्षारोऽविमूत्रेण पीतः समानः पूर्वेण| केतकपत्रक्वाथेन हिङ्गुक्रौञ्चस्थिक्षार युतः पाटलीकरवीरक्षारश्च क्रौञ्चोष्ट्रगर्दभास्थिश्वदंष्ट्रा कदम्बमूलतालपत्रिकाजमोदनागरचूर्णश्च सुरामण्डोष्णो दकान्यतरप्रयुक्तः||११||

🔊 Audio coming soon

Adhikarana picukAdiphalakvAthAdyAH prayogAH (12) · Śloka 12

पिचुकाङ्कोलशाककतकेन्दीवरफलक्वाथश्च सुखोष्णो गुडयुक्तः| नृत्यकुण्डकबीजचूर्णश्च समाक्षिकोऽविक्षीर युक्तः| कपोतवङ्कामूलञ्च सुरया| तत्सिद्धं वा पयोऽश्म रीवेदनार्त्तः पिबेत्| सिद्धं वाभयास्थिभिः पुनर्नवेन वा||१२||

🔊 Audio coming soon

Adhikarana sheShamUtrAghAteShvetadeva yojyam (13) · Śloka 13

शेषेष्वेवं मूत्राघातेष्वत एव चिकित्सां विभजेत्||१३||

🔊 Audio coming soon

Adhikarana sarveShu kecana sAmAnyaprayogAH (14) · Śloka 14

ह्रस्वपञ्चमूलेन द्विगुणत्रिकण्टकेन साधितं तोयं पयो वा केवलं घृतमिश्रं वा पिबेत् सर्वमुत्राघातघ्नम्| गोक्षुरककण्टकारिकाकृतां वा सफाणितां यवागूम्| ताम्रचूडरससिद्धां वा| वीरतरादिक्वाथेन वा| तेन वा तद्भावितं शिलाजतु| वाजिरासभान्यतरशकृद्रसं वा| दुरालभास्वरसं वा| ककुभकषायं वा| मूर्वाभयामु स्तदेवदारूमधुककल्कं वा| वारुणीक्षीरोष्णोदकान्य तमेन त्रिफलाकल्कं वा ससैन्धवं सुखाम्भसा| केवल मेव वा बिभीतकबीजं सुरया| विहगपिशितोपदंशं वा निगदमदिरामण्डं मार्द्वीकमासवान् वा विविधान् पिबेत्| पीतमद्यश्च शीघ्रवेगेन वाजिना रथेन वा यायात्| एवमश्मरी शर्करा च प्रच्यवते| सर्वेषु च मूत्राघातेषु विशेषतोऽश्मरीशर्करासु वीरतरादिः सर्वथा प्रयोज्यः तिल्वकघृतं च विरेकार्थम्| बस्तिकर्म चाभीक्ष्णं विशे षेणोत्तरबस्तिः||१४||

🔊 Audio coming soon

Adhikarana nirUho~anuvAsanashca (15) · Śloka 15

तत्र श्यामादिरर्धार्धविहितो गोमूत्रसिद्धो निरूहः| बिल्वा दिमूलैश्च सुरासौवीरकादिसिद्धैस्तृणपञ्चमूलश्वदंष्ट्राशृत क्षीरवांश्च त्रपुसैर्वारूकशताह्वबीजकर्षभकयवानी कल्कितः| पीतदारूसिद्धं तैलमनुवासनम्||१५||

🔊 Audio coming soon

Adhikarana uttarabastyAdika~jca (16) · Śloka 16

शतावरीगोक्षुरकबृहतीद्वयपुनर्नवोशीरमधुकद्विसारिवा श्रेयसीलोध्रतृणपञ्चमूलकषाये क्षीरचतुर्गुणं बलावृक्षक खराह्वोपकुञ्चिकावत्सकत्रपुसोर्वारूबीजशीतिवारकमधु कषड्ग्रन्थाशताह्वाश्मभेदमदनहपुषाकल्कगर्भतैलमुत्तर बस्तिः| तद्विशुद्धस्रोतसा च पुनः शुक्राश्मर्या शुक्राशय शोधनार्थं बलस्थेन पुंसा वृष्य़ाणां मांसानां कुक्कुट मांसस्य च तृप्तेनानुकूलाः प्रकर्षेण प्रियाः प्रमदा यथा कालमसेव्या इति||१६||

🔊 Audio coming soon

Adhikarana shastrAvacaraNAvasthA (17) · Śloka 17

क्रियाभिराभिः सिद्धामिर्न चेच्छान्तिस्ततो भिषक्| इति राजानमापृच्छ्य शस्तं साध्ववचारयेत्| अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्| निश्चितस्यापि वैद्यस्य बहुशः सिद्धकर्मणः||१७||

🔊 Audio coming soon

Adhikarana shastrAvacAraNavidhiH (18) · Śloka 18

अथातुरमुपस्निग्धमपकृष्टदोषमीषत्कर्शितमभ्यक्तस्विन्न शरीरमभुक्तवन्तं कृतमङ्गलस्वस्तिवाचनमुपकल्पित सम्भारमाश्वास्य ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपवेश्य पुरुषं तस्योत्सङ्गे सुनिषण्णपूर्व कायमुत्तानं वस्त्रचुम्बलोपविष्टं सङ्कुचितजानुकूर्परमित रेण पुंसा सह बद्धं सूत्रैः शाटकेन वा ततोऽस्य स्वभ्यक्तं नाभिप्रदेशं वामपार्श्वे विमृद्य मुष्टिनावपीडयेत्| अधोनाभेर्यावदश्मर्यधः प्रतिपन्ना ततस्तैलाभ्यक्ते कृत्त नखे वामहस्तप्रदेशिनीमध्यमे पायौ प्रणिधायानुसेव न्यासाद्य च प्रयत्नबलाभ्यामश्मरीं मेढ्रगुदयोरन्तरमानीय निर्वलीकमनयायतविषमं च बस्तिं सन्निवेश्य भृशमु त्पीडयेदङ्गुलीभ्यां यावत् ग्रन्थिरिवोन्नतं शल्यं भवति| ततः सेवन्याः सव्ये पार्श्वे सेवनीं यवमात्रं मुक्त्वा निदध्याच्छस्त्रमश्मरीप्रमाणेन| दक्षिणतो वा क्रियासौ कर्यहेतोरित्येके| यथा न विभिद्यते विचूर्ण्यते वा तथा प्रयतेत| तच्चूर्णमल्पमप्यवस्थितं पुनः परिवृद्धिमेति| तस्मात् समग्रामग्रवक्रेणाददीत||१८||

🔊 Audio coming soon

Adhikarana strINAM visheShaH (19) · Śloka 19

स्त्रीणां तु बस्तिः पार्श्वगतो गर्भाशयसन्निकृष्टः तस्मात्ता सामुत्सङ्गवदधः शस्त्रं पातयेत्| अतोऽन्यथा खल्वासां मूत्रस्रावी व्रणो भवति, पुरुषस्य च मूत्रप्रसेकक्षणनात्| अश्मरीनिमित्तमेकतो भिन्नो बस्तिः सिध्यति| क्रियाभ्या साच्छस्रविहितच्छेदादनिष्पन्दपरिवृद्धत्वाच्च शल्यस्येति| न तु द्विधा भिन्नबस्तिरश्मरीमानपि||१९||

🔊 Audio coming soon

Adhikarana shastrakarmottaraM karma (20) · Śloka 20

उद्धृतशल्यं तूष्णोदकद्रोण्यामवगाह्य स्वेदयेत्| तथा बस्तिरसृजा नापूर्यते| पूर्णे तु क्षीरिवृक्षकषायं पुष्पनेत्रेण विदध्यात्| स हि तथा बस्तिगतमश्मरीचूर्णं रक्तं च निर्हरति| मूत्रविशुद्ध्यर्थं च गुडसौहित्यं कारयेत्||२०||

🔊 Audio coming soon

Adhikarana AhAravidhAnam (21) · Śloka 21

उत्थाप्य चैनं मधुघृताभ्यक्तव्रणं मूत्रविशोधनद्रव्यसिद्ध मुष्णां यवागूं सघृतां पाययेदुभयकालं त्रिरात्रम्| त्रिरात्रा दूर्ध्वं गुडप्रगाढेन पयसा मृदुमोदनमल्पं भोजयेदादश रात्रात्| अत ऊर्ध्वं फलाम्लैर्जाङ्गलरसैः||२१||

🔊 Audio coming soon

Adhikarana vraNopacArAH (22) · Śloka 22

व्रणञ्च क्षीरिवृक्षकषायेण प्रक्षाल्य लोध्रमधुकमञ्जिष्ठा प्रपौण्डरीककल्केन लेपयेत्| द्वादशरात्रं चैनमप्रमत्तः स्वेद येत्| एतेष्वेव च हरिद्रायुक्तेषु तैलं विपक्वं व्रणा भ्यञ्जनम्| सप्तरात्राच्च स्वमार्गमप्रतिपद्यमाने मूत्रे यथो क्तमग्निना व्रणं दहेत्| स्वमार्गप्रतिपन्ने चोत्तरबस्त्या स्थापनानुवासनै-र्मधुरप्रायैरुपाचरेत्||२२||

🔊 Audio coming soon

Adhikarana shukrAshmarIharaNam (23) · Śloka 23

यदृच्छया मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसापहरेत्| विदार्य वा नाडीं बडिशेनो द्धरेत्| रूढव्रणश्च वर्षमङ्गनाश्च नगनागरथद्रुमान् नारो हेत्| नाप्सु प्लवेत भुञ्जीत वा गुरूणि||२३||

🔊 Audio coming soon

Adhikarana shastrakarmaNi parihartavyamaShTakam (24-13) · Śloka 13

कर्मणि तु मूत्रवहशुक्रवहमुष्कस्रोतो मूत्रप्रसेकसेव नीयोनिगुदबस्तयोऽष्टौ परिहर्तव्याः| तत्र मूत्रवहच्छेदात् मूत्रपूर्णबस्तेर्मरणम्| शुक्रवहच्छेदान्मरणं क्लैब्यं वा| मुष्कस्रोतसोरुपघातात् ध्वजभङ्गः| मूत्रप्रसेकच्छेदान्मूत्र स्रवणम्| सेवनीयोनिच्छेदनाद्रुजाप्रादुर्भावः| गुदबस्ति विद्धस्य सद्योमरणमुक्तं प्रागिति| भवति चात्र- मर्माण्यमून्यविज्ञाय स्रोतोजानि शरीरिणाम्| शस्त्रपाणिध्रुवं हन्ति साहसात्केवलो यथा| इति||२४|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने मूत्रा घातचिकित्सितन्नाम त्रयोदशोऽध्यायः||१३||

🔊 Audio coming soon