Adhikarana atha pANDurogacikitsitannAmAShTAdasho~adhyAyaH adhyAyapratij~jA (1) · Śloka 1
अथातः पाण्डुरोगचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana atha pANDurogacikitsitannAmAShTAdasho~adhyAyaH adhyAyapratij~jA (1) · Śloka 1
अथातः पाण्डुरोगचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana tatrAdau sarpiHpAnam (2) · Śloka 2
पाण्ड्वामयिनमादौ कल्याणपञ्चगव्यतिक्तकानामन्यतमं सर्पिः पाययेत्||२||
🔊 Audio coming soon
Adhikarana dADimAdiGRutam (3) · Śloka 3
दाडिमसारतः कुडवं धान्यकार्द्धकुडवं पिप्पल्यष्टमिकां शुण्ठीचित्रकयोश्च पलं पलमेकतः कल्कीकृत्य तोयाढके विंशतिपलं ग़ृतस्य सिद्धं हृत्पाण्डुरोगगुल्मप्लीहार्शः श्वा सकासमूढवातवातकफार्तिहरमग्निदीपनं वन्ध्यानां सम्मतं दुःख़प्रसविनीनां च||३||
🔊 Audio coming soon
Adhikarana durAlaBAdiGRutam (4) · Śloka 4
दुरालभचन्दनपटोलत्रायमाणागुडूचिकिराततिक्तरोहिणी ग़ननिशाद्वयेन्द्रयवदेवदारुपर्पटकाजमोदैः कार्षिकैः क्षीराढके ग़ृतप्रस्थं साधयेत्| पाण्डुरोगकामिलारक्त पित्तज्वरदाहासृग्दरविस्फोटश्वयथुभगन्दरार्शोग़्नम्||४||
🔊 Audio coming soon
Adhikarana vamanaM taduttaraM kramashca (5) · Śloka 5
स्निग्धं चैनं तीक्ष्णैर्वामयेत्| पुनश्च स्निग्धं मूत्रयुक्तं गव्यं माहिषं वार्धमासं पयः पाययेत्| मागधिकाशृतं वा| मूत्रसिद्धां वा त्रिफलाम्| स्पताहं मूत्रेण वा हरीतकीः कल्किताः| स्वर्णक्षीरीभद्रदारुनागरश्यामात्रिवृन्मूलानि तेनैव वा क्वथितानि| एभिर्वा शृतं पयः||५||
🔊 Audio coming soon
Adhikarana vatsakabIjAdicUrNam (6) · Śloka 6
वत्सकबीजविशालाकुष्ठकटुकादारुमुस्तानां समा भागाः मूर्वाभागद्वयमतिविषाभागार्धं च चूर्णितम् सुख़ाम्बुना पीत्वा क्षौद्रमनुलिह्यात्| एतत् पाण्डुकामिलाज्वरारुचिगुल्मा नाहामवातरक्तपित्तकासश्वासानपोहति||६||
🔊 Audio coming soon
Adhikarana trikaTukAdi vaTakAH (7) · Śloka 7
त्रिकटुककालतिललोहैर्वा माक्षिकधातुतुल्यैर्माक्षिकेण वटकान् कृत्वा तक्रानुपानान् पाण्डुरोगी भक्षयेत्|७|
🔊 Audio coming soon
Adhikarana navAyasacUrNam (7) · Śloka 7
त्रिफलाव्योषग़नाग्निविडङ्गभागा नव नव चायसचूर्ण भागा मधुग़ृताभ्यां तक्रेणोष्णोदकेन वोपयुक्ता हृत्पाण्डु रोगकामिलाकुष्ठार्शःशोफोदरप्लीहमेहहराः||७||
🔊 Audio coming soon
Adhikarana maNDUravaTakAH (8) · Śloka 8
माक्षिकधातुचविकादारुदार्वीत्वग्ग्रन्थिकान् त्रिफलादीनि च नव विचूर्णय चूर्णाद् द्विगुणं च सुश्लक्ष्णं पृथङ् मण्डूरं ततो गोमूत्रं सर्वतोऽष्टगुणं पक्त्वा तस्मिंस्तत्क्षिपेत्| अनन्तरं च वटकान् कुर्यात्| ते तक्रानुपानमभ्यस्ताः परमौषधं पाण्ड्वामयिनां शोफार्शः कुष्ठकामिलामेह प्लीहाढ्यवातकफर्तानां च||८||
🔊 Audio coming soon
Adhikarana yogarAjaguTikA (9) · Śloka 9
शिलाजतुताप्यरुप्यायोमलाः पृथक् पञ्चपलिकास्त्रि फलादयश्च विगतग़नाः पलांशाः श्लक्ष्णरजसः सितो पलापलाष्टकयुक्ता क्षौद्रद्रुता योगराजः| कुलत्थादि थूषाशिना यथाग्न्यभ्यवहृतः समानः पूर्वेण| यक्ष्मविष विषमज्वरकासश्वासापस्मारहरश्च||९||
🔊 Audio coming soon
Adhikarana vajraBidhA gulikA (10) · Śloka 10
त्रिफलाकुटजफलग़नपटोलपिचुमन्दमहौषधकषायैर्मास मर्धमासं वा भावितान्यष्टौ शिलाह्वयपलानि समसिता न्युपकुल्यातुगाक्षीरीधात्रीफलकर्कटशृङ्गयः पृथप लांशाः निदिग्धिकाफलमूलयोः पलं त्रिजातकत्रिकर्षञ्च क्षौद्रत्रिपलयुक्तान् वटकान् वर्तयेत्| ते दाडिमाम्बुक्षीर रससलिलसुरासवान्यतमानुपाना वज्राभिधाना वज्रमि वानन्तरोक्तान् रोगान् दारयन्ति| हृद्रोगगलरोगगरोदरा सृग्दरभगन्दरगुल्मवर्ध्मशुक्रमूत्रदोषांश्च||१०||
🔊 Audio coming soon
Adhikarana drAkShAlehaH (11) · Śloka 11
द्राक्षापिप्पलीप्रस्थद्वयं शर्करार्धतुलां तवक्षीरीनागरमधु कानि च द्विपलिकानि चूर्णयित्वाऽऽमलकरसद्रोणे प्रक्षिप्य मृद्वग्निना पचेत्| लेहीभूते शीते च तस्मिन् मधु प्रस्थं भावयेत्| त्रिसुगन्धिकस्य कर्षयत्रं च चूर्णीकृत्य दर्व्या परिग़ट्य जातीपुष्पादिवासिते मृद्भाण्डे निदध्यात्| अयं द्राक्षालेह उपयुज्यमानः पाण्ड्वामयहृद्रोगकामिला हलीमकज्वरगुल्मोदरशोफोदावर्त्तादीनवरानपि विरेक साध्यान् व्याधीन् प्रसह्य वायुरिवाभ्राण्यपहरति||११||
🔊 Audio coming soon
Adhikarana BojanaM pAna~jca (12) · Śloka 12
भोजनं तु सात्म्यतः शालियवगोधूममुद्गजाङ्गलमांसानि पयो ग़ृतं वृषपटोलवेत्रपर्पटकशाकं द्राक्षाद्राडिमख़र्जूरा मलकरसानि| पानमनुपानञ्च मूलकसिद्धं वारि वाता धिके| ग़नह्नीबेरशुण्ठीसाधितं पित्तोत्तरे| श्लेश्मण्य रिष्टसीधुमार्द्वीकासवाः| सर्वत्र वा तक्रम्||१२||
🔊 Audio coming soon
Adhikarana sArAriShTaH (13) · Śloka 13
बीजकसारप्रस्थम्| वरायाः पलानि पञ्चविंशतिः| पञ्च द्राक्षायः बलायाः सप्त| जलद्रोणे पक्त्वा पादशेषं तेभ्यो रसमादाय पूतशीतेऽस्मिन् शर्करातुलां मधुप्रस्थं कर्षांशानि च चूर्णितानि व्योषव्याग़्रनख़ोशीरक्रमकैल वालुककुष्ठमधुकानि निक्षिप्य ग़ृतभाजने सर्वमैकध्यं यवपल्ले ग्रीष्मे दशरात्रं विंशतिरात्रं शीते स्थापयेत्| अयं बीजकसारारिष्टः पाण्डुकामिलामेहाहृद्रोगवात शोणितविषमज्वरारोचककासश्वासान् निबर्हति||१३||
🔊 Audio coming soon
Adhikarana gaNDIrAriShTaH (14) · Śloka 14
गण्डीरतरोः समूलपुष्पशाख़स्य तुलामाहरेत्| अर्धतुलां दशमूलस्य त्रिफलायाः पृथगर्धप्रस्थं कुटजत्वचश्च| कुडवांशान् मुस्तारुष्करकृमिग़्नेन्द्रयवान्| पालिकान् पाठादन्तीमधुरसारास्नाशठीचित्रकान्| मृद्वीकार्धप्रस्थेन श्लक्ष्णपिष्टेन ग्रन्थिकपलेनार्धपलिकैश्च मरिचविड ङ्गैलवालुकैः प्रलिप्ते ग़ृतकुम्भे निधापयेत्| मासमात्रं स्थितोऽयं गण्डीरारिष्टोऽधिकगुणः पूर्वस्मात्| ग्रन्थ्य र्बुदकृमिहरश्च||१४||
🔊 Audio coming soon
Adhikarana mastvariShTaH (15) · Śloka 15
अथवा चव्यकुष्ठचित्रकप्रलिप्ते भाजने मस्तुद्रोणं गुड तुलां पिप्पलीप्रस्थत्रयं त्रिफलाप्रस्थत्रयं विडङ्गप्रस्थत्रयं कुडवांशांश्च मरिचपरूषकद्राक्षाकाश्मर्यफलेन्द्रयवान् द्विपलिकानि च दन्तीचित्रकभल्लातकानि चूर्णितानि प्रक्षिपेत्| ततो यवपलस्थं पक्षमुपेक्ष्य यथाबलं पिबेत्| एष मस्त्वरिष्टः पाण्डुरोगमेहस्थौल्यमेदार्शोग्रहणीप्लीह शोफोदरभगन्दरहरः| परमं चाग्निदीपन इति||१५||
🔊 Audio coming soon
Adhikarana doShAnusAraM cikitsAvikalpaH (16) · Śloka 16
भवति चात्र पाण्डुरोगप्रशान्यर्थं विहितं यच्चिकित्सितम्| विकल्प्यमेतद्विदुषा पृथग्दोषबलं प्रति| स्नेहप्रायं पवनजे तिक्तशीतं तु पैत्तिके| श्लैष्मिके कटुऱ्रूक्षोष्णं विमिश्रं सान्निपातिके||१६||
🔊 Audio coming soon
Adhikarana mRujje pANDau kramaH (17) · Śloka 17
मृदं निर्ग़ातयेत् कायात्तीक्ष्णैः संशोधनैः पुरः| बलाधानानि सर्पींषि शुद्धे कोष्ठे तु योजयेत्||१७||
🔊 Audio coming soon
Adhikarana vyoShAdiGRutam (18) · Śloka 18
व्योषबिल्वद्विरजनीत्रिफलाद्विपुनर्नवम्| मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च| वृश्चिकाली च भार्ङ्गी च सक्षीरैस्तैः शृतं ग़ृतम्| सर्वान् प्रशमयत्याशु विकारान् मृत्तिकाकृतान्||१८||
🔊 Audio coming soon
Adhikarana kesarAdiGRutam (19) · Śloka 19
तद्वत् केसरयष्ट्याह्वपिप्पलीक्षीरशाड्वलैः||१९||
🔊 Audio coming soon
Adhikarana mRuddveShaNAya BAvitamRudvitaraNam mRudBede doShAnuguNacikitsA (20) · Śloka 20
मृद्द्वेषणाय तल्लौल्ये वितरेद्भावितां मृदम्| विडङ्गे नातिविषया पाठया निम्बपल्लवैः| वार्त्ताकैः कटुरोहिण्या कौटजैर्मूर्वयाथवा| मृद्भेदभिन्नदोषानुगमाद्योज्यं च भेषजम्||२०||
🔊 Audio coming soon
Adhikarana kAmalAyAM kramaH (21) · Śloka 21
कामिलायन्तु पित्तग़्नं पाण्डुरोगाविरोधि यत्|२१|
🔊 Audio coming soon
Adhikarana tadarthaM GRutaprayogAH (21) · Śloka 21
पथ्याशतरसे पथ्यावृन्तार्धशतकल्कितः| प्रस्थः सिद्धो ग़ृताद्गुल्मकामिलापाण्डुरोगजित्| दन्तीचतुष्पलरसे पिष्टैर्दन्तीशलाटुभिः| ग़ृतप्रस्थः शृतस्तद्वत् प्लीहाश्वयथुजिच्च सः| पुराणसर्पिषः प्रस्थो द्राक्षार्धप्रस्थसाधितः| कामिलागुल्मपाण्ड्वर्तिज्वरमेहोदरापहः| हरिद्रात्रिफलानिम्बबलामधुकसाधितम्| सक्षीरं माहिषं सर्पिः कामिलाहरमुत्तमम्||२१||
🔊 Audio coming soon
Adhikarana mAhiShaGRutayogau (22) · Śloka 22
गोमूत्रे द्विगुणे दार्वीकल्कार्धपलसाधितः| दार्वीपञ्चपलक्वाथे कल्के कालीयके परः| माहिषात्सर्पिषः प्रस्थं पूर्वः पुर्वे परः परे| सिद्धं कालीयकक्वाथे सनिशं चोत्तरे हितम्||२२||
🔊 Audio coming soon
Adhikarana kAmalAnAshanAH anye yogAH (23) · Śloka 23
आरग्वधं रसेनेक्षोर्विदार्यामलकस्य वा| सत्र्यूषणं बिल्वमात्रं पाययेत्कामिलापहम्| पिबेन्निकुम्भकल्कं वा द्विगुडं शीतवारिणा| कुम्भस्य चूर्णं सक्षौद्रं त्रैफलेन रसेन वा| सशर्करां त्रिभाण्डीं वा गवाक्षीं वा प्रयोजयेत्||२३||
🔊 Audio coming soon
Adhikarana triPalAdisvarasAH (24) · Śloka 24
त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम्| प्रातः प्रातर्मधुयुतं कामिलर्ताय योजयेत्||२४||
🔊 Audio coming soon
Adhikarana ruddhapathakAmalA tatra kramashca (25) · Śloka 25
तिलपिष्टनिभं यस्तु कामिलावान्सृजेन्मलम्| कफरुद्धपथं तस्य पित्तं कफहरैर्जयेत्||२५||
🔊 Audio coming soon
Adhikarana shAKAshritA kAmalA (26) · Śloka 26
रूक्षशीतगुरुस्वादुव्यायामचलनिग्रहैः| कफसम्मूर्च्छितो वायुर्यदा पित्तं बहिःक्षिपेत्| हारिद्रनेत्रमूत्रत्वक्श्वेतवर्चस्तदा नरः| भवेत्साटोपविष्टम्भो गुरुणा हृदयेन च| दौर्बल्याल्पाग्निपाऱ्श्वार्तिहिध्माश्वासारुचिज्वरैः| क्रमेणाल्पेऽनुषज्येत पित्ते शाख़ासमाश्रिते||२६||
🔊 Audio coming soon
Adhikarana shAKAshritakAmalAyAM cikitsA (27) · Śloka 27
रसैस्तं रूक्षकट्वम्लैः शिख़ितित्तिरिदक्षजैः| शुष्कमूलकजैर्यूषैः कूलत्थोत्थैश्च भोजयेत्| भृशाम्लतीक्ष्णकटुकलवणोष्णं च शस्यते| सबीजपूरकरसं लिह्याद्व्योषं तथाशयम्| स्वं पित्तमेति तेनास्य शकृदप्यनुरज्यते| वायुश्च याति प्रशमं सहाटोपाद्युपद्रवैः| निवृत्तोपद्रवस्यास्य कार्यः कामिलिको विधिः||२७||
🔊 Audio coming soon
Adhikarana kumBakAmalA cikitsitam (28) · Śloka 28
गोमूत्रेण पिबेत् कुम्भकामिलायां शिलाजतु| मासं माक्षिकधातुं व किट्टं वाथ हिरण्यजम्||२८||
🔊 Audio coming soon
Adhikarana halImakacikitsA (29-18) · Śloka 18
गुडूचीस्वरसक्षीरसाधितेन हलीमकी| महिषाहविषा स्निग्धः पिबेद्धात्रीरसेन तु| त्रिवृतां तद्विरिक्तोऽद्यात्स्वादुपित्तानिलापहम्| द्राक्षालेहं च पूर्वोक्तं सर्पीषि मधुराणि च| यापनान् क्षीरबस्तींश्च शीलयेत्सानुवासनान्| मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याऽग्निवृद्धये| कासिकं चाभयालेहं पिप्पलीं मधुकं बलाम्| पयसा च प्रयुञ्जीत यथादोषं यथाबलम्| पाण्डुरोगेषु कुशलः शोफोक्तञ्च क्रियाक्रमम्||२९|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने पाण्डु रोगचिकित्सितन्नामाष्टादशोऽध्यायः||१८||
🔊 Audio coming soon