Adhikarana atha vAtavyAdhicikitsitannAma trayoviMsho~adhyAyaH adhyAyapratij~jA (1) · Śloka 1
अथातः वातव्याधिचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana atha vAtavyAdhicikitsitannAma trayoviMsho~adhyAyaH adhyAyapratij~jA (1) · Śloka 1
अथातः वातव्याधिचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana kevalAnile kramavisheShaH (2) · Śloka 2
सर्वेषु केवलानिलविकारेष्वन्तर्बहिः स्नेहस्वेदौ साल्व- लेनोपनाहो निवातं स्थानं प्रावरणानि दशमूलक्वाथ- सिद्धा महास्नेहप्रगाढाः स्निग्धा दध्यम्ला नागरपिप्पली- तीक्ष्णा ग्राम्यानूपौदकशिरः पिशितरसाः पयांसि यूषाः प्रीणनानि चान्नानि| तैरेव च मांसैर्महास्नेहसंसृष्टैस्तद- क्तानामभीक्ष्णं पिण्डादिस्वेदाः| अपि च- कोलकुलत्थामरतरुयवमिसिमाषातसीवचाकुष्ठम्| रास्नातैलफलानि च वातजिदुत्कारिकाम्लोष्णा| विडालनकुलोष्ट्रसृगालादिचर्मभिर्बन्धः| स्निग्धा बस्तयो नावनानि च प्रयोज्यानि| दोषोपक्रमणीयं चेक्षेत||२||
🔊 Audio coming soon
Adhikarana tatra hetuH (3) · Śloka 3
स्निग्धस्विन्नस्य हि तोदभेदायामशूलादयो वातविकारः शीघ्रमुपशाम्यन्ति| स्नेहश्च धातून् पुष्णाति बलं च देहे जनयति| तस्मात् पुनः पुनः स्नेहस्वेदौ शीलयेत्| तन्मृदू कृते च कोष्ठे नावतिष्ठन्त्यनिलामयाः||३||
🔊 Audio coming soon
Adhikarana sadoShatvAdAvRute visheShaH (4) · Śloka 4
यति तु सदोषत्वान्न निवर्तन्ते ततः सर्वशरीरगेऽपि वायौ विशेषः पक्वाशयाश्रिते मृदुस्नेहविरेचनं तिल्वकसर्पिः सातलाग़ृतमेरण्डतैलं वा क्षीरेण दद्यात्| एवं हि विशुद्ध- स्रोतसोऽनावृतः पवनो विचरन्नाशु शान्तिमेति| अपि च- स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः| स्रोतो बद्ध्वाऽनिलं रुन्ध्यात्तस्मात्तमनुलोमयेत्||४||
🔊 Audio coming soon
Adhikarana durbale vAtarogArte kramaH (5) · Śloka 5
अथ दुर्बले विरेच्ये निरूहं पाचनीयदीपनीयद्रव्ययुक्त- मेवंविधं च भोज्यम्| भोज्ययुक्तं वा स्रंसनमवचारयेत्| विशुद्धस्य च समिद्धेऽग्नावसकृत् स्नेहस्वेदौ स्वाद्वम्ल- लवणं चान्नपानम्| एवमप्यनिवृत्ताववपीडकस्नेहान् बस्तिकर्म च प्रयोजयेत्||५||
🔊 Audio coming soon
Adhikarana AmAshayagate vAte visheShaH (6) · Śloka 6
आमाशयगते कृतवमनस्य षड्धरणं चूर्णं परतश्च यथार्हं स्नेहादीन्| नाभिदेशमाश्रिते बिल्वशलाटुभिः सिद्धान् मत्स्यान् अशेषकोष्ठाश्रिते पुनरर्शोग्रहणीविहितमाममलपाचनं क्षारो- पयोगानन्तर्गुल्मोपक्रमं च प्रयुञ्जीत||६||
🔊 Audio coming soon
Adhikarana hRudayagate vAte visheShaH (7) · Śloka 7
हृदयस्थे अंशुमत्या शृतं पयः||७||
🔊 Audio coming soon
Adhikarana shrotrAdigate vAte visheShaH (8) · Śloka 9
श्रोत्रादिगते शिरागते च विशेषेण स्नैहिकं नस्यं धूमं शिरोबस्तिमर्दनालेपानान्यथास्वञ्च स्रोतसां प्रीणनम्|९|
🔊 Audio coming soon
Adhikarana tvagAdisthe vAte visheShaH (9) · Śloka 9
त्वचि स्थितेऽभ्यङ्गस्वेदनिवातानि| रक्ते शीतप्रदेह विरेकरक्तमोक्षाः| मांसमेदसो विरेकास्थापनशमनानि| अस्थिमज्जयोरन्तर्बहिः स्नेहाः| शुक्रप्राप्ते हर्षः शुक्रलं चान्नपानम्| विबद्धे तु शुक्रे विरेचनम्| ततोऽनुबन्धे ऽनन्तरोक्तां क्रियां कुर्यात् पुत्रकामीय़ं चेक्षेत||९||
🔊 Audio coming soon
Adhikarana garbhashoShe visheShaH (10) · Śloka 10
शुष्यति तु गर्भे बालेषु य यष्टीमधुककाश्मर्यफलशारि वाशर्कराशृतं पयो दद्यान्मांसादमांसरसांश्च बृंहणीय स्नेहयुक्तान्||१०||
🔊 Audio coming soon
Adhikarana sirAsnAvAdiprApte visheShaH (11) · Śloka 11
सिरास्नावसन्धिप्राप्तेऽभ्यङ्गमर्दनस्वेदोपनाहबन्धाग्निकर्मणि| सङ्कोचे माषसैन्धवसाधितं तैलमभ्यङ्गः| स्वापे बहुशो रक्तावसेचनम्| न त्वङ्गलानौ शोषभयात्| स्रुतरक्तस्य तैललवणागारधूमैः प्रदेहः||११||
🔊 Audio coming soon
Adhikarana apatAnakacikitsA tatrAdAvupakramyatvanidarshanam (12) · Śloka 12
अथापतानकिनमस्रस्ताक्षमस्तब्धलाङ्गूलमवेदनमस्वेदन मप्रलापिनमख़ट्वाग़ातिनमबहिरायामिनं चोपक्रमेत||१२||
🔊 Audio coming soon
Adhikarana tIkShNanasyaM sarpiHpAna~jca (13) · Śloka 13
तत्र प्रागेव स्निग्धस्विन्नाङ्गव्योषविडङ्गश्वेतमरिचैरन्यैश्च तीक्ष्णैः शिरोविरेचनैः स्रोतोविशुद्धये कृतनस्यमनन्तरञ्चैनं विदार्यादिक्वाथमांसरसक्षीरदधिविपक्वं सर्पिरच्छं पाय येत्| तथा नातिमात्रमनिलः प्रसरति||१३||
🔊 Audio coming soon
Adhikarana mahAsnehavidhAnam (14) · Śloka 14
ततो भद्रदार्वादिवर्गं वातघ्नमाहृत्य सयवकोलकुलत्थं सानूपमाघंसञ्च निक्वाथ्य तत्कषायेणाम्लक्षीरवता मधुर वर्गप्रतीवापं महास्नेहं विपचेत्| तमपतानकिनमभ्यङ्ग परिषेकावगाहपानभोजनानुवासननावनेषु विदध्यात्||१४||
🔊 Audio coming soon
Adhikarana svedanam (15) · Śloka 15
बलीयसि च वाते सुख़ोष्णकरीषपूर्णे कूपे निख़न्या दामुख़ं| तप्तायां व रथकारचुल्यां शिलायां वा सुपरिषिक्तायां शाययेत् पलालावच्छन्नम्| स्वेदयेद्वा पिण्डेन||१५||
🔊 Audio coming soon
Adhikarana abhya~ggaH (16) · Śloka 16
मूलकोरुबूकस्फूर्जातकार्कसप्तलाशङ्ख़िनीस्वरससिद्धं वा तैलमभ्यङ्गादिशु योज्यम्| अभुक्तवता चैतत् पीत मम्लदधिमरिचवचायुक्तमाक्षेपकमपहन्ति||१६||
🔊 Audio coming soon
Adhikarana aNutailavidhAnam (17) · Śloka 17
तिलपीडनोपकरणद्रव्याण्यनल्पकालतैलपरिपीतान्य वक्षुद्य महति कटाहे पानीयेनाधाव्य क्वाथयेदास्नेहो पगमात्| ततस्तत् स्नेहमम्भस उपरिष्टात् पाणिशरावयो रन्यतरेणादाय वातग़्नौषधदत्तप्रतीवापं स्नेहपाककल्पेन पचेत्| एतदणुतैलं सर्ववातविकारहरम्| अणुतैलद्र व्येभ्यो निष्पद्यत इत्यणुतैलम्||१७||
🔊 Audio coming soon
Adhikarana vegAntareShvavapIDAni pradhamanAni ca (18) · Śloka 18
वेगान्तरेषु च तीक्ष्णान्यवपीडानि प्रधमनानि वा सकृद् दद्यात्| तथास्य श्लेष्मापगमनेन श्वसनविमोक्षात् संज्ञा पुनः पुनर्नोपरुध्यते| कुक्कुटकुलीरशिंशुमारवराहवसाः पाययेत्| यवकोलकुलत्थमूलकदधिग़ृततैलसिद्धां च यवागूम्| सर्वाकारं च गतवेगः स्नेहविरेचनास्थापना नुवासनानि सेवेत||१८||
🔊 Audio coming soon
Adhikarana apatAnake snehavirecanArthaM tilvakaghRutam (19) · Śloka 19
त्रिवृद्धन्तीसुवर्णक्षीरीशङ्किनीविडङ्गत्रिफलानामक्षसमाः कल्काः बिल्वमात्रकं तिल्वकमूलानां त्रिफलारसदधि पात्रे द्वे घृतपात्रमेकं सर्वमैकध्यं प्रतिसंसृज्य विपचेदेत त्तिल्वकसर्पिः स्नेहविरेचनमनिलरोगेषु| तिल्वकविधि रेव चाशोकरम्यकयोर्द्रष्टव्यः| शुद्धवातापतानकवि धानमेतत्| संसृष्टे यथासंसर्गम्||१९||
🔊 Audio coming soon
Adhikarana kaphasaMsRuShTe visheShaH (20) · Śloka 20
सकफे तु वाते तुम्बुरुफलाभयाहिङ्गुपुष्करमूललवण त्रयचूर्णं यवक्वाथेन हृत्पार्श्वार्तिहरं पिबेत्| हिङ्गुनाग रदाडिमाम्लवेतससौवर्चलचूर्णं वा| मुस्तपिप्पलीनागरा तिविषाबिभीतकभार्ङ्गीचूर्णं वाग् मद्येनोष्णाम्बुना वाप तन्त्रककासहृद्रोगहरम्| सौवर्चलाभयाव्योषसिद्धं सर्पिः| रास्नाम्लवेतससैन्धववचाहरीतकीकल्कश्च घृतभृष्टो भक्षितः||२०||
🔊 Audio coming soon
Adhikarana antarbahirAyAmau (21) · Śloka 21
अन्तर्बहिरायामावेकायामवत् साधयेत्| तैलद्रोण्यां चात्र शयनम्| अन्तरायामश्चैतयोर्ग़ोरतरः| अपि च विवर्णदन्तवदनः स्रस्ताङ्गो नष्टचेतनः| प्रस्विद्यंश्च धनुष्कम्पी दशरात्रं न जीवति| वेगेष्वतोऽन्यथा जीवेन्मन्देषु विनतो जडः| ख़ञ्जः कुणिः पक्षहतः पङ्गुलो विकलोऽथवा||२१||
🔊 Audio coming soon
Adhikarana hanustambhaH (22) · Śloka 22
हनुस्तम्भमय्यर्दितवच्चिकित्सेत्| स्वेदयित्वा च हनू स्तब्धौ स्रस्तौ स्वस्थानमानीय पाणिभ्यां पीडयेत्| विवृता स्ये चिबुकं चोन्नामयेत्| संवृतास्ये च नामयेत्||२२||
🔊 Audio coming soon
Adhikarana jihvAstambhArditayo kriyAkramaH (23) · Śloka 23
जिह्वास्तम्भे सामान्योक्तो विधिरेकायामे च| तथा महा तृणपञ्चमूलविदार्यादिजीवनीयानि मेद्यमांसान्यौदक कन्दांश्च द्विगुणोदके क्षिरद्रोणे क्षीरशेषं निष्क्वाथ्य परि स्राव्य तैलप्रस्थेनोन्मिश्रं पुनरधिश्रयेत्| क्षीरानुगमे चाव तार्य शीतं मन्थयेत्| ततः स्नेहमादाय पूर्ववद्विपचेत्| एतत् क्षीरतैलं पानाभ्यङ्गादिषु विधेयम्| तैलविहीनग् मिदमेव क्षीरघृतमक्षितर्पणम्||२३||
🔊 Audio coming soon
Adhikarana AhArakalpanAvisheShAH (24) · Śloka 24
तिल्वकफलसिद्धक्षीरदध्ना च सह मांसरसान् कल्प येत्| यथोक्ताश्च यवागूस्निग्धाश्च नस्यधूमकवलग्रहाः प्रयोज्याः||२४||
🔊 Audio coming soon
Adhikarana aNutailam (25) · Śloka 25
कृष्णभूमिकेदारं रोहिणीकाष्ठैर्नातिशुष्कैर्दाहयेत्| उप लिप्य च गोमयेन पुनः ख़दिरकाष्ठैर्दग्ध्वा तद्भस्मा पनीय तत्र शीतीभुते तैलं निषेचयेत्| उषितं च निशां ख़ानयेत्| तामनुगततैलां मृत्तिकामादाय पञ्चमूलेन सह क्वाथयेत्| तमपि क्वाथं परिस्रुतमष्टगुणेन पयसा तैला वशेषं पाचयेत्| एतदप्यणुतैलं नावनात् सर्ववातव्याधि हरम्||२५||
🔊 Audio coming soon
Adhikarana aNutailaM dvitIyam (26) · Śloka 26
तद्वच्च पञ्चमूलकाष्ठैर्दध्वा भस्मापनीय विदार्यादिसिद्धेन तैलेन शतशो निषिच्य पूर्ववन्मृदमादायोष्णोकवति कटाहेऽभ्यासिच्च तैलं पाणिना पिचुना वा गृहीत्व वात हरौषधक्वाथमांसरसक्षीराम्लभागसहस्रेण सहस्रपाकं साधयेद्यावता कालेन शक्नुयात् पक्तुं प्रतिवापश्चात्र हैमवता दक्षिणापथगा चाश्वगन्धावातग़्नानि च द्रव्याणि| सिध्यति चास्मिन् शङ्कमाध्मपयेत्| दुन्दुभीन् वादयेत्| ब्रह्मणानध्यापयेत् भोजयेत्| छत्रं धारयेत्| बालव्य जनैश्च बीजयेत्| तत्सिद्धं नस्यपानाभ्यङ्गबस्तिषु प्रयुञ्जीत| एतत्सहस्रपाकमनिवार्यवीर्यं तैलमेवं भागशतपक्वं शत पाकम्| अभीक्ष्णं च स्वदयेत्| ततः स्निग्धस्विन्नस्य श्लक्ष्णस्य मृदुनश्चर्मणो वाससो वा चतुरङ्गुलविस्तृता भिः पट्टिकाभिर्वक्रीभूतप्रदेशावगृह्ण सर्वतो वेष्टयेत् बध्नी यात्| निशि बद्ध्वा दिवा मुञ्चेद्दिवा वा निशि| मोक्षान्ते चोत्कारिकाभिः सुस्निग्धाभिर्वातग़्नप्रक्लृप्ताभिः स्वेद येत्| अव्यथं च प्रतिलोमं प्रमार्जयन्नृजुकुर्वंश्च पुनर्बध्नी यात्| एवं सप्तरात्रम्| सशोफे तु वमनमाचरेत्| सदा हरागे बलवतः सिराव्यधम्| ग़ृतक्षीरबस्तिसेकान् वात पित्तग़्नक्रियां च||२६||
🔊 Audio coming soon
Adhikarana ekA~ggaroge (27) · Śloka 27
एकाङ्गरोगिणमम्लानगात्रं स्नेहस्वेदोपपन्नं मृदुना संशो धनेन संशोध्यानुवास्यास्थाप्य चोक्षेपकविधानेनोपचरेत्| विशेषतो बलातैलमनुवासनार्थे| दोषसंसर्गे यथासंसर्गम्| कुक्कुटीं वा रसायनविधानेनोपयुञ्जीत||२७||
🔊 Audio coming soon
Adhikarana apabAhukAdau (28) · Śloka 28
अपबाहुके नावनमूर्ध्वभक्तं च निरामे स्नेहपानम्| विश्व भीप्रभृतिषु पाददाहान्तेषु यथोक्तां सिरां विद्ध्वा वात व्याधिवदुपाचरेत्||२८||
🔊 Audio coming soon
Adhikarana Urustambhe kramaH (29) · Śloka 29
ऊरुस्तम्भे तु स्नेहासृक्स्राववमनविरेचनबस्तिकर्माणि परिहरेत्| आमश्लेष्मणा सह तेषां विरोधात्| ऊरुलीनानां वायुना स्तब्धानां च वमनदिभिरुर्ध्वं नेतुमम्भसामिव निम्नात् स्थलमशक्यत्वात्| ततस्तत्र तु बहुशः शमन शोषणानि युक्त्यावेक्ष्य युञ्जीत| रूक्षोपचारान् यव श्यामाककोद्रवोद्दालकमलवणमल्पतैलसिद्धं शाकं क्षारारिष्टमधूदकानि च शीलयेत्||२९||
🔊 Audio coming soon
Adhikarana Urustambhe auShadham (30) · Śloka 30
ससैन्धवं वचादिं हरिद्रादिं वत्सकादिं वा| षड्धारणं वा हरीतकीः पिप्पलीर्वा| शार्ङ्गाष्ठामदनदन्तीवत्सकं वा| स्वादुकण्टकारग्वधदार्वीमदुबकपाठाकरञ्जकूल कचूर्णं वा सक्षौद्रं मस्तुना पिबेत्| चित्रकदेवदारुकु ष्ठपाठातिक्तकरोहिणीर्वा मधुना लिह्यात्| त्रिफला पिप्पलीमुस्तचविकाकटुरोहिणीर्वा| स्वेदांश्च रूक्षान् कुर्यात्||३०||
🔊 Audio coming soon
Adhikarana atyapatRupte tarpaNam (31) · Śloka 31
अत्यपतृप्तं तु रूक्षं क्षाममनिद्रं जाङ्गलरसैः शालि भिश्च तर्पयेत्| सर्षपतैलं वा सरलकुष्ठश्रीवेष्टकसुर दारुनागकेसराजगन्धासिद्धं सक्षौद्रं पिबेत्||३१||
🔊 Audio coming soon
Adhikarana sasaindhavAditalam (32) · Śloka 32
ससैन्धवपलं शुण्ठीचित्रकपिप्पलीमूलानां पृथग्द्विपलं दश भल्लातकास्थीनि कल्कीकृत्यैकध्यमारनालाढकेन सह तैलप्रस्थं पचेत्| तत्सर्ववातविकारेशु पथ्यं विशेषा दूरुस्तम्भार्शोगृध्रसीग़्नमपथ्यदञ्च||३२||
🔊 Audio coming soon
Adhikarana bAhyopacArAH (33) · Śloka 33
बहिरपि श्लेष्मक्षपणाय क्षौद्रसर्षपरकरञ्जफलवल्मी कमृद्गोमूत्रैरुष्णैर्लेपयेत्| सौभाञ्जनतक्कारीद्वयसरला र्जुनकरञ्जाढकीगोक्षुरकैर्लेपोन्मर्दनसेकान् कुर्यात्| व्या यामैश्च विविधैर्मेदः क्षपयेत्| स्थालान्युल्लङ्ग़येत्| प्रति स्रोतः सरितमव्यालां तरेत्| एवमूरुस्तम्भो हि शुष्के श्लेष्मणि प्रशाम्यतीति||३३||
🔊 Audio coming soon
Adhikarana sAmAnyopacAraH sahacarAditailaM rAsnAdighRuta~jca (34) · Śloka 34
भवति चात्र- सहचरं सुरदारु सनागरं क्वथितमम्भसि तैलविमिश्रितम्| पवननीडितदेहगतिः पिबन् द्रुतविलिम्भितगो भवतीच्छया| रास्नामहौषधद्वीपि पिप्पलीषठिपौष्करम्| पिष्ट्वा विपाचयेत्सर्पिर्वातरोगहरं परम्||३४||
🔊 Audio coming soon
Adhikarana pa~jcatiktaM ghRutam (35) · Śloka 36
निम्बामृतावृषपटोलनिदग्धिकानां भागान् पृथग्दशपलान् विपचेद् घटेऽपाम्| अष्टांशशेषितरसेन पुनश्च तेन प्रस्थं घृतस्य विपचेत् पिचुभागकल्कैः| पाठाविडङ्गसुरदारुगजोपकुल्या द्विक्षारनागरनिशामिसिचव्य्गकुष्ठैः| तेजोवतीमरिचवत्सकदीप्यकाग्नि रोहिण्यरुष्करवचाकणमूलयुक्तैः| मञ्जिष्ठयातिविषया विषया यवान्या संशुद्धगुग्गुलुपलैरपि पञ्चसङ्ख्यैः| तत् सेवितं विधमति प्रबलं समीरं सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक्| नाडीव्रणार्बुदभगन्दरगण्डमाला जत्रूर्ध्वसर्वगदगुल्मगुदोत्थमेहान्| यक्ष्मारुचिश्वसनपीनसकासशोष हृत्पाण्डुरोगमदविद्रधिवातरक्तम्||३५|| ह्|३६|
🔊 Audio coming soon
Adhikarana dashamUlaghRutam (36) · Śloka 36
द्रोणेऽम्भसः पचेद्भागान् दशमूलच्चतुष्पलान्| यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह| पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः| तद्वत्ख़र्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः| सक्षीरैः सर्पिषः प्रस्थं सिद्धं केवलवातनुत्| योज्यो निरत्ययः पाननस्याभ्यञ्जनबस्तिषु||३६||
🔊 Audio coming soon
Adhikarana nasyam (snehanasyam) (37) · Śloka 37
बलाविल्वशृते क्षीरे घृतमण्डं विपाचयेत्| तस्य शुक्तिः प्रकुञ्चो वा नस्यं वाते शिरोगते| तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मबुलूकजा| प्रत्यग्रा विधिनानेन नस्यपानेशु योजयेत्||३७||
🔊 Audio coming soon
Adhikarana jIrNapiNyAkAditailam (38) · Śloka 38
जीर्णं पिण्याकं पञ्चमूलं पृथक् च क्वाथं क्वाथाभ्यामेकतस्तैलमाभ्याम्| क्षीरादष्टांशं पायचेत्तेन पाना द्वाता नश्येयुः श्लेष्मयुक्ता विशेषात्||३८||
🔊 Audio coming soon
Adhikarana sahacarAditailamaparam (39) · Śloka 39
समूलशाख़स्य सहाचरस्य तुलां समेतां दशमूलतश्च| अभीरुमूलाच्च तुलार्धमेतद ष्टांशशेषं विपचेद्वहेऽपाम्| तत्र सेव्यनख़कुष्ठहिमैला स्पृक्प्रयङ्गुनलिकाम्बुशिलाजैः| लोहितानलदलोहसुराह्वैः कोपनामिसितुरुष्कनतैश्च| तुल्यक्षीरं पालिकैस्तैलपात्रं सिद्धं कृच्छ्रान् शीलितं हन्ति वातान्| कम्पाक्षेपस्तम्भशेषादियुक्तान् गुल्मोन्मादौ पीनसान् योनिरोगान्|३९|
🔊 Audio coming soon
Adhikarana ketakimUlAditailam lashunAditailam (39) · Śloka 39
केतकिमूलबलातिबलानां यद्बहलेन रसेन विपक्वम्| तैलमनल्पतुषोदकयुक्तं मारुतमस्थिगतं तदपोहेत्| तुलां लशुनकन्दस्य तुलार्धं जाङ्गलात् पलात्| दशमूलाच्च विपचेद्भागान् पञ्चपलान् पृथक्| तोयार्मणेन पादस्थे समं तैलं पयो दधि| तत्र दद्यात्पलांशांश्च रास्नामधुकजीवकान्| मिसिस्थिरामहामेदाचपलातिविषाबलाः| काकोलीपौष्करं मूलमश्वगन्धा च साधितम्| तत्परं वातरोगग़्नं गुल्मानाहार्तिशूलनुत्| भग्नजर्जरिताङ्गानां पथ्यमग्नेश्च दीपनम्|३९|
🔊 Audio coming soon
Adhikarana prasAriNItailam (39) · Śloka 39
समूलजालां विपचेत् प्रसारिणीं तुलोन्मितां पादधृते घटेऽम्भसः| पृथक्सतैलं दधि तत्समं क्षिपेत् समं च ताभ्यां विजयां ततः पिबेत्| प्रसारिणीजीवकसिन्धुजन्म यष्ट्याह्वरास्नाग्निकयावशूकैः| सग्रन्थिकाख्यैर्द्विपलैः सुपिष्टैः भल्लातकानां दशकैस्त्रिभिश्च| शुण्ठीपलत्रययुतैर्विनिहन्ति पान नस्यादिभिस्तदखिलान् मरुतो विकारान्| कुष्ठप्रमेहहतनाममनोविकार श्वासास्थिभङ्गजठरक्रिमिबीजदोषान्||३९||
🔊 Audio coming soon
Adhikarana bhejasammataM sahacaratailam (40) · Śloka 40
पचेत् सहाचरतुलां जलद्रोणचतुष्टये| द्रोणशेशे समक्षीरे तत्र तैलाढकं पचेत्| सहाचरस्य मूलानां कल्कितैर्दशभिः पलैः| अथव नलषड्ग्रन्थिस्थिराकुष्ठसुराह्वयात्| सैलानलदशैलेयशतह्वारक्तचन्दनात्| सिद्धेऽस्मिन् शर्कराचूर्णादष्ठादशपलं क्षिपेत्| भेलस्य सम्मतं तैलं तत् कृच्छ्राननिलामयान्| वातकुण्डलिकोन्मादभूतापस्मारवर्ध्म च| गुल्महृद्रोगगदुर्नामयोनिरोगांश्च नाशयेत्||४०||
🔊 Audio coming soon
Adhikarana shvadaMShTrakakaShAyaH (41) · Śloka 41
श्वदंष्ट्रककषायस्य प्रस्थौ द्वौ पयसा समौ| षट्पलं शृङ्गिवेरस्य गुडस्य च पलाष्टकम्| तैलप्रस्थं विपक्वं तद्दद्यात् सर्वानिलार्तिषु||४१||
🔊 Audio coming soon
Adhikarana balAtailam (42) · Śloka 42
बलाशतं छिन्नरुहापादं रास्नाष्टभागिकम्| जलाढकशते पक्त्वा शतभागस्थिते रसे| दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः| पचेत्सजपयोर्धांशं कल्कैरेभिः पलोन्मितैः| शठीसरलदार्वेलामञ्जिष्ठागरुचन्दनैः| पद्मकातिबलामुस्तासूप्यपर्णिहरेणुभिः| यष्ट्याह्वसुरसव्याग़्रनख़र्षभकजीवकैः| पलाशरसकस्तूरीनलिकाजातिकोषकैः| स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभिः| त्वक्कुन्दुरुष्ककर्पूरतुरुष्कश्रीनिवासकैः| लवङ्गनख़तक्कोलकुष्ठमांसीप्रियङ्गुभिः| स्थौणेयतगरध्यामवचामदनकधवैः| सनागकेसरैः सिद्धे दर्द्याच्चात्रावतारिते| पन्नकल्कं ततः पूतं विधिना तत्प्रयोजितम्| श्वासं कासं ज्वरं मूर्च्छां छर्दिं तृष्णां क्षतं क्षयम्| प्लीहशोषापस्मारमलक्ष्मीं च प्रणाशयेत्| बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम्||४२||
🔊 Audio coming soon
Adhikarana amRutAhvaM tailam (43) · Śloka 43
अमृतायास्तुलाः पञ्च पचेत्तोयवहद्वये| पादशेषे समक्षीरं तैलस्य द्व्याढकं पचेत्| एलामांसीनतोशीरसारिवाकुष्ठचन्दनैः| शतपुष्पाबलामेदामहामेदर्धिजीवकैः| काकोलीक्षीरकाकोलीश्रावण्यतिबलानख़ैः| महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः| शतावरीतामलकीकर्कटह्वाहरेणुभिः| वचागोक्षुरकैरण्डरास्नाकालासहाचरैः| वीरामहैलर्षभकत्रिदशाह्वैश्च कार्षिकैः| मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन च| कल्कैस्तत्क्षीणवीर्याग्निबलसम्मूढचेतसः| उन्मादारत्यपस्मारैरार्तांश्च प्रकृतिं नयेत्| वातव्याधिहरं श्रेष्ठं तैलाग्र्यममृताहवम्||४३||
🔊 Audio coming soon
Adhikarana rAsnAditailAni (44) · Śloka 44
रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत्| गन्धैर्हैमवतैः पिष्टैरेलाद्यैरश्चानिलार्तिनुत्| एष कल्पोऽश्वगन्धाया बलातिबलयोरपि||४४||
🔊 Audio coming soon
Adhikarana tailAntarANi (45) · Śloka 45
क्वाथकल्कपयोर्भिर्वा बलादीनां पृथक्पचेत्| यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः| रसेन मूलकानां च तैलं दधिपयोन्वितम्| साधयेत्तत् परं सर्वपवनव्याधिभेषजम्| यच्च शीतज्वरे तैलमगुर्वाद्यमुदाहृतम्| सहस्रशतशः पक्त्वा सिद्धं वातामयापहम्||४५||
🔊 Audio coming soon
Adhikarana phalatrikAdimahAsnehaH (46) · Śloka 46
फलत्रिकस्य प्रस्थं स्यात्कुलत्थं कुडवद्वयम्| कृष्णगन्धात्वगाढक्योः पृथक्पञ्चपलानि तु| रास्नाचित्रकयोर्द्वे द्वे दशमूलात् पलं पलम्| जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक्| सुरारनालदध्यम्लसौवीरकतुषोदकम्| कोलदाडिमवृक्षाम्लरसं क्षीरं वसां नवाम्| मज्जानं तैलमाज्यं च जीवनीयपलानि षट्| कल्कमेकत्र तत्सिद्धं सिद्धं शुद्धानिलामये| सिरापर्वास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु| वेपनाक्षेपशूलेषु तमभ्यङ्गं प्रयोजयेत्||४६||
🔊 Audio coming soon
Adhikarana AnUpajAdyasthisiddhaM tailam (47) · Śloka 47
आनूपजाङ्गलोत्थानामस्थीनि विपचेज्जले| तत्स्नेहं दशमूलस्य कशायेण पुनः पचेत्| जीवकर्षभकास्फोतविदारीकपिकच्छुभिः| वातग़्नैर्दीपनीयैश्च कल्कैर्द्विक्षीरभागिकैः| सिरापर्वास्थिकोष्ठस्थं पानाद्यैर्हन्ति तच्चलम्| क्षीणौजोमज्जशुक्राणामेतत् स्यादमृतोपमम्||४७||
🔊 Audio coming soon
Adhikarana snehapAnaprashaMsA (48) · Śloka 48
पाने नस्येऽन्वासनेऽभ्यञ्जने च स्नेहाः काले सम्यगेते प्रयुक्ताः| दुष्टान् वातानाशु शान्तिं नयेयु र्वन्ध्या नारी पुत्रभाजश्च कुर्युः||४८||
🔊 Audio coming soon
Adhikarana bastikAlanirdeshaH (49-50) · Śloka 50
स्नेहस्वेदैर्दुतः श्लेष्मा यदा पक्वाशये स्थितः| पित्तं वा दर्शयद्रूपं बस्तिभिस्तं विनिर्जयेत्||४९|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने वात व्याधिचिकित्सितन्नाम त्रयोविंशोऽध्यायः||५०||
🔊 Audio coming soon