Adhikarana athA~arshonidAnaM nAma saptamo~adhyAyaH | pratij~jA (1) · Śloka 1
अथातोऽर्शसां निदानं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
प्राणायतनाश्रयत्वसामान्यान्मदात्यय-निदानानन्तरमर्शोनिर्णयायाध्यायारम्भः|| १||
Adhikarana arshonirvacanaM tatsvarUpAdi ca (2) · Śloka 2
अरिवद्विशसन्तीत्यर्शांसि|
तानि पुनर्बहुप्रकाराणि|
सुबहूपद्रवाणि च|
पायुमेढ्रादिसंश्रया मांसकीलाः||२||
अरिवदिति| अनेकप्रकाराः पाय्वादिषु मांसकीलाः| अरिवच्छत्रुवद्विशसनादर्शांसीत्युच्यन्ते|| २||
Adhikarana arshasAM dvividhairdvaividhyam (3) · Śloka 3
समासतस्तु द्विविधान्यर्शांसि|
सहजानि जन्मोत्तरकालजानि च|
पुनश्च द्विविधानि|
शुष्काण्यार्द्राणि च||३||
सुबोधम्|| ३||
Adhikarana arshasAmadhiShThAnam (4) · Śloka 4
सर्वेषाम् पुनरधिष्ठानं मेदो मांसं त्वक्च||४||
००
Adhikarana gudavarNanam (5) · Śloka 5
स्थूलान्त्रप्रतिबद्धोऽर्धपञ्चाङ्गुलो हि गुदः|
तस्मिन् पूर्वमुक्ता वलीसंज्ञास्तिस्त्रः पेश्योऽध्यर्धाङ्गुलाः|
ताः प्रवाहिणी विसर्जनी संवरणी च|
रोमान्तादध्यर्धयवं गुदौष्ठमाहुः||५||
पूर्वामित्यङ्गविभागे ( अ. सं. शा. - ३३० )| ताः प्रवाहिणी विसर्जनी संवरणी च| रोमान्ताध्यर्धयवं गुदौष्ठमाहुः| बाह्याद्रोमान्तादध्यर्धयवमानो गुदौष्ठो भवति| विभागपरिज्ञानायैतत् प्रदर्शितम्|| ५||
Adhikarana prathamabalIsthAnam (6) · Śloka 6
प्रथमा तु गुदौष्ठादङ्गुलमात्रे||६||
गुदोष्ठादध्यर्धयवमानान्तरेऽङ्गुलमात्रे प्रथमा बली|| ६||
Adhikarana sahajArshasAM heturasAdhyatva~jca (7) · Śloka 7
तत्र साहजानां गुदवलीबीजोपतप्तिरायतनम्|
तस्या द्विविधो हेतुर्मातापित्रोरपचारो दैवं च|
ताभ्यां सन्निपातप्रकोपः|
तस्मात् तान्यसाध्यानि||७||
पुरुषस्याधानकाले येन बीजांशेन वलय उत्पद्यन्ते तस्य दोषैरुपतप्तिः सहजानामर्शसां हेतुः| तस्य इत्युपतप्तेः| ताभ्यामिति मातापित्रपचारदैवाभ्याम्| तस्मादिति विशिष्टबीजोपतापात्| तानीति सहजानि|| ७||
Adhikarana kulajavyAdhInAmasAdhyatvam (8) · Śloka 8
एतेन कुलजाः सर्वे विकारा व्याख्याताः||८||
एतेनेत्यादिना बीजोपतापहेतुत्वेन सर्वेषां कुलजानां व्याधीनामसाध्यत्वं व्याख्यातम्|| ८||
Adhikarana sahajArshasAM visheShalakShaNam (9) · Śloka 9
विशेषतस्तु सहजानि दुर्दर्शनपरुषपाण्डूपचितदारुणान्यन्तर्मुखानि बहूपद्रवोपद्रुतानि भवन्ति||९||
सामान्यार्शोलक्षणसम्भवेऽपि सहजानां दुर्दर्शनत्वादिनातिशयः| दुर्दर्शनानि यन्त्रप्रवेशमार्जनादौ द्रष्टुं नार्हन्तीति|| ९||
Adhikarana janmottarajArshasAM ShaDvidhatvam (10) · Śloka 10
अथेतराणि षड्विधानि|
पृथग्दोषैः संसृष्टैः सन्निपतितैः शोणितेन च||१०||
इतराणि जन्मन उत्तरकालभावीनि| पृथग्दोषविभेदेन षड्विधानि षट्प्रकाराणि| संसर्गे एकजातित्वात् पूर्वाचार्य्यानुरोधेनैकत्वमुक्तम्|| १०||
Adhikarana arshassu shuShkatvArdratvayorhetuH (11) · Śloka 11
तत्र वातश्लेष्मोत्तराणि शुष्काणि|
रक्तपित्तोत्तराण्यार्द्राणि||११||
सर्वेषां चाऽऽर्शसाम् वातश्लेष्मान्वयाच्छुष्कत्वं भवति| रक्तपित्ताऽन्वयाच्चार्द्रत्वम्|| ११||
Adhikarana arshasAM nidAnaM samprAptishca (12) · Śloka 12
दोषप्रकोपहेतुस्तु प्रागुक्तः|
स यदा मलोपचयमादधाति|
पुनश्चोत्कटकविषमकठिनासनसेवनादुद्भ्रान्तयानोष्ट्रादिप्रयाणादतिव्यवायाद्वस्तिनेत्रासम्यक्प्रणिधानादिना गुदक्षणनादभीक्ष्णं शीताम्बुसंस्पर्शाच्चैललोष्ठतृणादिसङ्घर्षात्|
प्रततातिप्रवाहणाद्वातमूत्रपुरीषवेगोदीरणधारणात्स्त्रीणां चाऽऽगर्भर्भ्रंशाद्गर्भोत्पीडनाद्विषमप्रसूतेरेवंविधैश्चापरैः कुपितो वायुरपानस्तं मलमुपचितमधोगतमासाद्य गुदवलीष्वाधत्ते|
ततस्तास्वभिष्यण्णास्वर्शांसि सम्भवन्ति||१२||
प्रागुक्तः सर्वरोगनिदाने तिक्तकटुकेत्यादिना ( अ. सं. नि. - २६-३१ ) सामान्यदोषकोपहेतुः| स यदा मलानां वातदीनामुपचयं वृद्धत्वमादधाति| पुनश्चोत्कटकासनादिनाऽपानो वायुः कुपितस्तमुपचितं मलं दोषं संहृत्य गुदवलीष्वाधते| तदा तेन दोषेण तासु गुदवलीष्वभिष्यण्णासु शिथिलीकृतास्वर्शांसि सम्भवन्तीत्येवमर्शसां सम्प्राप्तिर्निदानं चोक्तम्|| १२||
Adhikarana arshasAM pUrvarUpam (13) · Śloka 13
तेषापूर्वरूपाणि कृच्छ्रात् पक्तिरान्त्रकूजनमुद्गारबाहुल्यमम्लकोऽन्नाश्रद्धा-विष्टम्भोऽश्मगर्भाभनाभित्वमाटोपोऽधस्तात्कृच्छ्रेण सशब्दस्य च वायोः प्रवृत्तिर्बहुमूत्रत्वमल्पपुरीषता गुदपरिकर्त्तन सविथसदनमक्ष्णोः श्वयथुरविमलेन्द्रियत्वमालस्यं तन्द्रा कार्श्यं दौर्बल्यमाशङ्काग्रहणीदोषशोफोदर-पाण्डुरोगगुल्मेषु||१३||
तेषां जन्मोत्तरकालभाविनामर्शसां कृच्छ्रात् पक्तिरित्यादीनि पुर्वरूपाणि| सुबोधम्| ग्रहणीदोषादिष्वाऽऽशङ्का स्तोकंस्तोकं तल्लक्षणयुक्तत्वात्|| १३||
Adhikarana arshasAM rUpANi (14) · Śloka 14
जातेषु चैतानि लिङ्गानि प्रव्यक्ततराणि भवन्ति||१४||
जातेषु त्वर्शस्सु एतानि कृच्छ्रात् पक्तिरित्याद्युक्तानि प्रव्यक्ततरणि भवन्तीत्युक्तानि लिङ्गानि|| १४||
Adhikarana arshobhiranalavyApatteH samprAptiH (15) · Śloka 15
तैः खल्वधोमार्गोपरोधाद्वायुरपानो निवर्त्तमानः समानव्यानोदानप्रणान् पित्तश्लेष्माणौ च प्रकोपयन्नलमुपमृद्नाति||१५||
तैरर्शोभी रूद्धोऽपानो वायुः प्रतिनिवृत्तः समानादीन् क्रमेण कोपयन्ननलमुपमृद्नाति नाशयति|| १५||
Adhikarana arshasAM sAmAnyalakShaNam (16) · Śloka 16
अथ सर्व एवर्शसो भवत्यतिकृशो विवर्णः क्षामो दीनः प्रचुरविबद्धवातमूत्रपुरीषोऽश्मरीशर्करावान् अनियतविबद्धमुक्तामपक्वभिन्नशुष्कवर्चास्तथान्तरान्तराऽऽमश्वेतपाण्दुहरितपीतरक्तारुणतनुसान्द्रपिच्छलोपवेशी नाभिवंक्षणोद्देशप्रचुरपरिकर्तिकाऽन्वितः सगुदशूलप्रवाहिकाप्रहर्षप्रमोहोऽल्पशुक्रप्रजोऽल्पशुभुक् सिरासन्ततगात्रः क्रोधनो दुरुपचारः कासश्वासपीनसतृष्णाऽरोचकपाणिपादवदनाऽक्षिकूटश्वयथुक्षवथुवेपथुवमथुपरीतस्तैमिरिकः शिरः शीली क्षामभिन्नस्वरः कर्णरोगी सज्वरः साङ्गमर्दः सर्वपर्वाऽस्थिशूलोऽन्तरान्तरा हृदयकुक्षिपार्श्वपृष्ठबस्तित्रिकग्रहोपतप्तः प्रध्यानपरः परमलसश्च||१६||
सर्वोऽर्शशः सहजाऽर्शोभिर्युक्त उत्तरकालाभाविभिर्वाऽप्युपतप्तः अतिकृशादिरूपो भवति| अर्शांसि विद्यन्ते यस्य सोऽर्शः| अर्शआदिभ्योऽच् प्रत्ययः| प्रचुरा प्रभूताः प्रबद्धा असम्यक् प्रवृत्ता वा तादयो यस्य| अश्मीरशर्करयोर्विशेषो वक्ष्यते ( अ. सं. नि. - ३२९ )| विबद्धमुक्तादित्वेनाऽनियतरूपं वर्चः पुरीषं यस्य स तथोक्तः| समन्ताच्छेदनं परिकर्त्तिका| दुःखेन परिचारकैरुपचर्य्यत इति दुरुपचारः| अन्ताराऽन्तरेति कादा चित्कत्वलक्षणाय|| १६||
Adhikarana vAtolbaNArshasAM lakShaNam (17) · Śloka 17
तत्र वातोल्बणानि शुष्कम्लानकठिनपरुषरूक्षश्यावारूणानि तीक्ष्णस्फ़ुटितमुखानि विषममध्यानि कदम्बपुष्पतुण्डिकेरीकर्कन्धूसिद्धार्थबिम्बीखर्जूरफ़लप्रमाणनि वक्रणि मिथो विसदृशानि कटिपार्श्वादिष्वधिकवेदनानि सशूलोदावर्त्तकराणि गुल्माष्ठीलाप्लीहोदराणि चाऽस्य तन्निमित्तान्येव कृष्णत्वङ्नखनयनवदनमलाश्च भवन्ति||१७||
तत्रेत्यादिना वातोल्बणानां विशेषलक्षणम्| मिथोविसदृशानि परस्परविलक्षणानि| गुल्मादीनि चास्य तन्निमित्तान्यर्शोनिमितान्येव भवन्ति| रोगश्च रोगस्य हेतुर्भवतीत्युक्तम् ( अ. सं. सू. - २२; च. नि. - २१)|| १७||
Adhikarana pittolbaNArshasAM lakShaNam (18) · Śloka 18
पित्तोल्बणानि नीलाग्राणि रक्तपीतकृष्णानि मृदुशिथिलानि स्पर्शाऽसहानि विस्त्रगन्धीनि तनूनि तनुरक्तस्त्रावीणि दाहपाकवन्तिज्वरमोहारुचिकराणि यकृतप्रकाशानि शुकजिह्वाजलौकावक्त्रसदृशानि यवमध्यानि प्रक्लिन्नानि भिन्नपीतवर्चांसि हारिद्रत्वङ्नखादिकराणि च||१८||
नीलाग्राणीत्यादि पित्तोल्बणानां विशेषलक्षणम्| सुबोधम्||१८||
Adhikarana shleShmolbaNArshasAM lakShaNam (2) · Śloka 2
श्लेष्मोल्बणानि महामूलानि स्थिरस्निग्धपाण्डुवृत्तोपचितानि गुरुस्तब्धश्लक्ष्णपिच्छिलानि सुप्तसुप्तानि स्पर्शक्षमानि करीरपनसास्थिगोस्तनाकाराण्यतिमात्रोत्थानप्रवाहिकावंक्षणानाहानाभिपरिकर्तिकाहृल्लासप्रसेककासश्वास पीनसाऽरुचिच्छर्दिकृच्छ्रमूत्रप्रमेहशीतज्वरशोफशिरोगौरवेन्द्रियोपलेपाग्निमार्दवक्लैब्यामविकारप्रबलानि न भिद्यन्ते न स्रवन्ति कण्डूबहुलानि सश्लेष्मवसाकप्रकाशातिमलोपवेशीनि शुक्लत्वङ्नखादिकराणि च|
१९-२०||२||
००
Adhikarana saMsargasannipAtArshasAM lakShaNam (21) · Śloka 21
लक्षणसंकारात्संसर्गसन्निपातजानि विभजेत्||२१||
००
Adhikarana raktArshasAM lakShaNam (22) · Śloka 22
रक्तोल्बणनि तु वटप्ररोहविद्रुमकाकनन्दिकाफ़लाभानि पित्तलक्षणानि च|
तथा गाढपुरीषप्रतिपीडितान्यत्यर्थं दुष्टमुष्णमसृक् सहसा विसृजन्ति|
तस्याऽतिप्रवृत्तौ रक्तक्षयोपद्रवाः भवन्तिति||२२||
रक्तोल्बणानां विशेषलक्षणम्| सुबोधम्| काकनन्दिका गुञ्जा| पित्तलक्षणनि पित्तोल्बणाऽर्शोलक्षणानि| रक्तक्षयोपद्रवाः शिरोऽभितापादयः| इति सङ्कुलार्थप्रकाशनाय वैचित्र्याय च तन्त्रकृता गद्यबन्धः कृतः || २२||
Adhikarana arshasAmupadravabhUtodAvarttanidAnAdilakShaNam (23) · Śloka 23
भवति चात्र श्लोकः मुद्गकोद्रवजूर्णाह्वकरीरचणकादिभिः|
रूक्षैः संग्राहिभिर्वायुः स्वे स्थाने कुपितो बली|
अधोवहानि स्त्रोतांसि संरुयाधः प्रशोषयन्|
पुरीषं वातविण्मूत्रसङ्गं कुर्वीत दारुणम्|
तेन तीव्ररूजा कोष्ठपृहृत्पार्श्वगा भवेत्|
आध्मानमुदरावेष्ठो हृल्लासः परिकर्त्तनम्|
बस्तौ च सुतरां शूलं गण्डे श्वयथुसम्भवः|
पवनस्योर्ध्वगामित्वं ततश्छर्द्यरुचिज्वराः|
हृद्रोगग्रहणीदोषमूत्रसङ्गप्रवाहिकः|
बाधिर्य्यतिमिरश्वासशिरोरुक्कासपीनसः|
मनोविकास्तृष्णाऽस्त्रापित्तगुल्मोदरादयः|
ते ते च वातजा रोगा जायन्ते भृशदारुणाः|
दुर्नाम्नामित्युदावर्तः परमोऽयमुपद्रवह्|
वाताभिभूतकोष्ठानां तैर्विनापि स जायते||२३||
अनन्तरमर्शसामुपद्रवस्योदावर्त्ताख्यस्य मुद्गेत्यादिना हेत्वादिकमुच्यतेमुद्गेत्यादि| आदिशब्देन मसूरादीनां ग्रहणम्| एतैरन्यैश्च रूक्षैः संग्राहिभिर्वायुरपानाख्यः| स्वे स्थाने नाभेरधः| तेनेति वातादिसङ्गेन| तत ऊर्ध्वं गतात् पवनात् छर्द्यादयो जायन्ते| अयमुदावर्तो दुर्नाम्नामर्शसामुपद्रवत्वेन जायते| स उदावर्त्तो वाताभिभूतकोष्ठानां तैर्दुर्नामभिर्विनाऽपि जायते|| २३||
Adhikarana asAdhyayApyA~arshAMsi (24) · Śloka 24
सहजानि त्रिदोषाणि यानि चाऽभ्यन्तरे बली|
स्थितानि तान्यसाध्यनि याप्यन्तेऽग्निबलादिभिः||२४||
अर्शमामसाध्यादीनां सहजानीत्यादिनाऽसाध्यादिलक्षणमुच्यतेसहजानीत्यादि| सहजान्यर्शांसि शुक्रार्त्तवदोषान्वयानि वलीबीजोपतापजातानीत्यर्थः| तथा त्रिदोषजानि गर्भजानि जातजान्यपि| आभ्यन्तरे वलौ यानि स्थितानि एकदोषद्विदोषजानि तानि सर्वाण्यसाध्यानि| वलीशब्दः स्त्रीपुँल्लिङ्गः|| २४||
Adhikarana kRucchrasAdhyArshAMsi (25) · Śloka 25
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च|
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च||२५||
द्वन्द्वजादीनि सर्वाणि च संवत्सरमचिकित्सितानि च कृच्छ्रसाध्यानि|| २५||
Adhikarana sukhasAdhyArshAMsi (26) · Śloka 26
बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च|
अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च||२६||
बाह्यादीन्यभिनवोत्पन्नानि च सुखासाध्यानीत्युक्तानि गुदजान्यर्शांसि|| २६||
Adhikarana meDhrAdijArshAMsi svarUpam (27) · Śloka 27
मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं.........||२७||
मेढ्रादिष्वपि गुह्यरोगादौ वक्ष्यन्ते ( अ सं उ प्र-३० ) तथा नासारोगे कर्णरोगे ( अ. सं. उ. - २३; अ. सं. उ. - २१ ) च|| २७||
Adhikarana nAbhijAnAmarshasAM lakShaNAni (28) · Śloka 28
................... नाभिजानि तु|
गण्डूपदाऽस्यरूपाणि पिच्छिलानि मृदूनि च||२८||
नाभिजानि त्वर्शांसि गण्डूपदमुखसदृशत्वादियुक्तानि|
Adhikarana carmakIlam, carmakIlasya lakShaNaM samprAptishca (29) · Śloka 29
व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः|
कीलोपमं स्थिरखरं चर्मकीलं तु तं विदुः||२९||
गुदात् बहिस्त्वचो व्यानो यदर्शः करोति तदाऽऽचार्य्याश्चर्मकीलं विदुः|| २९||
Adhikarana vAtAdibhedena carmakIla lakShaNam (30) · Śloka 30
वातेन तोदपारुष्यं पित्तादसितरक्तता|
श्लेष्मणा स्निग्धता तस्य ग्रन्थित्वंसवर्णता||३०||
वातेनेत्यादिना चर्मकीललक्षणम्||३०||
Adhikarana arshasAM shIghracikitsyatvam (31-7) · Śloka 7
अर्शसां प्रशमे यत्नमाऽऽशु कुर्वीत बुद्धिमान्|
तान्याऽऽशु हि गुदं बध्वा कुर्य्युर्बद्धगुदोदरम्||३१||
इति वैद्यपतिसिंहपुतस्य सूनोर्वाग्भतस्य कृतावष्टाङ्गसंग्रहसंहितायां निदानस्थाने अर्शोनिदानंनाम सप्तमोऽध्यायः||७||
अर्शसामित्यादिनोपसंहरति| बद्धगुदोदरं वक्ष्यमाणं कुर्र्युरिति|| ३१|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां निदानस्थाने सप्तमोऽध्यायः