Adhikarana atha madAtyayanidAnaM nAma ShaShTho~adhyAyaH | pratij~jA (1) · Śloka 1
अथातो मदात्ययनिदानंनामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
वातकफोहेतुसामान्याद्धातुशोषणसामान्याच्च राजयक्ष्मानन्तरं मदात्ययादिनिर्णयाध्यायारम्भः| मदेनात्ययो मदात्ययः| मदहेतुको व्याधिरित्यर्थः| मदो नाम चित्तधातुविकारः| स च मदकार्य्यम्| मद्यं च यथाकारणतां तत्र प्रतिपद्यते तथा तीक्ष्ण इत्यादिना दर्शयति|| १||
Adhikarana madyaujasorguNAH (2) · Śloka 2
तीक्ष्णोष्णरूक्षासूक्ष्ममाम्लं व्यवाय्याशुकरं लघु|
विकाशि विशदं मद्यमोजसोऽस्माद्विपर्ययः||२||
तीक्ष्णादिगुणदशकसंयुक्तं मद्यम्| तेनास्मान् मद्यात्तीक्ष्णादिगुणविपरीतमन्दादिगुणदशकसंयुक्तस्यौजसौ विपर्य्यय एव||२||
Adhikarana madyatulyatve~api viShasya mArakatve hetuH (3) · Śloka 3
तीक्ष्णादयो विषेऽप्युक्ताश्चित्तोपप्लाविनो गुणाः|
जीवितान्ताय जायन्ते विषे तूत्कर्षवृत्तितः||३||
तीक्ष्णादयो गुणा विषेऽप्युक्ताः| तत्रस्थाश्च ते जीवितान्ताय जायन्ते| तत्र तेषामुत्कर्षवृत्तिहेतुः| अनेनैतत्कथयति-विषं मद्यं सममेवौजसो विपरीतमिति|| ३||
Adhikarana prathamamadaH (4) · Śloka 4
तीक्ष्णादिभिर्गुणैर्मद्यं मन्दादीनोजसो गुणान्|
दशभिर्दशसंक्षोभ्य चेतो नयति विक्रियाम्|
आद्ये मद्ये...............................||४||
अत एव मद्यं तीक्ष्णादिगुणमोजसोः मन्दादिगुणम्; अतो विपर्य्ययान्मद्यं सेवितं तीक्ष्णादिभीः सर्वैर्दशभिर्गुणैरोजसो मन्दादीन् दशापि गुणान् विक्षोभ्य चेतोविक्रियां नयति| अयमाद्यो मदः|| ४||
Adhikarana dvitIyamadaH (5) · Śloka 5
...............द्वितीये तु प्रमादायतने स्थितः|
दुर्विकल्पहतो मूढः सुखमित्यवबुध्यते||५||
ततो मद्यस्याऽतिपानेन द्वितीयो मदो भवति| यस्मिन् प्रमादायतने प्रमादकरणभूते स्थितः पुरुषो दुर्विकल्पहतः सन् मूढस्तदेव सुखमित्यवबुध्यते|| ५||
Adhikarana tRutIyamadaH (6) · Śloka 6
मध्यमोत्तमयोः सन्धिं प्राप्य राजसतामसः|
निरङ्कुश इव व्यालो न किञ्चिन्नाचरेज्जडः||६||
ततोऽपि तृतीयो मदो भवति| यस्य द्वितीयेन तथाविधः सन्धिर्भवति| यं सन्धिं रजस्तमोभ्यां युक्तः सन् पुरुषो निरङ्कुश इव व्यालो न किञ्चिन्नाचरेज्जडः| निरङ्कुशः स्वतन्त्रवृत्तिः व्यालो दुष्टगजः|| ६||
Adhikarana tRutIyamadanindA (7) · Śloka 7
इयं भूमिरवद्यानां दौश्शील्यस्येदमास्पदम्|
एकोऽयं बहुमार्गाया दुर्गतेर्देशिकः परम्||७||
अवद्यानां दोषाणामियं भूमिः| यो मध्यमोत्तमयोः सन्दिग्धः| देशिकः उपदेष्टा|| ७||
Adhikarana sampUrNasya tRutIyamadasya lakShaNam (8) · Śloka 8
निश्चेष्टः शववच्छेते तृतीये तु मदे स्थितः|
मरणादपि पापात्मा गतः पापतरां दशाम्||८||
यदा तु तृतीयं मदं सम्पूर्णं प्राप्नोति तदा सः पापान्मरणादपि पापतरां दशामवस्थां गतो निश्चेष्टः सन् शववच्छेते| एतदेवाऽन्तरोक्तं मदत्रयलक्षणम्|| ८||
Adhikarana madyAsaktAvasthA (9) · Śloka 9
धर्माधर्मं सुखं दुःखमर्थानर्थं हिताहितम्|
यदाऽस्क्तो न जानाति कथं तच्छीलयेद्बुधः||९||
तच्च मद्यं बुधः शीलयितुं नार्हति| यस्मिन्नाऽसक्ते धर्माधर्मादिकं दृष्टफलं न जानाति| तन्मद्यं कथं बुधः शीलयेत्||९||
Adhikarana madyapAne doShAH (10) · Śloka 10
मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रिताः|
सोन्मादमदमूर्च्छायाः साऽपस्मारापतानकाः||१०||
मद्ये नित्यं मोहादयः संश्रिताः तत्कारणत्वात् अपतानको वातव्याधौ वक्ष्यते|| १०||
Adhikarana madyasyA~asAdhutvam (11) · Śloka 11
यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधु यत्|
अयुक्तियुक्तमन्नं हि व्याधये मरणाय वा|
मद्यं त्रिवर्गधीधैर्यलज्जादेरपि नाशनम्||११||
अथवा किं मोहादिभिरुक्तैर्यत्रैकः स्मृतिविभ्रंशस्तत्र यदसाधु तत्सर्वं स्थितमेव| तच्च मद्यमयुक्त्यायुक्तं सुतरामसाधु| तथा चान्नमयुक्तियुक्तं व्याधये भवति| अथवा मरणाय भवति| एतन्न कदाचिददृष्टक्षत्यै| मद्यं पुनरयुक्तियुक्तं त्रिवर्गादिनाशनेऽपि पर्य्याप्तं भवति| धीर्वस्तुग्रहणशक्तिः| धैर्य्यं मनसः स्थिरत्वम्| आदिग्रहणेनान्येषां श्लाघ्यानां गुणानां ग्रहणम्|| ११||
Adhikarana balyAdayo madyena nAtimAdyanti (12) · Śloka 12
नाऽतिमाद्यन्ति बलिनः कृताहारा महाशनाः|
स्निग्धाः सत्ववयोयुक्ता मद्यनित्यास्तदन्वयाः|
मेदः कफ़ाधिका मन्दवातपित्ताः दृढाग्नयः||१२||
तच्च मद्यं न सर्वत्र दोषावहत्वेन सम्भवति| यतो बल्यादयो बहुनापि मद्येन नाऽतिमाद्यन्ति| तदन्वयाः मद्यकुलोत्पन्नाः||१२||
Adhikarana durbalAH amlamadyAdinA cAdimAdyanti (13) · Śloka 13
विपर्ययेऽतिमाद्यन्ति विस्त्रब्धाः कुपिताश्च ये|
मद्येन चाम्लरूक्षेण साऽजीर्णे बहुनाति च||१३||
तत्स्वरूपविपर्य्यये चाऽतिमाद्यन्ति| तथा विस्त्रब्धाः सुविश्वस्ताः तथा कुपिताश्च ये अम्लरूक्षेण च मद्येन सर्व एवातिमाद्यन्ति| इति सम्बन्धः| तथा साऽजीर्णे पीतेनापि| बहुना च पीतेन||१३||
Adhikarana madAtyayaprabhedAH (14) · Śloka 14
वातात्पित्तात्कफात्सर्वैश्चत्वारः स्युर्मदात्ययाः|
सर्वेऽपि सर्वैर्जायन्ते व्यपदेशस्तु भूयसा||१४||
वातादिभिः सन्निपातेन च चत्वारो मदात्ययाः स्युः| सर्वेषामपि त्रिदोषजत्वे भूयसा व्यपदेशः|| १४||
Adhikarana madAtyayasAmAnyalakShaNam (15) · Śloka 15
सामान्यं लक्षणं तेषां प्रमेहा हृदयव्यथा|
विड्भेदः सततं तृष्णा सौम्याग्नेया ज्वरोऽरुचिः|
शिरः पार्श्वास्थिक्कम्पो मर्मभेदस्त्रिकग्रहः|
ज्वरो विबन्धस्तिमिरं कासश्वासप्रजागराः|
स्वेदोऽतिमात्रं विष्टम्भः श्वयथुश्चित्तविभ्रमः|
प्रलापश्छर्दिरुत्क्लेशो भ्रमो दुःस्वप्नदर्शनम्||१५||
सर्वेषां मदात्ययानां प्रमेहादिसाधारणं लिङ्गम्| सौम्याग्नेया ज्वरो यो मिश्रलक्षण इत्युक्तः|| १५||
Adhikarana vAtikamadAtyayalakShaNAni (16) · Śloka 16
विशेषाज्जागरश्वासकम्पमूर्धरुजोऽनिलात्|
स्वप्ने भ्रमत्युत्पतति प्रेतैश्च सह भाषते||१६||
एषु लिङ्गेषु सत्स्वपि वातिके जागरादिकं सातिशयं भवति||१६||
Adhikarana paittikamadAtyayalakShaNAni (17) · Śloka 17
पित्ताद्दाहज्वरस्वेदमोहातीसारतृड्भ्रमाः|
देहो हरितहारिद्रो रक्तनेत्रकपालता||१७||
पित्ताद्दादिकम्|| १७||
Adhikarana shlaiShmikamadAtyayalakShaNAni (18) · Śloka 18
श्लेष्मणा छर्दिहृल्लासनिद्रोदर्दाङ्गगौरम्||१८||
श्लेष्मणा छर्द्यादिकम्|| १८||
Adhikarana sAnnipAtikamadAtyayalakShaNAni (19) · Śloka 19
सर्वजे सर्वलिङ्गत्वं...............||१९||
सन्निपातिके मदात्यये सर्वं लिङ्गत्वम्| इति मदात्ययः||१९||
Adhikarana dhvaMsakavikShayau dhvaMsakavikShayasambhavahetuH (20) · Śloka 20
...................ंउक्त्वा मद्यं पिबेषु यः|
सहसाऽनुचितं चान्यत्तस्य ध्वंसकविक्षयौ|
भवेतां मारुतात्कष्टौ दुर्बलस्य विशेषतः||२०||
अनन्तरं मद्यकारणौ ध्वंसकविक्षयौ निर्णीयेते| यो नरो मद्यपः सन् मद्यं बहुकालं त्यक्त्वा सहसाऽन्यदनुचितं मद्यं पिबेत् तस्य वाताद्धेतोर्ध्वंसकविक्षयौ नाम्ना कष्टौ व्याधी भवेताम्||२०||
Adhikarana dhvaMsakalakShaNam (21) · Śloka 21
ध्वंसके श्लेष्मनिष्ठीवः कण्ठशोषोऽतिनिद्रता|
शब्दाऽसहत्त्वं तन्द्रा च ........................||२१||
दुर्बलस्य तु विशेषेण तौ स्याताम्| ध्वंसके श्लेष्मनिष्ठीवादि लक्षणम्||२१||
Adhikarana vikShayalakShaNam (22) · Śloka 22
...................विक्षयेऽङ्गशिरोऽतिरुक्|
हृत्कण्ठरोधः सम्मोहः कासस्तृष्णावमिज्वरः||२२||
विक्षयेऽङ्गरुगादि|| २२||
Adhikarana tyaktamadyasya lAbhAH (23) · Śloka 23
निवृत्तो यस्तु मद्येभ्यो जितात्मा बुद्धिपूर्वकृत्|
विकारैः स्पृश्यते जातु न स शारीरमानसैः||२३||
मद्यमुपसंहरति-निवृत्त इत्यादिना| सुबोधम्|| २३||
Adhikarana madamUrcchAsaMnyAsAnAM nidAnAdi (24) · Śloka 24
रजोमोहाहिताहारपरस्य स्युस्त्रयो गदाः|
रसासृक्चेतनावाहिस्त्रोतोरोधसमुद्भवाः|
मदमूर्च्छायसंन्यासा यथोत्तरबलोत्तराः||२४||
अनन्तरं मद्यवच्चित्तोपघातसामान्यादत्रैव मदादयो निर्णीयन्ते| रजोमोहाद्यभ्यासपरस्य पुरुषस्य दोषै रसादिवाहिषु स्त्रोतस्सु रुद्धेषु मोहादयो व्याधिविशेषा उत्पद्यन्ते| ते च यथोत्तरं बलाधिकाः| मदामूर्च्छायस्ततः संन्यास इति|| २४||
Adhikarana madanidAnam, madaprabhedAH (25) · Śloka 25
मदोऽत्र दोषैः सर्वैश्च रक्तमद्यविषैरपि||२५||
तेषु च वातादिभिः सन्निपातेन रक्तमद्यविषैश्चेति सप्त भेदाः||२५||
Adhikarana vAtamadalakShaNam (26) · Śloka 26
सक्ताऽनल्पद्रुताभाषश्चलस्खलितचेष्टितः|
रूक्षश्यावारुणतनुर्मदे वातोद्भवे भवेत्||२६||
सक्ताभाषत्वादियुक्तः पुरुषो वातोद्बवे मदे भवेत्|| २६||
Adhikarana pittamadalakShaNam (27) · Śloka 27
पित्तेन क्रोधनो रक्तपीताभः कलहप्रियः||२७||
पित्तेन क्रोधनत्वादियुक्तः|| २७||
Adhikarana kaphamadalakShaNam (28) · Śloka 28
स्वल्पासम्बद्धवाक्पाण्डुः कफाद्धयानपरोऽलसः||२८||
कफाद्धयानपरत्वादियुक्तः|| २८||
Adhikarana sAnnipAtikamadalakShaNam (29) · Śloka 29
सर्वात्मा सन्निपातेन.................||२९||
सन्निपातेनाऽनन्तरोक्तं सर्वलिङ्गम्|| २९||
Adhikarana raktajamadalakShaNam (30) · Śloka 30
............................. रक्तात्स्तब्धाङ्गदृष्टिता|
पित्तलिङ्गञ्च ......................................||३०||
रक्तात् मदे स्तब्धाङ्गदृष्टिता पित्तलिङ्गञ्च भवति|| ३०||
Adhikarana madyajamadalakShaNam (31) · Śloka 31
.................... मद्येन विकॄतेहास्वराङ्गता||३१||
मद्येन मदे विकृतेहत्वादिलिङ्गम्|| ३१||
Adhikarana viShajamadalakShaNam (32) · Śloka 32
विषात्कम्पोऽतिनिद्रा च सर्वेभ्योऽभ्यधिकश्च सः||३२||
विषान्मदे कम्पोऽतिनिद्रा च भवति| स एव सर्व-मदेभ्योऽधिको दुस्साध्यतावहः|| ३२||
Adhikarana raktajAdimadeShu lakShaNaiH doShasa~ggatirj~jeyA (33) · Śloka 33
लक्षयेल्लक्षणोत्कर्षाद्वातादीन् शोणितादिषु||३३||
तेषु च शोणितादिमदेषु वातादीन् लक्षणोत्कर्षात् लक्षयेत्| अनेनैतदुक्तम्-रक्तमद्यविषमदाः यद्यपि त्रिदोषजास्तथाऽप्युत्कृष्टेन वातादीनामन्यतमस्याऽधिक्यं व्यवस्येत्| इत्युक्ता मदाः||३३||
Adhikarana mUrcchAyanidAnam, vAtamUrcchAlakShaNam (34) · Śloka 34
अरुणं नीलकृष्णं वा खं पश्यन् प्रविशेत्तमः|
शीघ्रं च प्रतिबुध्येत हृत्पीडा वेपर्भ्रमः|
कार्श्यं च श्यावारुणा छाया मूर्च्छाये मारुतात्मके||३४||
मूर्च्छाया उच्यन्ते| मारुतात्मके मूर्च्छाये पुरुषोऽरुणं नीलं कृष्णं वा आकाशं पश्यंस्तमः प्रविशेत्| शीघ्रं च प्रतिबुध्येत्| हृत्पीडादिकं चात्र भवति तमः प्रवेशः अचैतन्यम्|| ३४||
Adhikarana pittamUrcchAlakShaNam (35) · Śloka 35
पित्तेन रक्तं पीतं वा नभः पश्यन् विशेत्तमः|
विबुध्येत च सस्वेदो दाहतृट्तापपीडितः|
भिन्नविण्नीलपीताभो रक्तपीताकुलेक्षणः||३५||
रक्तं पीतं वेत्यादिपिकृन्मूर्च्छायाः लक्षणम्|| ३५||
Adhikarana kaphamUrcchAlakShaNam (36) · Śloka 36
कफेन मेघसङ्गाशं पश्यन्नाकाशमाविशेत्|
तमश्चिराच्च बुध्येत सहृल्लासप्रसेकवान्|
गुरुभिस्तिमितैरङ्गैराद्रचर्मावनद्धवत्||३६||
मेघेत्यादिकं कफमूर्च्छालक्षणम्||३६||
Adhikarana sAnnipAtikamUrcchAyalakShaNam (37) · Śloka 37
सर्वाकृतिस्त्रिभिर्दोषैरपस्मार इवाऽपरः|
पातयत्याशु निश्चेष्टं विना बीभत्सचेष्टितैः||३७||
त्रिभिर्दोषैर्मूर्च्छायः सर्वाकृतिः सर्वरूपो भवति| महारम्भत्वेऽपर इवाऽपस्मारः| अयं तु मूर्च्छायो बीभत्सचेष्टितैर्मूत्रपुरीषोत्सर्गादिभिर्विना निश्चेष्टं पौरुषमाशु पातयति|| ३७||
Adhikarana madamUrcchAyayoH saMnyAsAt bhedaH (38) · Śloka 38
दोषेषु मदमूर्च्छायाः कृतवेगेषु देहिनाम्|
स्वयमेवोपशाम्यन्ति संन्यासेनौषधैर्विना||३८||
अपस्माराद् विना मदमूर्च्छाययोः पुनरवबोधे दोषेष्वित्यादिनाहेतुरुच्यते| देहिनां कृतवेगेषु सत्सु दोषेषु मदमूर्च्छायाः स्वयमेवौषधनिरपेक्षमेवोपशाम्यन्त्याऽऽवेगकालम्| संन्यासः पुनरौषधैर्विना न शाम्यति|| ३८||
Adhikarana saMnyAsanidAnAdi saMnyAsastadasAdhyatva~jca (39) · Śloka 39
वाग्देहमनसां चेष्टामाऽऽक्षिप्यातिबला मलाः|
संन्यासं सन्निपतिताः प्राणायतनसंश्रयाः|
कुर्वन्ति तेन पुरुषः काष्ठभूतो मृतोपमः|
म्रियेत शीघ्रं-शीघ्रं चेच्चिकित्सा न प्रयुज्यते||३९||
संन्यासः क उच्यत इत्याऽऽह-वागित्यादि| अतिबला स्वकारणविशेषवशाद्वातादयो दुष्टाः वाग्देहमनसां चेष्टामाऽऽक्षिप्त गृहीत्वा परस्परं सन्निवर्तिताः प्राणायतनसंश्रिताश्च संन्यासं कुर्वन्ति| प्राणायतनं हृदयादि| तेन च संन्यासेन पुरुषः काष्ठभूतो मृतोपमश्च भवति| तत्र यदि शीघ्रं चिकित्सा न प्रयुज्यते ततो म्रियेतैव|| ३९||
Adhikarana saMnyAse Ashu cikitsA yojyA (40) · Śloka 40
अगाधे ग्राहबहुले सलिलौघ इवातटे|
संन्यासे विनिमज्जन्तं नरमाशु निवर्त्तयेत्||४०||
तथा भिषक संन्यासे विनिमज्जन्तं नरमाशु निवर्तयेत्| अगाधे गम्भीरे ग्राहबहुले अतटे च सलिलौघे निमज्जन्तं नरं यथाबान्धवा निवर्तयन्ति|| ४०||
Adhikarana yuktiviyuktamadyadeShAH (41) · Śloka 41
मदमानरोषतोप्रभृतिभिरभिर्निजैः परिष्वङ्गः|
युक्तायुक्तं च समं युक्तिवियुक्तेन मद्येन||४१||
मदमानेत्यादिना मदात्ययनिदानत्वान्मद्येनैवोपसंहरन्नाह| तोषो हर्षः| प्रभृतिशब्देन कामक्रोधादयः|युक्तायुक्तं च सममिति कृत्याकृत्याविवेको न भवति|| ४१||
Adhikarana yuktiyuktamadyaguNAH (42-6) · Śloka 6
बलकालदेशसात्म्यप्रकृतिसहायामवयवांसि|
प्रविभज्य तदनुरूप यदि पिबति ततः पिबत्यमृतम्||४२||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां निदानस्थाने मदात्ययनिदानं नाम षष्ठोऽध्यायः||६||
एवं विधिहीनस्य दोषमुक्त्वा बलकालेत्यादिना विधियुक्तस्य पुनर्गुणमाह| बलादीनि पृथङ्निरूप्य बलाद्यनुरूपमेव यदि मद्यं पिबति ततोऽमृतमेव पिबति|| ४२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रव्याख्यायां शशिलेखायां निदानस्थाने षष्ठोऽध्यायः