Adhikarana atha raktapittakAsanidAnaM nAma tRutIyo~adhyAyaH | pratij~jA (1) · Śloka 1
अथातो रक्तपित्तकासनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana atha raktapittakAsanidAnaM nAma tRutIyo~adhyAyaH | pratij~jA (1) · Śloka 1
अथातो रक्तपित्तकासनिदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana atha raktapittAdhikAraH | raktapittasya nidAnaM samprAptishca (2) · Śloka 2
भृशोष्णतीक्ष्णकट्वम्ललवणातिविदाहिभिः| कोद्रवोद्दालकैश्चान्नैस्तद्युक्तैरतिसेवितैः| कुपितं पित्तलैः पित्तं द्रवं रक्तञ्च मूर्च्छिते| ते मिथस्तुल्यरूपत्वमाऽ ऽगम्य व्याप्नुतस्तनुम्||२||
🔊 Audio coming soon
Adhikarana raktapittashabdaniruktiH (3) · Śloka 3
पित्तं रक्तस्य विकृतेः संसर्गाद्दूषणादपि| गन्धवर्णानुवृत्तेश्च रक्तेन व्यपदिश्यते||३||
🔊 Audio coming soon
Adhikarana raktapittasya prabhavasthAnam (4) · Śloka 4
प्रभवत्यसृजः स्थानात्प्लीहतो यकृतश्च तत्||४||
🔊 Audio coming soon
Adhikarana raktapittapUrvarUpam (5) · Śloka 5
शिरोगुरुत्वमरुचिः शीतेच्छा धूमकोऽम्लकः| छर्दिश्छर्दितवैभत्स्यं कासश्वासोउ भ्रमः क्लमः| लोहलोहितमत्स्यागन्धास्यत्वं स्वरक्षयः| रक्तहारिद्रहरितवर्णता नयनादिषु| नीललोहितपीतानां वर्णानामविवेचनम्| स्वप्ने तद्वर्णदर्शित्वं भवत्यस्मिन् भविष्यति||५||
🔊 Audio coming soon
Adhikarana raktapittasya pravRuttimArgAH (6) · Śloka 6
ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः| कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्त्तते||६||
🔊 Audio coming soon
Adhikarana Urdhvagatasya raktapittasya sAdhyatvam (7) · Śloka 7
ऊर्ध्वं साध्यं कफ़ाद्यस्मात्तद्विरेचनसाधनम्| बह्वोउषधञ्च पित्तस्य विरेको हि वरोउषधम्| अनुबन्धी कफ़ो यश्च तत्र तस्यापि शुद्धिकृत्| कषायाः स्वादवोऽप्यस्य विशुद्धश्लेष्मणो हिताः| किमुः तिक्ताः कषायाः वा ये निसर्गात्कफ़ापहाः||७||
🔊 Audio coming soon
Adhikarana adhogatasya raktapittasya yApyatvam (8) · Śloka 8
अधो याप्यं चलाद्यस्मात्तप्रच्छर्दसाधनम्| स्वल्पोउषधं च पित्तस्य वमनं न वरोउषधम्| अनुबन्धी चलो यश्च शान्तयेऽपि न तस्य तत्| कषायाश्च हितास्तस्य मधुरा एव केवलम्||८||
🔊 Audio coming soon
Adhikarana ubhayAyanaraktapittasyAsAdhyatvam (9) · Śloka 9
कफमारुतसंसृष्टमसाध्यभयायनम्| अशक्यप्रातिलोम्यत्वाद भावादौषधस्य च| न हि संशोधनं किञ्चिदस्त्यस्य प्रतिलोमनम्| शोधनं प्रतिलोमं च रक्तपित्ते भिषग्जितम्| एवमेवोपशमनं सर्वशोनास्य विद्यते| संसृष्टेषु हि सर्वजिच्छिमनं हितम्||९||
🔊 Audio coming soon
Adhikarana doShAnugandhopadravAtideshena nirdeshaH (10) · Śloka 10
तत्र दोषानुगमनं सिरास्त्र इव लक्षयेत्| उपद्रवाश्च विकृतिज्ञानतः ..............||१०||
🔊 Audio coming soon
Adhikarana kAsanirUpaNapratij~jA (11) · Śloka 11
........................तेषु चाऽधिकम्| आशुकारी यतः कासस्तमेवातः प्रवक्ष्यते||११||
🔊 Audio coming soon
Adhikarana kAsAnAM sa~gkhyAsamprAptiH, yathottaraM balavatva~jca (12) · Śloka 12
पञ्च कासा स्मृता वातपित्तश्लेष्मक्षतक्षयैः| क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम्||१२||
🔊 Audio coming soon
Adhikarana kAsapUrvarupam (13) · Śloka 13
तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः| शूकपूर्णाभकण्ठत्वमस्वास्थ्यं हृदयस्य च||१३||
🔊 Audio coming soon
Adhikarana kAsanidAnAdisamprAptiH (14) · Śloka 14
कषायविज्जलासात्म्यकट्वम्ललवणोषणैः| रूक्षशीतगुरुस्निग्धोत्क्लेदिपर्युषिताशनैः| धारणोदिरणायासरात्र्यहः स्वप्नजागरैः| अन्यैश्च तद्विधैर्धातुक्षयाऽ ऽवरणकारिभिः| क्रुद्धः प्रतिहतोऽपाने यदाऽपानः प्रपद्यते| ऊर्ध्वं रसस्य सः स्थाने तिष्ठन्नुरसि पीड्यते| उदानेन सजंस्तत्र कण्ठे चानु प्रपूर्य्य च| वाहिनीर्गलमूर्धस्थास्ततोऽङ्गान्युत्क्षिपन्निव| क्षिपन्निवाक्षिणी पृष्ठमुरः पार्श्वे च पीडयन्| विवृतत्वान्मुखेनैति भिन्नकांस्योपमध्वनिः| यस्मात्तस्मात्स वर्णौजो बलमांसक्षयावहः||१४||
🔊 Audio coming soon
Adhikarana kAsAnAM rukShabdavaiShamye hetuH (15) · Śloka 15
हेतु भेदात् प्रतीघातभेदो वायोः सरंहसः| यद्रुजाशब्दवैषम्यं कासानां जायते ततः||१५||
🔊 Audio coming soon
Adhikarana vAtakAsalakShaNam (16) · Śloka 16
कुपिते वातलैर्वायुः शुष्कोरः कण्ठवक्त्रताम्| हृत्पार्श्वोरःशिरःशूल मोहक्षोभस्वरक्षयान्| करोति शुष्ककासं च महावेगरुजास्वनम्| सोऽङ्गहर्षी कफं शुष्कंकृच्छ्रान्मुत्क्वाऽल्पतां व्रजेत्||१६||
🔊 Audio coming soon
Adhikarana pittakAsalakShaNam (17) · Śloka 17
पित्तात्पीताक्षिकफ़तिक्तास्यत्वं ज्वरो भ्रमः| पित्ताऽसृग्वमनं तृष्णा वैस्वर्थ्यं धूमको मदः| प्रततं कासवेगेन ज्योतिषामिव दर्शनम्||१७||
🔊 Audio coming soon
Adhikarana kaphakAsalakShaNam (18) · Śloka 18
कफादुरोऽल्परुङ्मूर्धहृदयं स्तिमितं गुरुः| कण्ठोपलेपः सदनं पीनसच्छर्द्यरोचकाः| रोमहर्षो घनस्निग्धश्वेतश्लेष्मप्रवर्त्तनम्||१८||
🔊 Audio coming soon
Adhikarana kShatakAsalakShaNam (19) · Śloka 19
युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम्| उरस्यन्तः क्षते वायुः पित्तेनानुगते बली| कुपितः कुरुते कासं कफं तेन सशोणितम्| पीतं श्यावञ्च शुष्कञ्च ग्रथितं कुथितं बहु| ष्ठीवेत्कण्ठेन रुजता विभिन्नेनेव चोरसा| सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना| पर्वभेदज्वरश्वासतृष्णावैस्वर्य्यकम्पवान्| पारावत इवाकूजन् पार्श्वशूली ततोऽस्य च| क्रमाद्वीर्य रुचिः पक्तिर्बलं वर्णश्च हीयते| क्षीणस्य सासृङ्मूत्रत्वं स्याच्च पृष्ठकटिग्रहः||१९||
🔊 Audio coming soon
Adhikarana kShayakAsalakShaNam (20) · Śloka 20
वायूप्रधानाः कुपिता धातवो राजयक्ष्मिणः| कुर्वन्ति यक्ष्मायतनैः कासं ष्ठीवेत्कफ़ं ततः| पूतिपूयोपमं पीतं हरितलोहितम्| लुप्यते इव पार्श्वे च हृदयं पततीव च| अकस्मादुष्णाशीतेच्छा बह्वाशित्वं बलक्षयः| स्निग्धप्रसन्नवक्त्रत्वं श्रीमद्दर्शननेत्रता| ततोऽस्य क्षयरूपाणि सर्वाण्याविर्भवन्ति च||२०||
🔊 Audio coming soon
Adhikarana kShayakShatakAsayoravasthAvashAtsAdhyA~asAdhyatvam (21) · Śloka 21
इत्येषः क्षयजः कासः क्षीणानां देहनाशनः| याप्यो वा बलिनां तद्वत्क्षतजो ऽभिनवौ तु तौ| सिध्येतामपि सानाथ्यात्.........................||२१||
🔊 Audio coming soon
Adhikarana vAtAdikAsAnAM sAdhyayApyatvam (22) · Śloka 22
................साध्या दोषैः पृथक्त्रयः| मिश्रा याप्या द्वयात्सर्वे जरसा स्थविरस्य च||२२||
🔊 Audio coming soon
Adhikarana kAsasya tvarayA cikitsyatvam (23-24) · Śloka 24
कासाच्छ्वासक्षयच्छर्दिस्वरसादादादयो गदाः| भवन्त्यपेक्षया यस्मात्तस्तात्तं त्वरया जयेत्||२३|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतोउ अष्टाङ्गसंग्रहस्य निदानस्थानो ज्वरनिदानंनाम तृतीयोऽध्यायः||२४||
🔊 Audio coming soon