Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

3. garbhōpacaraṇīyaḥ

Adhikarana aShTA~ggasaMgrahaH-sharIrasthAne-tRutIyo~adhyAyaH ------ atha garBopacaraNIyo nAma tRutIyo~adhyAyaH----- pratij~jA (1) · Śloka 1

आथातो गर्भोपचरणीयं शारीरमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Adhikarana garbhiNyAH prathamamAsakRutyam (2) · Śloka 2

प्रथमे मासि गर्भिणि क्षीरमनुपसंस्कृतं मात्रावच्छीतं कालेकाले पिबेत्| तस्मिन्नपि चाद्यं द्वादशरात्रं क्षीरोद्भवं सर्पिः शालिपर्णीपलाशाभ्यां शृतं कनकरजतक्वथितम् शीतोदकानुपानं पिबेत्| स्वादु शीतं द्रवप्रायसात्म्यञ्च सायम्प्रातराहारयेत्| न चाभ्यङ्गोद्वर्तनानि सेवेत| यथो- क्तानि च दोषकराणि परिहरेद् आपञ्चमात् मासाद् विशेषेण||२||

🔊 Audio coming soon

Adhikarana dvitIyamAse sevanIyam (3) · Śloka 3

द्वितीये मधुरौषधसिद्धं पयः पिबेत्||३||

🔊 Audio coming soon

Adhikarana dvitIye mAsi madhurairdrAkShAmadhukAdibhi siddhaM payaH pibet|| 3|| (4) · Śloka 4

तृतीये तदेव सर्पिर्मधुभ्याम्||४||

🔊 Audio coming soon

Adhikarana caturthamAse sevanIyam (5) · Śloka 5

चतुर्थेऽक्षमात्रनवनीतयुक्तम्||५||

🔊 Audio coming soon

Adhikarana pa~jcamamAse sevanIyam (6) · Śloka 6

पञ्चमे क्षीरसर्पिः||६||

🔊 Audio coming soon

Adhikarana ShaShThasaptamamAsayoH sevanIyam (7) · Śloka 7

षष्ठे तदेव मधुरौषधसिद्धं सप्तमे च||७||

🔊 Audio coming soon

Adhikarana ShaShThe madhurauShadhaiH siddhaM tadeva kShIrasarpiH ca|| 7|| (8) · Śloka 8

तस्मिंस्तु गर्भस्य केशोत्पत्त्या मातुर्विदाहो भवतीति स्त्रि-यो भाषन्ते| नेति भगवानात्रेयः| गर्भोत्पीडनात्तु दोषा हृदयं प्राप्य विदहन्ति ततः कण्डूर्जायते कण्ड्वा कि- क्किसम्||८||

🔊 Audio coming soon

Adhikarana saptamamAsikagarbhopadrave sevanIyAni (9) · Śloka 9

तत्र कोलोदकेन नवनीतस्य मधुरौषधसिद्धस्य पाणि- तलमात्रमस्यै दद्यात्| चन्दनमृणालकल्कैश्च स्तनोदरं मृद्नीयात्| शिरीषधातकीसर्षपमधुकचूर्णैर्वा| कुटजार्जकबीजमुस्तहरिद्राकल्कैर्वा| निम्बकोलसुरसमञ्जिष्ठा- कल्कैर्वा| शशहरिणपृषतरुधिरयुक्तया वा त्रिफलया| करवीरकरञ्जपत्रकल्कसिद्धेन च तैलेनाभ्यङ्गः| परिषेकः पुनर्मालतीमधुकसिद्धेनाम्भस| कण्डूयनं वर्जयेत्| त्वग्भेदवैरुप्यपरिहारार्थं स्नानोद्वर्तनं च शीलयेत्| मधुरं चाहारमल्पमल्पस्नेहलवणमल्पोदकानुपानं भुञ्जीत||९||

🔊 Audio coming soon

Adhikarana garbhiNyAH aShTame mAse sevanIyAni (10) · Śloka 10

अष्टमे क्षीरयवागूं सर्पिष्मतीं पिबेत्| नेति खण्डकाप्यःगर्भस्य पैङ्गल्या बाधभयात्| अस्तु पैङ्गल्या बाधस्तथाप्येवं कुर्वीत| नीरुजं बलवर्णसत्त्वसंहननसम्पदुपेतं ज्ञातीनामग्रगण्यमपत्यं जनयतीति भगवानात्रेयः| बदरोदकेन पललपयोदधिमस्तुतैललवणफलघृतयुक्तेनास्थापयेत्| पुराणविड्विशुद्ध्यर्थं मधुकादिमधुरौषधसिद्धेन च तैलेनानुवासयेदनुलोमनाय वायोः अनुलोमे हि मारुते सा सुखमनुपद्रवा प्रसूते| गर्भिणीं तु न्युब्जामास्थापयेदनुवासयेद्वा| तथाऽस्या विवृतमार्गतया सम्यगौषधनमनुप्रविशति| तत ऊर्ध्वं स्निग्धाभिर्यवागूभि- र्जाङ्गलरसैश्चोपाचरेदाप्रसवकालादिति भगवान् धन्व- न्तरिः||१०||

🔊 Audio coming soon

Adhikarana navame mAse karaNIyAni garbhiNIkRutyAni (11) · Śloka 11

नवमे तु तत एवानुवासनतैलात् पिचुं योनौ प्रणयेद् गर्भमार्गाशययोः स्नेहनार्थमिति||११||

🔊 Audio coming soon

Adhikarana garbhiNIniyamAnusaraNaphalam (12) · Śloka 12

अनेन प्रथममासादारभ्य क्रमेण गर्भिण्या प्रसवकाले गर्भधारिणीकुक्षिकटीपार्श्वपृष्ठं मृदु भवति| वायुश्चानुलोमः सम्पद्यते| मूत्रपुरीषं च प्रकृतिभूतं जरायुश्च मार्गं प्रतिपद्यते| पुत्रं चेष्टं कल्यमायुष्वन्तं सुखिनं सुखेन काले बलवती प्रसूते||१२||

🔊 Audio coming soon

Adhikarana garbhiNyAH snAnodakam (13) · Śloka 13

बिल्वकार्पासीपप्फणापातलीपिचुमर्दाग्निमन्थमांसीवर्धमानकपत्रभङ्गक्वाथेन शीतेन सर्वगन्धोदकेन वा गर्भिण्याः प्रत्यहं स्नानमुपदिशेत्||१३||

🔊 Audio coming soon

Adhikarana sUtikAgAranirmitiH (14) · Śloka 14

प्राक् चैवास्या नवमान्मासादप्रहृतास्थिशर्कराकपाले प्रशस्ते देशे वास्तुविद्याप्रशस्तं सर्वर्त्तुसुखमुखहृतसर्वो- पकरणं सन्निहितज्वलनं प्राग्द्वारमुदङ्द्वारं वा सूतिकागारं कारयेत्||१४||

🔊 Audio coming soon

Adhikarana garbhiNyAH sUtikAgAre praveshaH viNmUtra- vibandhe phalavartidAna~jca (15) · Śloka 15

तत्रानुकूलेषु नक्षत्रादिषु पुण्याहशब्देन गोब्राह्मणवृद्धा- न्न्त्वाऽऽवर्तमाना प्रदक्षिणं प्रविश्य बहुशः प्रसूताभिर- नुरक्ताभिरविषादाभिः क्लेशक्षमाभिः परिवृता स्व- स्त्ययनपरानुलोमनैराहारविहारैरनुलोमितवातमूत्रपुरीषा प्रसवकालमुदीक्षेत| स्वल्पेऽपि च विण्मूत्रपुरीषा प्रसव- कालमुदीक्षेत| स्वल्पेऽपि च विण्मूत्रविबन्धे फलवर्तीः प्रणिदद्यात्||१५||

🔊 Audio coming soon

Adhikarana AsannaprasavAyA lakShaNAni (16) · Śloka 16

तत्रासन्नप्रसवायाः क्लमो ग्लानिर्मुक्तबन्धने इवा- क्षिणी निष्ठीविका मूत्रपुरीषबाहुल्यं शिथिलकुक्षि- ताऽधोगुरुत्वमन्नानभिलाषो वेदनोदरहृदयकटीबस्ति- वङ्क्षणेषु तोदभेदशूलस्फुरणस्रवणानि च योन्यौ भवन्ति| तदनन्तरमावीनां प्रादुर्भावो गर्भोदकप्रवाहश्च||१६||

🔊 Audio coming soon

Adhikarana upasthitagarbhAyA yavAgUpAnam (17) · Śloka 17

अथैनामुपस्थितगर्भां कृतकौतुकमङ्गलां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तां सघृतां यवागूं पाययेत्||१७||

🔊 Audio coming soon

Adhikarana AvIprAdurbhAvottarakRutyam (18) · Śloka 18

ततः सुरक्तार्षभचर्मप्रच्छदे मृदुनि भूमिशयने शयाना- मुत्तानामाभुग्नसक्थिपृष्ठामहतवाससोऽशङ्कनीयाः प्रिय- दर्शनाः परिणतवयसः प्रजननकुशलाः प्रगल्भः कृत्त- नखाः स्त्रियः सूतिकां सूनृताभिर्वाणीभिराश्वासयन्त्यः पर्युपासीरन्||१८||

🔊 Audio coming soon

Adhikarana garbhasyAdhomukhatvasampAdanam (19) · Śloka 19

अथास्यै दद्यात् कुष्ठैलालाङ्गलीवचाचव्यचित्रकचिरि- बिल्वचूर्णमुपाघ्रातुं मुहुर्मुहुः| तथा भूर्जपत्रशिंशपासर्जरसान्यतमधूममन्तरान्तरा च| पार्श्वपृष्ठकटीसक्थिदेशान् कोष्णेन तैलेनाभ्यज्यानुसुखमस्या मृद्नीयात्| एवमवाक् परिवर्त्तते गर्भः||१९||

🔊 Audio coming soon

Adhikarana adhomukhagarbhalakShaNam (20) · Śloka 20

तस्य लक्षणम्विमुच्य हृदयमुदरमाविशति| बस्तिशिरोऽवगृह्णाति त्वरयन्त्येनामाव्यः||२०||

🔊 Audio coming soon

Adhikarana garbhaparivartane upAyAntaram (21) · Śloka 21

न चेदेवं परिवर्त्तते ततो मुहुर्मुहुर्जृम्भणं चङ्क्रमणञ्च कारयतिव्याननन्तरोक्तं विधिम्||२१||

🔊 Audio coming soon

Adhikarana anyamatena garbhaparivarttanopAyaH (22) · Śloka 22

अन्ये तु मुसलेन उलूखलं धान्यपूर्णमाहननीयमित्याहुः||२२||

🔊 Audio coming soon

Adhikarana tanniShedhashca (23) · Śloka 23

तत्तु न सम्यक्| दारुणव्यायामवर्जनं हि गर्भिण्याः सततमुदपदिश्यते| विशेषतश्च प्रसवकाले| प्रचलितसर्वधातुदोषायाः सौकुमार्य्यत्वान्नार्य्या मुसलव्यायामेनेरितो वायुरन्तरं लब्ध्वा प्राणान् हिंस्यादिति||२३||

🔊 Audio coming soon

Adhikarana garbhaparivRuttyuttarakRutyam (24) · Śloka 24

अथ परिवृत्तगर्भां पर्य्यङ्कमेनामारोप्य कुशला स्त्री पादतोऽस्या निषण्णाया योनिमनुलोममनुसुखमभ्यज्य स्फिजौ पादाभ्यां पीडयेत्| योनिञ्च पुनः पुनः प्रसाधयेत्| ब्रूयाच्च, सुभगे! शनैः शनैः प्रवाहयस्व| सुप्रसन्नस्तेमुखवर्णः पुत्रं जनयिष्यतीति||२४||

🔊 Audio coming soon

Adhikarana garbhaprasavakaramantrajapaH (25) · Śloka 25

अन्या तु वामकर्णेऽस्या मन्त्रमिमं जपेत्क्षितिर्जलं वियत्तेजो वायुर्विष्णुः प्रजाप्रतिः| सगर्भां त्वां सदा पातु वैशल्यं वा दधात्वपि| प्रसूष्व त्वमविक्लिष्टमविक्लिष्टा शुभानने| कार्तिकेयद्युतिं पुत्रं कार्तिकेयादिरक्षितम्| इति| तथा- इहामृतञ्च सोमश्च चित्रभानुश्च भामिनि| उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते| इदममृतमपां समुद्धृतं वैतवलघु गर्भमिमं प्रमुञ्चतु स्त्री| तदनलपवनार्कवासवास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिमिति||२५||

🔊 Audio coming soon

Adhikarana akAlapravAhaNe kAle~apravAhaNe ca doShaH (26) · Śloka 26

तथा पराऽनुशिष्यादनागतायां वेदनायां मा प्रवाहिष्ठाः| अकालप्रवाहणं हि विण्मूत्रादिवेगानामिवोदीरणमनर्थ- करमहितञ्च गर्भस्य श्वासकासशेषकुब्जतादिका- रित्वात्| तथा तेषामेव विधारणमिव वेदनायामप्रवा- हणमुपघाताय| ततो यथोक्तं कुरुष्व||२६||

🔊 Audio coming soon

Adhikarana pravAhaNakramaH (27) · Śloka 27

शनैः शनैश्च पूर्वं प्रवाहिष्ठाः| निगर्भे बाढम्| गर्भस्य योनिमुखप्रतिपत्तौ बाढतरमाऽऽप्रसवादिति||२७||

🔊 Audio coming soon

Adhikarana pravAhamAnAyAH garbhiNyAH harShaNam (28) · Śloka 28

तस्यास्तु प्रवाहमानायाः स्त्रियः शब्दं कुर्य्युः प्रजाता, प्रजाताधन्यं धन्यं पुत्रमिति| तथाऽस्या हर्षेण प्राणा आप्यायन्ते||२८||

🔊 Audio coming soon

Adhikarana garbhasa~gge cikitsA (29) · Śloka 29

गर्भसङ्गे तु योनिं धूपयेत्| कृष्णसर्पनिर्मोकेन पिण्डीतकेन वा| बध्नीयाच्च हिरण्यपुष्पीमूलं हस्तपादे| धारयेच्च सुवर्चलां विशल्यां वा||२९||

🔊 Audio coming soon

Adhikarana aparAsa~gge upacArAH (30) · Śloka 30

अथ प्रसूताया न चेदपरा पतति ततो दक्षिणेन पाणिना नाभेरुपरिष्टाद्बलवदुपपीड्य अन्येन पृष्ठत उपसंगृह्य विधु- नुयात्| पार्ष्ण्या वा श्रोणीमाकोटयेत्| स्फिजौ वोपसंगृह्या सुपीडितं निपीडयेत्| वेण्याऽङ्गुल्या वा केशवेष्टितया च कण्ठतालू परामृशेत्| भूर्जपत्रकाचमणिसर्पनिर्मोकैश्च योनिं धूपयेत्| भूर्जगुग्गुलुभ्यां वा| शालिमूलसिद्धेन व सर्पिषा योनिमभ्यज्य कटुकालाबुजालिनीनिम्बसर्पनिर्मोकैर्धूपयेत्| गुडनागरकल्केन वा| तदेव वा भक्षयेत्| लाङ्गलीमूलकल्केन वा पाणिमुदरं चालिम्पेत्| महावृक्षक्षीरं वा मूर्धन्यषेचयेत्| कुष्ठतालीसकल्कं बिल्वबल्वजयूषमैरेयासवसुरामण्डान्यतमेन व्योषतीक्ष्णोष्णेन वाऽम्लेन कुलत्थरसेन मधुकपिप्पलीसम्पाकेन व पाययेत्| पिप्पल्येलाकोलविडचव्यचित्रकोपकुब्जिकाकल्कं वा| खरस्य वृषभस्य वा जीवतो दक्षिणं कर्णमुद्धृत्य बिल्वकुलत्थबल्वजयूषानीनाप्लावनानामन्यतमे प्रक्षिप्य मुहूर्त्तस्थितमुद्धृत्य तदाप्लावनं पाययेत्| कुष्ठैलाकल्कं वा सुरया| अर्कालर्ककषायं वा प्रजातांसुरोन्मिश्रम्| कुष्ठलाङ्गलिकीमूलकल्कं वा मद्यमूत्रान्यतरेण| वत्सकादिचूर्णं वा मद्येन| शतपुष्पाकुष्ठमदनहिङ्गुसिद्धस्य च तैलस्य पिचुं ग्राहयेत्| ततश्चैनामनुवासनकालेऽनुवासयेत्| बिल्वबल्वजयूषाद्याप्लावनैश्च फलजीमूतकेक्ष्वाकु- धामार्गवकुटजार्ककृतवेधनहस्तिपर्ण्यभीरूपहितैरास्थापयेत्| सिद्धार्थककुष्ठलाङ्गलिकीमहावृक्षक्षीरामिश्रेण वा सुरामण्डेन| शाल्मलीवृन्तानि वा स्विन्नान्यापोथ्य पञ्चमूलकषाये विमर्द्दयेत्| तेन च पूतेन स्नेहवता फलादियुक्तेनेति| यथोक्तास्थापनद्रव्यसिद्धेन कटुतैलेनोत्तरबस्तिं दद्यात्| शिग्रुसुमुखमरिचाजाजीचित्रककल्कक्षीरगोमूत्रसिद्धेन वा कटुतैलेनाऽनुवासयेत्| उमाशाल्मलीपिच्छया वा सघृतया योनिं पूरयित्व विधुनुयात्| स्निग्धेन व कृतनखेन पाणिना नालानुसारतोऽपहरेत्||३०||

🔊 Audio coming soon

Adhikarana prasUtAyAH makkllashUle cikitsa (31) · Śloka 31

प्रजातायां चेद्बस्तिमूर्धोदरेषु शूलं मक्कल्लाख्यं स्यात्तत्र यवक्षारचूर्णं सर्पिषा सुखोष्णोदकेन वा पिबेत्| वरणादिं वा सपञ्चकोलमेलाप्रतीवापम्| अथवा वीरतरादिमूषरादिप्रतीवापम्| लवणचूर्णं वा वत्सकादिनिर्यूहेण| वत्सकादिं वा मदिरया| अंशुमतीद्वयक्वाथेन वा मरिचभद्रदारुकल्कम्| भार्ङ्गीनागरदेवदारुकल्कं वोष्णाम्भसा| पुराणगुडं व त्रिकटुत्रिजातकधनिकाचूर्णसंसृष्टं भक्षयेत्||३१||

🔊 Audio coming soon

Adhikarana yonibhraMshe cikitsA (32) · Śloka 32

तस्याश्चेत् स्वस्थानतो योनिर्भ्रश्येत् ततो यस्यकस्य- चिच्छोणितेनाभ्यज्य योनिं यथास्थानं कुशला स्त्री निवेशयेत्| निविष्टां चाऽशोकरोहिणीबर्हिषोशीरप्रियङ्गुदेवदारुकल्कविपक्वेन तैलेन बहुशः स्वेदयेत् पूरयेत् ब्रूयाच्च 'गच्छ सुभगे! स्वस्थानम्' इति|३२|

🔊 Audio coming soon

Adhikarana sadyo jAtasya bAlasyopacArAdeshaH (32) · Śloka 32

तस्याश्चेत् स्वस्थानतो योनिर्भ्रश्येत् ततो यस्यकस्य- चिच्छोणितेनाभ्यज्य योनिं यथास्थानं कुशला स्त्री निवेशयेत्| निविष्टां चाऽशोकरोहिणीबर्हिषोशीरप्रियङ्गु- देवदारुकल्कविपक्वेन तैलेन बहुशः स्वेदयेत् पूरयेत् ब्रूयाच्च 'गच्छ सुभगे! स्वस्थानम्' इति||३२||

🔊 Audio coming soon

Adhikarana sadyo jAtasya bAlasyopacArAdeshaH (33) · Śloka 33

तद्वच्चान्यतमा स्त्री जातमात्रमेव बालं बालोपचरणीयेन विधिनोपपादयेत्| तमुपदेक्ष्यते तूत्तरेषु||३३||

🔊 Audio coming soon

Adhikarana sUtikAyA upacArAH (34) · Śloka 34

अथ सूतिकां बलातैलेनाभ्यज्यात्| बुभुक्षिताञ्च पञ्चकोलचूर्णेन यवान्युपकुञ्चिकाचव्यचित्रकव्योषसैन्धव- चूर्णेन व युक्तामहः परिणामिनीं यथा सात्म्यं स्नेहमात्रां पाययेत्| स्नेहायोग्यां वातहरौषधक्वाथं ह्रस्वपञ्चमूलक्वाथं वा| पीतवत्याश्च यमकेनाभ्यज्य वेष्टयेदुदरं वस्त्रेण| तथा न वायुरुदरविकृतिमुत्पादयेदनवकाशत्वात्| जीर्णे तु स्नेहे पूर्वौषधैरेव सिद्धां विदार्य्यादिगणक्वाथेन क्षीरेण वा यवागूं सुस्विन्नां द्रवां मात्रया पाययेत्| प्राक्स्नेहयवागूपानाभ्यां चोभयकालमुष्णोदकेन परिषेचयेत्| एवं त्रिरात्रं पञ्चरात्रं सप्तरात्रं वाऽनुपाल्य ततो यवकोलकुलत्थयूषेण लघुना चान्नपानेन| द्वादशरात्रात् परं जाङ्गलरसादिभिश्च क्रमादाप्याययेदग्निबलादीन्यपेक्ष्य| क्वथितशीतं च तोयं पाययेत्| तथा जीवनीयबृंहणीयमधुरवातहरसिद्धैरभ्यङ्गोद्वर्तनपरिषेकावगाहैरन्न- पानैश्च हृद्यैरुपाचरेत्||३४||

🔊 Audio coming soon

Adhikarana sUtikopacArAnusaraNaphalam (35) · Śloka 35

एवं हि गर्भवृद्धिक्षपितशिथिलसर्वशरीरधातुप्रवाहण- वेदनाक्लेदरक्तनिस्सृतिविशेषशून्यशरीराच्च पुनर्नवी- भवति||३५||

🔊 Audio coming soon

Adhikarana sUtikAniyamAnusaraNAvashyakatA (36) · Śloka 36

अत एव च सूतिकाया व्याधिः कृच्छ्रसाध्यो भवत्यसाध्यो वा| तस्मात्तां यथोक्तेन विधिना प्रयत्नेनोपचरेत्||३६||

🔊 Audio coming soon

Adhikarana sUtikAbhidhAnanivRuttisamayaH (37) · Śloka 37

एवं साध्यर्धमासमुपसंस्कृता क्रमेण विमुक्ताहारविहारयन्त्रणा विगतसूतिकाभिधाना स्यात्| पुनरार्त्तवदर्शनादित्येके||३७||

🔊 Audio coming soon

Adhikarana adhyAyopasaMhAraH (38) · Śloka 38

इत्याद्यं मासमादाय यावद्गर्भक्षमा पुनः| स्त्री स्यात् तावद् विधिः सर्वः सर्वथा साधु दर्शितः||३८|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतोउ अष्टाङ्गसंग्रहसंहितायां शारीरस्थाने गर्भो- पचरणीयो नाम तृतीयोऽध्यायः||३८||

🔊 Audio coming soon