Adhikarana athAnnarakShAvidhirnAmAShTamo~adhyAyaH pratij~jA (1) · Śloka 1
अथातोऽन्नरक्षाविधिमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
अन्नस्य च पानस्य च स्वरूपमुक्तम्| एवं विज्ञातस्वरूपं पथ्यमप्यन्नजातं पानं च विषाद्युपहतं रोगाय मरणाय वा सम्पद्यते| अतस्तद्रक्षणायाध्यायारम्भः|| १||
Adhikarana annapAnadUShaNahetavaH (2) · Śloka 2
ईश्वराणां वसुमतां विशेषेण तु भूभुजां प्रायेण मित्रेभ्योऽप्यमित्रा भूयांसो भवन्ति|
ततस्तत्प्रयुक्ताः समासन्नवर्तिनोऽन्नपानादिषु विषं प्रयच्छन्ति|
स्त्रियश्च तत्प्रणिधिप्रयुक्ताः सौभाग्यलोभेन||२||
तेन चान्नपानरक्षणेनान्यस्य न तथा प्रयोजनं, यथा भूभृतः| बह्वपायत्वात्, बहूपजीव्यत्वाच्च| तस्माद्राजा कुलीनत्वादियुक्तं प्राणाचार्यं भिषजं परिगृह्णीत स्वीकुर्यात्| कुत आह-ईश्वराणामित्यादि| सर्वेषामेवेश्वराणां प्रभविष्णूनां वसुमतां धनिनां च विशेषेण भूभृतां राज्ञां न तावन्ति मित्राणि भवन्ति यावन्तोऽमित्राः| तत इति| यतोऽमित्रा भूयांसो भवन्त्यतस्तत्प्रयोगादमित्रप्रयोगात्समासन्नवर्तिनः परिचारका अन्नपानशयनादिषु विषं प्रयच्छन्ति| स्त्रियश्चान्नपानादिषु विषं प्रयच्छन्ति राज्ञः| किम्भूताः? तत्प्रणिधिप्रयुक्ता अमित्रचारचोदिताः| कथं ददति? सौभाग्यलोभेन| प्रायेण भूभृद्योषिद्भ्यस्तच्छत्रुचाराः पाषण्डादिच्छद्मनैवं ब्रुवन्ति, यथाऽनेनौषधेन भर्त्रेऽन्नपानादिषु दत्तेन सौभाग्यं भवतीति|
Adhikarana prANAcAryalakShaNAni (3) · Śloka 3
तस्माद्राजा कुलीनं स्निग्धमाप्तमास्तिकमार्यमार्यपरिग्रहं दक्षं दक्षिणं निभृतं शुचिमनुद्धतमनलसमव्यसनिनमनहंकृतमकोपनमसाहसिकं वाक्यार्थावबोधकुशलं निष्णातमष्टाङ्गे यथाम्नायमायुर्वेदे सुविहितयोगक्षेमं सन्निहितागदादियोगं सात्म्यज्ञं च प्राणाचार्यं परिगृह्णीयात्||३||
किम्भूतं प्राणाचार्यमाह- कुलीनं उत्कृष्टे कुले जातम्| स्निग्धं राज्ञः| आप्तमविसंवादिवचनम्| आस्तिकमदृष्टमस्तीति मानिनम्| दक्षं चतुरम्| दक्षिणं राज्ञोऽन्येषां च मैत्रीपरम्| निभृतं राजकर्येषु निश्चलम्| अनुद्धतं नम्रम्| अनलसमुत्थानशीलम्| अव्यसनिनं अदुःखाभिभूतम्| अनहङ्कृतमनुत्सिक्तम्| अकोपनसाहसिकौ प्रसिद्धौ| वाक्यार्थावबोधे वाक्यतात्पर्याधिगमे च कुशलम्| तथा निष्णातं कुशलं वाक्यपाठावबोधधारणाप्रयोगैरष्टाङ्गायुर्वेदे| यथाम्नायमागमानतिक्रमेण| सुष्ठु विहितौ निष्पादितौ योगक्षेमौ येन तथा| सन्निहिता नित्यनिकटस्था अगदा विषूचिकादिप्रशमनादयो योगा यस्य| सात्म्यज्ञं सर्वस्य देशादिना सात्म्यं जानातीति|| ३||
Adhikarana rAjA vaidyAyatto bhavet (4) · Śloka 4
तमर्थमानाभ्यां यथाकालं गुरुमिव शिष्यः, पितरमिव पुत्रः पूजयेत्|
प्रतिकूलमपि तद्वचः साम्प्रतं मतमिति प्रतिमन्येत|
न हि भद्रोऽपि गजपतिर्निरङ्कुशः श्लाघनीयो जनस्य तस्मात्तदायत्तमाहारविहारं प्रति चात्मानं कुर्यात्||४||
तं च प्राणाचार्यं राजा अर्थेन, मानेन सत्कारेण च पूजयेत् यथाकालम्| यथा गुरुं शिष्यः पूजयति, पितरं च यथा पुत्र इति| प्रतिकूलं द्विष्टमपि तस्य प्राणाचार्यस्य वचनं साम्प्रतं युक्तमिति मन्येत| यस्मान्न हि सुशीलोऽपि गजपतिर्निरङ्कुशः अङ्कुशरहितो जनस्य श्लाघनीयो भवति| तस्माद्राजा प्राणाचार्यायत्तमाहारविहाराभ्यामात्मानं कुर्यात्| तत्प्रतिषिद्ध आहारो विहारश्च न विधेयः, तदङ्गीकृतश्च विधेय इत्यर्थः| भद्र इति जात्युत्कृष्टो हस्ती तच्छास्त्रेषु प्रसिद्धलक्षणः|| ४||
Adhikarana tatra hetuH (5) · Śloka 5
उपात्तमपि खलु जीवितमुपायबलेन स्वयमधितिष्ठति||५||
एतेन किं प्रयोजनमित्याह-उपात्तमदृष्टादागतमपि जीवितं सापायमुपायबलेन स्वयमनायासेनैव शरीरमधितिष्ठति| एष च महानुपायो यद्वैद्यपरायत्तता|| ५||
Adhikarana rAjA rAjagRuhAsanne prANAcAryaM niveshayet (6) · Śloka 6
अपि च बहुपरिग्रहा नरपतयः|
सन्ति चाशुकारिणः शूलसंन्यासादयः|
प्रतिक्षणं प्रत्यवेक्षणीयावस्थाश्च रोगिणो विशेषेण राजानः|
ते हि प्रमादपरिगता दुःखासहिष्णवश्च स्वयमप्यपथ्यरुचयः सन्निहिताहितप्रियवचनप्रायपरिचारकाश्च तस्माद्भिषजो राजा राजगृहासन्ने निवेशनं कारयेत्|
तथाहि सर्वोपकरणेषु नृपति शरीरोपयोगिष्वपरोक्षवृत्तिर्भवति||६||
अपि च न केवलमन्तरोक्तेन प्रकारेण प्राणाचार्यं परिगृह्णीत राजा यावद्राजगृहनिकटे भिषजः प्राणाचार्यस्य निवेशनं वेश्म कारयेत्| यतो नरपतयो बहुपरिग्रहाः प्रभूतपरिवाराः| शूलादयश्च व्याधय आशुकारिणः स्वमर्थं मरणमाशु शीघ्रं कुर्वन्तीत्याशुकारिणः| सर्वे च रोगिणः प्रतिक्षणं प्रत्यवेक्षणीयावस्थाः, विशेषेण राजानः| किं ते विशेषेणेत्याह-ते हि स्वातन्त्र्यात् प्रमादं कुर्वन्ति| रोगौषधादिदुःखं सोढुं न शक्नुवन्ति| तथा स्वयं स्वभावेनैवापथ्याभिलाषिणः| तेभ्यश्च प्रायेण निकटवर्तिनो हितं प्रियं च वदन्तीति| तस्माद्राजगृहनिकटवर्त्ती भिषक् सर्वेषु राजशरीरोपकरणेषु प्रत्यक्षवृत्तिर्भवति| येवं चान्नपानादिकमुपकरणं रक्षितुं शक्नोतीति|| ६||
Adhikarana rAjAnaM bhiShak svayamannaM bhojayet (7) · Śloka 7
स सम्यक्सम्पन्नमन्नं सुपरीक्षितं विशुद्धमग्न्यादिषु प्रागुपनीतं शिखिना दृष्टमभिप्रोक्षितं प्रोक्षणैः पुरःस्थितो राजानं हस्तबद्धौषधिरत्नं भोजयेत्||७||
तत्रान्नं प्राधान्यात् प्रथममुच्यते| स च भिषक् राज्ञः पुरतः स्थितो राजानमन्नं भोजयेत्| किम्भूतमन्नं? सम्यक्साध्वीभिः स्रवणबाष्पोद्गमनादिक्रियाभिः सम्पन्नम्, सुपरीक्षितं वक्ष्यमाणेन विधिना, प्रथमं चाग्निमक्षिकादिभ्यो दत्तं, तथा सविषं निर्विषमिति परिज्ञानं भवति, शिखिना मयूरेण दृष्टं, प्रोक्षणैः सुपर्णमन्त्रोदकादिभिः प्रोक्षितं सिक्तम्| तथा हि सविषमपि निर्विषीभवति| किम्भूतं राजानं हस्ते बद्धान्यौषधानि रत्नानि च येन तम्|| ७||
Adhikarana rAjabhojane~agadapraliptadundubhivAdanam (8) · Śloka 8
भुञ्जानस्य चास्य दुन्दुभीनगदप्रलिप्तान् वादयेत्||८||
अस्य च राज्ञो भुञ्जानस्य चागदप्रलिप्तान् दुन्दुभीन् भेरीर्वादयेत्|| ८||
Adhikarana saviShAnnalakShaNam (9) · Śloka 9
तत्र सविषमन्नम् स्राव्यमाणमविस्राव्यं भवति, चिरेण पच्यते, पक्वं च सद्यः पर्युषितमिव निरूष्म स्तब्धं च जायते,यथास्वं वर्णगन्धरसैर्व्यापद्यते, प्रक्लिद्यते, चन्द्रकाचितं च भवति||९||
सुपरीक्षितमित्युक्तं सा च परीक्ष्योच्यते-सविषमन्नमित्यादि| सविषमन्नं स्राव्यमाणं स्रावयितुमशक्यं भवति| चिरेण च पाकं याति| पक्वमात्रमेव पर्युषितमिव गताहोरात्रमिवोष्मरहितं स्तब्धं कठिनं च सम्पद्यते| यथास्वं यथात्मीयैर्वर्णादिभिर्नश्यति| क्लेदं च याति| चन्द्रकैश्च नानाविधैर्मण्डलैः समन्ताच्चितं भवति||९||
Adhikarana saviShaduShTavya~jjanalakShaNam (10) · Śloka 10
व्यञ्जनानामाशु शुष्कत्वं भवति क्वाथः|
ध्यामता श्यामता हीनातिरिक्तविकृतानां चात्रच्छायानां दर्शनमदर्शनमेव वा, फेनपटलसीमन्तोर्ध्वविविधराजितन्तुबुद्बुधप्रादुर्भावो, विशेषेण लवणोल्बणेष फेनमाला||१०||
व्यञ्जनानां रसादीनां सविषाणां क्वाथः पच्यमानस्योर्ध्वं प्रवृत्तः फेनो मलिनो भवति| अत्र च व्यञ्जनेषु च्छायानां मुखादिप्रतिबिम्बानां स्वप्रमाणवर्णादिना हीनानामतिरिक्तानां विकृतानां विलक्षणानामेव वा दर्शनमथवा च्छायानामदर्शनमेव| अन्ये तु छायाशब्देन कान्तिं वदन्ति| तेषु च व्यञ्जनेष्वधिकानां बाष्पादीनां सम्भवः| फेनपटलं फेनसमूहः| सीमन्तो विच्छेदः| ऊर्ध्वमुपरि विविधा राजयो रेखाः| तन्तुबुद्बुधे प्रसिद्धे| तत्र लवणोल्बणेषु उत्कटलवणद्रव्येषु व्यञ्जनेषु सविषेषु फेनमाला|| १०||
Adhikarana saviShamAMsarasAdilakShaNam (11) · Śloka 11
रसस्य मध्ये नीला राजिः, पयसस्ताम्रा, मद्यतोययोः काली, दध्नः श्यावा, तक्रस्य नीलपीता, मस्तुनः कपोताभा, धान्याम्लस्य कृष्णा, द्रवौषधस्य कपिला, घृतस्य कपिलाभा, क्षौद्रस्य हरिता, तैलस्यारुणा, वसागन्धश्च||११||
मांसरसे नीला राजिः| सुबोधमेतत्| शेषस्य द्रवौषधस्य क्वाथादेः कपिला|| ११||
Adhikarana viShadUShitaphalalakShaNam (12) · Śloka 12
फलानामामानां पाकः, पक्वानां प्रकोथः||१२||
Adhikarana viShadUShitadravyalakShaNam (13) · Śloka 13
द्रव्याणामार्द्राणां सहसा म्लानत्वमुत्पक्वभावः, शुष्काणां श्यावता वैवर्ण्यं वा, कठिनानां मृदुता, मृदूनां कठिनत्वम्||१३||
आर्द्राणां द्रव्याणां मूलकबिसादीनां सविषाणां म्लानत्वमुत्पक्वत्वं च| उत्पक्वमिव पक्वानामिव मार्दवादि| शुष्काणां शुण्ठीहरिद्रादीनां श्यावत्वं वैवर्ण्यं वा| श्यावो नीललोहितः|
Adhikarana viShadUShitamAlyalakShaNam (14) · Śloka 14
माल्यस्य म्लानता गन्धनाशः स्फुटिताग्रत्वम्||१४||
Adhikarana saviShAstaraprAvaraNalakShaNam (15) · Śloka 15
आस्तरणप्रावरणानां ध्याममण्डलता तन्तुरोमपक्ष्मशातनं च||१५||
आस्तरणप्रावरणानां श्यामानि मलिनानि मण्डलानि तन्त्वादिशातनं च|| १५||
Adhikarana viShaduShTAnAM lohamaNimayAnAM bhAjanAdInAM lakShaNam (16) · Śloka 16
लोहमणिमयानां पङ्कमलोपदेहः, स्नेहरागगौरवप्रभावर्णस्पर्शनाशश्च||१६||
लोहानां मणिमयानां पङ्केन मलेन चोपदेहः, स्नेहादिनाशश्च|
Adhikarana viShadAturlakShaNam (17) · Śloka 17
विषदस्तु स्वदोषशङ्कया त्रस्तो, भीतः, स्वेदवेपथुमान्, शुष्कश्याववक्त्रः, समन्तात्सोद्वेगं विलक्षोऽभिवीक्षते, यत्र चानेन विषं प्रयुक्तं तद्विशेषेण|
तथा स्रस्तोत्तरीयः स्तम्भकुड्यादिभिरात्मानमन्तर्धत्ते|
स्खलितगतिर्दीनो लज्जावानस्थानहासी पृष्टोऽप्यसम्बन्धमुत्तरं ददाति, नैव वा|
विवक्षुर्मुह्यति, अङ्गुलीः स्फोटयति, ग्रीवामालभते, शिरः कण्डूयति, ओष्ठौ परिलेढ्कि, जृम्भते, भुवं विलिखति, क्रियासु त्वरते, विपरीतमाचरति, स्वभूमौ च नावतिष्ठते||१७||
विषं ददातीति विषदः| स स्वमात्मीयं दोषमाशङ्क्य त्रासादिभिर्युक्तो भवति| एतान्येव विषदातृलक्षणानि| तीव्रः शीघ्रोत्पत्तिविनाशो भयवेगत्रासः, भीतः सभयः| वेपथुः कम्पः| शुष्कश्याववक्त्रः शुष्कास्यः, श्यावमुखः| समन्तात्सर्वदिक्षु सोद्वेगं कृत्वा विलक्षोऽस्पष्टदृष्टिर्वीक्षते| यत्र यस्मिन् द्रव्ये तेन विषं प्रयुक्तं तद्विशेषेण वीक्षत इति सम्बन्धः| तथा तस्योत्तरीयपटः स्कन्धादितः स्रंसते पतति तथा स्तम्भादिभिरात्मनोऽन्तर्धानं करोति| कुड्यं भित्तिः| अस्थानेऽप्रसङ्गे हसति| पृष्टः सत्रसम्बन्धमनन्वितपदार्थमुत्तरं ददाति| नैव वोत्तरं ददातीति सम्बन्धः| विवक्षुर्मुह्यति? यत्किञ्चिद्वक्तुमिच्छति न तत् स्मरतीत्यर्थः, ग्रीवामालभते शिरोधरां स्पृशतीति| सर्वं च कर्तव्यं विपरीतमाचरति| स्वभूमावुचिते स्थाने नावतिष्ठते|| १७||
Adhikarana saviShAnnasya vanhyAdiShvapi parIkShAyAM hetuH (18) · Śloka 18
नृपाज्ञात्वरयापि केचिदपराधान्तराद्वाऽनवस्थितसत्वाः समाचरन्त्येवम्|
तस्मादग्न्यादिष्वपि परीक्षेत||१८||
एवं च सविषमन्नमग्न्यादिष्वपि परीक्षेत| यतो नैतावता विषदलक्षणेनैव निश्चयेन सविषमन्नं परिज्ञायते| यस्मादनवस्थितसत्वा अधीरप्रकृतयो नृपपरिचारका नृपाज्ञात्वरिता अपराधान्तराद्वाप्येवंलक्षणयुक्ता भवन्ति| विषदानापराधादन्योऽपराधोऽपराधान्तरम्|| १८||
Adhikarana saviShAnnaprakShepe vahneH sthitiH (19) · Śloka 19
वह्निस्तु सविषमन्नं प्राप्यैकावर्तो रूक्षमन्दार्चिरिन्द्रायुधवदनेकवर्णज्वालो भृशं चटचटायते||१९||
वह्निस्तु सविषमन्नं प्राप्यैकावर्तो भवति-मुसलाकृतिर्ज्वलति| रूक्षं निःस्नेहं मन्दं मृदुवेगमर्चिर्ज्वाला भवति|| १९||
Adhikarana saviShAnnaprakShepe dhUmasya varNanam (20) · Śloka 20
कुणपगन्धी धूमश्चास्य मूर्च्छाप्रसेकरोमहर्षशिरोवेदनापीनसदृष्ट्याकुलतां जनयति||२०||
तत्र धूमश्चास्य सविषान्नस्य प्रसेकरोमहर्षादीञ्जनयति|| २०||
Adhikarana saviShAnnadhUmajeShu vikAreShu cikitsA (21) · Śloka 21
तत्र नलदकुष्ठलामज्जकैः क्षौद्रद्रुतैर्नस्यमञ्जनं च कुर्यात्|
धूममेव वापामार्गविडङ्गबलाद्वयचित्रकमेषशृङ्गिपुष्पसुमनःक्षारकद्राक्षाघृतगुडकृतं पिबेत्||२१||
तत्र विषान्नधूमजेषु प्रसेकादिषु नलदादिभिः समभागैर्माक्षिकद्रुतैर्नस्यं चाञ्जनं च कुर्यात्| नलदं मांसी| धूमं वा अपामार्गादिकृतं पिबेत्| सुमनःक्षारकं सुमनसां मुकुलकम्| अपामार्गादिद्राक्षान्तं समभागम्| घ्रूतगुडौ पिण्डीकरणाय| हेतुसादृस्यादेवकारप्रयोगः|| २१||
Adhikarana pakShyAdibhiH saviShAnnaparIkShaNam (22) · Śloka 22
स्नेहलवणयोगादपि चाग्निरित्थं स्यात्|
अतो वयोभिः परीक्षेत|
तत्र विषजुष्टाहाराभ्यवहारात्काकाः क्षामस्वरा भवन्ति|
मक्षिकाः सविषान्ने ननिलीयन्ते|
निलीनाश्च व्यापद्यन्ते|
दृष्ट एव चास्मिंस्तु चकोरस्याक्षिणी विरज्येते|
कोकिलस्य स्वरो विकृतिमेति|
हंसस्यगतिः स्खलति|
कूजति भृङ्गराजः|
माद्यति क्रौञ्चः|
विरौति कृकवाकुः|
विक्रोशति शुकः शारिका च|
छर्दयति चामीकरः|
अन्यतो याति कारण्डवः|
म्ऱ्रियते जीवज्जीवको ग्लायति वा हृष्टरोमा भवति नकुलः|
शकृद्विसर्जति वानरः|
रोदिति पृषतः|
हृष्यति मयूरः|
दर्शनादेव चास्य विषं मन्दतामुपैति||२२||
वयोभिः पक्षिभिरपि परीक्षेत| यतः कदाचिन्निर्विषमप्यन्नं स्नेहलवणादिकं प्राप्याग्निरित्थमेव भवति| अन्यत्सुबोधम्| मक्षिकाः सविषेऽन्ने न निलीयन्ते नावतरन्ति| निलीना आपतिता आपन्नाश्च व्यापद्यन्ते म्रियन्ते| कृकवाकुः कुक्कुटो विरौत्यधिकं शब्दं करोति इत्यर्थः| शुकशारिके विक्रोशतः| उच्चैर्दीर्घशब्दो विक्रोशनम्| दृष्ट एव सविषेऽन्ने जीवञ्जीवको मरणं ग्लानिं वा प्राप्नोति| नकुलस्य च रोमहर्षः| वानरस्य पुरीषोत्सर्गः| पृषतस्य रोदनम्| मयूरस्य हर्षः| अस्य च मयूरस्य दर्शनात्तत्कालमेव विषं मन्दशक्तितां प्राप्नोति|| २२||
Adhikarana saviShAnnoShmalakShaNam (23) · Śloka 23
विषदूषितस्य पुनराहारस्योष्मा मयूरकण्ठाभोऽभ्युदेति|
तद्बाष्पेणापि धूमवन्मूर्च्छादयः|
तेषां तद्वदेव साधनम्||२३||
अतिपीतधूमवत्सविषान्नबाष्पाद् व्याधयो भवन्ति| धूमविधौ चोक्तं मूर्च्छारक्तपित्तार्दितानीति| तद्वच्च साधनं चिकित्सितं घृतपाननस्यादिकं धूमविधावेव वक्ष्यमाणलक्षणम्|| २३||
Adhikarana saviShAnnasparshe vikArAstaccikitsA ca (24) · Śloka 24
हस्तेन स्पृष्टमन्नं विषवद्दाहशोफस्वापनखशातान् करोति|
तस्य श्यामेन्द्रगोपसोमोत्पलैर्लेपः||२४||
विषान्नं स्पृष्टं विषमिव स्पृष्टं दाहादीन् करोति| स्वापः अचेतनत्वम्| तत्र विषस्पर्शजेषु दाहादिषु श्यामादिभिः समभागैर्जलपिष्टैः स्पृष्टाङ्गलेपः| श्यामा गन्धप्रियङ्गुः| इन्द्रगोपो भास्वरः क्रिमिविशेषः| सोमो ब्राह्मी|| २४||
Adhikarana saviShAnnAbhyavahAre lakShaNAni tatra cikitsAtideshaH (25) · Śloka 25
अभ्यवह्रियमाणं त्वोष्ठचिमिचिमान्तर्वक्त्रदाहजिह्वामूलगौरवहनुस्तम्भदन्तहर्षलालाः करोति रसापरिज्ञानं च|
तत्र धूमोक्तं दन्तकाष्ठोक्तं च कर्म||२५||
सविषमन्नमभ्यवह्रियमाणस्य स्थितमोष्ठचिमिचिमायनादीन् करोति| लवणरसापरिज्ञानं लवणरसो जिह्वां न चेतयत इत्यर्थः| तत्र धूमोक्तं कर्म| विषान्ने धूमोक्तं नलदकुष्ठादिभिर्नस्यादिकं दन्तकाष्ठोक्तं सविषे दन्तकाष्ठे वक्ष्यमाणम्|| २५||
Adhikarana AmAshayagataviShalakShaNam (26) · Śloka 26
आमाशयगतं स्वेदमदमूर्च्छाच्छर्दिवैवर्ण्याध्मानरोमहर्षदाहारुचिदृष्टिहृदयोपरोधान् बिन्दुभिश्चाचयमङ्गानां करोति||२६||
तच्च विषान्नमामाशयप्राप्तं स्वेदादीन् करोति| दृष्टेर्हृदयस्य च रोधः स्तम्भः| बिन्दुभिर्नानावर्णैरङ्गानामाचयः समन्ताच्चयनम्|| २६||
Adhikarana AmAshayagataviShacikitsA (27) · Śloka 27
तत्र मदनफलालाबुबिम्बीकोशातकीफलैर्दधिमधुयुक्तमाशु वमनं दद्यात्, निष्पावाम्बुभिर्वा|
ततः स्निग्धशरीरं विरेचयेत्||२७||
तत्र मदनफलादिभिर्दधिसंयुक्तैर्वमनं दद्यात्| अलाबु कटुकालाबुफलम्| बिम्ब्यास्तुण्डिकेर्याः फलम्| कोशातक्या जालिन्याः फलम्| निष्पावाम्बुभिर्वा केवलैर्वमनम्| निष्पावः शिम्बिधान्यविशेषः| ततः कृते वमने पश्चात् स्निग्धशरीरं विरेचयेत्| तदासुत्य संस्रुतं जलम्|| २७||
Adhikarana viriktasya jIvano nAmAgadasya pAnam (28) · Śloka 28
त्रिफलात्रिकटुनागपुष्पमधुकबर्हिणपर्णीबृहतीद्वयचूर्णं सिंहव्याघ्रवृकतरक्षुद्वीपिमार्जारसृगालमृगगोधानामन्यतमपित्तरससंयुक्तं सक्षौद्रं पानमेव जीवनो नामागदः परं सर्वविषौषधम्|
तस्मिन् जीर्णे श्यामाव्योषातिविषासिद्धेन पयसा घृतेन वोपस्तम्भितां यवागूं पाययेत्|
परिणतायां च तस्यां त्रिकटुकसिद्धेन मुद्गयूषेण किञ्चिल्लवणेन ससर्पिष्केण मृद्वोदनं भोजयेत्|
मधुकशिरीषचन्दनैश्चैनमालिम्पेत्||२८||
ततः कृते वमने पश्चात् स्निग्धशरीरं विरेचयेत्| विरेचनार्थं च त्रिफलादिचूर्णं समाक्षिकं यथाप्रकृति च सिंहादिनामान्यतमस्यान्तर्जठरसम्भवेन पित्तेन मृगोर्वारोर्गवाक्ष्या रसेन वा पानोपयोगेन संयुक्तं पाययेत्| अयं च योगो जीवनो नामागदः परं सर्वविषाणामौषधम्| तस्मिंश्च जीर्णे श्यामातिविषासिद्धेन क्षीरेण घृतेन वोपस्तम्भितां स्वल्पेन युक्तां यवागूं पाययेत्| श्यामा गन्धप्रियङ्गुः| अन्यत्सुबोधम्|| २८||
Adhikarana pakvAshayagataviShalakShaNam (29) · Śloka 29
पक्वाशयगतं तृड्दाहमूर्च्छातीसाराटोपतन्द्रेन्द्रियविकृतिबलभ्रंशकार्श्यपाण्डुत्वोदराणि जनयति||२९||
पक्वाशयगतं तृडादीन् करोति|| २९||
Adhikarana pakvAshayagataviShacikitsA (30) · Śloka 30
तत्र नीलिनीफलयुक्तेन सर्पिषा विरेचनं, समाक्षिकं च दूषीविषारिं दध्ना पाययेत्||३०||
तत्र नीलिनीफलसंयुक्तं सर्पिर्विरेचनम्| दूषीविषचिकित्सायां वक्ष्यमाणं (उ०अ०-४०) दूषीविषारिनामानमगदं समाक्षिकं दध्ना पाययेत्|| ३०||
Adhikarana dantakAShThaprayuktaviShalakShaNam (31) · Śloka 31
दन्तकाष्ठप्रयुक्ते तु विषे कूर्चकविशरणमौषधगन्धो रूक्षता तालुदन्तजिह्वौष्ठमांसशो फश्च||३१||
दन्तप्रयुक्ते विषे कूर्च्चकस्य सदनं दन्तविषौषधिगन्धश्च दन्तकाष्ठे रूक्षता च जिह्वादीनां शोफः|| ३१||
Adhikarana dantakAShThaprayuktaviShacikitsA (32) · Śloka 32
तत्र प्रच्छाय धातकीपुष्पजाम्बवास्थिहरीतकीचूर्णैः सक्षौद्रैः सप्तच्छदकल्केन वा प्रतिसारणं कुर्यात् दाडिमकरमर्दभव्याम्रातककोलबदररसक्षौद्रयुक्तं गण्डूषम्||३२||
तत्र शस्त्रेण प्रच्छानं दन्तमांसादिषु कृत्वा धातकीपुष्पादीनां चूर्णेन समाक्षिकेण प्रतिसारणं सश्लेष्मत्यागं मुखे औषधस्य धारणं कुर्यात्| केवलेन वा सप्तच्छदकल्केन प्रतिसारणं कुर्यात्| कल्को द्रवमिश्रचूर्णः| तथा दाडिमादीनां रसेन माक्षिक-युक्तेन गण्डूषः| करमर्दं कराम्लम्| आम्रातकं पीतनकम्|| ३२||
Adhikarana jihvAnirlekhanAdiprayuktavisheSho dantakaviShalakShaNacikitsAtideshaH (33) · Śloka 33
अनेन जिह्वानिर्लेखनकवलगण्डूषा व्याख्याताः||३३||
अनेनैव प्रकारेण जिह्वानिर्लेखनादयो व्याख्याताः| तेनैतदुक्तं भवति-जिह्वानिर्लेखनादिषु प्रयुक्ते विषे दन्तकाष्ठवल्लक्षणं तद्वदेव चिकित्सा| वक्त्रसंयोगात्साम्यमेतेषु विषस्य| केवलं ताम्बूलादि मुखे कार्यम्|| ३३||
Adhikarana a~jjanaprayuktaviShalakShaNam (34) · Śloka 34
अञ्जनप्रयुक्तेऽश्रूपदेहराग वेदनादृष्टिविभ्रमा भवन्त्यान्ध्यञ्च||३४||
अञ्जनप्रयुक्ते विषे अश्रूपदेहादयो भवन्ति| उपदेहो दूषिका| दृष्टिविभ्रमो दर्शनभ्रान्तिरसत्यदर्शनम्|| ३४||
Adhikarana a~jjanaprayuktaviShacikitsA (35) · Śloka 35
तत्र सर्पिष्पानं योज्यं श्रृतेन पयसा सप्तकृत्वः पिप्पलीर्भावयेत्|
ततस्तत्कल्केन सर्पिर्विपक्वं नेत्रतर्पणम्|
कपित्थमेषश्रृङ्गीभल्लातकानां पुष्पैर्वरणनिर्यासेन वाञ्जनं बृहतीशिरीषबीजप्रपौण्डरीकनागबलाचूर्णं सप्तकृत्वो मधुना भावयेत्|
तच्च स्रोतोऽञ्जन सुवर्णचूर्णयुक्तमञ्जनं देयम्||३५||
तत्र घृतपानं चिकित्सा| पिप्पलीश्च पयसा क्षीरेण श्रृतेन सप्तवारान् परिशोष्य परिशोष्य भावयेत्| ततस्तासां कल्केन पक्वं सर्पिर्नेत्रे तर्पणं कार्यम्| कपित्थादीनां पुष्पैः पिष्टैर्वरणाच्च रसेन पीडितेनाञ्जनं कार्यम्| मेषश्रृङ्गी अजश्रृङ्गी| बृहत्यादेश्चूर्णं सप्तकृत्वो माक्षिकेण भावयेत्| तेन चूर्णेन स्तोकेन सौवीरेणाञ्जनेन सुवर्णचूर्णेन च युक्तमञ्जनं देयम्|| ३५||
Adhikarana nasyadhUmaprayuktaviShalakShaNam| (36) · Śloka 36
नस्यधूमप्रयुक्ते शिरोरुक्कफास्रावः खेभ्यो रुधिरागमनमिन्द्रियवैकृतं च||३६||
नस्यधूमयोः प्रयुक्ते विषे शिरोरुगादि|| ३६||
Adhikarana nasyadhUmaprayuktaviShacikitsA (37) · Śloka 37
तत्राऽतिविषाश्वेताकाकमाचीमदयन्तिकाकल्के क्षीरसिद्धं सर्पिर्न्नस्ये पाने च विदध्यात्||३७||
तत्राऽतिविषाकल्केन क्षीरेण च सिद्धं घृतमुभयत्रापि नस्ये पाने च देयम्| श्वेता गिरिकर्णिका|| ३७||
Adhikarana abhya~ggaprayuktaviShalakShaNam (38) · Śloka 38
अभ्यङ्गप्रयुक्ते त्वग्दाहस्वेदपाकस्फोटावदारणानि||३८||
अभ्यङ्गप्रयुक्ते त्वग्दाहादयः| दरणमङ्गस्य खण्डशो गमनम्|
Adhikarana abhya~ggaprayuktaviShacikitsA (39) · Śloka 39
तत्र शीताम्बुपरिषिक्तस्य चन्दनतगरोशीरकुष्ठवेणुपत्रिकामृतासोमवल्लीश्वेतापद्मकालेयकैरनुलेपनम्|
एतान्येव च सकपित्थरसगोमूत्राणि पानम्|
गिरिकर्णिकाश्वेतमूलप्रियङ्गुसारिवामधुकसर्पसुगन्धामृगोर्वारुकतकमूलानिशेलुक्वाथपिष्टानि प्रलेपः||३९||
तत्र शीतोदकपरिषिक्तस्य सतश्चन्दनादिभिरनुलेपनम्| वेणुपत्रिका हिङ्गुपत्रिका| अमृता गुडुची| सोमवल्ली ब्राह्मी| श्वेता कटभी| कालेयकं चन्दनम्| एतान्येव च चन्दनादीनि कपित्थरसेन गोमूत्रेण च संयुक्तानि पेयानि| गिरिकर्णिकादीनि मृगोर्वारुमूलान्तानि शेलुक्वाथे पिष्टानि प्रलेपार्थे योज्यानि| श्वेतमूलं पुनर्नवा| सर्पसुगन्धा नागदमनी| मृगोर्वारुर्गवाक्षी| शेलुः श्लेष्मातकः|| ३९||
Adhikarana udvartanAdiprayuktaviSheShvabhya~ggaviShalakShaNacikitsAtideshaH (40) · Śloka 40
अनेनोद्वर्तनघर्षणपरिषेकानुलेपनभूषणयानशय्याऽऽस्तरणवस्त्रकवचपादुकोपानत्पादपीठा व्याख्याताः||४०||
अनेनाभ्यङ्गविषप्रयोगेणोद्वर्तनादिविषप्रयोगा व्याख्याताः| तेनैतदुक्तं भवति- इहाभ्यङ्गेन स्पर्शप्रयोगो विषस्यैवमुद्वर्तनादिभ्योऽपि| अतस्तदेव लक्षणं, सैव चिकित्सा| पादुके काष्ठकृते| उपानहौ चर्मकृते| यानं रथादि| एतदेव निर्धारयति||४०||
Adhikarana ABaraNaprayuktaviShasya visheShacikitsA (41) · Śloka 41
विशेषतस्त्वाभरणकृते विकारेऽश्वगन्धापामार्गकिणिहीख़दिरशिरीषकल्कैर्गोपित्तयुक्तैः प्रदेहः||४१||
आभरणप्रयुक्ते विषविकारे विशेषेणाश्वगन्धादिकल्कैर्मिश्रितैर्गोपित्तसंयुक्तैर्लेपः| किणिही गिरिकर्णिका|| ४१||
Adhikarana pAdapIThaprayuktaviShasya visheShacikitsA (42) · Śloka 42
पादपीठकृते श्लेष्मातकसर्पसुगन्धाम्रकल्को मधुयुक्तः||४२||
पादपीठकृते विकारे श्लेष्मातकादिकल्को माक्षिकयुक्तः प्रलेपः| सर्पसुगन्धा नागदमनी|| ४२||
Adhikarana CatraprayuktaviShalakShaNam (43) · Śloka 43
छत्रप्रयुक्ते वेदनास्फोटानां क्षिप्रपाकानां पक्वजाम्बवप्रकाशानां प्रादुर्भावः||४३||
छत्रप्रयुक्ते स्फोटोद्भवः|| ४३||
Adhikarana Catraprayukte viShacikitsA (44) · Śloka 44
तत्र मधुकपाटलाकशेरुकलोध्राञ्जनकुष्ठसर्पसुगन्धाखदिरशिरीषकल्कैः सर्वगात्रप्रदेहः||४४||
तत्र मधुकादिभिर्मिश्रितैर्गोपित्तसंयुक्तैः प्रलेपः सर्वगात्रेषु|
Adhikarana cAmaravyajanaprayuktaviSheShu CatraviShalakShaNacikitsAtideshaH (45) · Śloka 45
अनेन चामरव्यजने व्याख्याते||४५||
अनेन छत्रविशेषेण चामरबालव्यजनविषे अपि व्याख्याते| तेनैतदुक्तं भवति-उपयोगसामान्यादेतयोश्छत्रेण सदृशलक्षणत्वम्| सैव चिकित्सा| व्यजनं तालवृन्तम्|| ४५||
Adhikarana shiro~abhya~ggaprayuktaviShalakShaNam (46) · Śloka 46
शिरोऽभ्यङ्गप्रयुक्ते शिरोवेदना ग्रन्थिजन्म केशच्यवनं च||४६||
शिरोऽभ्यङ्गप्रयुक्ते शिरसि वेदनादिजन्म|| ४६||
Adhikarana shiro~abhya~ggaprayuktaviShacikitsA (47) · Śloka 47
तत्र श्यामापालिन्दीतण्डुलीयकचूर्णघृतर्क्षपित्तैः सुभावितया कृष्णमृदा प्रलेपः|
गोमयमालती मूषिककर्ण्यन्यतमरसो वाऽऽगारधूमो वा श्लेष्मातकत्वक्पाटलाशिरीषमधुकहरिद्राद्वयैरजाक्षीरालोडितैः परिषेकः||४७||
तत्र श्यामादीनां चूर्णेन घृतर्क्षपित्ताभ्यां मिश्रितेन सुभावितया कृष्णमृदा प्रलेपः| श्यामा प्रियङ्गुः| पालिन्दी त्रिवृता| गोमयादीनामन्यतमस्यैकस्य पीडितो रसः प्रलेपः| श्लेष्मातकत्वगादीनि मिश्रितान्यजाक्षीरेणालोडितानि परिषेकः शिरसि|| ४७||
Adhikarana shiraHsnAnodakAdiprayuktaviShe shiro~abhya~ggavilakShaNacikitsAtideshaH (48) · Śloka 48
अनेन शिरःस्नानोदककङ्कतस्रगुष्णीषा व्याख्याताः||४८||
अनेन शिरोऽभ्यङ्गविषेण शिरःस्नानोदकादिविषाणि व्याख्यातानि उपयोगसादृश्याल्लक्षणचिकित्सितयोरपि सादृश्यम्| कङ्कतं काष्ठादिमयं बहुदन्तं केशसंयमनम्| उष्णीषः केशबन्धपट्टकः|
Adhikarana karNapUraNaprayuktaviShalakShaNam (49) · Śloka 49
कर्णपूरणप्रयुक्ते शोफशूलपाकाः श्रोत्रवैगुण्यं च||४९||
कर्णपूरणद्रव्यप्रयुक्तेन शोफाद्युत्पत्तिः| श्रोत्रयोर्विगुणता अश्रवणमिति|| ४९||
Adhikarana karNapUraNaprayuktaviShacikitsA (50) · Śloka 50
तत्र बहुपत्रास्वरसो घृतक्षौद्रसंयुक्तः प्रतिपूरणं सोमवल्करसो वा सुशीतः||५०||
तत्र बहुपत्रायाः स्वरसो घृतमाक्षिकाभ्यां संयुक्तः कर्णपूरणे योज्यः| बहुपत्रा बृहती| केवल एव वा सुशीतः सोमवल्कस्य रसः कर्णपूरणम्| सोमवल्कः कट्फलः|| ५०||
Adhikarana mukhAlepaprayuktaviShalakShaNam (51) · Śloka 51
मुखालेपप्रयुक्ते मुखश्यावता पद्मकण्टका भवन्त्यभ्यङ्गजाश्च विकाराः||५१||
मुखालेपद्रव्यप्रयुक्ते मुखश्यावत्वाद्युद्भवः| पद्मकण्टकाः क्षुद्ररोगेषु (उ० अ०-३६) वक्ष्यमाणलक्षणाः| अभ्यङ्गजा ये अभ्यङ्गप्रयुक्तविषविकारास्त्वग्दाहस्वेदादयः|| ५१||
Adhikarana mukhAlepaprayuktaviShacikitsA (52) · Śloka 52
तत्र मधुकपयस्याबन्धुजीवभञ्जीपुनर्नवचन्दनैः सघृतैर्लेपो मधुसर्पिषी पानम्||५२||
तत्र मधुकादिभिर्मिश्रितैः सघृतैर्लेपः| बन्धुजीवः पुत्रतमः| भञ्जी भार्ङ्गी| तथा घृतमाक्षिकं मिश्रितं पानार्थे प्रयोज्यम्|| ५२||
Adhikarana saviShapuShpAghrANaprayuktaviShalakShaNam (53) · Śloka 53
सविषपुष्पाघ्राणाच्छिरोव्यथासाश्रुनेत्रत्वं गन्धाज्ञानं च||५३||
विषपुष्पाघ्राणाच्छिरोव्यथाद्युद्भवः|| ५३||
Adhikarana saviShapuShpAghrANaprayuktaviShe mukhAlepaviShacikitsitaviShAnnabAShpacikitsitayoratideshaH (54) · Śloka 54
तत्रानन्तरोक्तो विधिर्बाष्पोदितश्चेति||५४||
तत्रानन्तरोक्तमुखालेपविषविकारविधिः विषान्नबाष्पवच्चिकित्सा च|| ५४||
Adhikarana saviShopakaraNadravyAdInAM shuddhiH (55) · Śloka 55
भवति चात्र- फलमूलच्छदादीनां दद्यात्प्रक्षालनोदकम्|
भाजनव्यञ्जनानां च तथा कुर्यादतन्द्रितः|
घ्रेयाणि घ्रापयित्वा तु स्पृश्यान् संस्पृश्य तानपि|
प्रतीवापं ततो दत्त्वा प्रतीक्ष्यैवैकनाडिकाम्|
ततो विज्ञाय शुद्धिं च भाजनस्योदकस्य च|
आहारमुपयुञ्जीत यथावद्वसुधाधिपः||५५||
भवति चात्रेत्यादिसुबोधम्|| ५५||
Adhikarana rAj~jaH haste tIkShNaviShasandhAraNaphalam ; bheShajAgAralakShaNam (56) · Śloka 56
मन्दं तीक्ष्णविषाभ्यासाद्विषमुत्क्षीयते भृशम्|
तस्मात्तीक्ष्णविषं हस्ते बध्नीयात्कुशलो भिषक्|
विषसन्धारणं धन्यं रक्षोघ्नं प्रीतिवर्धनम्|
अपि च- सापिधानघटीमूटफलकस्थापितौषधम्|
प्रागुदीच्योर्दिशोर्गुप्तं भेषजागारमिष्यते||५६||
अपि चेत्यनेन सविषोपकरणद्रव्यलक्षणचिकित्सितमुक्त्वा तदुपयोग्यौषधसम्भारलक्षणार्थं समुच्चिनोति| एवंविधं भेषजागारमौषधगृहमिष्यते| किम्भूतम्? सापिधाने संस्थगने घटिकादौ स्थापितमौषधं यत्र| मूटं प्रसवेकं पोट्टकमित्येकोऽर्थः| फलकं काष्ठमयं बहुकोष्ठम्| राजधान्यां प्राच्यामुदीच्यां वा दिशि गुप्तं भेषजगृहमिष्यते|| ५६||
Adhikarana mahAnasalakShaNam (57) · Śloka 57
उच्चैः प्रशस्तदिग्देशं बहुवातायनं महत्|
महानसं सुसम्मृष्टं विश्वास्यजनसेवितम्|
सद्द्वास्थाधिष्ठितद्वारं कक्ष्यावस्तुवितानकम्|
सुधौतदृढकुम्भादि परिशुद्धजलेन्धनम्||५७||
तत्रेव महानसं गृहमिष्यते| किम्भूतमित्याह- उच्चैरित्यादि| उच्चैरुन्नतं महानसं इन्धनागारं प्रशस्तदिग्देशत्वादियुक्तं प्रशस्तायां दिशि देशे च कृतमित्यर्थः| वातायनं गवाक्षम्| सद्वास्थं शोभनद्वारपालम्| कक्ष्यावत् सुविभक्तयथोदितस्थानम्| वितानकं दण्डधृतविस्तीर्णोपरिपट्टम्| सुधौतं दृढं च कुम्भादिकं यत्र जलमिन्धनं च जात्यन्वयपरस्परान्वेषणादिना परिशुद्धं यत्र|| ५७||
Adhikarana sUdAnAM lakShaNam (58) · Śloka 58
स्वकर्मकुशला दक्षाः सूदास्तत्राप्रमादिनः|
क्लृप्तकेशनखाः पित्र्या राज्ञः कृत्यैरसङ्गताः||५८||
तत्र च सूदाः अत्र संस्कारकाः स्वकर्मकुशलत्वादियुक्ताः शस्ताः| पित्र्या राज्ञः उभयथा पितुरागताः राज्ञश्च कृत्यैरसङ्गताः| कृत्याः क्रुद्धलुब्धभीतादयः कौटिल्ये प्रसिद्धाः| तैः सङ्गतास्तु कदाचिद्रागद्वेषादिकेनान्यथा वर्तन्ते|| ५८||
Adhikarana sUdAdhipalakShaNam (59) · Śloka 59
तेषामधिपतिर्विप्रः कुलजः सुपरीक्षितः|
संविभक्तश्च भक्तश्च शुचिर्वैद्यवशानुगः||५९||
तेषां च सूदानामधिपतिरध्यक्षोऽपि विप्रत्वादिगुणयुक्तः|
Adhikarana sAmAnyato rAjaparicArakANAM janAnAM lakShaNam (60) · Śloka 60
सर्वेऽपि भूभृदासन्नाः शस्ताः सततमीदृशाः|
मिथो विग्रहसङ्घातरहिता भूभृते हिताः||६०||
सर्वेऽपि राजपरिचारका ईदृशा एवेष्यन्ते| तथा मिथः परस्परं, सङ्घातेन विग्रहेण विरोधेन च रहिताः| भूभृते राज्ञे च हिताः| परस्परं विरोधसङ्घाताभ्यां हितमवसादयन्ति|| ६०||
Adhikarana rAjaparicArakAdiShu vaidyasya kartavyam (61) · Śloka 61
तान् वैद्यो गुणवानेको मनसा प्रतिजागृयात्|
भूभृद्देहोपकरणसंरक्षणसमुद्यतः||६१||
तत्र च परिचारकान् बहूनेको गुणवान्वैद्यगुणयुक्तः प्रतिजागृयात्| किम्भूतः? भूभृतो राज्ञो देहोपकरणानां दोषरक्षणे समुद्यतः सन्|| ६१||
Adhikarana vijayayAtrAyAM vaidyasya kartavyavidhiH (62) · Śloka 62
अथाभ्यमित्रं व्रजतो जिगीषोर्वैद्यः सुसज्जौषधशस्त्रयन्त्रः|
तुङ्गध्वजाख्यातनिवासभूमिर्युद्धागतं योधजनं चिकित्सेत्||६२||
अथ तस्य भूभृतो विजिगीषोरमित्राणामाभिमुख्येन व्रजतो वैद्यो युद्धार्थमागतं योधजनं सैनिकं चिकित्सेत्| किम्भूतो वैद्यः? सुष्ठु सज्जानि निकटस्थितानि औषधादीनि यस्य| तथा तुङ्गेनोन्नतेन ध्वजेनाख्याता निवासभूमिर्यस्येति|| ६२||
Adhikarana shatrudUShitAnAM mArgAdInAM shodhanAdi (63) · Śloka 63
पन्थानमुदकं छायां भक्तं यवसमिन्धनम्|
दूषयन्त्यरयो यस्मात्तान् विद्याच्छोधयेत च|
प्रस्थानं वा निवेशं वा नाविज्ञाय प्रयोजयेत्|
भूवारितृणकाष्ठाश्ममार्गोन्मार्गवनस्पतीन्||६३||
तस्य चाभ्यमित्रं गच्छतो राज्ञोऽरयो मार्गादीन्विषेण दूषयन्ति| अतस्तान्यत्नाज्जानीयात् विद्यात्| दुष्टांश्च ज्ञात्वा यत्नादेव शोधयेत्| महति प्रतानवति घने वृक्षादौ विषे दत्ते तच्छाया दूषिता भवति| यवसो वाहभोजनं दूर्वार्यादि| अविज्ञाय राज्ञः प्रस्थानं प्रयाणं निर्गमनं नागत्य नाप्राप्य कटकस्यावासं न प्रयोजयेत्| तेषां च दूर्वार्यादीनां दुष्टपरिज्ञानलक्षणमुच्यते| मार्गः शत्रुनगरं प्रति स्पष्टः उन्मार्गः छद्मपथः|| ६३||
Adhikarana viShopahatabhUmilakShaNam (64) · Śloka 64
विषेणोपहता भूमिः क्वचिद्दग्धेव लक्ष्यते|
प्रम्लानतृणगुल्मादिमृतकीटसरीसृपाः||६४||
विषोपहता भूमिरवयवे दग्धेव लक्ष्यते|| ६४||
Adhikarana viShopahatabhUmidoShavikArAH (65) · Śloka 65
विशीर्यन्ते खुरनखा दाहकण्डूरुजान्विताः|
छर्दिर्मूर्च्छा ज्वरो मोहः शिरोदुःखं च जायते||६५||
तत्स्पर्शाच्च पादनखा विशीर्यन्ते दाहादियुक्ताः| छर्द्यादीनां च सम्भवः|| ६५||
Adhikarana viShopahatabhUmidoShavikAre cikitsA (66) · Śloka 66
तत्र सौभाञ्जनान्मूलं सोमवल्लीमुशीरकम्|
मातुलुङ्गरसं हिङ्गुं पाययेद्दधिमात्रया|
मूत्राण्यजाविहस्तिभ्यो मांसानि रुधिराणि च|
सर्वगन्धैः समं योज्यं पचेत्पक्वे च निक्षिपेत्|
सोमराजीं सुनन्दाख्यां सरलां गन्धनाकुलीम्|
चारटीं त्रायमाणां च प्रोक्षयेत्तेन तां भुवम्||६६||
तत्र सौभाञ्जनादिकं भूमिदोषोदितं दधिमात्रया स्तोकेन दध्ना पाययेत्| तथाजादीनां त्रयाणामपि मूत्राणि रुधिराणि च गृहीत्वा तानि च सर्वगन्धद्रव्यैः संयोज्य च पचेदामांसपाकात्| पक्वे च सोमराज्यादिकं चूर्णितं क्षिपेत्| तेनैव निष्पन्नेन तां विषोपहतां भुवं प्रोक्षयेत् बिन्दुभिः सिञ्चेत्| सुनन्दा रास्ना| सरला त्रिवृत्| गन्धनाकुली सर्पाक्षी| चारटी पद्मचारिणी|| ६६||
Adhikarana saviShajalalakShaNam (67) · Śloka 67
सविषं विरसं तोयं कवोष्णं राजिभिश्चितम्|
फेनिलं गुरु विच्छिन्नं खगैरनभिनन्दितम्||६७||
पथि च सविषमुदकम् ईषदुष्णत्वादिगुणयुक्तं भवति|
Adhikarana saviShajalasAdhitaudanalakShaNam (68) · Śloka 68
मृताकुलितमत्स्यञ्च स्पर्शाद्रुक्शोफकण्डुमत्|
ओदनः साधितस्तेन भुक्तमात्रोऽपि दह्यते|
विदग्धः पच्यते कृच्छ्रात्पक्वो मूर्च्छाज्वरप्रदः|
दर्शयेत्सर्वतो नीलपीतकर्बुरलोहितम्||६८||
तेन चोदकेन साधितश्चोदनो भुक्तमात्र एव विदाहं याति| कृच्छ्राच्च जठरे पच्यते| पक्वश्च मूर्च्छाज्वरकरः| अन्यवर्णानपि भावान् पुरुषस्य दर्शयति| जठरे पक्वः सन् कर्बुरं कपोतवर्णम्|| ६८||
Adhikarana saviShaudanabhojanavikAre cikitsA (69) · Śloka 69
तत्र शिग्व्रादिमगदं भूमिदोषोदितं पिबेत्|
अजशृङ्गी विशालाख्यां विषघ्नीमुत्तमारणीम्|
फणिज्जकं प्रतिविषां दग्ध्वा तद्भस्म गालयेत्|
बहुशो गालितं तच्च पाचयेत्तत्र च क्षिपेत्|
कल्कयित्वा प्रतीवापं सरलं रजनीद्वयम्|
एलामुदीच्यं मञ्जिष्ठां सुनन्दां बाकुचीमपि|
पात्यन्ते बिन्दवस्तस्माद्यत्र तन्निर्विषी भवेत्|
पाटलापारिभद्राश्वकर्णशम्याकसिध्रकान्|
कलशान्तर्गतान्दग्ध्वा प्रक्षिपेत्सविषेऽम्भसि||६९||
तत्र शिग्व्रादिकं भूमिदोषोदितं (सू०-६९) दधिमात्रयेति| शिग्रुः सौभाञ्जनपर्यायः| तथाजशृङ्गादीन् दग्ध्वा भस्मोदकेन सम्मिश्र्य गालयेत् पटे स्रावयेत्| बहुशश्च गालितं पचेदाघनीभावात्| तत्र च सरलादिकं कल्कितमुदकपिष्टं प्रतीवापं क्षिपेत्| विशाला गवाक्षी| विषघ्नी गुडूची पद्मचारिणी वा| `करम्भः कर्कशो युग्मफलो देवोत्तमारणी'| फणिज्जकं मरुबकम्| प्रतीवापमर्धपक्वे देयम्| तस्माच्च बिन्दवो यत्र भूप्रदेशे पात्यन्ते तन्निर्विषं भवति| पाटल्यादिकं च पिहितकलशान्तर्गतं दग्ध्वा सविषेऽम्भसि विषनाशनाय तद्भस्म प्रक्षिपेत्| पारिभद्रको निम्बः| सिध्रकः सिन्दुवारः|| ६९||
Adhikarana viShasaMyuktavAyulakShaNa~jcikitsA ca (70) · Śloka 70
शीते घर्मो हिमश्चोष्णे मारुतो विषसंयुतः|
भ्रममूर्च्छादिकारी च शिग्व्रादिस्तत्र वेष्यते|
देवदारुनतानन्तामधुकार्जुनगैरिकम्|
वज्रकन्दं लतां लोध्रं विकिरेच्छ्लक्ष्णचूर्णितम्|
वृक्षाग्रेषु पताकासु दूष्येषु सुमहत्सु च|
सर्वतश्चूर्णसम्पर्कान्निर्विषो जायतेऽनिलः||७०||
मार्गवृक्षशिलादिविषदानाद्विषसंयुक्तो वायुः शीतकालेऽत्युष्णो भवति, उष्णे च शीतः| भ्रमादींश्च करोति| तत्र चेदमिष्यते-देवदार्वादिचूर्णं वृक्षाग्रादिषु विकिरेत्| नतं तगरम्| अनन्ता दूर्वा| वज्रकन्दं सुधा| लता प्रियङ्गुः| पताका देवगृहादिध्वजपटः| दूष्याः पटमयानि' गृहाणि| ये हि मध्यदेशादौ वृक्षाः प्रसिद्धा, इति सर्वतः सर्वदिग्देशं चूर्णसम्पर्केणानिलस्य वायोर्निर्विषता भवति|| ७०||
Adhikarana viShadUShitapAdapalakShaNa~jcikitsA ca (71) · Śloka 71
विकृता भवति छाया पादपे विषदूषिते|
निर्गन्धमतिगन्धं वा तत्पुष्पं हृच्छिरोरुजम्|
कुर्यात् फलपलाशादि कण्डूपाकातिसारकृत्|
भूमिमुद्दिश्य यत्प्रोक्तं तत्सर्वं तत्र चेष्यते||७१||
पादपे वृक्षे विषदूषिते छाया तत्पत्रादीनां कान्तिर्विकृता स्वरूपाच्चलिता भवति| तस्य विषदूषितस्य वृक्षस्य पुष्पं निर्गन्धमतिगन्धं वा भवति| आघ्रातं हृदि शिरसि च रुजं करोति, तस्य च फलपलाशादिकं कण्ड्वादिकृत्| पलाशं पत्रम्| तत्र च सर्वं भूमिदोषोक्तं (सू०-६९) विधानं कार्यम्|
Adhikarana aviditakanyAsparshe niShedhaH (72) · Śloka 72
न च कन्यामविदितां संस्पृशेदपरीक्षिताम्|
विविधान्कुर्वते योगान्कुशलाः खलु मानवाः||७२||
तत्र चाभ्यमित्रव्रजेन कन्यामपरीक्षितामज्ञातां च राजा न स्पृशेत्| किमर्थमत उच्यते-कुशला अध्यवसायच्छद्मवन्तो मानवाः मारणान् विविधान् प्रयोगान् कुर्वते|| ७२||
Adhikarana viShakanyAsRuShTiH viShakanyAlakShaNa~jca (73) · Śloka 73
आजन्मविषसंयोगात् कन्या विषमयी कृता|
स्पर्शोच्छ्वासादिभिर्हन्ति तस्यास्त्वेतत्परीक्षणम्|
तद्धस्तकेशसंस्पर्शान् म्लायते पुष्पपल्लवैः|
शय्यायां मत्कुणैर्वस्त्रे यूकाभिः स्नानवारिणि|
जन्तुभिर्म्रियते ज्ञात्वा तामेवं दूरतस्त्यजेत्||७३||
एवं स्थितेऽस्मिन् प्रसङ्गे किमुच्यत इत्युच्यते- आजन्म जन्मप्रभृति स्वल्पतराभ्यासेन विषसंयोगाद्विषमयी कन्या कृता स्पर्शोच्छ्वासादिभिः पुरुषं हन्ति मारयति| तस्यास्त्वेतत्परीक्षणम्| किमित्याह-तद्धस्तेत्यादि| तया हस्तस्पृष्टैः केशस्पृष्टैश्च पुष्पैः पल्लवैश्च म्लायते| सा च यस्यां शय्यायां स्वपिति तत्र च मत्कुणैर्म्रियते इति सम्बन्धः| वस्त्रे यूकादिभिर्म्रियते तत्स्नानोदके जन्तुभिर्मक्षिकादिभिर्म्रियते| एवं तां कन्यकां ज्ञात्वा दूरतस्त्यजेत्|| ७३||
Adhikarana rAj~jo nAdeyaM bhojanam (74) · Śloka 74
नाप्रोक्षितं नाविदितं भिषजा नानवेक्षितम्|
नाप्राशितं च सूदाद्यैः किञ्चिदप्याहरेन्नृपः||७४||
तथा नृपो राजा मन्त्रागदवार्यादिभिरप्रोक्षितं तथाविज्ञातस्वरूपं भिषजा चादृष्टं सूदाद्यैश्च परिचारकैरप्राशितं न किञ्चिदप्याहारमाहरेत्| सूदादीनां प्राशननियमो मित्रबान्धवादिव्यापत्तिभयात् कदाचिन्न ददाति विषमिति|| ७४||
Adhikarana sarvArthasiddhAkhyama~jjanam (75) · Śloka 75
धन्यं सर्वार्थसिद्धाख्यं पापरक्षोविषापहम्|
परं चक्षुष्यमायुष्यं शत्रुघ्नं वक्ष्यतेऽञ्जनम्|
अथ शुक्लपक्षे पुण्येऽहनि पुष्यपुनर्वसुहस्तचित्रामृगशिरःश्रवणरेवतीशतभिषक्प्राजापत्योत्तराणामन्यतमेन नक्षत्रेण योगमुपगते भगवत्यौषधिपतौ प्रशस्ते मुहूर्ते सिन्धुस्रोतःसमुत्थं स्निग्धं सप्रभं गन्धवर्णच्छदैर्नीलोत्पलाभमञ्जनमाहरेत्||७५||
अतःपरं सर्वार्थसिद्धनामानमगदं वक्ष्यते-अथेति मंगले| शुक्लपक्षे द्वादशीनवम्यादावहनि पुष्पादीनामन्यतमेन योगं गते चन्द्रे प्रशस्ते मुहूर्ते लग्ने सिन्धुस्स्रोतःसमुत्थानादियुक्तं सौवीराञ्जनं गृह्णीयात्|| ७५||
Adhikarana a~jjanaprajvAlanam (76) · Śloka 76
तस्याष्टौ भागाः कनकरजतोदुम्बराणामेकैको भागः|
तत्सर्वं मूषायां प्रक्षिप्य बलिमंगलपूर्वकमग्निमुपसमाधाय खदिरकदरधवस्यन्दनानामन्यतमदारुभिर्गोमयैर्वा प्रज्वालयेत्||७६||
तस्याष्टौ भागास्तस्य चाष्टमेन भागेन समानि प्रत्येकं कनकादीनीति सर्वं पिष्ट्वा सम्मिश्र्य मूषायां मय्यां नाड्यां प्रक्षिप्य बल्यादिनाग्निं पूजयित्वा खदिराद्यन्तमदारुणा शुष्कगोमयपिण्डैर्वा प्रज्वालयेत्सह मूषया| तैजसानां कनकादीनामावर्तनभाण्डं मूषेत्युच्यते|| ७६||
Adhikarana a~jjananiShecanam (77) · Śloka 77
ततश्चार्यावलोकितेश्वरमार्यतारां ब्रह्मदक्षाश्विरुद्रेन्द्रादित्यसोमवरुणवैश्वानरवायुविष्णुजनकभरद्वाजधन्वन्तरिसुश्रुतभव्य-सुकन्यास्कन्दश्च्यवनवैनतेयानन्यांश्च यथाविध्युक्तदेवताः सुमनोऽक्षतलाजस्वस्तिकसंयावनिस्तुषयवसंस्कृतगुडघृतमिश्रपायसैरर्चयित्वा वृद्धवैद्यब्राह्मणांश्च शुक्लवाससो महतीभिर्दक्षिणाभिः पूजयित्वा तस्मिन्नग्नौ तदञ्जनं ध्मातमावृत्य पृथक् पृथक् निषेचयेत्||७७||
ततश्चार्यावलोकितेश्वरादीन् सुमनोक्षताभिरर्चयित्वा तथा वृद्धवैद्यान् ब्राह्मणांश्च शुक्लवाससस्ततो महतीभिर्दक्षिणाभिर्हिरण्यवरवारणादिभिः पूजयित्वा तस्मिन् खदिराद्यग्नौ ध्मातमावृत्य शस्त्रशलाकयोर्ध्वमधश्च सम्मिश्र्य ततोऽवतारितं गोमयस्वरसादिभिर्यथाक्रमं पृथक्सिञ्चेत्|| ७७||
Adhikarana niShecanadravyANi (78) · Śloka 78
गोशकृद्रसमूत्रघृतदधिक्षौद्रवसामज्जतैलमद्यसर्वगन्धाम्बुशर्करोदकेक्षुरसेषु तथा हरीतक्यामलकबिभीतककाश्मर्यमृद्वीकाश्रृङ्गाटककशेरुकोत्पलनलिनसौगन्धिकमृणालिकाक्वाथेषु तथा लावकपिञ्जलैणशशहरिणकुलीररसेषु तथा मधुकचन्दनकालानुसार्यनलदपद्मकोशीरमञ्जिष्ठानन्तागैरिककुङ्कुमोदकेषु||७८||
सुबोधम्|| ७८||
Adhikarana a~jjanasyAntarikShe~ambhasi sthApanam (79) · Śloka 79
ततः शुक्ले वाससि बद्ध्वा द्वादशरात्रमान्तरिक्षेऽम्भसि वासयेत्||७९||
ततः कुङ्कुमोदकसेके दत्ते शुक्ले पटे बद्ध्वा आन्तरिक्षे जले द्वादशरात्रमधिवासयेत्|| ७९||
Adhikarana nADyAma~jjanasthApanam (80) · Śloka 80
ततश्छायायां विशोष्य स्फटिकमुक्ताप्रवालकालानुसार्यप्रतीवापं पुनरपि बलिमङ्गलपूर्वकमहतवाससा कन्ययादृषदि पेषयित्वा सुवर्णरजतताम्रशङ्खशैलद्विरदरदनगवलश्रृङ्गवैडूर्यस्फटिकमेषभृङ्ग्यसनसारान्यतम--घटितायामञ्जनिकायां निधापयेत्||८०||
ततश्छायायां शोषयित्वा दत्तस्फटिकादिप्रतीवापं पुनरपि पूर्वोक्तेन बलिमङ्गलादिना कन्ययादृषदि पेष्यं प्रतीवापं चूर्णम्| किम्भूतया कन्यया? अहतानि शस्त्राद्यपाटितानि वासांसि यस्याः तथा तथैव कन्यया कर्तृभूतया सुवर्णाद्यन्यतमरचितायामञ्जननाड्यां वैद्यो निधापयेत् स्थापयेत्| गवलं माहिषं श्रृङ्गम्|| ८०||
Adhikarana a~jjanAbhisaMskaraNam (81) · Śloka 81
अथा पूर्ववत्पुनरपि कृतस्वस्त्ययनं सावित्रेण कर्मणा सर्वविद् द्विजन्मा विधिवत्तदभिसंस्कुर्यात्||८१||
अथाथर्ववेदविदा ब्राह्मणेन सावित्रेण सौरेण मार्गेण कृतस्वस्त्ययनं अभिसंस्करणीयम्|| ८१||
Adhikarana vaidyagRuhAda~jjanasya rAjagRuhaM pratyAnayanam (1) · Śloka 1
ततो गजस्कन्धमारोप्य पाण्डुरच्छत्रचामरबालव्यजनैरनुगतं तथा शङ्खदुन्दुभिस्वरैर्द्विजातिवरप्रयुक्तैश्च वेदवादिमिश्रैः पुण्याहघोषैः कृतपुष्पोपहारं वैद्यगृहान्नायकगृहमनुप्रवेशयेत्|१|
Adhikarana samantrakama~jjanadhAraNam (1) · Śloka 1
अनन्तरं च तेन विदेहाधिपोपदिष्टेन सर्वार्थेषु सिद्धेनाञ्जनेन यथोक्तानामेवाञ्जनभाजनद्रव्याणामन्यतमया शलाकया गोब्राह्मणपूजापूर्वकं शुचिः सनियमो भूत्वा धारणीमिमां विद्यामधीयानः पूतः पूर्वमक्षि दक्षिणमञ्जयेत्||१||
Adhikarana a~jjanadhAraNamantraH (2) · Śloka 2
अथ मन्त्रः- नमःश्चक्षुःपरिशोधनराजाय तथागतायार्हते सम्यक्सम्बुद्धाय|
तद्यथा औम् चक्षुः प्रज्ञाचक्षुर्ज्ञानचक्षुर्विज्ञानचक्षुर्विशोधय स्वाहा||२||
Adhikarana a~jjanamAhAtmyam (82) · Śloka 82
ततः परं च तामेव धारिणीमनुस्मरन् सायम्प्रातः प्रत्यहमेतत्परमं पवित्रमारोग्यकरमूर्जस्करं सर्वविषघ्नमञ्जनमश्विभ्यामिन्द्रस्य वृत्रवधाभ्युद्यतस्य प्राक्प्रकल्पितम्|
तस्मादेतद्राज्ञां राजमहामात्राणां च महीं विजिगीषमाणानां च ब्राह्मणानां च वेदाध्ययनमन्यद्वा महच्छास्त्रमवगाहमानानां प्रसन्नमना भिषक् प्रकल्पयेदिति||८२||
धारिणी विद्या| राजमात्रा अन्ये वित्तसम्पन्नाः|| ८२||
Adhikarana bRuhaspatikRutayogavarNanapratij~jA (83) · Śloka 83
भवन्ति चात्र श्लोका- अथ योगाः प्रवक्ष्यन्ते बृहस्पतिकृताः शिवाः|
यान् सेवमानो नृपतिः शत्रुभ्यो नैति वञ्चनाम्||८३||
भवन्ति चात्रेति समुच्चयाय तन्त्रवाचोयुक्तिः| अथ बृहस्पतिकृताः योगा वक्ष्यन्ते| यान् योगान् सेवमानो राजा शत्रुभ्यः वञ्चनां लाघवं च नैति न प्राप्नोति|| ८३||
Adhikarana bilvAdiprokShaNaM viShaghnam (84) · Śloka 84
बिल्वाढकीयवक्षारपाटलीबाह्लिकोषगुणाः|
श्रीपर्णी सल्लकीयुक्ता निष्क्वाथः प्रोक्षणः परम्|
सविषं प्रोक्षितं तेन सद्यो भवति निर्विषम्|
यवसेन्धनपानीयशस्त्रशय्यासनोदकम्|
कवचाभरणच्छत्रबालव्यजनवेश्म च||८४||
बिल्वादीनां क्वाथेन सविषं यवसादिकं प्रोक्षितं सद्यं एव निर्विषतां याति| आढकी तुवरी| बाह्लिकं कुङ्कुमम्| श्रीपर्णी काश्मर्यम्| सल्लक्यश्वमूत्री|| ८४||
Adhikarana shelvAdiprokShaNaM viShaghnam (85) · Śloka 85
शेलुपाटल्यतिविषाशिग्रुगोपीपुनर्नवम्|
समङ्गावृषमूलावक्कपित्थवृषशोणितम्|
सहदन्तशठं तद्वत्प्रोक्षणं विषनाशनम्||८५||
तथा शेल्वादिप्रोक्षणं विषनाशनम्| गोपी शारिवा| समङ्गा मञ्जिष्ठा| दन्तशठं कशैलम्| तच्च जम्बीरम्| तद्वच्च निष्क्वाथेनेत्यर्थः|| ८५||
Adhikarana lAkShAdimaNiH viShaghnaH (86) · Śloka 86
लाक्षाप्रियङ्गुमञ्जिष्ठासमङ्गाऽलहरेणुकाः|
यष्ट्याह्वमधुसंयुक्ताः बभ्रुपित्तेन कल्किताः|
निखनेद् गोविषाणस्थाः सप्तरात्रं महीतले|
संस्पुष्टं सविषं तेन सद्योभवति निर्विषम्||८६||
लाक्षादयो माक्षिकसंयुक्ताः नकुलपित्तेन च कल्किताः पिष्टा गोशृङ्गान्तस्थाः सप्तरात्रं भूमौ निखनेत्| ततः सप्तरात्रादुधृत्य मणिं गुलिकां कृत्वा हेम्ना सुवर्णेन वेष्टयेत्| तं च मणिं हस्तेन धारयेत्| तेन हस्तस्थितेन मणिना स्पृष्टं सर्वमेव सविषं निर्विषतां याति|| ८६||
Adhikarana saumyAgadaH (87) · Śloka 87
मनोह्वाऽलशमीपुष्पत्वङ्निशाश्वेतसर्षपाः|
कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः|
शुनो गोः कपिलायाश्च सौम्याख्योऽयं वरोऽगदः|
विषजित्परं कार्यो मणिरत्र च पूर्ववत्||८७||
मनोह्वादीनि च शुनः पित्तेन गोर्वा कपिलायाः पित्तेन श्लक्ष्णपिष्टानि सौम्यनामागदः पूर्वयोगादत्यर्थविषनाशनः|| ८७||
Adhikarana mUShikAjaruhAbandhanaM viShaghnam (88) · Śloka 88
मूषिकाजरुहा वाऽपि हस्तबद्धा विषापहाः||८८||
मूषिकानामौषधिः| द्रवन्तीति केचित्| अजरुहा प्लक्षरुहा| विषभुक्तस्य हस्तबन्धानाद् विषनाशिनी|| ८८||
Adhikarana hareNvAdimaNiH viShaghnaH (89) · Śloka 89
हरेणुमांसी मञ्जिष्ठा रजनी मधुकं मधु|
अक्षत्वक्सुरसं लाक्षा श्वपित्तं पूर्ववन्मणिः|
वादित्राणि पताकाश्च पिष्टैरेभिश्च लेखिताः|
श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषम्||८९||
हरेण्वादयश्च श्वपित्तपिष्टैः मणिः पूर्ववत्| एभिश्चानन्तरोक्तैरगदैर्वादित्राणि पताका वैजयन्त्यश्च यत्प्रलिप्तं तच्छब्देन तद्गन्धेन तत्स्पर्शेन च विषभुक्तो निर्विषतां याति|| ८९||
Adhikarana tryUShaNAdiyogaH viShaghnaH (90) · Śloka 90
त्र्यूषणं पञ्चलवणं मञ्जिष्ठां रजनाद्वयम्|
सूक्ष्मैलां त्रिवृतां पत्रं विडङ्गानीन्द्रवारुणीम्|
मधुकं चेति सक्षौद्रं गोविषाणे निधापयेत्|
तस्मादुष्णाम्बुना मात्रां प्राग्भक्तं विनियोजयेत्|
विषं भुक्तं जरां याति निर्विषेऽपि न दोषकृत्||९०||
त्र्यूषणादिकं पिष्टं माक्षिकयुक्तं गोशृङ्गे स्थापयेत्| ततो मात्रां स्तोकं भोजनादौ योजयेत्| तत्संस्कृते कोष्ठे विषं भुक्तं जरां याति| इन्द्रवारुणी गवाक्षी| ननु स्वस्थस्य भोजनपूर्वं दत्तं तदनु च विषं न भुक्तमिति कदाचिद्दोषकोपाय भवतीत्याह- निर्विषेऽपि न दोषकृत्|| ९०||
Adhikarana jatvAdidhUpaH viShaghnaH (91) · Śloka 91
जतुसर्जरसोशीरसर्षपापत्रवालकैः|
सवेल्लारुष्करपुरैः कुसुमैरर्जुनस्य च|
धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम्|
न तत्र कीटाः सविषा नोन्दुरा न सरीसृपाः|
न कृत्याकार्मणाद्याश्च धूपोऽयं यत्र दृश्यते||९१||
जत्वादिभिर्मिश्रितैर्वासगृहे धूपः सविषनाशनः, कीटादीनां कृत्यादीनां चोपनिपातनौ नाशनः|| ९१||
Adhikarana shikhipicchAdidhUpaH viShaghnaH (92) · Śloka 92
शिखिपिच्छं बलाकास्थि सर्षपाश्चन्दनं घृतम्|
धूपे विषघ्नः शयनवसनासनगेहगः||९२||
शिखिपिच्छादिकेन सघृतेन शयनादिकेषु धूपो विषनाशनः|| ९२||
Adhikarana vishAlAdiyogaH snAnajale yojyaH (93) · Śloka 93
विशालाव्योषमञ्जिष्ठायष्टीलवणपञ्चकम्|
द्विनिशापत्रवेल्लैलात्रिवृच्चूर्णं समाक्षिकम्|
गोश्रृङ्गे निहितं योज्यं स्नानीयेऽम्भसि भूपतेः|
पूर्वोक्तं त्र्यूषणादिञ्च स्नानीयेऽम्भसि योजयेत्||९३||
तथा स्नानीयेऽम्भसि विषनाशनाय पूर्वोक्तं त्र्यूषणादिकं योजयेत्|| ९३||
Adhikarana dhavAdikvAthashcandanAdikalkaH mUrvAdikvAthaH snAnAdijale prayojyaH (94) · Śloka 94
क्वाथो धवार्ककुसुमश्वेतापामार्गसर्षपैः|
सदध्याज्यः कृतो युक्तैः कतकानाकुलीद्वयैः|
कल्को वा चन्दनक्षीरिपलाशद्रुमवल्कलैः|
मूर्वैलावालुसुरसनाकुलीतण्डुलीयकैः|
क्वाथः सर्वोदकार्येषु काकमाचीयुतैर्हितः||९४||
अथवा धवादिभिः कतकादियुक्तैः कृतः क्वाथो दधिघृतमिश्रः स्नानीयेऽम्भसि योज्यः चन्दनद्रुमवल्कलादीनां वा कल्कः स्नानादिजले योज्यः| द्रुमशब्दस्य चन्दनक्षीरिपलाशैः सम्बन्धः| एतेषां वल्कलैस्त्वग्भिरथवा सर्वेषूदकार्येषु स्नानादिकेष्वेषां चन्दनादीनां काकमाचीसंयुक्तानां क्वाथो विषनाशनः| नाकुली सर्पाक्षी| एलावालुकं वालुकम्|| ९४||
Adhikarana rocanAditilakAH viShaghnAH (95) · Śloka 95
रोचनापत्रनैपालीकुङ्कुमैस्तिलकान् बहून्|
विषैर्न बाध्यते स्याच्च नारीनरनृपप्रियः||९५||
रोचनादिभिर्ललाटादिषु तिलकान् धारयेत्| विषैर्न बाध्यते| नार्यादीनां च प्रियो भवति| नैपालीशब्देन मनःशिलोच्यते|| ९५||
Adhikarana haridrAdyuddhUlanacUrNAni viShaghnAni (96) · Śloka 96
चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बजैः|
दिग्धं निर्विषतामेति गात्रमित्याह गौतमः||९६||
सविषं गात्रं हरिद्रादीनां चूर्णेन दिग्धं निर्विषतामेतीत्याह- गौतमः|| ९६||
Adhikarana sa~jjIvanAdyagadAnAM prayoganirdeshaH vamanAdividhishca (97) · Śloka 97
नस्यपानाञ्जनालेपैर्युञ्ज्यात्सञ्जीवनात्मकान्|
अगदान्विषभुक्तस्य तीक्ष्णानि वमनानि च|
पिप्पलीमधुकक्षौद्रशर्करेक्षुरसैः सह|
द्विनिशापत्रवेल्लैलात्रिवृच्चूर्णं समाक्षिकम्|
विरेचनं सिरामोक्षं प्राप्तं विस्रावणं यदि||९७||
सञ्जीवनादींश्चागदान् विषप्रतिषेधे वक्ष्यमाणान्नस्यादिषु योजयेत्| विषभुक्तस्य तीक्ष्णानि वमनानि च योजयेत्| विषप्रतिषेधोक्तप्रकारेण च यदि रक्तविस्रावणावसरः ततः सिरामोक्षो विधेयः|| ९७||
Adhikarana rAj~jaH hRudayAvaraNopadeshaH ajeyaghRutAmRutaghRutAdisevanopadeshashca (98) · Śloka 98
हृदयावरणं कार्यं प्रागेवामित्रमध्यतः|
पिबेद् घृतमजेयाख्यममृतं वाप्यभुक्तवान्|
सर्पिः क्षौद्रं दधिक्षीरमन्तः शीतलं जलम्||९८||
शत्रुमध्यस्थिताय च भूभृते पूर्वमेव हृदयरक्षणं कार्यम्| तच्च विषप्रतिषेधे वक्ष्यते| तथा च शत्रुमध्ये विषप्रतिषेधे वक्ष्यमाणमजेयं नाम घृतं भोजनपूर्वं पेयम्| विषप्रतिषेधे अमृतं नाम घृतं भोजनपूर्वं देयं भिषजा| अन्ततः शीतलं जलं सर्पिराद्यभावे शीतमपि जलं पेयमित्यर्थः|| ९८||
Adhikarana godhAdimAMsarasaprayogashca (99) · Śloka 99
सितामधुकपालिन्दी कल्कवन्मांसमिष्यते|
गोधाहरिणबभ्रूणां सकणाशुण्ठिपार्षतम्|
सनागरं सातिविषं शिखिनः ससितोपलम्|
सुशीताः सघृताश्चैषां यथास्वं कल्पिता रसाः||९९||
सितादिकल्कसंयुक्तं च मांसं विषनाशनायेष्यते| कस्य मांसमाह गोधादीनाम्| तथा पृषतस्य मांसं शुण्ठीपिप्पलीयुक्तम्| तथा शिखिनो मयूरस्य मांसं नागरेण वातिविषया वा शर्करया वा युक्तम्| एषां च गोधादीनां मांसेन यथास्वं योग्यसयोग्यौषधकल्पिताश्च रसाः|| ९९||
Adhikarana tAmrarajaHprayogaH (100) · Śloka 100
विषपीताय दद्याच्च शुद्धायोर्ध्वमधस्तथा|
सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम्||१००||
येन च विषं भुक्तं तस्य कृतवमनविरेचनस्य काले तदवस्थायोग्यं सूक्ष्मं सुपिष्टं ताम्रचूर्णं माक्षिकसंयुक्तं हृच्छोधनाय दातव्यम्|| १००||
Adhikarana suvarNacUrNaprayogaH maulaviShavidhiprayogashca (101) · Śloka 101
शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्|
न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम्|
जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः||१०१||
एवं शुद्धे हृदि सुवर्णचूर्णस्य च मात्रां दापयेत्| तेन किं भवतीत्याह- हेमपस्य पुरुषस्याङ्गे शरीरे विषं न सज्जते न तिष्ठति| यथा पद्मपत्रेऽम्बु न सज्जते| तस्य च विपुलमायुर्जायते| एष च मौलविषविधिर्गरेऽपि विधेयः करणीयः|| १०१||
Adhikarana rAj~jaH garaviShAdibhyo rakShaNIyatvamArAdhyatva~jca (102) · Śloka 102
इत्थं गरविषादिभ्यो रक्षेद्वैद्यो नरेश्वरम्|
स्यादुच्छेदस्तदुच्छेदात्प्रजानां सर्वकर्मणाम्|
आज्ञाधैर्यक्षमात्यागा मानुषत्वेऽयमानुषाः|
यद्राज्ञः कर्मभिस्तस्मादाराध्योऽसावतीन्द्रियैः||१०२||
इत्थमनन्तरोक्तेन रक्षणप्रकारेण भिषग्वैद्यो नरेश्वरं विषगरादिभ्यो रक्षेत्| यतस्तस्य नरेश्वरस्य उच्छेदे विनाशे प्रजासम्बन्धिनां सर्वकर्मणामुच्छेदः| स च राजा भिषजातीन्द्रियैर्मानसैर्यत्नतः प्रज्ञादिभिः कर्मभिराराधनीयः, येन कुपितो दोषं न करोति| यतो राज्ञो मानुषत्वेऽपि आज्ञादयोऽमानुषा भवन्ति| अन्यपुरुषेभ्यः स एव शक्त इत्यर्थः| अयमेव तदाराधनोपाय उच्यते|| १०२||
Adhikarana rAj~jaH ArAdhanopAyAH (103) · Śloka 103
यत्र साक्षान्नृपस्तत्र विज्ञातः प्रविशेद्भिषक्|
न सम्म्तोऽप्यनुचितं यानस्थानासनं भजेत्|
उचिते पुरतो राज्ञस्तिष्ठेद्वाक्यं च नाक्षिपेत्|
अहीनकालं राजार्थं स्वार्थं प्रियहितैः सह|
देशे काले परार्थं च वदेद् धर्मार्थसंहितम्|
नानुशिष्यादपृच्छन्तं महदेतद्धि साहसम्|
नाचरेदहितेनैनं मूलच्छेदकरं हि तत्|
अनुकूलं हितं वाच्यमहिताद्वारयेन्मिथः|
उदारैः सान्त्वयन्वाक्यैर्दोषश्चेत्तदुपेक्षया|
तूष्णीं वा प्रतिवाक्ये स्याद्वर्जयेद् द्वेष्यसङ्कथाम्|
विपश्चिदप्यचित्तज्ञो बालिशोऽपि तु भाववित्|
अतिप्रियोऽपि द्वेष्योऽपि यात्याशु विपरीतताम्|
निवेद्य राज्ञे कुर्वीत कार्याणि सुलघून्यपि|
न यायान्न चिरं तिष्ठेत्कोशस्थानावरोधयोः|
स्वल्पेऽपि दर्शयेत्तुष्टिं लाभेऽनुद्धतमानसः|
मिथः कथनमन्येन कौलीनं द्वन्द्ववादिताम्|
वस्त्रादि राज्ञा सदृशं राजलीलां च वर्जयेत्|
दत्तं यत्तु नृपेणैव तद्धार्थं तुष्टिवृद्धये|
हसितव्ये स्मितं कुर्यात् प्रभोरेवानुवृत्तितः|
उच्यमानेऽवलम्बेत परमर्मणि मूकताम्|
स्वमर्मणि तु बाधिर्यं धैर्यमाधुर्यसौष्ठवान्|
अत्यायासेन नात्मानं कुर्यादतिसमुच्छ्रितम्|
पातो यथा हि दुःखाय नोच्छ्रायः सुखकृत्तथा||१०३||
राजगृहे यस्मिन् प्रदेशे साक्षाद्राजा स्थितः, तत्र विज्ञातो भिषक् प्रविशेत्| आत्मानं प्रथमं ज्ञापयित्वा प्रविशेत्| तत्रैव चेत्यर्थः| प्रविष्टश्च राज्ञः सम्मतोऽपि पूजितोऽपि अनुचितमधिकं हीनं वाऽऽसनं न भजेत्| उचिते चासने राज्ञः पुरतः एव तिष्ठेत्| वाक्यं च राज्ञोक्तं साध्वसाधु वेति नाक्षिपेत्| राजार्थं च वाक्यं येन राज्ञः प्रयोजनं तदहीनकालं कालानतिक्रमेण वदेत्| स्वार्थं तु वाक्यं राजप्रियैरात्महितैश्च राजपुरुषैः सह वदेत्| परार्थं च तदुचिते काले देशे च वदेत्| धर्मार्थसहितमपृच्छन्तं च राजानं नानुशिष्यात् न शिक्षयेत्| एतद्धि महत्साहसम्| एनं च राजानमहितेनाचारेण नोपचरेत्| तद्धि राज्ञोऽहिताचरणं मूलच्छेदकरं समूलनाशनमित्यर्थः| राज्ञश्च वाक्यमनुकूलं प्रियं हितं च| राजानं चात्महितकार्यस्थं मिथ इति रहः सान्त्वयन्नहिताद्वारयेत्| केन सान्त्वयन्नित्याह- उदारैर्महार्हैर्वाक्यैः| एवं च तदा वाच्यं यदा तदुपेक्षया दोष आशङ्क्यते| अथ वारणपरे वाक्ये उक्ते यदि राजा तद्विरोधि वाक्यं ददाति तदा तूष्णीमेव स्यान्नाङ्गीकर्तव्यम्| तदुक्तं नाप्यनभिमतं प्रसह्य पुनर्वक्तव्यमिति| द्वेष्यां च सङ्कथां राज्ञो वर्जयेत्| तथाविपश्चिदपि पण्डितोऽपि राजादेरचित्तज्ञ अतिप्रियोऽपि तस्यैवाचित्तज्ञत्वेन शीघ्रमेव विपरीतत्वं द्वेष्यतां याति| तथा बालिशोऽपि मूर्खोऽपि राजादेर्भाविच्चित्तज्ञः द्वेष्योऽपि शीघ्रं विपरीतत्वमतिप्रियत्वं यातीति| तथा स्वल्पान्यपि कार्याणि राजानमज्ञापयित्वा न कार्याणि| तथा राज्ञः कोषस्थानेऽवरोधे चान्तःपुरे अकारणं न यायात्| सकारणं गतोऽपि न चिरकालं न बहुकालं तत्र तिष्ठेत्| स्वल्पेऽपि लाभेऽनुद्धतमानसः सन् राज्ञस्तुष्टिं दर्शयेत्| तथान्येन सह परस्परालापं राजवेश्मनि वर्जयेत्| तथान्येन सह कौलीनं जनवादं च कुर्यात् तथान्येन सह द्वन्द्ववादितां विरोधवादं वर्जयेत्| राजलीलां चात्मनो वर्जयेत्| तथा वस्त्राभरणवाहनादिकं राजसदृशं वर्जयेत्| नृपेण च यदात्मनैव दत्तं वस्त्रादि तत्तुष्ट्या धारयेत्| राज्ञानुज्ञातं तद्दारादिपरिच्छददत्तं न गृह्णीयादित्येवशब्दार्थः| हसितव्ये वस्तुनि राज्ञः पुरतः स्मितं मुखविकासरूपमीषद्धसितं कार्यम्| प्रभोरेवानुवृत्तितः तेनैतदुक्तं भवति- यदि प्रभुर्हसति तदैव कार्यम् (स्मितम्), अथ न हसति तत्र मौनमेव| यावच्च हसति तावदेवैवं करणीयमिति| राज्ञान्येन वा परमर्मण्युच्यमाने मूकतामवलम्बेत| मूको वाग्विरहितः| स्वमर्मणि तूच्यमाने बाधिर्यादीन् कुर्यात्| एतावता हि लोको नाभिभवितुं शक्नोति| अत्यायासेन चात्मानमुच्छ्रितं बहुधनं पूजादिकयुक्तं न कुर्यात्| यत्र एवंविध उच्छ्राये स्वल्पेनापि धिक्कारेण शीघ्रमेव पातः एतदुच्यते अत्यायासेनोच्छ्रायात् पातो यथा दुःखकरो न तथा स उच्छ्रायः सुखकरो भवति|| १०३||
Adhikarana rAjasevAyAH kaThinatvam (104) · Śloka 104
आसन्नसेवा नृपतेः क्रीडाशस्त्राहिपावकैः|
कौशलेनातिमहता विनीतैः सा निरुध्यते|
प्राप्य दुष्प्रापमैश्वर्यं बहुमानं च भूपतेः|
यथोपभुञ्जीत चिरं तथा स्यादप्रमादवान्||१०४||
नृपते राज्ञः सेवासन्नत्वेन नैकट्येन शस्त्रादिना च क्रीडासदृशमपायबाहुल्यात्| सा चासन्नसेवा विनीतैः पुरुषैरतिमहता सेवाकुशलत्वेन निर्वाह्यते| न तु यथासुखम्| तथा भूपते राज्ञः सकाशाद् दुष्प्रापमैश्वर्यं बहुमानं च प्राप्य न तथा प्रमादिना भवितव्यं, यथा तदैश्वर्यं बहुमानं च चिरमुपयोक्तुं शक्यते|| १०४||
Adhikarana rAj~jaH shayyAbhimantraNam (105) · Śloka 105
विदध्यात्परितः शय्यां रक्षामन्त्राभिमन्त्रिताम्||१०५||
तस्य च राज्ञो भिषग्यथोचिते काले शय्यां विदध्यात्| किम्भूताम्? परितः समन्ताद्रक्षामन्त्रैरभिमन्त्रिताम्|| १०५||
Adhikarana rAj~jaH svastyayanam (106) · Śloka 106
रात्रौ सिद्धार्थकान् भूतिमक्षतैरन्वितां शुचिम्|
रक्षाशक्तिं तथोच्छीर्षे सयवाङ्कुरयावकाम्|
सदूर्वं पूर्णकलशं सपुष्पफलपल्लवम्|
उपहारं च सन्ध्यायां भुक्त्वा चान्ते निशासु च|
एतत्स्वस्त्ययनं कर्म कर्तव्यं शुचिना शुचेः|
आयुष्यं पौष्टिकं भूतविषकार्मणपाप्मजित्||१०६||
रात्रौ च सिद्धार्थकान् रक्षामन्त्राभिमन्त्रितान् विदध्यात्| भूतिं च भस्मरक्षामन्त्राभिमन्त्रितां विदध्यात्| किम्भूताम्? अक्षतैर्यवैरन्विताम्| शुचिं च| तथोच्छीर्षके शय्यायाः पूर्वभागे रक्षाशक्तिं रक्षार्थां देवीं विशेषप्रतियातनां चित्रादिकृतां विदध्यात्| यवाङ्कुरैर्यावकेनालक्तकेन सहितं दूर्वया शाड्वलेन संयुक्तं नानाविधैः पुष्पैः फलैश्च संयुक्तमुदकपूर्णं कलशमुच्छीर्षके विदध्यात्| सन्ध्यायां चोपहारमुच्छीर्षं विदध्यात्| एतच्च स्वस्त्ययनं कर्म शुचिना भिषजा शुचेर्भूभृतो भूपतेः कर्तव्यम्| न केवलं रात्र्यारम्भे कार्यं यावत् भुक्त्वा च कार्यम्| निशान्ते च कार्यम्| आयुषो हितं पौष्टिकमृद्धिकरं भूतादिनाशनं च, कार्मणं वशीकरणाद्यर्थं मन्त्रादि|| १०६||
Adhikarana viShasAdhanaprakaraNopasaMhAraH (107) · Śloka 107
संक्षेप एष विषपालनसाधनाय प्रोक्तस्तु विस्तरविधिः पुनरुत्तरे तु|
आलोच्य सम्यगखिलं मतिपूर्वकारी युञ्जीत तं परिविकल्प्य विकारचिह्नम्||१०७||
एषोऽस्मिन्नध्याये विषपालनाय विषरक्षणाय तथा तदुद्भवानां व्याधीनाञ्च साधनाय चिकित्सार्थं संक्षेपः प्रोक्तः| विस्तरविधिस्तु पुनरुत्तरस्थाने वक्ष्यते| इत्येतदखिलमशेषं बुद्ध्या आलोच्य विकल्प्य सम्यक् मतिपूर्वकारी, न तु यत्किञ्चनकारी विकारलक्षणं परिकल्प्य तं विषपालनसाधनविधिं युञ्जीत|| १०७||
Adhikarana viShAdirakShaNopAyAnusAraNaphalam (8) · Śloka 8
इति विषगररक्षो रक्षणायोपदेशं भजति नरपतिर्यो नित्यमेवाप्रमत्तः|
निजपररिपुवृन्दैरप्रधृष्यो महात्मा जनयति जनतायाः क्षेमयोगौ चिराय||१०८||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने अन्नरक्षाविधिर्नामाष्टमोऽध्यायः||८||
इत्यनेन प्रकारेण विषरक्षणाय गररक्षणाय रक्षोरक्षणाय भूतरक्षणाय यो नरपतिरप्रमत्तः सन्नुपदेशं भजति सेवते, स नरपतिर्निजै रिपुवृन्दैः सहजैः कामादिभिः शत्रुभिः पराणां संवरणदेशादीनां रिपूणां वृन्दैरप्रधृष्यो दुरभिभवः सन् महात्मा जनतायाः प्रजायाः सम्बन्धिनौ योगक्षेमौ चिराय बहुकालं जनयति जनताया योगक्षेमौ सम्पादयतीत्यर्थः|| १०८|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने अष्टमोऽध्यायः||८||