Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

7. annsvarūpavijñānīyaḥ

Adhikarana athAnnasvarupavij~jAnIyo nAma saptamo~adhyAyaH pratij~jA (1) · Śloka 1

अथातोऽन्न्स्वरुपविज्ञानीयं नामाध्यायं व्याख्यास्यामः| इति ह स्माऽहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

द्रवस्य पानान्नसंस्काराद्युपयोग्यत्वादन्नमुच्यते-अथेति|

Adhikarana (1) SUkadhAnyavargaH,SAliBedAH teShAM sAmAnyaguNAshca (2) · Śloka 2

रक्तो महानू सकलमस्तूर्णकः शकुनाहृतः| शारामुख़ो दीर्घशूको लोघ्रशूकः सुगन्धिकः| पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरशारिवौ| कञ्चनो महिषः शूको दूषकः कुसुमाण्डकः| लाङ्गला लोहवालाख़्याः कर्दमाः शीतभीरुकाः| पतङ्गास्तपनीयाश्च ये चान्ये शालयः शुभाः| स्वादुपाकरसाः स्निग्धा वृष्या बद्धाल्पवर्चसः| कषायानुरसाः पथ्या लग़वो मूत्रला हिमाः||२||

🔊 Audio coming soon

शूकधान्यानाञ्च प्राधान्यादग्रे पाठः| रक्ताद्यास्तपनीयान्ता अन्ये च देशकालरसादिना रक्तादिसदृशाः शालयस्ते सर्वे मधुरविपाकरसत्वादियुक्ताः| एते च सर्वे नानादेशप्रसिद्धनामानः| बद्धं ग्रथितं अल्पं च वर्चः पुरीषं कुर्वन्तीति बद्धाल्पवर्चसः| स्वभावेनैव शरीरे हिताः|| २||

Adhikarana shUkajeshu raktashAlyAdInAM yathottaramavaratvam (3) · Śloka 3

शूकजेषु वरस्तत्र रक्तस्तृष्णात्रिदोषहा| महांस्तं चानु कलमस्तं चाप्यनु ततः परे||३||

🔊 Audio coming soon

तत्र शूकजेषु मध्ये रक्तशालिः श्रेष्ठः| तृष्णानाशनस्त्रिदोषनाशनश्च| ततो रक्तादूनो महान्| ततोऽप्यूनः कलमः| अनेनैव क्रमेण परे तूर्णकादयः पूर्वस्मादुत्तरो गुणैरून इत्यर्थः|| ३||

Adhikarana yavakAdInAM yathApUrvamavaratvam (4) · Śloka 4

यवका हायनः पांसुवाप्यनैषधकादयः| स्वादूष्णा गुरवः स्निग्धाः पाकेऽम्लाः श्लेष्मपित्तलाः| सृष्टमूत्रपुरिषाश्च पूर्वं पूर्वं च निन्दिताः||४||

🔊 Audio coming soon

यवकादयो मधुरत्वादियुक्ता यश्च यस्मात् पूर्वः स तस्मान्निन्द्यः (च०सू०-२८-१२,सु०सू०-२१-२३)|| ४||

Adhikarana vrIhiShu ShaShTikasya shraiShThyam (5) · Śloka 5

स्निग्धो ग्राहि लघुः स्वादुस्त्रिदोषघ्नः स्थिरो हिमः| षष्टिको व्रीहिषु श्रेष्ठो गौरश्चासितगौरतः||५||

🔊 Audio coming soon

षष्टिको नाम व्रीहिः स्निग्धत्वादियुक्ताः| स्थिरः शरीरे अव्यापनशीलः| स च सर्वव्रीहिषु श्रेष्ठः| तस्य षष्टिकस्य द्वैविध्यंगौरः कृष्णगौरश्च, असितगौरतः कृष्णगौरात् गौरः श्रेष्ठः|| ५||

Adhikarana mahAvrIhyAdInAM ShaShTikAt hInaguNatvam (6) · Śloka 6

ततः क्रमान्महाव्रीहिकृष्णव्रीहिजतूमुखाः| कुक्कटाण्डकलाबाक्षपारावतकसूकराः| वरकोद्दालकोज्जालचीनशारददर्दुराः| गन्धनाः कुरुविन्दाश्च गुणैरल्पान्तराः स्मृताः||६||

🔊 Audio coming soon

ततः षष्टिकात् गुणैर्महाव्रीह्यादयः क्रमेणोनाः|| ६||

Adhikarana itaravrIhiguNAH (7) · Śloka 7

स्वादुरम्लविपाकोऽन्यो व्रीहिः पित्तकरो गुरुः||७||

🔊 Audio coming soon

एतेभ्यः षष्टिकयवादिभ्योऽन्योनुक्तो व्रीहिर्मधुरः अम्लविपाक पित्तकरो गुरुश्च|| ७||

Adhikarana pATalavrIhiguNAH (8) · Śloka 8

बहुमूत्रपुरीषोष्मा त्रिदोषस्त्वेव पाटलः||८||

🔊 Audio coming soon

पाटलो नाम व्रीहिः त्रिदोषकर एव|| ८||

Adhikarana ka~ggvAditRuNadhAnyAnAM sAmAnyaguNAH ka~ggvAdInAM visheShaguNAH (9) · Śloka 9

कङ्गुकोद्रवजूर्णाह्वगदीवरुणपादिकाः| श्यामाकतोयश्यामाकहस्तिश्यामाकशिल्बिकाः| शिशिरोद्दालनीवारवरूकबरकोत्कटाः| मधूलिकान्तनिर्गण्डीवेणुपर्णीप्रशान्तिकाः| गवेधुकाण्डलौहित्यतोयपर्णीमुकुन्दराः| कफपित्तहरा रूक्षः कषायमधुरा हिमाः| वातला बद्धविण्मूत्रा लघवो लेखनात्मकाः| भग्नसन्धानकृत्तत्र प्रियङ्गुर्बृंहणी गुरुः| कोरदूषः परं ग्राहि स्पर्शे शीतो विषापहः| उद्दालकस्तु वीर्योष्णो नीवारः श्लेष्मवर्धनः| शीतवीर्या विशेषेण स्निग्धा वृष्या मधूलिका||९||

🔊 Audio coming soon

कङ्ग्वादयः कफपित्तहरत्वादियुक्ताः| अतएव निर्धायते| व्रीहयो विशिष्टाः शूकधान्याः| प्रियङ्गुः, भग्नस्याङ्गस्य सन्धानं करोति| बृंहणी गुर्वी च| कोरदूषः कोद्रवः अत्यर्थसंग्रहणः, स्पर्शे शीतो विषहरश्च| उद्दालकस्तु उष्णवीर्यः| नीवारः श्लेष्मवर्धनः| मधूलिका अत्यर्थं शीतवीर्या स्निग्धा वृष्या च| सर्वत्र चोत्सर्गापवादोपबृंहकवचनकल्पना च स्वयं कल्पनीया|| ९||

Adhikarana yavAdInAM guNAH (10) · Śloka 10

रूक्षः शीतो गुरुःस्वादुः सरो विड्वातकृद्यवः| वृष्यः स्थैर्यकरो मूत्रमेदःपित्तकफाञ्जयेत्| पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान्| गुणैर्न्यूनतरा ज्ञेया यवादनु यवाह्वयाः| उष्णाः सरा वेणुयवाः कषाया वातपित्तलाः||१०||

🔊 Audio coming soon

यवो रूक्षत्वादिगुणयुक्तः|एतैश्च त्वगामयनाशनान्तैर्गुणैः स्वल्पैर्युक्ता, अनुयवाः अनुयवाः अनुयवनामानो यवाः| ते च यवाकृतयो लोके प्रसिद्धाः| वेणुप्रान्तभवा यवा उष्नवीर्याः सराः कषायरसाः वातपित्तलाश्च||१०||

Adhikarana godhUmaguNAH (11) · Śloka 11

वृष्यः शीतो गुरूः स्निग्धो जीवनो वातपित्तहा| सन्धानकारि मधुरो गोधूमः स्थैर्यकृत्सरः| पथ्या नन्दीसुखी शीता कषाया मधुरा लघुः||११||

🔊 Audio coming soon

गोधूमो वृष्यत्वादियुक्तः| जीवनः सौभ्यधातुवृद्वीकरः सन्धानकारि भग्नस्योरूप्रभृतेः सन्धानं करोति| नन्दिमुखी शरीरहिता रसे कषायमधुरा लघ्वी च| इति शूकधान्यवर्गः|| ११||

Adhikarana (2) shimbidhAnyavargaH shimbIparicayasteShAM sAmAnyaguNAshca (12) · Śloka 12

शिम्बिजा मुद्गमङ्गल्यवनमुद्गमकुष्ठकाः| मसूरकफलाढक्यश्चणकाश्च पृथग्विधाः| कषायस्वादुलघवो विबन्धाध्मानकारिणः| रूक्षा बद्धमलाः शीता विपाके कटुका हिताः| पित्तासृक्कफमेदस्सु सूपालेपादियोजनात्||१२||

🔊 Audio coming soon

शिम्बिधान्यमुच्यते-मुद्गाद्याः पृथग्विधाः नानाविधाः| रसेन कषायमधुराः लघवः| दोषविबन्धमाध्मानं च कुर्वन्ति| बद्धपुरीषा| शीतवीर्या विपाके कटुकाः| भोजनालेपपरिषेकादियोजना च रक्तपित्तश्लेष्ममेदःसु हिताः पथ्याः|| १२||

Adhikarana mudgaguNAH (13) · Śloka 13

सूप्यानामुत्तमा मुद्गा लघीयांसोऽल्पमारुताः| हरितास्तेष्वपिवरा.....................||१३||

🔊 Audio coming soon

सूपे साधुः सूप्यः| तेषां सूप्यानां मुद्गा उत्तमाः प्रवराः| अतिलघवः स्वल्पवातलाश्च| तेषु मुद्गेषु मध्ये हरिताः शातवलवर्णाः वराः श्रेष्ठाः कृष्णास्त्ववराः|| १३||

Adhikarana makuShThamasuraguNAH (14) · Śloka 14

........................ंअकुष्ठाः क्रिमिकारिणः| वर्ण्याः परं प्रलेपाद्यैर्मसूरा ग्राहिणो भृशम्||१४||

🔊 Audio coming soon

मकुष्ठास्तु कृमिकराः| मसूराः प्रलेपादिभिर्युक्ताः परमत्यर्थेन वर्णकराः| संग्रहणाश्च|| १४||

Adhikarana rAjamAShaguNAH (15) · Śloka 15

राजमाषो गुरुर्भूरिशकृद्रूक्षोऽतिवातः||१५||

🔊 Audio coming soon

राजमाषो गुरुः प्रभूतपुरीषः रूक्षोऽतिवातलश्च|| १५||

Adhikarana kulatthaguNAH (16) · Śloka 16

कषायस्वादुरूक्षोष्णा कुलत्था रक्तपित्तलाः| पीनसाश्वासकासार्शोहिध्मानाहकफानिलान्| घ्नन्ति शुक्राश्मरीं शुक्रं दृष्टिं शोफं तथोदरम्| ग्राहिणो लघवस्तीक्ष्णा विपाकेऽम्ला विदाहिनः||१६||

🔊 Audio coming soon

कुलत्थाः कषायमधुरा रूक्षा उष्णवीर्याः रक्तपित्तकरा पीनसादिनाशनाश्च| शुक्राश्मरीं घ्नन्ति| शुक्रं रेतः तेनाश्मरी वक्ष्यमाणा (नि०अ०-९)| दृष्टिं दर्शनशक्तिं च नाशयन्ति| संग्रहणा लघवस्तीक्ष्णा अम्लविपाका विदाहिनः|| १६||

Adhikarana niShpAvaguNAH (17) · Śloka 17

निष्पावस्तु सरो रूक्षः कषायमधुरो गुरुः| पाकेऽम्लो वातविष्टम्भी स्तन्यमूत्रास्रपित्तकृत्| उष्णो विदाही दृक्शुक्रकफशोफविषापहः||१७||

🔊 Audio coming soon

निष्पावस्तु सरत्वादियुक्तः, वातकरः, उष्णवीर्यः, विदाही दृशं-रेतः-कफः-शोफं-विषञ्च नाशयति| निष्पावो राजशिम्बिः|

Adhikarana mAShaguNAH (18) · Śloka 18

माषः स्निग्धो बलश्लेष्ममलपित्तकरः सरः| गुरुष्णोऽनिलहा स्वादुः शुक्रवृद्धिर्विरेककृत्||१८||

🔊 Audio coming soon

माषः स्निग्धत्वादियुक्तः| मलं पुरीषम्| शुक्रस्य रेतसो वृद्धिं बहुत्वं विरेकं बहिःप्रेरणं च करोति|| १८||

Adhikarana kAkANDolAtmaguptayorguNAH (19) · Śloka 19

फलानि गुणवद्विद्यात् काकाण्डोलात्मगुप्तयोः||१९||

🔊 Audio coming soon

काकाण्डोलात्मगुप्तयोश्च फलानि माषवत् गुणैर्विद्यात्| काकाण्डोला कटभिः|| १९||

Adhikarana kuSAmrashimbiguNAH (20) · Śloka 20

कुशाम्रशिम्बी मधुरा वातापित्तहरा हिमा||२०||

🔊 Audio coming soon

कुशाम्रशिम्बी नाम शिम्बिधान्यम्| सा मधुरा वातपित्तहरा शीतवीर्या च|| २०||

Adhikarana anuktaSimbidhAnyAnAM sAmAnyaguNAH (21) · Śloka 21

मधुराः शीतला गुर्व्यो बलघ्न्यो रूक्षणात्मिकाः| स्नेहाढ्या बलिभिर्भोज्या विविधाः शिम्बिजातयः||२१||

🔊 Audio coming soon

अनुक्तानां सामान्यगुणमुच्यते| विविधाः शिम्बिजातयो मधुराः शीतवीर्या गुर्व्यो बलघ्न्यो रौक्ष्यापादनस्वभावाः| ताश्च स्नेहाढ्या घृतादिबहलाः सत्यो बलवद्भिः पुरुषैर्भोज्याः|| २१||

Adhikarana tilaguNAH (22) · Śloka 22

स्निग्धोष्णतिक्तकटुकः कषायमधुरस्तिलः| मेध्यः केश्यो गुरुर्वर्ण्यः स्पर्शशीतोऽनिलापहः| अल्पमूत्रः कटुः पाके मेधाग्निकफपित्तकृत्| कृष्णः प्रशस्तस्तमनु शुक्लस्तमनु चारुणः||२२||

🔊 Audio coming soon

तिलः स्निग्धत्वादियुक्तः| रसे तिक्तादियुक्तः| विपाके कटुकः| मूत्रस्याल्पत्वकरोऽल्पमूत्रः| मेधाग्निकफपित्तकरश्च| मेधा प्रज्ञा| तेषु च तिलेषु मध्ये कृष्णतिलः श्रेष्ठः| ततः शुक्लः ऊनः| शुक्लादप्यरुण ऊनतरः|| २२||

Adhikarana atasIguNAH (23) · Śloka 23

स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः| दृक्छुक्रहृत्कटुः पाके.....................||२३||

🔊 Audio coming soon

उमा अतसी स्निग्धा रसेन मधुरतिक्ता, उष्णवीर्या कफपित्तकरी गुर्वी च दृशं शुक्रं च नाशयति, कटुविपाका च|| २३||

Adhikarana kusumBabIjaguNAH (24) · Śloka 24

.......................तद्वद्बीजं कुसुम्भजम्||२४||

🔊 Audio coming soon

तद्वदुमावत्कुसुम्भबीजम्|| २४||

Adhikarana mAShayavakayoravaratvaM shimbishUka- dhAnyorvarAvaratvam (25) · Śloka 25

माषोऽत्र सर्वेष्ववरो यवकः शूकजेषु च||२५||

🔊 Audio coming soon

अत्र शिम्बिधान्यवर्गे माषः अश्रेष्ठः| शूकधान्यमध्ये यवकः अश्रेष्ठः|| २५||

Adhikarana navapurANAdidhAnyaguNAHsUpyasya laghutvAva (26) · Śloka 26

नवं धान्यमभिष्यन्दि सेक्यं केदारजं च यत्| लघु वर्षोषितं दग्धभूमिजं स्थलसम्भम्| शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम्||२६||

🔊 Audio coming soon

नवमगतसंवत्सरं धान्यमभिष्यन्दि मालिन्येन स्रोतसां स्रावकम्| तथा सेक्ये बहूदके केदारे जातमभिष्यन्दि| लघु वर्षोषितम्| तथा दग्धभूमिजम्| तथा स्थलसम्भवं निरुदककेदारजम्| शीघ्र- जन्म| अचिरकालपाकम्| तथा सूप्यं मुद्गादि तुषरहितं युक्त्या च भर्जितं सत् निस्तुषम्| इति शिम्बिधान्यवर्गः|| २६||

Adhikarana (3) kRutAnnavargaH maNDapeyAdInAM yathApUrva lAghavam| (27) · Śloka 27

मण्डपेयाविलेपीनामोदनस्य च लाघवम्| यथापूर्व............................||२७||

🔊 Audio coming soon

धान्यानां स्वरूपमुक्तम्| अनन्तरोक्तानि रक्तादीनि सत्स्वपि स्वरूपगुणेषु संयोगसंस्कारप्रमाणादिविशेषेण गुणान्तरयोगमपि यान्ति, तद्विज्ञ्हानार्थं कृतान्नवर्गारम्भः| मण्डादीनां यथापूर्वं लघुत्वम्| तेनैतदुक्तं भवति-ओदवमपेक्ष्य लघ्वी विलेपिका| ततोऽपि पेया द्रवा लघुतरा| ततोऽपि मण्डोऽत्यर्थद्रवो लघुः| ओदनस्य पूर्वकत्वाभावान्न लघुत्वं न गुरुत्वमुक्तम्|| २७||

Adhikarana maNDaguNAH (28) · Śloka 28

.................शिवस्तत्र मण्डो वातानुलोमनः| तृङ्गानिदोषशेषघ्नः पाचनो धातुसाम्यकृत्| स्रोतोमार्दवकृत्स्वेदी सन्धुक्षयति चानलम्||२८||

🔊 Audio coming soon

एतदेव निर्धारयति| मण्डो वातास्यानुलोमनः| तृडादिघ्नश्च| दोषस्य वमनविरेचनादिना निर्हृतस्य शेषो दोषशेषः| पाचनो धातुसाम्यकरश्च| स्रोतोमार्दवं करोति| स्वेदयत्याग्निं चोद्दीपयति|| २८||

Adhikarana peyAguNAH (29) · Śloka 29

क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा| मलानुलोमिनी पथ्या पेया दीपनपाचनी||२९||

🔊 Audio coming soon

पेया क्षुदादिहरा|| २९||

Adhikarana vilepIguNAH (30) · Śloka 30

विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता| व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनाम्||३०||

🔊 Audio coming soon

विलेपिका संग्राहिणी, हृद्या, तृष्णाघ्नी, दीपनी च व्रणादीनां च हिता| संशुद्धः कृतवमनविरेचनः|| ३०||

Adhikarana odanasya gurulAghavam (31) · Śloka 31

सुधौतः प्रस्रुतः स्विन्नस्त्यक्तोष्मा चौदनो लघुः| यश्चाग्नेयौषधक्वाथसाधितो भृष्टतण्डुलः| विपरीतो गुरुः क्षीरमांसाद्यैर्यश्च साधितः||३१||

🔊 Audio coming soon

त्यक्तबाष्पश्च लघुः| ऊष्मा बाष्पो जलभागो गुरुत्वहेतुः| अत्युष्णातिशीतयोः प्रमाणान्तरान्निषेधः| केचित्सिद्ध्युष्णस्य लघवमभ्युपगच्छन्तः स्विन्नः| ओदनः सुष्ठु धौतः प्रस्रतुः| स्विन्नः अत्यक्तोष्मा चेति पठन्ति| यत्र चैषां पुनरुष्णप्रतिषेधः, स सिद्धिशब्दाशयः| यश्चोदन आग्नेयानां मरिचादीनां क्वाथेन संसिद्धः, सोऽपि लघुः| तथा भृष्टैस्तण्डुलैः सिद्ध ओदनो लघुः| यथोक्तलक्षणादोदनाद्विपरीतो गुरुः| क्षीरमांसादिभिर्मधुरैर्यश्च साधितः, सोऽपि गुरुः|| ३१||

Adhikarana dravyakriyAdibhiH kRutAnnasya gurulAghavaM peyAdInAM guNAH (32) · Śloka 32

इति द्रव्यक्रियायोगमानाद्यैः सर्वमादिशेत्||३२||

🔊 Audio coming soon

इत्यनया दिशा सर्वं कृतान्नं द्रवस्य स्वरूपेण क्रियया संयोगेन प्रमाणेन च बोद्धव्यम्| किं स्वरूपेण गुणानां स्वनिबन्धकेन उपबृंहकेन संयोगिना द्रव्येण संयुक्तमिति नानाविधविकल्पनेन कृतान्नस्वरूपं जानीयात्|| ३२||

Adhikarana mAMsaraguNAH (33) · Śloka 33

शुष्यतां व्याधिमुक्तानां शुद्धानां शुद्धिकांक्षिणाम्| कृशक्षामतोरस्कक्षीणधात्विन्द्रियौजसाम्| दृष्टिश्रवणवहन्यायुर्बलवर्णस्वरार्थिनाम्| भग्नविश्लिष्टसंधीना व्रणिनां वातरोगिणाम्| हृद्यः पथ्यंः परं वृष्यो बृंहणः प्रीणनो रसः||३३||

🔊 Audio coming soon

रसो मांसरसः शुष्यदादीनां पथ्यः| व्याधिमुक्तानां बलाधानार्थम्| शुद्धानां कृतवमनविरेचनानां पेयाद्यन्ते| शुद्धिकाङ्क्षिणां चाऽऽचरणीयः संशोधनानां देहदोषमार्दवाय|| ३३||

Adhikarana maudgarasaguNAH (34) · Śloka 34

मौद्गस्तु पथ्यः संशुद्धव्रणकण्ठाक्षिरोगिणाम्||३४||

🔊 Audio coming soon

मौद्गस्तु रसो निर्मांसयूषः संशुद्धादीनां पथ्यः|| ३४||

Adhikarana kaulattharasaguNAH (35) · Śloka 35

वातानुलोमी कौलत्थो गुल्मतूनिप्रतूनिजित्||३५||

🔊 Audio coming soon

कौलत्थो रसो वातमनुलोमयति गुल्मादिनाशनं च| तूनिप्रतूनी रोगौ गुल्मनिदाने वक्ष्यमाणलक्षणौ (नि०अ०-११)|| ३५||

Adhikarana mAShasUpaguNAH (36) · Śloka 36

प्रभूताभ्यन्तरमलो माषसूपः परं स्मृतः||३६||

🔊 Audio coming soon

माषसूपः परमत्यर्थमान्तरं मलं पुरीषं प्रभूतं करोति| माषाणां बहुमलत्वे उक्तोऽपि अन्येभ्यस्तद्विकृतिभ्यः सूपस्यातिशयख्यापनार्थं वचनम्|| ३६||

Adhikarana khalakAmbalikaguNAH (37) · Śloka 37

खलकाम्बलिकौ हृद्यौ च्छेदिनौ स्वौषधानुगौ||३७||

🔊 Audio coming soon

खलकाम्बलिकौ हृद्यौ च्छेदिनौ स्वसंस्कारकौषधगुणयुक्तौ च|| ३७||

Adhikarana rasayUShakhalAnAM lakShaNAni (38) · Śloka 38

पिशितेन रसस्तत्र यूषो धान्यैः खलः फलैः||३८||

🔊 Audio coming soon

रसादीनां व्यवहारार्थं लक्षणमुच्यते| पिशितेन मांसेन यः क्रियते स रसः| धान्यैर्मुद्गादिभिः क्रियते स यूषः| फलैर्बदरादिभिर्यः क्रियते स खलः|| ३८||

Adhikarana kAmbalikalakShaNam (39) · Śloka 39

मूलैश्च तिलकल्काम्लप्रायः काम्बलिकः स्मृतः||३९||

🔊 Audio coming soon

मूलैस्तिलैस्तिलकल्काद्यैश्च कृतो दाडिमाद्यम्लप्रायः काम्बलिकः|| ३९||

Adhikarana mAMsarasAdInAM kRutAkRutalakShaNam (40) · Śloka 40

ज्ञेयाः कृताकृतास्ते तु स्नेहादियुतवर्जिताः||४०||

🔊 Audio coming soon

ते तु रसादयो यथासङ्ख्येन स्नेहादियुतवर्जिताः कृताकृता ज्ञेयाः| तेनैतदुक्तं भवति- स्नेहादिभिर्भर्जनेन शुण्ठ्यादिना च संस्कृताः कृतशब्दवाच्याः| विपरीताः अकृताः|| ४०||

Adhikarana dakalAvaNikalakShaNam (41) · Śloka 41

अल्पमांसादयः स्वच्छा दकलावणिकाः स्मृताः||४१||

🔊 Audio coming soon

ये स्वल्पेन मांसेन स्वल्पैश्च शुण्ठ्यादिभिः क्रियन्ते स्वच्छाश्च ते रसादयो दकलावणिकाः|| ४१||

Adhikarana yUShAdInAmuttarottaraM gurutvam (42) · Śloka 42

विद्याद्यूषे रसे सूपे शाके चैवोत्तरोत्तरम्| गौरवं तनुसान्द्राम्लस्वादुष्वेषु पृथक् तथा||४२||

🔊 Audio coming soon

यूषरससूपशाकानां यथोत्तरमेव गौरवं विज्ञेयं द्रव्यगुणसाम्येऽपि| तथा तनुसान्द्राम्लस्वादुषु च पृथक् यथोत्तरमेव गौरवं विज्ञेयमिति| तेनैतदुक्तं भवति- तनुभ्यो रसादिभ्यः सान्द्रा घना गुरवः| अम्लेभ्यश्च मधुरा इति|| ४२||

Adhikarana tilapiNyAkavikRutyAdInAM guNAH (43) · Śloka 43

तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम्| चाण्डाकीवटकं दृग्घ्नं दोषलं ग्लपनं गुरु||४३||

🔊 Audio coming soon

तिलपिण्याकस्य विकृतिः शुष्कशाकं विरूढकं चाण्डाकीवटकं च दृष्टिनाशनं दोषलं त्रिदोषकोपनं ग्लानिकरं गुरु च| विरूढकं अङ्कुरितानि भृष्टानि सस्यानि| चाण्डाक्या सहसासुतं मुद्गादिविटकं चाण्डाकीवटकम्|| ४३||

Adhikarana parpaTakShAraparpaTayorguNAH (44) · Śloka 44

पर्पटा लघवो रूच्या लघीयान् क्षारपर्पटः||४४||

🔊 Audio coming soon

पर्पटाभिधाना भक्ष्या लघवो रुचिकराश्च| तेभ्यश्च क्षारपर्पटोऽतिलघुः| यः स्वर्चिकादिजलेन संस्क्रियते|| ४४||

Adhikarana rAgaShADavayoguNAH (45) · Śloka 45

हृद्या वृष्या रुचिकरा गुरवो रागषाडवाः| प्रीणना भ्रमतृट्च्छर्दिमदमूर्च्छाश्रमच्छिदः||४५||

🔊 Audio coming soon

रागाः सितामध्वादिकृताः| षाडवाः अम्लसिद्धशाक्शर्करादिकृताः| हृद्या वृष्या रुचिकरा गुरवश्च| तथा प्रीणना मनःप्रीतिकराः, भ्रमादिनाशनाश्च|| ४५||

Adhikarana manthaguNAH rasAlAguNAH (47) · Śloka 47

तृट्च्छर्दिश्रमनुन्मन्थः शीतः सद्योबलप्रदः| प्रमेहक्षयकुष्ठानि न च स्युर्मन्थपायिनः||४६|| रसाला बृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा||४७||

🔊 Audio coming soon

रसाला कारमथितेन मरिचशर्करादिसंयुक्तेन च दध्ना कृताः बृहणी देहस्य बृहत्वकरी वृष्यत्वादिगुणयुक्ता च|| ४७||

Adhikarana pAnakaguNAH (48) · Śloka 48

श्रमक्षुत्तृट्क्लमहरं पानकं प्रीणनं गुरु| विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणं च तत्||४८||

🔊 Audio coming soon

सर्वञ्च पानकं श्रमादिहरं गुरु विष्टम्भि मुत्रलं हृद्यञ्च| तच्च पानकं यथाद्रव्यगुणं स्वसंस्कारद्रव्यगुणसंयुक्तञ्च||४८||

Adhikarana lAjAguNAH (49) · Śloka 49

लाजास्तृटूच्छर्द्यतीसारमेहमेदःकफच्छिदः| कासपित्तोपशमना दीपना लघवो हिमाः||४९||

🔊 Audio coming soon

लाजास्तृडादीन् च्छिन्दन्ति नाशयन्ति| कासं पित्तं चोपशमयन्ति| आग्निदीप्तिकराः लघवः शीतवीर्याश्च||४९||

Adhikarana pRuthukaguNAH (50) · Śloka 50

पृथुका गुरवो बल्याः कफविष्टम्भकारिणः||५०||

🔊 Audio coming soon

पृथुका गुरूत्वादियुक्ताः| हरितधान्यानि सतुषभृष्टमुसलाहितानि पृथुकशब्दवाच्यानि|| ५०||

Adhikarana dhAnAguNAH (51) · Śloka 51

धानाविष्टम्भिनी रुक्षा तर्पणी लेखनी गुरुः||५१||

🔊 Audio coming soon

धाना भृष्टधान्यानि विष्टम्भिनी रूक्षादिगुणयुक्ता च|| ५१||

Adhikarana saktuprabhRutInAM guNAH (52) · Śloka 52

कण्ठनेत्रामयक्षुत्तृट्श्रमछर्दिव्रणापहाः| सक्तवो लघवः पानात् सद्य एव बलप्रदाः| निचयात् कठिना गुर्वी प्रोक्ता पिण्डी मृदुर्लघुः| सक्तूनाम् द्रवतायोगाल्लघीयस्यवलेहिका| शष्कुलीमोदकादीनां व्याख्यातैवं च कल्पना||५२||

🔊 Audio coming soon

सक्तवः कण्ठामयनेत्रामयादिनाशना लघवः| उदकेन पीताश्च सद्य एव बलं कुर्वन्ति| तेषाम् सक्तूनां पिण्डी निचयात् संहतत्वात् या कठिना सा गुर्वी| या तु मृदुः सा तु लघुः| ये तु सक्तवः उदकमिश्राः अवलिह्य भुज्यन्ते सा अवलेहिका द्रवत्वयोगात् लघीयसी| शुष्कलीमोदकादीनां भक्ष्याणां चैवानयैव संयोगसंस्कारकाठिन्यादिविशेषदिशा गुणकल्पना व्याख्याता|| ५२||

Adhikarana saktubhakShaNe niyamAH (53) · Śloka 53

नोदकान्तरितान्न द्विर्न निशायां न केवलान्| न भुक्त्वा न द्विजैश्छित्वा सक्तूनध्यन्न वा बहुन्||५३||

🔊 Audio coming soon

सक्तूंश्चैवंविधान्नाध्यात् उदकान्तरितानुदकेन जलेनान्तरितान् व्यवहितान्| आदौ पिण्डी मध्ये जलमन्ते च पिण्डीत्युदकान्तरितान्| द्वौ वारौद्विः|निशायां रत्त्र्याम्| केवलनुदकादिरहितान्| भुक्त्वाचान्यदोदनादि| द्विजैशिछत्वा दन्तैः करस्थां पिण्डीं चित्वेत्यर्थः| बहूंश्च सक्तून्नाध्यात्|| ५३||

Adhikarana karkandhubadarAdi saktuguNAH (54) · Śloka 54

कर्कन्धुबदरादीनां श्रमतृष्णाक्लमच्छिदः| सक्तबोऽम्लरसा हृघा यथाद्रव्यगुणाश्च ते||५४||

🔊 Audio coming soon

कर्कन्धुबदरादीनां च फलादीनां सक्तवः क्लमादिच्छिदः अम्लरसा हृघाश्च| ते सर्वे सक्तवः प्रकृतिद्रव्यगुणयुक्ताः|| ५४||

Adhikarana piNyAkaguNAH (55) · Śloka 55

पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः||५५||

🔊 Audio coming soon

पिण्याकोऽक्षोटतिलादीनां निष्पीडिततैलकल्कः ग्लानिकरो विष्टम्भी दृष्टिविकारकरश्च|| ५५||

Adhikarana veSavAraguNAH (56) · Śloka 56

वेशवारो गुरुः स्निग्धो बलोपचयवर्धनः||५६||

🔊 Audio coming soon

वेशवारः नागरधनिकाजाज्यादिसंस्कृतं सूक्ष्मच्छिन्नं मांसम्| स गुरुः स्निग्धः बलवर्धनोऽङ्गोपचयवर्धनश्च|| ५६||

Adhikarana mudgAdijAnAM veSavArANAM guNAH (57) · Śloka 57

मुद्गाजिजास्तु गुरवो यथाद्रव्यगुणानुगाः||५७||

🔊 Audio coming soon

मुद्गादिजास्तु वेशवाराः ये सूक्ष्मच्छिन्नैर्मुद्गयवधान्यादिभिः क्रियन्ते| लोके च पूरणमिति प्रसिद्धाः, ते गुरुवः प्रकृतिद्रव्यगुणाश्च| आदिग्रहणेन शिम्बिधान्यानाञ्च वरकसूकराणामुलुकादीनाञ्च ग्रहणम्|| ५७||

Adhikarana kukUlAdipakvAnAmapUpAnAM yathottaraM laGutvamGAryAdInAM yathottaraM gurutvam (58) · Śloka 58

कुकूलकर्परभ्राष्टकन्द्वङ्गारविपाचितान्| एकयोनीन् सघून्विद्यादपूपानुत्तरोत्तरम्| घारी केडरिकाद्याश्च गुरवश्च यथोत्तरम्||५८||

🔊 Audio coming soon

कुकूलादिसिद्धानपूपान् एकयोनीनेकशालिकारणान् सतो यथोत्तरं लघूनिति जानीयात्| तेनैतदुक्तं भवति-सजातीयात् कुकूलपक्वात् कर्परपक्वो लघुरग्निसंयोगनैकट्यात्| कर्परपक्वाच्च भ्राष्ट्रपक्वः| भ्राष्ट्रपक्वाच्च कन्दुपक्वः| कन्दुपक्वाच्च अङ्गारपक्वः| एकयोनिग्रहणं भिन्नयोनेः समलाघवशङ्कानिरासार्थम्| एको ह्यपूपो गुरुशालियोनिः कुकूलपक्वोऽन्येन लघुशालियोनिना कुकूलपक्वेनैव न लाघवे समः| तथा एको लघुशालियोनिः कुकूलपक्वोऽन्यो गुरुशालियोनिः कर्परपक्वश्च समावित्यर्थः| अनया च कल्पनया सर्वमूह्यम्| कुकूलो बाष्पस्वेदः| क्षारपाक इत्यन्ये| कर्परो ज्वालासन्तप्तः कपालः| भ्राष्टं प्रसिद्धम्| कन्दुः अङ्गारतप्ता भित्तिः| अङ्गारः स्वरूपेणैव| इति कृतान्नवर्गः|| ५८||

Adhikarana (4) mAMsavargaH mRugavargaH (59) · Śloka 59

हरिणैणकुरङ्गर्श्यगोकर्णमृगमातृकाः| कालपुच्छकचारुष्कवरपोतशशोरणाः| श्वदंष्ट्रामशरभकोहकारकशम्भराः| करालकृतमालौ च पृषतश्च मृगाः स्मृताः||५९||

🔊 Audio coming soon

अनन्तरं मांसमुच्यते-हरिणादयः पृषतान्ताः एकोनविंशतिर्मृगविज्ञेयाः|| ५९||

Adhikarana viShkiravargaH (60) · Śloka 60

लाववातीकवर्तीररक्तवर्त्मककक्कुभाः| कपिञ्जलोपचक्राख्याचकोररुरुबाहवः| वर्तको वर्तिका चेति तित्तिरिः क्रकरः शिखी| ताम्रचूडाख्यवरकगोनर्दगिरिवर्तिकाः| तथा शारपदेन्द्राह्ववारटाश्चेति विष्किराः||६०||

🔊 Audio coming soon

लावादयो वारटान्ता एकविंशतिराहारस्य विकीर्य विक्षिप्य भक्षणात् विष्किराः| वर्तिका वर्तक्षाञ्जात्यन्तरे न तु नाम तस्य स्त्री|| ६०||

Adhikarana pratudavargaH (61) · Śloka 61

शतपत्रो भृङ्गराजः कोयष्टी जीवजीवकः| खञ्जरीटकहारीतदुर्नामारिकृशाग्रहाः| लट्वा लडूषो वटहा गोक्ष्वेलो डिण्डिमाणवः| जटी दुन्दुभिपार्कारलोहपृष्ठकुलिङ्गकाः| शारिकाशुकशार्ङ्गाचिरीटीककुयष्टिकाः| मञ्जरीयकदात्यूहगोधापुत्रप्रियात्मजाः| कलविङ्कः परभृतः कपोतोऽङ्गारचूडकः| पारावतः पाणविक इत्युक्ताः प्रतुदा द्विजाः||६१||

🔊 Audio coming soon

शतपत्रादयः पाणविकान्ताश्चतुस्त्रिंशदाहारश्च शाल्यादेः प्रतुद्य तुण्डैराहत्य भक्षणात् द्विजाः प्रतुदाः स्मृताः|| ६१||

Adhikarana bileSayavargaH (62) · Śloka 62

श्वेतः श्यामश्चित्रपृष्ठः कालकः काकुली मृगः| भेकचिल्लटकूचीका गोधाशल्यकशाण्डकाः| वृषाहिकदलीश्वाविन्नकुलाद्या बिलेशयाः||६२||

🔊 Audio coming soon

श्वेताद्या नकुलाद्यान्ता बिले भूगर्भे निषदनात् बिलेशयाः|| ६२||

Adhikarana prasahavargaH (63) · Śloka 63

गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः| मार्जारमूषिकव्याघ्रवृकबभ्रुतरक्षवः| लोपाकजम्बुकश्येनचाषोलूकश्ववायसाः| शशघ्नीभासकुररगृध्रवेश्यकुलिङ्गकाः| धूमिका मधुहा चेति प्रसहामृगपक्षिणः||६३||

🔊 Audio coming soon

गवादयाः मधुहान्ताः केचित्पक्षिणः केचिन्मृगाः| जात्या प्रसह्याहृत्य भक्षणाच्च प्रसहाः स्मृताः|| ६३||

Adhikarana mahAmRugAH (64) · Śloka 64

महिषन्यङ्कुरोहीतवराहरुरुवारणाः| सुमरश्चमरः खड्गो गवयश्च महामृगाः||६४||

🔊 Audio coming soon

महिषादयो गवयान्ता दश महामृगशब्दवाच्याः|| ६४||

Adhikarana jalacArivargaH (65) · Śloka 65

हंससारसकादम्बबककारण्डवप्लवाः| मृणालकण्ठचक्राह्वबलाका रक्तशीर्षकाः| उत्क्रोशपुण्डरीकाक्षशरारीमणितुण्डकाः| काकतुण्डघनारावमद्गुक्रौञ्चाम्बुकुक्कुटाः| नंद्यास्यमल्लिकाद्याश्च पक्षिणो जलचारिणः||६५||

🔊 Audio coming soon

हंसादयो मल्लिकाद्यन्ताश्च जल एव चरणात् जलचारिणः|| ६५||

Adhikarana matsyavargaH (66) · Śloka 66

मत्स्यारोहितपाठीनकूर्मकुम्भीरकर्कटाः| शुक्तिशङ्ह्खोद्रुशम्बूकशफरीवर्त्मिचन्द्रिकाः| बोलूकीनक्रमकरशिशुमारतिमिङ्गलाः| राजी चिलिचिमाद्याश्च मांसमित्याहुरष्टधा||६६||

🔊 Audio coming soon

रोहितादयश्चिलिचिमाद्यान्ताः जलोद्भवा मत्स्याः| इत्यष्टिभिः प्रकारैराचार्या मांसमाहुः|| ६६||

Adhikarana ajAvyoH yojyanishcayaH (67) · Śloka 67

योनिष्वजावी व्यामिश्रगोचरत्वादनिश्चिते||६७||

🔊 Audio coming soon

एतासु चाष्टासु मांसयोनिषु मध्ये मिश्रयोनित्वान्मिश्रविषयत्वादजावी अनिश्चिते| ते हि जाङ्गलेऽपि देशे सम्यग्वर्तेते आनूपेऽपि| यद्यपि तित्तिरिरुभयचरस्तथापि सदैव तत्स्वभावत्वाद्वर्गेभ्यः पृथङ्नोक्तः| अजा अवयश्च केचिद्धन्वनि केचदानूप इति पृथगुक्ते| येषां च नामपर्यायाः नानादेशप्रसिद्धाः किरातकैवर्तादिभ्यः अपभ्रंशसंस्कारणाच्च ज्ञातव्याः| वर्तिका वर्तकाज्जात्यन्तरं, न तु तस्य स्त्री|| ६७||

Adhikarana mAMsasya traividhyAdi (68) · Śloka 68

अद्यान्त्या जाङ्ह्गलानूपा मध्यौ साधारणौ स्मृतौ| विकीर्यादिक्रियायोगैर्भक्षणाद्विष्किरादयः||६८||

🔊 Audio coming soon

एषां च वर्गाणां मध्ये आद्यास्त्रयो मृगविष्किरप्रतुदाः जाङ्गलाः जाङ्गलशब्दवाच्याः| अन्त्यास्त्रयः महामृगजलचरमत्स्या आनूपाः| मध्यौ द्वौ बिलेशयप्रसहौ सधारणौ| विकीर्य भक्षणक्रियायोगाद्विष्किरादीनि नामानीत्युक्तम्|| ६८||

Adhikarana jA~ggalamAMsaguNAH (69) · Śloka 69

तत्र बद्धमला रुच्या मांसानामुत्तमा हिमाः| कषायस्वादुविशदा लघवो जाङ्गला हिताः| पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे||६९||

🔊 Audio coming soon

तत्र जाङ्गला मलं पुरीषं बद्धं कुर्वन्ति| रुचिकराः मांसानां चोत्तमाः| शीतवीर्या रसे कषायमधुराः विषदा लघवः| सन्निपाते च हिताः किम्भूत इत्याह-पित्तोत्तर इत्यादि| यस्मिन् सन्निपाते पित्तमुत्तरमधिकं वातो मध्यः कफश्च स्वल्पः|| ६९||

Adhikarana hariNaiNayorvarNAH guNASca (70) · Śloka 70

ताम्रोऽत्र हरिणः कृष्णस्त्वेणो हृद्यस्त्रिदोषजित्| लघीयान् षड्रसश्चासौ............................||७०||

🔊 Audio coming soon

अत्र चैणहरिणावाकृत्या सदृशौ| केवलं ताम्रवर्णो हरिणः| कृष्णवर्णस्त्वेणः| असावेणो हृद्यस्त्रिदोषहरः, अतिलघुः, षड्रसश्च|| ७०||

Adhikarana shashaguNAH (71) · Śloka 71

........................ग्राहि रूक्षो हिमः शशः| कटुपाकोऽग्निकृत् पथ्यः सन्निपातेऽनिलावरे||७१||

🔊 Audio coming soon

शशस्तु संग्रहणो रूक्षः शीतवीर्यः कटुविपाकोऽग्निवृद्धिकृत्, ऊनवायौ सन्निपाते च पथ्यः|| ७१||

Adhikarana lAvakapi~jjalayorguNAH (72) · Śloka 72

तद्वल्लवोऽप्यरूक्षस्तु किञ्चिद्रूक्षः कपिञ्जलः||७२||

🔊 Audio coming soon

लावोऽपि तद्वत् शशवत्| केवलमसावरूक्षः| कपिञ्जलः किञ्चिद्रूक्षः|| ७२||

Adhikarana vanyapArAvatakapotayorguNAH (73) · Śloka 73

पारावताः कपोताश्च तद्वद्वन्याः सुपूजिताः||७३||

🔊 Audio coming soon

पारावतकपोतौ वनजातौ पथ्यौ| गृहभृतावपथ्यौ|| ७३||

Adhikarana vartakAdInAM sAmAnyaguNAH (74) · Śloka 74

ईषदुष्णगुरुस्निग्धा बृंहणा वर्तकादयः||७४||

🔊 Audio coming soon

वर्तकात्प्रभृति यावज्जाङ्गलपरिसमाप्ति तावत्सर्वे औष्ण्येन गुरुत्वेन स्निग्धत्वेन च ईषत् स्वल्पं युक्ताः|| ७४||

Adhikarana tittiriguNAH (75) · Śloka 75

तित्तिरिस्तेष्वपि वरो मेधाग्निबलशुक्रकृ ग्राही वर्ण्योऽनिलोक्तसन्निपातहरः परम्| धन्वानूपविचारित्वात् स्निग्धोष्णागुरूबृंहणः||७५||

🔊 Audio coming soon

तेष्वपि मध्ये तित्तिरिः श्रेष्ठः मेधादिकरः| संग्रहणो वर्ण्यो वाताधिकसन्निपातहरश्च| स तु तित्तिरिर्धन्वनि देशे विचरत्यानूपे च| अतः स्निग्ध उष्णो गुरुर्बृंहणश्च|| ७५||

Adhikarana mayUraguNAH (76) · Śloka 76

नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशाम्||७६||

🔊 Audio coming soon

शिखी मयूरो नातिपथ्यः| श्रोत्रादीनां पथ्यः| वयसश्च पथ्यः| शीघ्रपरिणामरक्षणः|| ७६||

Adhikarana kukkuTaguNAH (77) · Śloka 77

तद्वच्च कुक्कुटो वृष्यो ग्राम्यस्तु श्लेष्मलो गुरुः||७७||

🔊 Audio coming soon

कुक्कुटस्तद्वन्मयरवत्| अयं तु वृष्यः| ग्राम्यस्तु जनपदपरिवेशचरः श्लेष्मलो गुरुश्च|| ७७||

Adhikarana krakaropacakrakaguNAH (78) · Śloka 78

मेधानलकरा हृद्याः क्रकराः सोपचक्रकाः||७८||

🔊 Audio coming soon

क्रकराः मेधामाग्निञ्च कुर्वन्ति हृद्याश्च| तद्वदुपचक्रकाः|

Adhikarana kANakapotaguNAH (79) · Śloka 79

गुरुः सलवणः काणकपोतः सर्वदोषकृत्||७९||

🔊 Audio coming soon

काणकपोतो गुरुः किञ्चिल्लवर्णास्त्रिदोषकरश्च|| ७९||

Adhikarana bileSayAdivargANAM yathottaraM gurutvAdisAmAnyaguNASca (80) · Śloka 80

गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम्| मूत्रशुक्रकृतो बल्या वातघ्नाः कफपित्तलाः||८०||

🔊 Audio coming soon

अथोऽनन्तरा बिलेशयाद्या वर्गा यथोत्तरं गुरुत्वेनोष्णत्वेन चाधिकाः स्निग्धत्वेन मधुरात्वेन चाधिकाः| यो यस्तमाद्वर्गादुत्तरो वर्गः स तस्माद्गुरुत्वादिभिरधिक इत्यर्थः| तथा सर्वे मूत्रं शुक्रं च कुर्वन्ति| बल्याः वातघ्नाः पित्तश्लेष्मलाश्च|| ८०||

Adhikarana mahAmRugaguNAH (81) · Śloka 81

शीतामहामृगास्तेषु.................................||८१||

🔊 Audio coming soon

तेषु वर्गेषु मध्ये महामृगाः शीतवीर्याः|| ८१||

Adhikarana prasahaguNAH (82) · Śloka 82

.................................क्रव्यादाः प्रसहाः पुनः| चक्षुष्याः सृष्टविण्मूत्रमांसलाः कटुपाकिनः| जीर्णार्शोग्रहणीदोषशोषार्तानां परं हिताः||८२||

🔊 Audio coming soon

प्रसहाः क्रव्यादाः क्रव्यं मांसं भुञ्जते ये प्रसहास्ते चक्षुष्याः मूत्रं विशं च कुर्वन्ति| मांसवृद्विकराः, कटुविपाकाः, जीर्णोर्शोप्रभृत्यार्तानां च पथ्याः|| ८२||

Adhikarana godhAmUShakaguNAH (83) · Śloka 83

गोधा नियच्छति विषं मूषिकः शुक्रकरः||८३||

🔊 Audio coming soon

गोधा विषघ्नी| मूषिकः शुक्रवर्धनः शुक्रकरः|| ८३||

Adhikarana gomAMsaguNAH (84) · Śloka 84

शुष्ककासश्रमात्याग्निविषमज्वरपीनसान्| कार्श्यकेवलवातंश्च गोमांसं सन्नियश्चति||८४||

🔊 Audio coming soon

गोमांसं शुष्ककासादीन्नाशयति| विषमज्वरः सततकादिः| केवलवाता नान्यदोषसंयुक्ताः|| ८४||

Adhikarana caTakaguNAH (85) · Śloka 85

चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः परम्||८५||

🔊 Audio coming soon

चटकाः कफहराः स्निग्धाः वातघ्नाश्च परमत्यर्थं शुक्रकराः|

Adhikarana mahiShaguNAH (86) · Śloka 86

गुरुष्णो महिषः स्निग्धः स्वप्नदार्ढ्यबृहत्वकृत्||८६||

🔊 Audio coming soon

महिषो गुरुरुष्णवीर्यः स्निग्धो निद्रादिंश्च करोति|| ८६||

Adhikarana varAhaguNAH (87) · Śloka 87

तद्वद्वराहः श्रमाह रुचिशुक्रबलप्रदः||८७||

🔊 Audio coming soon

वराहः सूकरः तद्वन्माहिषवद्गुणैर्ज्ञेय इत्यर्थः| असौ तु श्रमघ्नः, रुच्यादिप्रदश्च|| ८७||

Adhikarana haMsaguNAH (88) · Śloka 88

हंसः स्वरकरः पित्तरक्तजिन्मेदुरो हिमः||८८||

🔊 Audio coming soon

हंसः स्वरकरः, रक्तपित्तविनाशनश्च| यस्तु मेदुरोऽतिमेदाः स हिमः शीतः| केचित्तु चरकानुरोधान्मधुरः, महिमाश्चेति पठन्ति|| ८८||

Adhikarana matsyasAmAnyaguNAH (89) · Śloka 89

कफपित्तकरा मत्स्याः परं पवननाशनाः||८९||

🔊 Audio coming soon

मत्स्याः पित्तश्लेष्मकरा वातनाशनाश्च परमत्यर्थम्|| ८९||

Adhikarana rohitamatsyacilicimayorguNAH (90) · Śloka 90

प्रतिस्रोतोविचारित्वादाकाशप्लवनेन च| नित्यं शैवालभक्षत्वाद्दिवास्वप्नविवर्जनात्| रोहितः प्रवरस्तेषां परं चिलिचिमोऽवरः| अगोचरविचारित्वात् सर्वदोषकरो हि सः||९०||

🔊 Audio coming soon

तेषां मत्स्यानां मध्ये रोहितः प्रवरः प्रतिस्रोतोविचारत्वात्| तस्य ह्येवं स्वभावः, यत् प्रतिस्रोतः स्रोतस अभिमुख्येन विचारति| यया दिशा जलमेति तां दिशां यातीत्यर्थः| तथा पानीयमध्यात् स्वभावेनैवाकाशं प्लवते| अत उभयथापि क्रियायोगात् परमत्यर्थं रोहितः प्रवरः| चिलिचिमः परमत्यर्थमवरः अश्रेष्ठः| स चागोचरे दुर्विषये कर्द्दमशैवलादौ यतो विचरत्यतस्त्रिदोषकरः|| ९०||

Adhikarana kulIraguNAH (91) · Śloka 91

कुलीरः परमं वृष्यो बृंहणः प्रीणनो गुरुः||९१||

🔊 Audio coming soon

कुलीरः परमं वृष्यः बृंहणः प्रीतिकरः गुरुश्च| कुलीरः कर्कटकः|| ९१||

Adhikarana AjamAMsaguNAH (92) · Śloka 92

नातिशीतगुरुस्निग्धं मासंमाजमदोषलम्| शरीरधातुसामान्यादनभिष्यन्दि बृहणम्||९२||

🔊 Audio coming soon

आजं मांसं नातिशीतवीर्यं नातिसिनग्धम् अदोषलं दोषाणां साम्यं न नाशयति, पथ्यामित्यर्थः| सामर्थ्याल्लब्धपुरुशरीरसकलशरीरधातुसादृशयादनभिष्यन्दि मालिन्येनस्रोतसामस्रावकम्| एतदुक्तं दोषगुणविपरीतगुणत्वेनादोषलत्वाच्च शरीरधातुगुणत्वेन स्रोतसामप्रदूषकत्वाच्चानभिष्यन्दि| स्रोतःप्रदूषकरूपं शारीरे वक्ष्यति (अ०-६); यथा- आहारश्च विहारश्च यः स्याद्दोषगुणैः समः| धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः|| इति|| ९२||

Adhikarana AvikamAMsaguNAH (93) · Śloka 93

विपरीतमतो ज्ञेयमाविकं बृंहणं तु तत्||९३||

🔊 Audio coming soon

अत आजमांसाद्विपरीतमाविकं मांसम्| वैपरीत्येन बृंहणत्वं तत्तु बृहणमिति विशेषः|| ९३||

Adhikarana tyAjyaM mAMsam (94) · Śloka 94

अतिमेद्यं त्यजेन्मांसं हतं व्याधिविषोधकैः| स्वयं मृतं धूमपूर्णमगोचरभृतं कृशम्||९४||

🔊 Audio coming soon

सर्वञ्च मांसमतिमेद्यं मेदुरं त्यजेत्| व्याध्यादिभिश्च नष्टस्य मांसं त्यजेत्| तथा स्वयमात्मनैव मृतं धूमपूर्णं धूमेन मृतम्| तथा अगोचरमृतं, अगोचरे अन्यस्मिन्विषये मृतम्| यथा जाङ्गलमानूपे मृतमनूपं च जाङ्गले| कृशं च त्यजेत्|| ९४||

Adhikarana praSastaM mAMsam (95) · Śloka 95

सद्योहतं वयस्थं च शुद्धं सुरभि शस्यते||९५||

🔊 Audio coming soon

सद्योहतं वयस्थं च शुद्धं तृणादिभिरनुपहतं अदुर्गन्धि च शस्यते|| ९५||

Adhikarana svasvavargeShveNAdInAM varatvam (96) · Śloka 96

एणः कुरङ्गो हरिणः शशो लावः कपिञ्जलः| तित्तिरिः क्रकरो गोधा श्वाविड्गृध्रो मृगाधिपः| तथैव शारिका न्यङ्कुर्हंसौ रोहितकच्छपौ| वर्त्मी चाग्र्याः स्ववर्गेषु.......................||९६||

🔊 Audio coming soon

एणादयश्च स्ववर्गेषु प्रधानाः एणकुरङ्गहरिणशशाः मृगेषु मध्ये अग्र्याः वराः| लावकपिञ्जलतित्तिरिक्रकरा विष्किरेषु| श्वाविड्गोधे बिलेशयेषु| गृध्रमृगाधिपौ प्रसहेषु| शारिका प्रतुदेषु| न्यङ्कुर्महामृगेषु| हंसो जनचारिषु| रोहितकच्छपौ वर्त्मी च जलजेषु|| ९६||

Adhikarana vareShu pravarAH (97) · Śloka 97

................................प्रवरास्तेष्वपि स्मृताः| लावैणगोधाः सिंहश्च..................................||९७||

🔊 Audio coming soon

तेष्वपि प्रधानेषु मध्ये प्रवराः| एणादिष्वेणः| लवादिषु लवाः| श्वाविद्गोधयोर्गोधा| गृध्रमृगाधिपयोः सिंह इति|| ९७||

Adhikarana svasvavargeShu ninditAH (98) · Śloka 98

.......................................... निन्दितौ गौः सदर्दुरः| ऋश्यः काणकपोतश्च शोषमुक्तं यथायथम्||९८||

🔊 Audio coming soon

गौः, दुर्दरः, ऋश्यः, काणकपोतश्च चत्वारः स्ववर्गेषु निन्द्यागर्हणीयाः| शोषञ्च यथायथं गुणैर्युक्तम्|| ९८||

Adhikarana aNDAnAM gurutvaM, bAlavRuddhayormAMsaguNAHmAMsAnAM gurulAghavam (99) · Śloka 99

गुरुण्यण्डानि बालानां कषायमधुरं पलम्| वृद्धानाम् स्नायुभूयिष्ठमबल्यं गुरुदोषलम्| पुंस्त्रियोः पूर्वपश्चार्धे गुरुणी गर्भिणी गुरुह्| लघुर्योषिच्चतुष्पास्तु विहङ्गेषु पुनः पुमान्| शिरःस्कन्धादीनां यथापूर्वं गौरवम् शिरस्कन्धोरुपृष्ठस्य कट्याः सक्थ्नोश्च गौरवम्| तथाऽऽमपक्वाशययोर्यथापूर्वं विनिर्देशेत्| शोणितादीनां यथोत्तरं गौरवम् शोणितप्रभृतीनाञ्च धातूनामुत्तरोत्तरम्| मांसाद् गरीयो वृषणमेढ्रवृक्कयकृद्गुदम्||९९||

🔊 Audio coming soon

अण्डानि पक्षिणां गुरूणि| बालानां पक्षिणां पलं मांसं रसे कषायमधुरम्| वृद्धानां मांसं बहुस्नायु अबल्यं गुरु त्रिदोषकरं च| पुंसः स्त्रियाश्च यथासंख्येन शरीरस्य पूर्वार्धं नाभेरूर्ध्वं पश्चार्धमधोनाभेर्गुरु| गर्भिणी च स्त्री गुर्वी| चतुश्चरणेषु मध्ये योषित् स्त्री लघुः| विहङ्गेषु पक्षिषु मध्ये पुमान् लघुः| शिरःप्रभृतीनामङ्गानां यथापूर्वं गुरुत्वं ज्ञेयम्| सक्थिमांसात् कटीमांसं गुरु| एवमामाशयपक्वाशययोश्च यथापूर्वं गुरुत्वम्| पक्वाशयादामाशयो गुरुरित्यर्थः| रक्तादीनां च धातूनां यथोत्तरं गुरुत्वम्| सप्तभिर्धात्वग्निभिर्यथोत्तरमेव स्नेहस्य पाकद् यथोत्तरमेव स्नेहस्य गुरुत्वं स्यात्| धातूनां तथाभूतेन स्नेहेन संश्लेषात् यथोत्तरमेव गुरुत्वं भवति| धातुस्नेहक्रमपरिणत्या च| उक्तंच हृदये - परस्परोपसंस्थम्भाद्धातुस्नेहपरंपरा| अनेन किमुक्तम्? रसादीनां शुक्रान्तानां परस्परोपसंस्थम्भादन्योन्यसंश्लेषाद्धातूनां स्नेहोत्कर्षक्रमपरिणतिर्यथोत्तरमेव जायते| अत्र च मांसानां स्त्रीपुंसकृतं विशेषमेकयोनीनां भिन्नयोनीनां चोत्सर्गापवादस्थिथार्थोपबृंहकवचनकल्पनं च यथायोगं स्वबुद्ध्या परिकल्पनीयम्| इति मांसवर्गः|| ९९||

Adhikarana (5)shAkavargaH pAThAdishAkasAmAnyaguNAH (100) · Śloka 100

शाकं पाठा शटी श्रूषा सुनिषण्ड सतीनजं| त्रिदोषघ्नं लघु ग्राहि सराजक्षववास्तुकम्||१००||

🔊 Audio coming soon

शाकमुच्यते - पाठादिकं शाकं त्रिदोषनाशनं लघु संग्रहणं च| तद्वत् राजक्षवकवास्तुके|| १००||

Adhikarana suniShaNNakaguNAH (101) · Śloka 101

सुनिषण्णोऽग्निकृद्वृष्यस्तेषु...........................||१०१||

🔊 Audio coming soon

तेषु मध्ये सुनिषण्णोऽग्निकरो वृष्यश्च| सुनिषण्णो जलमध्ये भवति| पत्रैश्चाङ्गेरीसदृशैर्यः काश्मीरेषु शूल्येषु चातिप्रसिद्धः|| १०१||

Adhikarana rAjakShavavAstukaguNAH (102) · Śloka 102

...................राजक्षवः परम्| ग्रहण्यर्शोविकारघ्नः वर्च्चोभेदी तु वास्तुकः||१०२||

🔊 Audio coming soon

राजक्षवोऽत्यर्थं ग्रहण्यर्शोविकारग्न्नः| वास्तकस्तु वर्चसः पुरीषस्य भेदनः|| १०२||

Adhikarana kAkamAcIguNAH (103) · Śloka 103

हन्ति दोषत्रयं कुष्ठं वृष्या सोष्णा रसायनी| काकमाची सरा सवर्या......................||१०३||

🔊 Audio coming soon

काकमाची त्रिदोषघ्नी कुष्ठनाशनी ईषदुष्णवीर्या सरा स्वास्थ्यसंवाहकत्वेन च रसायनसादृश्याद्रसायनी|| १०३||

Adhikarana cA~ggerIguNAH (104) · Śloka 104

.......................चाङ्गेर्यम्लाऽग्निदीपनी| ग्रहण्यर्शोऽनिलश्लेष्महितोष्णा ग्राहिणी लघुः||१०४||

🔊 Audio coming soon

चाङ्गेरी अम्ला अग्निदीपनी ग्रहण्यादिषु पथ्या संग्रहणी लघ्वी च| चाङ्गेरी क्षुद्राम्लिका|| १०४||

Adhikarana paTolAdInAM sAmAnyaguNAH (105) · Śloka 105

पटोलसप्तलारिष्टशार्ङ्गेष्टावल्गुजामृताः| वेत्राग्रबृहतीवासाकुन्तलीतिलपर्णिकाः| मण्डूकपर्णीकर्क्कोटकारवेल्लकपर्पटाः| नाडीकलायगोजिह्वा वार्त्ताकं वनतिक्तकम्| करीरं कूलकं नन्दी कुवेला शकुलादनी| कठिल्लं केम्बुकं शीतं सकोशातककर्क्कशम्| तिक्तं पाके कटु ग्राहि वातलं कफपित्तजित्||१०५||

🔊 Audio coming soon

पटोलादीनि कर्कशान्तानि अष्टाविंशतिः शीतवीर्याणि रसे तिक्तानि| विपाके कटुकानि| संग्रहणानि वातकृन्ति पित्तश्लेष्मनाशनानि च| सप्तला सातला| अरिष्टो निम्बः| शार्ङ्गेष्टा अङ्गारवल्लिका| अवल्गुजः सोमराजी| अमृता गुडूची| वेत्रो वंशसदृशः| मण्डूकपर्णी मण्डूकी| सैवादित्यवल्ली| नाडीकलायः बाह्ली| सैवशकुलाक्षकः| एते सुवर्चलाविशेषाः| `गोधूमिका तु गोजिह्वा गोजी क्रोष्टकमूलकः|' वनतिक्तको नलखण्डकः| कूलकः काकतिन्दुकः| कुवेला पाठा| शकुलादनी कटुका| कठिल्लः वर्षाभूभेदः| कोशातकं दधित्थम्|| १०५||

Adhikarana paTolaguNAH (106) · Śloka 106

हृद्यं पटोलं क्रिमिनुत्स्वादुपाकं रुचिप्रदम्||१०६||

🔊 Audio coming soon

अतो निर्द्धारणम्-पटोलं हृद्यं क्रिमिनाशनं मधुरविपाकं रुचिकरं च|| १०६||

Adhikarana bRuhatIdvayaguNAH (107) · Śloka 107

पित्तलं दीपनं भेदि वातघ्नं बृहतीद्वयम्||१०७||

🔊 Audio coming soon

बृहती क्षुद्रबृहती च पित्तकरमग्निदीपनं शकृदादीनां च भेदनं वातनाशनं च|| १०७||

Adhikarana vRuShaguNAH (108) · Śloka 108

वृषं तु वमिकासघ्नं रक्तपित्तहरं परम्||१०८||

🔊 Audio coming soon

वृषं छर्दिकासौ नाशयत्यत्यर्थं च रक्तपित्तं नाशयति|

Adhikarana kAravellaguNAH (109) · Śloka 109

कारवेल्लं सकटुकं दीपनं कफपित्तजित्||१०९||

🔊 Audio coming soon

कारवेल्लं रसे किञ्चित् कटुकत्वेन युक्तम्| अग्निदीप्तिकरं पित्तश्लेष्मनाशनं च|| १०९||

Adhikarana vArtAkaguNAH (110) · Śloka 110

वार्ताकं कटुतिक्तोष्णं मधुरं कफवातजित्| सक्षारमग्निजननं हृद्यं रुच्यमपित्तलम्||११०||

🔊 Audio coming soon

वार्ताकं रसे कटुतिक्तं मधुरमुष्णवीर्यं च वातश्लेष्महरं किञ्चिक्षारत्वयुक्तं अग्निदीप्तिकरं हृद्यं रुचिकरं न च पित्तं करोति| यथा वातश्लेष्मघ्नं न तथा पित्तकरमित्यर्थः|| ११०||

Adhikarana karIraguNAH (111) · Śloka 111

करीरमाध्मानकरं कषायं स्वादुतिक्तकं||१११||

🔊 Audio coming soon

करीरमध्मानकरं रसे कषायमधुरं तिक्तं च|| १११||

Adhikarana koSAtakAvalgujaguNAH (112) · Śloka 112

कोशातकावल्गुजकौ भेदिनावग्निदीपनौ||११२||

🔊 Audio coming soon

कोशातकावल्गुजकौ भेदिनौ वाह्निदीपनौ च|| ११२||

Adhikarana SyAmAdInAM sAmAnyaguNAH (113) · Śloka 113

श्यामाशाल्मतिकाश्मर्यभञ्जीकर्णकयूथिकाः| वृक्षादिनीक्षीरवृक्षबिम्बीतनिकवृक्षकाः| लोध्रः शणः कच्छुदारः सशेलुर्वृषमुष्टिका| भल्लातकः कोविदारः कमलोत्पलकिंशकुम्| पटोलादिगुणं स्वादु कषायं पित्तजित् परम्||११३||

🔊 Audio coming soon

श्यामादिकिंशुकान्तपटोलादिगुणयुक्तं रसे मधुरकषायं परमत्यर्थेन पित्तजित्| श्यामा त्रिवृत्| भञ्जी भार्ङ्गी| वृक्षादनी वन्दाकः| क्षीरवृक्षः पीतकः| स एव कशेरुकः| बिम्बी रक्तफला| शेलुः श्लेष्मातकः| विशमूषिकाकिंशुकः पलाशः| तस्य कुसुम एव शाकत्वम्|| ११३||

Adhikarana Ba~jjIguNAH (114) · Śloka 114

बद्धमूत्रा सरा भञ्जी............................||११४||

🔊 Audio coming soon

भञ्जी बद्धमूत्रा सरा च|| ११४||

Adhikarana SatAvarya~gkuraguNAH (115) · Śloka 115

............................करीरं स्यादभीरुजम्| सतिक्तं लघु चक्षुष्यं वृष्यं दोषत्रयप्रणुत्||११५||

🔊 Audio coming soon

अभीरुजं करीरं शतावर्यङ्कुरं तत् तिक्तं लघु चक्षुष्यं वृष्यं त्रिदोषनाशनञ्च| इदमन्यत्करीरम्|| ११५||

Adhikarana taNDulIyaguNAH (116) · Śloka 116

तण्डुलीयो हिमो रूक्षः स्वादुपाकरसो लघुः| मदपित्तविषास्रघ्नो ....................................||११६||

🔊 Audio coming soon

तुण्डलीयः शीतवीर्यो रूक्षो मधुरविपाकरसो लघुः मदादिनाशनश्च|| ११६||

Adhikarana mu~jjAtaguNAH (117) · Śloka 117

................ंउञ्जातं वातपित्तजित्| स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्रकृत् परम्||११७||

🔊 Audio coming soon

मुञ्जातं वातपित्तनाशनं स्निग्धत्वादिगुणयुक्तं अत्यर्थशुक्रकरं च| मुञ्जातः काश्मीरेषु महोयकः|| ११७||

Adhikarana pAlakyAguNAH (118) · Śloka 118

पालक्या पिच्छिला गुर्वी श्लेष्मला भेदिनी हिमाः||११८||

🔊 Audio coming soon

पालक्या पिच्छिलत्वादिगुणापञ्चकयुक्ता|| ११८||

Adhikarana upodikAcu~jcuguNAH (119) · Śloka 119

मदघ्न्युपोदका चुञ्चुर्ग्राही तौ पूर्ववत्तथा||११९||

🔊 Audio coming soon

उपोदका मदनाशिनी| `उपोदका मयाली च सुरुङ्गा पोतकी स्मृता'| तौ तूपोदकाचुञ्चू पूर्ववत् पालक्यागुणावित्यर्थः| तथेति समुच्चये|| ११९||

Adhikarana vidArIguNAH (120) · Śloka 120

विदारी वातपित्तघ्नी मूत्रला स्वादु शीतला| जीवनी बृंहणी कण्ठ्या गुर्वी वृष्या रसायनी||१२०||

🔊 Audio coming soon

विदारी वातपित्तनाशनी मूत्रला मधुरा शीतवीर्या च| विदारी शृगालिका|| १२०||

Adhikarana jIvantIguNAH (121) · Śloka 121

चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा| शाकानां प्रवरा न्यूना द्वितीया किञ्चिदेव तु||१२१||

🔊 Audio coming soon

जीवन्तीशाकं जीवनत्वादिगुणयुक्तम्| या जीवन्ती मधुरा सा शीतवीर्या एवंगुणा शाकानां च श्रेष्ठा| द्वितीया अमधुरा सा एभिरेव गुणैः किञ्चिन्यूना भवति|| १२१||

Adhikarana bhaNDyAditrayaguNAH (122) · Śloka 122

वातपित्तहरा भण्डी पर्वणी पर्वपुष्पिका||१२२||

🔊 Audio coming soon

भण्ड्यादित्रयं वातपित्तहरम्| भण्डी मञ्जिष्ठा| पर्वपुष्पी नागदन्ती|| १२२||

Adhikarana kUShmANDAdInAM sAmAnyaguNAH (123) · Śloka 123

कूष्माण्डतुम्बकालिङ्गकर्कारूर्वारुतिण्डिशम्| तथा त्रपुसचीनाकचिर्भिटं कफवातकृत्| भेदी विष्टम्भ्यभिष्यन्दि स्वादुपाकरसं गुरु||१२३||

🔊 Audio coming soon

कूष्माण्डादिकं वातस्लेष्मकरं, भेदनं, विष्टम्भकरमभिष्यन्दि, स्रोतःस्रावकं, मधुररसविपाकं, गुरु च| उर्वारुः कर्कटिका|| १२३||

Adhikarana kUShmANDaguNAH (124) · Śloka 124

वल्लीफलानां प्रवरं कूष्माण्डं वातपिताजित्| बस्तिशुद्धिकरं वृष्यं............................||१२४||

🔊 Audio coming soon

एतेषां निर्धारयति- सर्वेषां वल्लीफलानां कूष्माण्डं प्रशस्तम्| वातपित्तनाशनं बस्तिशोधनं वृष्यञ्च|| १२४||

Adhikarana trapusaguNAH (125) · Śloka 125

..................त्रपुसं त्वतिमूत्रलम्||१२५||

🔊 Audio coming soon

त्रपुसं पुनरतिमूत्रलम्|| १२५||

Adhikarana tumbaguNAH (126) · Śloka 126

तुम्बं रूक्षतरं ग्राहि......................||१२६||

🔊 Audio coming soon

तुम्बमलावु अत्यर्थ रूक्षं संग्रहणं च|| १२६||

Adhikarana avasthABedena kAli~ggAdiguNAH (127) · Śloka 127

.........................कालिङ्गोर्वारुचिर्भिटम्| बालं पित्तहरं शीतं विद्यात् पक्वमथोऽन्यथा| शीर्णवृन्तं तु सक्षारं पित्तलं कफवातजित्| रोचनं दीपनं हृद्यमष्ठीलानाहनुल्लघु||१२७||

🔊 Audio coming soon

कालिङ्गोर्वारुचिर्भिटं च बालमपूर्णरसादि पित्तहरं शीतवीर्यं च| पक्वमतो बालाद्विपरीतम्| शीर्णवृन्तं शीर्णं वृन्तं वल्लीबन्धनस्थानं शुष्कं यस्य, यत्पाकमतिक्रम्य वर्तते तदीषत्क्षारं, पित्तकरं, वातश्लेष्मनाशनं, रुचिकरं, हृद्यं, अष्ठीलां आनाहं च नाशयति, लघु च| अष्ठीला वक्ष्यमाणलक्षणा (नि०-११)|| १२७||

Adhikarana mRuNAlAdiguNAH (128) · Śloka 128

मृणालबिसशालूकश्रृङ्गाटककशेरुकाः| नन्दीमाषककेलूटक्रौञ्चादनकलोड्यकम्| सतरूढं कदम्बं च रूक्षं ग्राहि हिमं गुरु||१२८||

🔊 Audio coming soon

मृणालादिकं रूक्षं संग्रहणं, शीतवीर्यं, गुरु च| मृणालं बिसाङ्कुरम्| शालूकं पद्मकन्दम्| कशेरुकं प्रसिद्धं मध्यदेशे| क्रौञ्चादनं काश्मीरेषु केबुकमन्यत्र कनाविकम्| अनकलोड्यं ह्रस्वमुत्पलं पद्मबीजमन्ये| कदम्बः कन्दविशेषः|| १२८||

Adhikarana kalambAdiguNAH (129) · Śloka 129

कलम्बुनालिकामाषकठिञ्जरकुतुम्बकम्| चिल्लीलट्वाकनिष्पावकुरूटकगवेधुकाः| यातुका सालकल्याणी श्रीपर्णी पीलुपर्णिका| कुमारी जीवलोणीका यवशाकसुवर्चलाः| कुष्माण्डनीलिनी स्वर्चा वृकधूमकलक्ष्मणा| आलूपानि च सर्वाणि तथा सूप्यानि रालकः| जीवन्तिकञ्चुञ्चुपर्णीप्रपुन्नाटकुबेरकम्| स्वादु रूक्षं सलवणं वातश्लेष्मकरं गुरु| शीतलं सृष्टविण्मूत्रं प्रायो विष्टभ्य जीर्यति| स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषलम्||१२९||

🔊 Audio coming soon

कलम्ब्वादिकं मधुरं, ईषल्लवणं, रूक्षं, वातश्लेष्मकरं, गुरु, शीतवीर्यं, मूत्रं पुरीषं च सृजति बहिःक्षिपति| विष्टभ्यैकस्मिन् जठरप्रदेशे पिण्डीभूय जरां यातीति| प्रायोग्रहणमेतेषां मध्ये केचिन्नैवंस्वरूपा इति ज्ञापनार्थम्| तेषां च पर्याया निघण्टुज्ञानात् देशभापासंस्करणाच्च किञ्चित् ज्ञायन्ते| किञ्चित् उच्यन्ते-कलम्बुः कालिका| नालिका कपोतचरणा| माषं गान्धारी, काश्मीरेषु शिलः| चिल्ली तण्डुलीयकविशेषः| लट्वाको गुग्गुलुः| निष्पावो राजशिम्बी| पिलुपर्णिका मूर्वा| लोणिका काश्मीरेषु लोनारा| यवशाकः क्षारपत्रकम्, काश्मीरेषु कोणीकः| आलूपानि बहुविधानि देशेषूक्तानि| तानि सर्वाणीह गृह्यन्ते| सूप्यानि मुद्गादिसस्यपर्णानि| लक्ष्मणा मधुयष्टी| जीवन्तिको रक्तनालो वास्तुकः| प्रपुन्नाटः चक्रमर्दकः| कुबेरकः कटिञ्जरभेदः, कोमीरेति केचित्| एतच्च सर्वं निष्पीडितरसं, अतिशयेन बहुस्नेहं च नात्यपथ्यम्|| १२९||

Adhikarana cillIguNAH (130) · Śloka 130

लघुपत्रा तु या चिल्ली सा वास्तुकसमा मता||१३०||

🔊 Audio coming soon

सूक्ष्मपत्रा जात्यैव या चिल्ली सा वास्तुकसमानगुणा|

Adhikarana takkArIvaraNayorguNAH (131) · Śloka 131

तक्कारीवरणं स्वादु सतिक्तं कफवातजित्||१३१||

🔊 Audio coming soon

तक्कारीवरणं च मधुरतिक्तं, वातश्लेष्मनाशनञ्च| तक्कारी अग्निमन्थः|| १३१||

Adhikarana varShABUkAlaSAkAnAM guNAH (132) · Śloka 132

वर्षाभ्वौ कालशाकं च सक्षारं कटु तिक्तकम्| दीपनं भेदनं हन्ति गरशोफकफानिलान्||१३२||

🔊 Audio coming soon

वर्षाभ्वौ पुनर्नवे कालशाकं च ईषत्क्षारं, रसे च कटुकतिक्तं, अग्निदीपनं, भेदनं गरादींश्च नाशयति|| १३२||

Adhikarana ciribilvA~gkuraguNAH (133) · Śloka 133

दीपनाः कफवातघ्नाश्चिरिबिल्वाङ्कुराः सराः||१३३||

🔊 Audio coming soon

चिरिबिल्वाङ्कुराः अग्निदीपनाः वातश्लेष्मनाशनाः सराश्च|

Adhikarana urUbUkalA~ggalyorguNAH (134) · Śloka 134

लघुरुष्णा सरा तिक्ता सोरुबूका च लाङ्गली||१३४||

🔊 Audio coming soon

उरुबूकं लाङ्गली च लघुनी, उष्णवीर्ये, सरे तिक्ते च| ऊरूबूकं रक्तैरण्डः| लाङ्गली इन्द्रपुष्पिका||१३४||

Adhikarana tilavetasayorguNAH (135) · Śloka 135

वातलौ कटुतिक्ताम्लौ भेदिनौ तिलवेतसौ||१३५||

🔊 Audio coming soon

तिलवेतसपत्रे वातले, रसे कटुकतिक्ताम्ले भेदने च||१३५||

Adhikarana pa~jcA~ggulaguNAH (136) · Śloka 136

तद्वत्पञ्चाङ्गुलो...................||१३६||

🔊 Audio coming soon

तद्वत्तिलवेत्सगुणः पञ्चाङुलः शुक्लैरण्डः| तस्य पत्रे शाकत्वम्||१३६||

Adhikarana vaMSakarIraguNAH (137) · Śloka 137

.............वंशकरीरास्तु विदाहिनः| वातपित्तकरा रूक्षाः कटुपाकाः कफापहाः||१३७||

🔊 Audio coming soon

वंशकरीराः वंशाङ्कुराः, विदाहिनः, वातपित्तकराः, रूक्षा, विपाके कटुकाः, कफनाशनाश्च||१३७||

Adhikarana bilvAdi SAkatrayaguNAH (138) · Śloka 138

बिल्वरास्नाबलाशाकं वातघ्नमतिसारजित्||१३८||

🔊 Audio coming soon

बिल्वादिशाकत्रयं वातनाशनमतीसारनाशनं च||१३८||

Adhikarana vatsAdanyAdiguNAH (139) · Śloka 139

वायुं वत्सादनी हन्यात् कफं गण्डीरचित्रकौ||१३९||

🔊 Audio coming soon

वत्सादनी वायुं नाशयाति| वत्सादनी कचेयकः| गण्डीरचित्रकशाकौ कफं नाशयतः|| १३९||

Adhikarana pattUraguNAH (140) · Śloka 140

पत्तूरो दीपनस्तिक्तः प्लीहार्शःकफवातजित्||१४०||

🔊 Audio coming soon

पत्तूरो दीपनादीगुणयुक्तः 'मत्स्याकक्षकस्तु पत्तूरः पत्रजः प्रिय इत्यपि'|| १४०||

Adhikarana kAsamardaguNAH (141) · Śloka 141

क्रिमिकासकफोत्क्लेदान्कासमर्दो जयेत्सरः||१४१||

🔊 Audio coming soon

कासमर्दकः सरः, क्रिम्यादींश्च नाशयति| उत्क्लेदः स्रोतसां मालिन्येनार्द्रत्वम्|| १४१||

Adhikarana kausumBaSAkaguNAH (142) · Śloka 142

रूक्षोष्णमम्लं कौसुम्भं गुरु पित्तकरं सरम्||१४२||

🔊 Audio coming soon

कुसुम्भशाकं रूक्षं, उष्णवीर्यं, गुरु, पित्तकरं, सरञ्च|

Adhikarana sArShapashAkaguNAH (143) · Śloka 143

सक्षारं मधुरं स्निग्धमुष्णं गुरु च सार्षपम्| शाकानामवरं बद्धविण्मूत्रं सर्वदोषकृत्||१४३||

🔊 Audio coming soon

सार्षपं शाकं, ईषत्क्षारगुणयुक्तं, मधुरत्वादियुक्तं, शाकानां चावरमश्रेष्ठं, मूत्रं विशं च बध्नाति, त्रिदोषकरञ्च|| १४३||

Adhikarana avasthAdiBedena mUlakaguNAH (144) · Śloka 144

यद्बालमव्यक्तरसं किञ्चित्क्षारं सतिक्तकम्| तन्मूलकं दोषहरं लघु सोष्णं नियच्छति| गुल्मकासक्षयश्वासव्रणनेत्रगलामयान्| स्वराग्निसादोदावर्तपीनसांश्च महत्पुनः| गुरूष्णकटुकं स्वादु विपाकं सर्वदोषकृत्| गुर्वभिष्यन्दि च स्निग्धसिद्धं तदपि वातजित्| वातश्लेष्महरं शुष्कं सर्वमामं तु दोषलम्||१४४||

🔊 Audio coming soon

बालं सूक्ष्मं त्रिदोषनाशनं, लघु, किञ्चिदुष्णवीर्यं, गुल्मादीश्च नाशयति| कीदृग्बालमित्युक्तमत आह- यद्बालमव्यक्तरसमस्फुटमाधुर्यादि, ईषत्क्षारं क्षारं जिह्वादिवैषद्यकृत्, किञ्चिद्व्यक्ततिक्तत्वञ्च| एवंविधं सूक्ष्मं मूलकमेवंगुणयुक्तम्| अथं जातिविशेषः| तथा च बालमूलकस्य कन्दमूलकबीजदेशकालसंस्थानपरिणतिविशेषाद्भिन्नजातीयत्वं प्रसिद्धमेव काश्मीरेषु| महत्पुनः स्थूलं, मूलकं, गुरूष्णवीर्यं, रसे कटुकं, विपाके मधुरं, त्रिदोषकरञ्च| तदेवङ्गुणयुक्तमपि घृतमासादिना सिद्धं गुर्वाभिष्यन्दि वातजिच्च| शुष्कं च महदपि मूलकं वातश्लेष्महरम्| सर्वं च मूलकं बालञ्च महच्च शुष्कम् आर्द्रं चाममनग्निपक्वं सदोषकृद्देहस्यापथ्यत्वात्| दोषधात्वादीनामुत्क्लेशप्रायपरिणामकरं च| अग्निसिद्धं तु यथास्वरूपमुक्तम्|| १४४||

Adhikarana piNDAlukaguNAH (145) · Śloka 145

कटूष्णो वातकफहा पिण्डालुः पित्तवर्धनः||१४५||

🔊 Audio coming soon

पिण्डालुः रसे कटुकः, वीर्ये उष्णः, वातश्लेष्मनाशनः पित्तवर्धनश्च|| १४५||

Adhikarana kuTherAdiguNAH (haritavargaH) (146) · Śloka 146

कुठेरशिग्रुसुरससुमुखासुरिभूस्तृणाः| धान्यतुम्बुरुशैलेययवानी शृङ्गिवेरकाः| पर्णासो गृञ्जनोऽजाजी जीरकं गजपिप्पली| फणिर्जार्जकजम्बीरखराह्वाकालमालिकाः| दीप्यकः क्षवकद्वीपिबस्तगन्धादि बद्धविट्| रसे पाके च कटुकं दोषोत्क्लेशकरं लघु| विदाहि रूक्षतीक्ष्णोष्णं दृक्शुक्रक्रिमिनाशनम्| वर्गो हरितकाख्योऽयमुपदंशेषु युज्यते| वासनो व्यञ्जनानां च हृद्यो दीपनरोचनः||१४६||

🔊 Audio coming soon

कुठेरादिकं बस्तगन्धान्तं हरित एवोपयोगाद्धरितवर्ग एवोच्यते| आदिग्रहणादन्येषामेवं रसादियुक्तानामेवंयोगवतां ग्रहणम्| अस्य चानग्निपक्वस्योपयोगे गुणविशेषप्रादुर्भावः| कुठेरादिकं हरितकं विशं पुरीषं बध्नाति ग्रथयति| रसे विपाके च कटुकम्| दोषान् वातादीनुत्क्लेशयति, यत्किञ्चित्कोपयन् स्थानाच्चालयति तदुत्क्लेशकरम्| लघु, विदाहि, रूक्षं, उष्णवीर्यं, तीक्ष्णं, दृगादिनाशनं च| अयं च कुठेरादिर्यो हरितकाख्यो वर्ग उपदंशेषु युज्यते| उपदंशो येन सहान्नं भोक्तुं युज्यते| व्यञ्जनानां च नानाविधानां भोजनोपयोगिनां वासनः सौगन्ध्यादिकरः, हृद्योऽग्निदीपनो रोचनश्च| कुठेरकः वैकुण्ठकः| शिग्रुः सौभाञ्जनम्| सुमुखः कटुपत्रकः| आसुरी राजिका| फणिर्जकः फणी| अर्जकः जात्या सूक्ष्मपत्रः| जम्बीरः खरपत्रः, काश्मीरेषु तुम्बुरुः| खराह्वा हस्तिमयूरकः| कालमालः कृष्णकुठेरकम्| दीप्यकः अजमोदः|| १४६||

Adhikarana surasasumuKadhAnakAnAM guNAH (147) · Śloka 147

हिध्माकासविषश्वासपार्श्वरुक्पूतिगन्धहा| सुरसः सुमुखः शोफगन्धहा धानका पुनः| कषायतिक्तमधुरा मूत्रला न च पित्तकृत्||१४७||

🔊 Audio coming soon

सुरसस्तु हिध्मादीन्नाशयति| सुमुखः श्वयथुदुर्गन्धौ नाशयति| धानका रसे कषायतिक्तमधुरा, मूत्रकरी पित्तञ्च न करोति|

Adhikarana KarAhvacitrakayorguNAH (148) · Śloka 148

खराह्वा बस्तिशूलघ्नी चित्रको दीपनः परम्||१४८||

🔊 Audio coming soon

खराह्वा बस्तिशूलं नाशयति| चित्रकोऽत्यर्थमग्निदीपनः|

Adhikarana lashunaguNAH (149) · Śloka 149

पत्रे सक्षारमधुरो मध्ये मधुरपिच्छिलः| तीक्ष्णोष्णो लशुनः कन्दे कटुपाकरसः सरः| हृद्यः केश्यः गुरुर्बृष्यः स्निग्धो रोचनदीपनः| भग्नसन्धानकृद् बल्यो रक्तपित्तप्रदूषणः| किलासकुष्ठगुल्मार्शीमेहक्रिमिकफानिलान्| सहिध्मापीनसश्वासकासान् हन्ति रसायनम्||१४९||

🔊 Audio coming soon

लशुनः पत्रे ईषत्क्षारो, मधुररसश्च| मध्ये पत्रात्कठिने भागे मधुररसः पिच्छिलश्च| कन्दे मूले तीक्ष्णोष्णवीर्यो, रसे विपाके च कटुकः, सरो हृद्यः केश्यत्वादिगुणयुक्तः, किलासादींश्च नाशयति| किलासः श्वित्रः| रसायनमिव रसायनं देहहितम्|

Adhikarana palANDuguNAH (150) · Śloka 150

पलाण्डुस्तद्गुणैर्न्यूनो विपाके मधुरस्तु सः| कफं करोति नो पित्तं केवलानिलनाशनः||१५०||

🔊 Audio coming soon

पलाण्डुस्तद्गुणैर्लशुनगुणैर्न्यूनः हीनः विपाके तु मधुरं करोति पित्तं न करोतीति सम्बन्धः| न करोतीति पित्तं न विनाशयतीति तात्पर्यार्थः| वातं च केवलमन्यदोषासंसृष्टं नाशयति|| १५०||

Adhikarana sUraNabhUkandayorguNAH (151) · Śloka 151

दीपनः सूरणो रूच्यः कफघ्नो विशदो लघुः| विशेषादर्शसां पथ्यो भूकन्दस्त्वतिदोषलः||१५१||

🔊 Audio coming soon

सूरणोऽग्निदीप्तिरुचिकरः, श्लेष्मनाशनो विशदो लघुः, अर्शसामतिपथ्यश्च| भूकन्दोऽत्यर्थं त्रिदोषकरः| स च प्रसिद्धः|| १५१||

Adhikarana shAkAnAM patrapuShpAdikrameNa yathottaraM gurutvam (152) · Śloka 152

पत्रे पुष्पे फले नाले कन्दे च गुरुता क्रमात्||१५२||

🔊 Audio coming soon

पत्रादीनाञ्च शाकहरितकयोग्यक्रमाद्यथोत्तरं गुरुत्वम्| पत्रशाकं तावत्प्रथममनपेक्ष्य गुरु, ततः पुष्पशाकं, ततः फलशाकं, ततो नालशाकं, ततश्च कन्दशाकम् इत्येवं हरितकेषु गुरुत्वं विज्ञेयम्| अत्राप्युत्सर्गापवादोपृबंहकवचनादिकं चिन्त्यम्| अत्र शाकानां हरितकानां च येषां नामानि नोक्तानि तेषां देशभाषादिविद्भ्योऽधिगम्यापभ्रंशसंस्कारादुपयोगविशेषाच्च ज्ञातव्यानि|| १५२||

Adhikarana varAvaraSAkam (153) · Śloka 153

वरा शाकेषु जीवन्ती सार्षपास्त्ववराः परम्||१५३||

🔊 Audio coming soon

सुबोधम्| इति शाकवर्गः|| १५३||

Adhikarana (6) PalavargaH drAkShAguNAH (154) · Śloka 154

द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्टमूत्रविट्| स्वादु पाकरसा स्निग्धा सकषाया हिमा गुरुः| निहन्त्यनिलपित्तास्रतिक्तास्यत्वमदात्ययान्| तृष्णाकासज्वरश्वासस्वरभेदक्षतक्षयान्||१५४||

🔊 Audio coming soon

फलान्युच्यन्ते| तेषां च द्राक्षा श्रेष्ठा| अतः सैवादौ गृह्यते| द्राक्षा सर्वफलानामुत्तमा, वृष्यत्वादिगुणयुक्ता, लघुः, अनिलपित्तादींश्च नाशयति| सकषाया माधुर्यात्स्वल्पं कषायत्वं तत्रास्तीत्यर्थः|| १५४||

Adhikarana dADimaguNAH (155) · Śloka 155

उद्रिक्तपित्ताञ्जयति त्रिदोषान् स्वादु दाडिमम्| पित्ताविरोधि नात्युष्णमम्लं वातकफापहम्| सर्वं हृद्यं लघुः स्निग्धं ग्राहि रोचनदीपनम्||१५५||

🔊 Audio coming soon

स्वादु मधुरं दाडिममधिकपित्तं सन्निपातं नाशयति| अम्लं दाडिमं न पित्ते विरुद्धं, नाति चोष्णवीर्यं, वातश्लेष्मनाशनं च| सर्वं दाडिमं मधुरमम्लम् मधुराम्लं च हृद्यत्वादिगुणयुक्तम्|

Adhikarana kadalyAdiphalAnAM sAmAnyaguNAH (156) · Śloka 156

मोचखर्जूरपनसनालिकेरपरुषकम्| आम्राततालकाश्मर्यराजादनमधूकजम्| सौवीरबदराङ्कोलफल्गुश्लेष्मातकोद्भवम्| वातामाभिषुकाक्षोडमुकूलकनिकोचकम्| उरुमाणं प्रियालं च बृंहणं गुरुशीतलम्| दाहक्षतक्षयहरं रक्तपित्तप्रसादनम्| स्वादु पाकरसं स्निग्धं विष्टम्भि कफशुक्रकृत्||१५६||

🔊 Audio coming soon

मोचादि प्रियालान्तं बृंहणत्वादिगुणयुक्तम्| मोचं कदलीफलम्| आम्रातकं पीतनकम्| राजादनं वानरप्रियम्| सौवीरं कर्णीकबदरम्| क्षतः उरःक्षतः| क्षयो धातुक्षयः|| १५६||

Adhikarana nAlikeraguNAH,kadalIPalaguNAH,rAjAdanaPalaguNAH (157) · Śloka 157

नालिकेरं गुरु स्निग्धं पित्तघ्नं स्वादु शीतलम्| बलमांसकरं हृद्यं बृंहणं बस्तिशोधनम्| मोचं स्वादुरसं प्रोक्तं कषायं नातिशीतलम्| रक्तपित्तहरं वृष्यं रुच्यं श्लेष्मकरं गुरु| स्निग्धं स्वादु कषायं च राजादनफलं गुरु||१५७||

🔊 Audio coming soon

सुबोधम्|| १५७||

Adhikarana tAlaPalakASmarIPalaguNAH (158) · Śloka 158

फलं तु पित्तलं तालं सरं काश्मर्यजं हिमम्| शकृन्मूत्रविबन्धघ्नं केश्यं मेध्यं रसायनम्||१५८||

🔊 Audio coming soon

तालं फलं पित्तलं सरं च| काश्मर्यजं हिमादिगुणम्|

Adhikarana madhUrakabadaraPalayorguNAH (159) · Śloka 159

मधूकजमहृद्यं तु बदरं सरणात्मकम्||१५९||

🔊 Audio coming soon

मधूकफलमहृद्यम्| बदरं सरणशीलम्|| १५९||

Adhikarana vAtAmAdiguNAH (160) · Śloka 160

वातामाद्युष्णवीर्यं तु कफपित्तकरं सरम्||१६०||

🔊 Audio coming soon

वातामादीनां गुणविशेषप्रदर्शनपरं निर्द्धारणम्| वातामादिकं पित्तश्लेष्मकरमत्यर्थमुष्णं च वातहरं स्निग्धं च|| १६०||

Adhikarana priyAlaguNAH (161) · Śloka 161

परं वातहरं स्निग्धमनुष्णं तु प्रियालजम्||१६१||

🔊 Audio coming soon

प्रियालफलस्य शीतवीर्यत्वापवादोष्णत्वशङ्कायामिदमुच्यते- अनुष्णमिति|| १६१||

Adhikarana priyAlamajjakolamajjayorguNAH (162) · Śloka 162

प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः| कोलमज्जा गुणैस्तद्वत्तृट्छर्दिः कासजिच्च सः||१६२||

🔊 Audio coming soon

प्रियालमज्जा प्रियालबीजम्| तच्च मधुरत्वादिगुणयुक्तम्| बदरमज्जा गुणैस्तद्वत् प्रियालमज्जवत्| बदरस्य तु विशेषः तृडादिनाशकत्वम्|| १६२||

Adhikarana tindukAdInAM sAmAnyaguNAH (163) · Śloka 163

तिन्दुकाश्मन्तकासीनफलिनी बिम्बितोदनम्| टङ्काश्वकर्णबकुलगाङ्गेरुधवधन्वनम्| श्वेतपाककपित्थानि सिञ्चती भव्यजाम्बवम्| क्षीरिवृक्षभवं बीजं पौष्करं कफपित्तजित्| कषायमधुरं रूक्षं शीतलं गुरु लेखनम्| विबन्धाध्मानजननं स्तम्भनं वातकोपनम्||१६३||

🔊 Audio coming soon

तिन्दुकादि पुष्करबीजान्तं कफपित्तजित्वादिगुणयुक्तम्| सिञ्चती काश्मीरेषु वृक्षबदरी| सा च मधुरा| पुष्करबीजस्यानग्निपक्वस्योपयोगे फलगुणत्वम्| क्षीरिवृक्षा ये शस्त्रादिक्षताः क्षीरं स्रवन्ति| विबन्धः स्रोतोभिर्दोषादीनामवहनम्|| १६३||

Adhikarana kapitthaguNAH (164) · Śloka 164

कपित्थमामं कण्ठघ्नं कषायाम्लं त्रिदोषकृत्| पक्वं रुच्यं कषायाम्लं स्वादु हिध्मावमिप्रणुत्| दोषघ्नं षाडवारिष्टरागयुक्तिषु पूजितम्| विषघ्नमुभयं ग्राहि कपित्थान्येवमादिशेत्||१६४||

🔊 Audio coming soon

कपित्थमाममपक्वं स्वरनाशनं, रसे कषायाम्लं, त्रिदोषकरं च| पक्वं रुचिकरं, रसे च कषायाम्लं, मधुरं हिध्माच्छर्दिनाशनं, त्रिदोषघ्नं, षाडवादियोजनासु च पूजितम्| उभयमामं पक्वं च विषनाशनं संग्रहणं च| एवं कपित्थान्यादिशेत्| रसविशेषेण नानाविधानि कपित्थानि सम्भवन्ति| तान्यनया दिशा कल्पयेदित्यर्थः| तेन कषायाम्लं सदैवामकपित्थगुणं, माधुर्यानुविद्धं तथैव पक्वगुणमिति|| १६४||

Adhikarana si~jcitikAPalaguNAH (165) · Śloka 165

बृंहणं वातपित्तघ्नं स्निग्धं सिञ्चितिकाफलम्||१६५||

🔊 Audio coming soon

सिञ्चितिकाफलं बृंहणत्वादिगुणयुक्तम्|| १६५||

Adhikarana BavyajAmbavakShIrivRukShaPalaguNAH (166) · Śloka 166

भव्यं विशदमम्लञ्च जाम्बवं त्वतिवातलम्| विष्टम्भकृदकण्ठ्यं च साम्लन्तु क्षीरिवृक्षजम्||१६६||

🔊 Audio coming soon

भव्यमम्लं सविशदं च| जाम्बवमतिवातकरं, विष्टम्भकरं स्वरघ्नं च, क्षीरिवृक्षफलं साम्लमीषदम्लम्|| १६६||

Adhikarana akShakIPalaguNAH (167) · Śloka 167

पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षकीफलम्||१६७||

🔊 Audio coming soon

अक्षकीफलं पित्तश्लेष्मनाशनं अम्लरसं, वातलं च|

Adhikarana AmraguNAHsahakArarasaguNAH (168) · Śloka 168

बालं कषायकट्वम्लं रूक्षं वातास्रपित्तकृत्| सम्पूर्णमाम्रमम्लं तु रक्तपित्तकफप्रदम्| स्वादु साम्लं गुरु स्निग्धं मारुतघ्नमपित्तलम्| हृद्यं पर्यागतं श्लेष्ममांसशुक्रबलप्रदम्| सहकाररसो हृद्यः सुरभिः स्निग्धरोचनः| दीपनः पित्तवातघ्नः शुक्रशोणितशुद्धिकृत्||१६८||

🔊 Audio coming soon

आम्रं चूतं बालमसम्पूर्णस्वरूपं रसे कषायकटुकाम्लं, रूक्षं, वातास्रपित्तकरं च| पर्यागतमतिक्रान्तपाकं स्वादु साम्लं मधुराम्लरसं, गुरु, स्निग्धं, वातं नाशयति, पित्तं च न करोति, हृद्यं, श्लेष्मादिकरं च| सहकाराख्याद्रस आम्रादेव निष्कास्यते| अतोऽत्रोच्यते| सहकाररसो हृद्यत्वादिगुणयुक्तः|| १६८||

Adhikarana lavalIPalaguNAH (169) · Śloka 169

कषायं रोचनं हृद्यं वातलं लवलीफलम्||१६९||

🔊 Audio coming soon

लवलीफलं कषायरसं रोचनत्वादिगुणयुक्तम्|| १६९||

Adhikarana bilvaguNAH (170) · Śloka 170

गुर्वग्निसादकृद्बिल्वं दोषलं पूतिमारुतम्| पक्वं बालं पुनस्तीक्ष्णं पित्तलं लघुदीपनम्| वातश्लेष्मघ्नमुष्णं च स्निग्धं ग्राह्युभयं परम्||१७०||

🔊 Audio coming soon

बिल्वं गुरु, अग्निसादकरं, त्रिदोषकरं, पूतिमारुतं च| पूतिगुणं दुर्गन्धकरं च मारुतमुद्गारादौ करोतीत्येवंगुणं पक्वं बिल्वम्| बालं पुनरपक्वं तीक्ष्णत्वादिगुणयुक्तम्| उभयं बालं पक्वं च स्निग्धं परमत्यर्थं च संग्रहणम्|| १७०||

Adhikarana vRukShAmlakoSAmrayorguNAH (171) · Śloka 171

वृक्षाम्लं ग्राहि रूक्षोष्णं लघु दीपनरोचनम्| वातश्लेष्महरं किञ्चिदूनं कोशाम्लजं ततः||१७१||

🔊 Audio coming soon

वृक्षाम्लं तिन्तिणीकं संग्रहणत्वादिगुणयुक्तम्|कोशाम्रजं फलं तथावृक्षाम्लगुणैःकिञ्चिदूनम्||१७१||

Adhikarana kara~jjaPalaguNAH (172) · Śloka 172

फलं करञ्जं विष्टम्भि पित्तश्लेष्माविरोधि च||१७२||

🔊 Audio coming soon

करञ्जफलं विष्टम्भि, पित्तश्लेष्मणि च न विरुद्धम्|| १७२||

Adhikarana SamIPalaguNAH (173) · Śloka 173

गुरूष्णमधुरं रूक्षं केशघ्नं च शमीफलम्||१७३||

🔊 Audio coming soon

शमीफलं मधुरं, रूक्षं, केशघ्नं, गुरूष्णवीर्यं च|| १७३||

Adhikarana pIluPalaguNAH (174) · Śloka 174

कटुपाकरसं पीलु तीक्ष्णोष्णं भेदि पित्तलम्| क्रिमि गुल्मोदरगरप्लीहार्शः कफवातजित्| सतिक्तं स्वादु यत्पीलु नात्युष्णं तत्त्रिदोषजित्||१७४||

🔊 Audio coming soon

पीलुफलं पाके रसे च कटुकं, तीक्ष्णत्वादिगुणयुक्तम्, क्रिम्यादीन्नाशयति| मधुरमीषत्तिक्तं च जात्या यत् पीलु तत् नात्युष्णवीर्यं, त्रिदोषघ्नं च|| १७४||

Adhikarana nIpAdiPalAnAM guNAH (175) · Śloka 175

नीपं शताक्षिकं प्राचीनागरं तृणशूल्यजम्| अस्मादल्पान्तरगुणमेङ्गुदं सविकङ्कतम्||१७५||

🔊 Audio coming soon

नीपादिविकङ्कतान्तं फलमस्मात् सतिक्तस्वादुपीलुतोऽल्पान्तरगुणं स्तोकगुणमित्यर्थः| नीपो धूलिकदम्बः प्राचीनागरकमामलकसदृशं कृष्णलोहितम्|| १७५||

Adhikarana mAtulu~ggaguNAH (176) · Śloka 176

त्वक्तिक्तकटुका स्निग्धा मातुलुङ्गस्य वातजित्| बृंहणं मधुरं मांसं वातपित्तहरं गुरु| लघु तत्केसरं कासश्वासहिध्मामदात्ययान्| अस्यशोषानिलश्लेष्मविबन्धच्छर्द्यरोचकान्| गुल्मोदरार्शःशूलानि मन्दाग्नित्वं च नाशयेत्||१७६||

🔊 Audio coming soon

मातुल्त्ङ्गफलस्य त्वक् रसे तिक्तकटुका, स्निग्धा वातनाशिनी च| मांसं त्वचोऽन्तः बृंहणं, मधुरं, वातपित्तहरं गुरु च| तस्य मातुलुङ्गस्य केसरमन्तर्मांसभवं लघु कासादींश्च नाशयति (सु०सू०-४६/१४९-१५२)|| १७६||

Adhikarana bhallAtakaguNAH (177) · Śloka 177

भल्लातकस्य त्वङ्मांस बृंहणं स्वादु शीतलम्| तदस्थ्यग्निसमं मेध्यं कफवातहरं परम्||१७७||

🔊 Audio coming soon

भल्लातकस्य त्वक्, मांसं च बृंहणत्वादिगुणयुक्तम्| तस्य चास्थि तैक्ष्ण्येनाग्निसमं, मेधायै हितमत्यर्थं वातश्लेष्महरम्|| १७७||

Adhikarana pArAvatArukayorguNAH (178) · Śloka 178

स्वाद्वम्लं शीतमुष्णञ्च द्विधा पारावतं गुरु| रुच्यमत्यग्निशमनं रुच्यं मधुरमारुकम्| पक्वमाशु जरां याति नात्युष्णं गुरु दोषलम्||१७८||

🔊 Audio coming soon

पारावतं द्विधा द्विप्रकारं मधुरमम्लं च| यथासंख्येन मधुरं शीतवीर्यमम्लमुष्णवीर्यम्| उभयमपि गुरु, रुचिकरमत्यग्निशमनञ्च मधुरमारुकं रुचिकरम्| पक्वं च सत् सुजरं, किञ्चिदुष्णवीर्यं, किञ्चिद् गुरु किञ्चिद्दोषलं च| दोषलमपथ्यम्| आरुकं वीरसेनञ्च वीरा चीनारुकं तथा| विद्याज्जातिविशेषेण तच्चतुर्विधमारुकम्|| १७८||

Adhikarana ArdradrAkShAdiguNAH (179) · Śloka 179

द्राक्षापरूषकं चार्द्रमम्लं पित्तकफप्रदम्| गुरूष्णवीर्यं वातघ्नं सरं सकरमर्दकम्||१७९||

🔊 Audio coming soon

द्राक्षापरूषकं चार्द्रपरूषकं करमर्दकं चाम्लं सत् पित्तश्लेष्मकरं गुरुत्वादिगुणयुक्तं च| करमर्दकं सुषेणम्|| १७९||

Adhikarana kolAdiguNAH (180) · Śloka 180

तथाम्लं कोलकर्कन्धुलिकुचाम्रातकारुकम्| ऐरावतं दन्तशठं सत्रुदं मृगतिण्डकम्| नातिपित्तकरं पक्वं शुष्कं च करमर्दकम्||१८०||

🔊 Audio coming soon

कोलादिकं मृगतिण्डान्तमम्लं सत्तथेत्यम्लक्षादिवदित्यर्थः| ऐरावतं नागरङ्गं, दन्तशठं जम्बीरम्, कर्कन्धुर्ह्रस्वबदरी| करमर्दकं पक्वं शुष्कं च नात्यर्थं पित्तकरम्| शुष्कस्य करमर्दस्य गुणमाह शुष्कमिति| चकारेण नातिपित्तकरमित्याकृष्यते|| १८०||

Adhikarana amlikA~gkolayorguNAH (181) · Śloka 181

दीपनं भेदनं शुष्कमम्लिकाङ्कोलयोः फलम्| तृष्णाश्रमक्लमच्छेदि लघ्विष्टं कफवातयोः||१८१||

🔊 Audio coming soon

अम्लिकाफलमङ्कोलफलं च शुष्कं सद्दीपनं, भेदनं, तृष्णादिनाशनं, कफवातयोश्च पथ्यम्|| १८१||

Adhikarana likucaguNAH (182) · Śloka 182

फलानामवरं तत्र लिकुचं सर्वदोषकृत्||१८२||

🔊 Audio coming soon

सर्वेषां च फलानामवरमप्रधानं लिकुचं त्रिदोषकरञ्च|| १८२||

Adhikarana sApavAdaH tyAjyadhAnyashAkaphalanirdeshaH (183) · Śloka 183

हिमानिलोष्णदुर्वातव्यललालादिदूषितम्| जन्तुजुष्टं जले मग्नमभूमिजमनार्तवम्| अन्यधान्ययुतं हीनवीर्यं जीर्णतयाऽति च| धान्यं त्यजेत्तथा शाकं रूक्षसिद्धमकोमलम्| असञ्जातरसं तद्वच्छुष्कं चान्यत्र मूलकात्| प्रायेण फलमप्येवं तथामं बिल्ववर्जितम्||१८३||

🔊 Audio coming soon

इत्यन्नस्वरूपविज्ञाननिष्पत्तौ धान्यादिकमन्नं समाहृत्य हिमानिलेत्यादिनोच्यते| एवंविधं धान्यं त्यजेत्| हिमादिदूषितमनिलेनातिवृद्धेन केदारस्थं दूषिमुष्णेन चातपादिना दुर्वातेन च पुरोवातादिना| तथा व्यालानां सर्पादीनां लालया दूषितम्| आदिग्रहणेन शवकोथादीनां ग्रहणम्| तथा जन्तुभिः क्रिम्यादिभिर्जुष्टं सेवितम्| जले मग्नमाशिखम्| अभूमौ विपरीतभूमौ जातमभूमिजम्| या यस्य धान्यस्योचिता भूमिस्ततोऽन्या विपरीता| तथा अनार्तवमप्राप्तसमयम्| यस्मिन्नृतौ यस्य धान्यस्योत्पत्तिः प्रसिद्धा ततोऽन्यस्मिन्नुत्पादितमित्यर्थः| तल्लक्षणं च रसादीनामपरिपूर्णत्वेन विज्ञेयम्| अन्येन च विजातीयेन धान्येन संयुक्तं केदारे जातम्| अतिजीर्णतया अतिपुराणत्वेन च हीनवीर्यं नष्टशक्ति| एवंविधं धान्यं त्यजेत्| तथा शाकमपि त्यजेत्| कीदृशं रूक्षसिद्धं रूक्षमेव सिद्धं रूक्षसिद्धं निःस्नेहसिद्धमित्यर्थः| अथवा रूक्षेण काञ्चिकादिना सिद्धं रूक्षसिद्धम्| अकोमलम् कठिनम्| स्वभावतः संस्कारतो वा| असञ्जातसमपरिपूर्णस्वरूपमित्यर्थः| तथा सर्वं शाकं शुष्कं त्यजेत्| मूलकं वर्जयित्वा| प्रायेण बाहुल्येन फलमप्येवंविधं त्यजेत्| द्राक्षादेश्च शुष्कस्यापि प्रयोगो दृश्यत इति ज्ञापनार्थं प्रायोग्रहणम्| तथा फलं सर्वमाममप्राप्तपाकं त्यजेत्| बिल्वं तु वर्जयित्वा| तस्यामस्यापि प्रयोगः| अत्र यथायोगं पूर्ववद्योज्यम्| अत्रापि फलानामप्रसिद्धानां च येषां नामानि नोक्तानि तानि नानादेशकुलेभ्योऽपभ्रंशसंस्कारादिनाधिगन्तव्यानि| इति फलवर्गः|| १८३||

Adhikarana (7) mAtrAdivargaH prakaraNopasaMhAraH (184) · Śloka 184

शकशिम्बिलपक्वान्नमांसशाकफलाश्रयैः| वर्गैरन्नैकदेशोऽयं भूयिष्ठमुपयोगवान्| निर्दिष्टो रसवीर्याद्यैर्यथास्वं कर्मसाधने||१८४||

🔊 Audio coming soon

शूकाधान्यादिनामाश्रयैः षड्भिर्वर्गैरयमन्नस्याहारस्यैकदेशः स्तोकमात्रं निर्दिष्ट इति सन्धेयः| किम्भूतोऽन्नैकदेशः? भूयिष्ठं प्राचुर्येणोपयोगो यस्यास्ति| कथं निर्दिष्टः? रसवीर्यविपाकप्रभावसंस्कारादिभिः| यथास्वं कर्मसाधने यथात्मीयकार्यकर्तृत्वे|| १८४||

Adhikarana mAtrAdivaSAt hitAhitasyABimatavastunaH niravaSeSheNa guNakathanaM duSSakam (185) · Śloka 185

न शक्यं विस्तरेणापि वक्तुं सर्वं तु सर्वथा| हिताहितत्वेऽप्येकान्तनियमोऽस्मादनिश्चितः| मात्रायोगक्रियादेशकालावस्थादिभेदतः| ततस्ततो यतो दृष्टास्ते ते भावास्तथा तथा||१८५||

🔊 Audio coming soon

एकदेशः किमर्थमुक्त इत्यत आह- न शक्यमित्यादि| सर्वं वस्तुजातं सर्वथा सर्वेण प्रकारेणापि वक्तुं न शक्यम्| महताऽपि ग्रन्थसम्भारेण न शक्यं, किमुत संग्रहेणेत्यपिशब्दार्थः| सर्वभावानां च शरीर इदं हितमिदमहितमिति नियमोऽनिश्चितः| कस्मादनिश्चितः? यतो यस्मात्ते नानाविधा भावास्ततो मात्रासंयोगक्रियादेशकालस्वभावविषयावस्थाक्रमादीनां भेदास्तथा तथा तेन तेन प्रकारेण नानाविधैर्विशेषैर्दृष्टाः| अतोऽनिश्चितः| तेनैतदुक्तं भवति- पथ्यमपि मात्रादिविशेषादपथ्यतां याति अपथ्यञ्च पथ्यतामिति||१८५||

Adhikarana mAtrAviSeShodAharaNAni (186) · Śloka 186

मात्रया सेवितं मद्यं हन्ति रोगांस्तदुद्भवान्| निषेव्यमाणं तिलशो विषमप्यमृतायते| हीनातिमात्रमशनं मरुन्निचयकोपनम्| भजेते विषरुपत्वं तुल्यांशे मधुसर्पिषी||१८६||

🔊 Audio coming soon

मात्रया सेवितमित्यादिना चैतदेव सविस्तरमुच्यते-मद्योद्भवान् रोगांस्तदेव मद्यं विशिष्टया मात्रया पीतं नाशयति| तथा च वक्ष्यति- `हीनमिथ्यातिपीतेन'(च०-८) इत्यादि| इति मात्राकृतो विशेषः| विषं मारणात्मकमपि तिलमात्राभ्यासेन सेवितममृतत्वं यातीति मात्राकृतो विशेषः| हीनमात्रं स्वल्पं भोजनं मरुतो वायोः कोपनम्| अतिमात्रं निचयस्य सन्निपातस्य कोपनम्| स्वास्थ्यकरस्याप्याहारस्य मात्रया विशेषः| मधुसर्पिषी स्वरूपेणाविरुद्धे सममात्रे विषरूपत्वं भजेते इति मात्राकृतो विशेषः|| १८६||

Adhikarana saMyogaviSeShodAharaNam (187) · Śloka 187

क्षारोऽम्लरससंयोगो मधुरीभवति क्षणात्| उत्तुण्डकस्यास्तिन्दुकेन तिक्तता मधुरायते| हिङ्गुर्गैरिकसिन्धूत्थं गन्धवर्णरसाधिकम्| पूगताम्बूलशङ्खेभ्यो गन्धवर्णरसोद्भवः| कोद्रवो हन्त्यसृक्पित्तं करोत्येव विदाहिभिः| कुष्ठं तत्कार्यपि तिलो हन्ति भल्लातकैः सह| गुडः कर्ताग्निसादस्य स हिनस्त्यभयादिभिः| तृष्यत्यग्नेः समदनं सर्पिरप्युपदिश्यते| जीवनीयमपि क्षीरं विषलेशेन मृत्यवे| तुल्ये अपि हतोऽन्योन्यं विषे स्थावरजङ्गमे| सक्तवो वातला रूक्षाः पीतास्ते तर्पयन्ति तु||१८७||

🔊 Audio coming soon

क्षारोऽम्लसंयोगेन मधुरत्वं यातीति संयोगविशेषः| तिन्दुकेन संयुक्ताया उत्तुण्डक्यास्तिक्तत्वं मधुरत्वमिव यातीति संयोगविशेषः| हिङ्गुगैरिकसिंधूत्थं च मिश्रीभूतं गन्धेन, वर्णेन, रसेन चाधिकं भवति| हिङ्गुसंयोगे रसवर्णविशेषेणाविज्ञातमपि गन्धेन गैरिकसैन्धवे अभिभवति| गैरिकमपि वर्णेन हिङ्गुसैन्धवे| सैन्धवमपि रसेन हिङ्गुगैरिके इति संयोगविशेषः| पूगफलताम्बूलकिसलयशङ्खसंयोगे प्रत्येकासम्भवविलक्षणवर्णाद्युद्भव इति संयोगविशेषः| कोद्रवो रक्तपित्तघ्नो विदाहिभिः संयुक्तो योगवाहित्वाद्रक्तपित्तं करोतीति संयोगविशेषः| लीनदोषोत्क्लेशेन कुष्ठकार्यपि तिलः भल्लातकैः संयुक्तो लीनदोषोत्क्लेशनात् कुष्ठं हन्तीति संयोगविशेषः| अग्निसादकरोऽपि गुडः हरीतकीशुण्ठीप्रभृतिभिः संयुक्तस्तं न करोतीति संयोगविशेषः| तृषि तृष्णायामत्यग्नेः दीपनमपि घृतं समधूच्छिष्टं पथ्यमिति संयोगविशेषः| दीपनस्योपशोषकत्वात्तृष्यपथ्यत्वम्| क्षीरं जीवनीयं प्राणधारकमपि विषलेशे देहस्थितेऽपि तं मारयति| विषलेशो विषभुक्तस्य शोधनादिनावशेषः| स्थावरजङ्गमे विषे तुल्ये सदृशे अपि मारणात्मकत्वेन शरीरस्थिते अपि परस्परं नाशकारणे| स्थावरं विषं जङ्गमेन दंष्ट्रादिसम्भवेन विषेण संयोगे नश्यति, जङ्गमं स्थावरविषेणेति संयोगविशेषः| सक्तवो रूक्षा वातलाश्च सन्तो जलमिश्रिताः पीतास्तर्पणा इति संयोगविशेषः|| १८७||

Adhikarana svabhAvavisheShodAharaNam (188) · Śloka 188

विनापि चोपयोगेन मणिमन्त्रादिकार्यकृत्||१८८||

🔊 Audio coming soon

मणिमन्त्रादिकं गुडूच्यादिवदनुपयुक्तमपि ज्वरादीञ्छमयतीति स्वभावविशेषः|| १८८||

Adhikarana saMskAravisheShodAharaNam (189) · Śloka 189

आर्द्रकाज्जायते शुण्ठी संस्कारेण लघीयसी| लघुभ्योऽपि हि सक्तुभ्यो गुरवः सिद्धपिण्डिकाः||१८९||

🔊 Audio coming soon

आर्द्रकाच्छुण्ठ्या सम्भवः| तस्यास्तु लघुत्वं संस्कारविशेषः| स्वभावलघुभिः सक्तुभिः, कृताः सिद्धपिण्डिका गुरव इति संस्कारविशेषः|| १८९||

Adhikarana kriyAsvabhAvavisheShodAharaNam (190) · Śloka 190

भृष्टः क्षुण्णोऽपि पृथुको रक्तशालेर्लघोर्गुरुः||१९०||

🔊 Audio coming soon

स्वभावलघुनोऽपि रक्तशालेः सम्भूतो भृष्टः मुसलच्छिन्नश्च पृथुकः गुरुत्वं यातीति क्रियास्वभावकृतो विशेषः|| १९०||

Adhikarana kriyAvisheShodAharaNam (191) · Śloka 191

शालिः पिष्टो गरीयस्त्वं गोधूमादपि गच्छति||१९१||

🔊 Audio coming soon

लघुः शालिरपि पिष्टोऽपिष्टात् स्वभावगुरुतो गोधूमादप्यधिकं गुरुत्वं यातीति क्रियाविशेषः|| १९१||

Adhikarana saMskAravisheShodAharaNam (192) · Śloka 192

लघु पित्तहरा लाजा व्रीहितो गुरुपित्तलात्| संग्राहिणो लघुर्मुद्गात्कुल्माषो भेदनो गुरुः| आमं ग्राहितरं तक्रं नागरीकृतमार्द्रकम्||१९२||

🔊 Audio coming soon

व्रीहितः पित्तकरात् गुरोश्च सम्भूता लाजा लघवः, पित्तहराश्चेति संस्कारविशेषः| संग्रहणः स्वभावाल्लघुनश्च मुद्गाज्जातः कुल्माषो भेदित्वं गुरुत्वं च यातीति संस्कारविशेषः| कुल्माषोऽल्पस्विन्नानि सस्यानि| आमं तक्रमतिसंग्रहणं पक्वं क्वथितं किञ्चित्संग्रहणमिति संस्कारविशेषः| नागरीकृतं शुण्ठितं प्रापितमार्द्रकमतिसंग्रहणं तथास्वरूपमिति संस्कारविशेषः|| १९२||

Adhikarana saMyogasaMskAraviSeShodAharaNAni (193) · Śloka 193

गुडात्तोयाच्च सुतरां मूत्रलं गुरु पानकम्||१९३||

🔊 Audio coming soon

गुडेन मूत्रलेन तोयेन च मूत्रलेन कृतं पानकमतिमूत्रलमतिगुरु च कारणापेक्षयेति संयोगसंस्कारविशेषः|| १९३||

Adhikarana kriyAsaMyogavisheShodAharaNam (194) · Śloka 194

गरीयो गुडदध्युत्था रसाला चातिशुक्रला||१९४||

🔊 Audio coming soon

गुडो दधि चातिगुरु, तत्कृता रसाला चातिगुरुतरा, सा त्वतिशुक्रलेति क्रियासंयोगविशेषः|| १९४||

Adhikarana kriyAvisheShodAharaNam (195) · Śloka 195

दण्डाभिमथनाद्दध्नो गुरुणश्चातिशोफदात्| अनुद्धृतस्नेहमपि तक्रं शोफहरं लघु||१९५||

🔊 Audio coming soon

गुरुणः शोफकराच्च दध्नो दण्डमन्थनेनैव सस्नेहमपि तक्रं लघु शोफहरं चेति क्रियाविशेषः|| १९५||

Adhikarana svabhAvavisheShodAharaNam (196) · Śloka 196

सर्पिः स्निग्धतरं हन्ति नार्दितं नवनीतवत्||१९६||

🔊 Audio coming soon

अर्दितं वातं च तस्य चातिस्निग्धत्वेनातिविपरीतं घृतं न तथा विनाशसमर्थं यथा तदूनं नवनीतमिति स्वभावविशेषः|| १९६||

Adhikarana saMskAravisheShodAharaNam (197) · Śloka 197

चक्षुष्योऽपि हि गोधूमस्तैलपक्वस्तु दृष्टिहा| मूलकं दोषजननं सिद्धं तु तददोषलम्| उष्णं विषीभवत्येव विषघ्नमपि माक्षिकम्||१९७||

🔊 Audio coming soon

गोधूमश्चक्षुष्योऽपि तैलपक्वो दृष्टिनाशन इति संयोगसंस्कारविशेषः| आममूलकं त्रिदोषकरं न तथाग्निसिद्धमिति संस्कारविशेषः| विषनाशनमपि माक्षिकमुष्णं सत् विषीभवतीति संस्कारविशेषः|| १९७||

Adhikarana pAtraviSeShodAharaNAni (198) · Śloka 198

दुर्भाजनस्था द्राक्षाम्ला दोषला च प्रजायते||१९८||

🔊 Audio coming soon

द्राक्षा दुर्भाजने लोहादिकृते स्थिताम्लत्वं त्रिदोषकरत्वं च यातीति पात्रविशेषः|| १९८||

Adhikarana viruddhakriyAprayogaviSeShodAharaNam (199) · Śloka 199

श्लख्श्णशुष्कघनो लेपश्चन्दनस्यापि दाहकृत्| त्वग्गतस्योष्मणो रोधाच्छीतकृत्त्वन्यथाऽगुरोः||१९९||

🔊 Audio coming soon

चन्दनस्यातिदाहनाशनस्य लेपः श्लक्ष्णः शुष्को घनश्च त्वगूष्मणो रोधाद्दाहनाशने न समर्थः| अगुरोश्चोष्णस्पर्शवीर्यस्यापि| अतश्चन्दनलेपस्वरुपादन्यथा वैपरीत्येन लेपः पुरुषः आर्द्रः तनुश्च शीतकृदिति क्रियाप्रयोगविशेषः (च० चि०-३०/३२४, च० चि०-३/१७४, १७४-चक्रदत्तटीका)|| १९९||

Adhikarana kriyAsvaBAvavisheShodAharaNam (200) · Śloka 200

मेध्यस्तिलः स्पर्शशीतो मेध्यं तैलं खलो हिमः| तस्यैव श्लेष्मकारित्वं न तैलस्य खलस्य वा||२००||

🔊 Audio coming soon

तिलो मेध्यः पुष्टिकरः स्पर्शशीतलश्च| तैलं मेध्यम्| खलस्तैलखलः शीतवीर्ययुक्तः| त्रीण्यपि श्लेष्मसदृशानि| तिल एव श्लेष्मकरो न खलतैले इति क्रियास्वभावविशेषः|

Adhikarana svaBAvavisheShodAharaNam (201) · Śloka 201

दध्नि श्वयथुकारित्वं न तक्रनवनीतयोः||२०१||

🔊 Audio coming soon

दध्नि स्निग्धे श्वयथुकारित्वं दृष्टम्| तक्रनवनीतयोस्तद्विकारयोः स्निग्धयोरपि न दृष्टमिति स्वभावविशेषः|| २०१||

Adhikarana deshavisheSheShu sAtmyavisheShodAharaNAni (202) · Śloka 202

देशविशेषेषु सात्म्यविशेषोदाहरणानि भूमिसात्म्यं दधिक्षीरकरीरं मरुवासिषु| क्षारः प्राच्येषु मत्स्यास्तु सैन्धवेष्वश्मकेषु तु| तैलाम्लः कन्दमूलानि मलये कोङ्कणे पुनः| पेया मन्थ उदीच्येषु गोधूमोऽवन्तिभूमिषु| बाह्लिका बाह्लवाश्चीनाः शूलिका यवनाः शकाः| मांसगोधूममार्द्वीकशस्त्रवैश्वानरोचिताः||२०२||

🔊 Audio coming soon

भूमिसात्म्यं देशविशेषाश्रयं प्राणिनां पथ्यम्| यथा मरुवासिषु दध्यादिकं, प्राच्येषु यत्किञ्चित्क्षारं लवणादि, सिन्धुदेशजेषु मत्स्याः, अश्मकेषु तैलं, अम्लश्च रसः सात्म्यं, मलयपर्वते कन्दानि मूलानि च, कोङ्कणे सात्म्यं पेया, उदीच्येषु सात्म्यं मन्थो, अवन्तिभूमिषु सात्म्यं गोधूमः, बाह्लिकादीनां मांसादिकं पथ्यमिति देशविशेषः|| २०२||

Adhikarana dehasAtmyAsAtmyodAharaNAni (203) · Śloka 203

देहसात्म्यं घृतं क्षीरं मद्यं मांसं च कस्यचित्| पेया यूषो रसोऽन्यस्य गोधूमोऽन्यस्य शालयः| अहितैरपि तेषां च तैरेवोपहितं हितम्||२०३||

🔊 Audio coming soon

सात्म्यमाजन्म देह उचितमभ्यस्तत्वात् स्वास्थ्यहेतुः| देहसात्म्यं यथा-कस्यचिद् घृतं, कस्यचिन्मांसं, कस्यचिन्मद्यं, कस्यचित्पेया, अन्यस्य सूपः, अन्यस्य शालिः, अन्यस्यान्यः| यस्य च यत् सात्म्यं तस्य रोगिणोऽन्नपानौषधादिकं तेनैव सात्म्येनापथ्येनाप्युपहितं मिश्रितं हितम्|| २०३||

Adhikarana svaBAvavisheShodAharaNam (204) · Śloka 204

अन्नपानौषधं दोषमात्राकालाद्यपेक्षया| सात्म्यं ह्याशु बलं धत्ते नातिदोषञ्च बह्वपि||२०४||

🔊 Audio coming soon

दोषादीनपेक्ष्य कस्मिंश्चिद्दोषाद्यवस्थाविशेषे सात्म्योपहितमप्यहितं हितमिति ज्ञापयतीति स्वभावविशेषः| सात्म्यमिश्रितमौषधादिकं किमर्थं क्रियत इत्याह- सात्म्यं ह्याशु शीघ्रमेव बलं करोति| बहु चोपयुक्तं नातिदोषकरम्| गतमानुषङ्गिकम्|

Adhikarana dehavisheShodAharaNam (205) · Śloka 205

स्रंसनं सत् पयो गव्यं भवति ग्राहि कस्यचित्||२०५||

🔊 Audio coming soon

स्वरूपेण स्रंसनं सद् गव्यं क्षीरं कस्यचित् सङ्ग्राहकतां यातीति देहविशेषः| तत्र कफप्रधानस्य सङ्ग्रहणं भवति| पित्तप्रधानस्य भेदनम् (अ०सं०सू०-२७)|| २०५||

Adhikarana prakRutivisheShaH (206) · Śloka 206

मन्दोऽग्निर्भवति प्रायः कफवायोत्तरे हिमे||२०६||

🔊 Audio coming soon

तथा प्रायेण सर्वो वातश्लेष्माधिको हिमे काले शीतेन वातश्लेष्माधिक्यान्मन्दाग्निर्भवतीति प्रकृतिविशेषः|| २०६||

Adhikarana dehavisheShodAharaNam,avasthAvisheShodAharaNam (207) · Śloka 207

विषघ्नेनापि पयसा देहेऽहेर्वधते विषम्| स्थूलस्थविरबालादौ वमनादि निषिध्यते||२०७||

🔊 Audio coming soon

स्थूलादीनां वमनादिकं प्रतिषिद्धमित्यवस्थाविशेषः|| २०७||

Adhikarana svabhAvavisheShodAharaNam (208) · Śloka 208

तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति तु| वातहृत्वेऽपि मृद्वीकखर्जूरं कोष्ठवातकृत्||२०८||

🔊 Audio coming soon

आमपक्वं तक्रं कोष्ठे कफं नाशयति, कण्ठे तु करोतीति स्वभावविशेषः| द्राक्षाखर्जूरं वातहरमपि कोष्ठे वातं करोतीति स्वभावविशेषः|| २०८||

Adhikarana viShayavisheShodAharaNAni (209) · Śloka 209

नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशाम्||२०९||

🔊 Audio coming soon

मयूरः स्वास्थ्येऽपथ्यः, श्रोत्रादीनाञ्च पथ्य इति विषयविशेषः|| २०९||

Adhikarana dRuShTishrotrayoH svabhAvavisheShodAharaNam (210) · Śloka 210

दृष्टेः स्पर्शहिमं द्रव्यं श्रोत्रस्योष्णं तु पूजितम्||२१०||

🔊 Audio coming soon

दृष्टेस्तेजोभवत्वेन विपरीतमपि शीतं द्रव्यं स्पर्श इष्यते| तथा श्रोत्रस्य वायव्यस्याप्युष्णमिति स्वभावः|| २१०||

Adhikarana avasthAvisheShodAharaNam (211) · Śloka 211

पयः स्वादु सरं शीतं विपरीतं ततो दधि| कालेन जायते तस्मात् क्षीरवच्च पुनर्घृतम्| पयो दधि च वातघ्नमजातं वातलं तु तत्| तक्रं ग्राहि कषायाम्लमम्लमेव तु भेदनम्||२११||

🔊 Audio coming soon

क्षीरं मधुरं सरं शीतं च तस्यैवावस्थान्तरं दध्यम्लं ग्राह्युष्णं च| ततोऽप्यवस्थान्तरमुभयविलक्षणमपि क्षीरात् कालेन बह्वीष्ववस्थासु गतासु घृतं जायते| तच्च गुणैः क्षीरसदृशम्| क्षीरं वातघ्नं दधि च वातघ्नम्| तयोश्चान्तरे अजातं दधि वातकरमित्यवस्थाविशेषः| तक्रं रसे कषायाम्लं सङ्ग्रहणं, केवलाम्लं भेदनमित्यवस्थाविशेषः|| २११||

Adhikarana saMskArakAlavisheShodAharaNAni (212) · Śloka 212

धातकीगुडतोयानि कारणं मद्यशुक्तयोः| शीते न तु तदाद्यन्ते स्निग्धाम्ललवणा हिताः| उदमन्थदिवास्वप्नौ ग्रीष्मादन्यत्र गर्हितौ||२१२||

🔊 Audio coming soon

धातकी गुडस्तोयं च मद्यस्य कारणतां याति| शुक्तस्य च तान्येवेति संस्कारकालविशेषः| न शुक्तं मद्यस्यावस्था| अपि तु तज्जात्यन्तरमेव| शीते काले स्निग्धादयो हिताः| न तु तत्प्रारम्भपरिसमाप्त्योरिति कालविशेषः| उदमन्थो बहुद्रवाः सक्तवः, दिवास्वप्नश्च ग्रीष्मादन्यस्मिन्नृतौ गर्हिताविति कालविशेषः|| २१२||

Adhikarana kAlasvabhAvavisheShodAharaNam (213) · Śloka 213

समयोगेऽपि घर्माद्या वातादिचयहेतवः| ऋतुष्वन्यो रसेष्वन्यो रौक्ष्ये स्नेहे बले क्रमः||२१३||

🔊 Audio coming soon

घर्माद्याः ग्रीष्माद्या ऋतवः समयोगेऽपि वातादिसञ्चयहेतुतां यान्तीति कालस्वभावविशेषः| ऋतुषु हेमन्तादिषु रौक्ष्ये, स्नेहे, बले चान्यः क्रमः| रसेषु च ऋतुस्वभावविलक्षण एव रौक्ष्यादिक्रमः| तथा च शिशिरे किञ्चिद्रौक्ष्यं, ततोऽधिकं वसन्ते, ततोऽप्यधिकं ग्रीष्मे, तत ऊनं वर्षासु, तत ऊनं शरदि, ततोऽप्यूनं हेमन्त इति रौक्ष्यक्रमः| ऋतुषु स्नेहक्रमस्तु- वर्षाः किञ्चित् स्निग्धाः, ततोऽप्यधिका शरत्, ततोऽप्यधिको हेमन्तः, तत ऊनः शिशिरः, तत ऊनो वसन्तः, ततोऽप्यूनो ग्रीष्म इति स्नेहक्रमः| बलक्रमस्तु- शिशिरेऽधिकं बलं, वसन्ते मध्यं, ग्रीष्मे ऊनं, वर्षासु चोनमेव, शरदि मध्यं, हेमन्ते त्वधिकमिति| रसेषु रौक्ष्यक्रमो यथा- तिक्तकटुकषाया यथोत्तरं रूक्षाः| स्नेहक्रमो- मधुराम्ललवणा यथापूर्वं स्निग्धाः| बलक्रमो- मधुरोऽतिबल्यः, तत ऊनोऽम्लः, तत ऊनो लवणः, तत ऊनस्तिक्तः, तत ऊनः कटुः, तत ऊनः कषाय इति स्वभावः| ऋतुविशेषाश्रयेण तु रसानामेतद्यथोक्तेन प्रकारेण स्वाभाविकरौक्ष्यादि व्यभिचरतीति कालस्वभावविशेषः| तथाच मधुरः स्निग्धोऽपि न तथान्यर्तौ हेमन्ते यथा| अम्लः स्निग्धोऽपि वर्षास्वतिस्निग्धः| लवणः स्निग्धोऽप्यतिस्निग्धः शरदि| तिक्तो रूक्षोऽप्यतिरूक्षः शिशिरे| कटुको रूक्षोऽप्यतिरूक्षो ग्रीष्मे| कषायो वसन्ते| बलतश्च व्यभिचारः| यथा मधुरोऽम्लादिभ्यो बलवानप्यतिबलो हेमन्ते| अम्लो मधुरादूनबलोऽपि वर्षास्वधिकबलः| लवणः स्वाद्वम्लाभ्यामूनबलोऽपि शरद्यधिकबलः| तिक्तो मधुराम्ललवणेभ्य ऊनबलोऽपि शिशिरेऽधिकबलः| कटुको मधुरादिभ्य ऊनबलोऽपि ग्रीष्मेऽधिकबलः| कषायो मधुरादिभ्य ऊनबलोऽपि वसन्तेऽधिकबल इति|| २१३||

Adhikarana avasthAvisheShodAharaNam (214) · Śloka 214

रसायनं काकमाची सद्यः पर्युषिता विषम्||२१४||

🔊 Audio coming soon

काकमाची सद्यः सिद्धा रसायनम्| पर्युषिता दिवसमध्युषिता विषमित्यवस्थाविशेषः|| २१४||

Adhikarana jAtivisheShodAharaNam (215) · Śloka 215

मूलकं दोषजिद्बालं विपरीतं तु कन्दवत्||२१५||

🔊 Audio coming soon

बालं मूलकं त्रिदोषहरम्| यत्तु कन्दवत् मूलकं तद्विपरीतं त्रिदोषकरमिति जातिविशेषः|| २१५||

Adhikarana vyAdhyavasthAvisheShodAharaNam (216) · Śloka 216

ज्वरे पेया कषायाश्च सर्पिः क्षीरं विरेचनम्| षडहं षडहं युञ्ज्याद्वीक्ष्य दोषबलाबलम्||२१६||

🔊 Audio coming soon

ज्वरे दोषाणां बलाबलं विकल्प्य पेयादयः षडहं षडहं योजनीया इति व्याध्यवस्थाविशेषः| तेनैतदुक्तं भवति- केनचिदधिकोनबलेन षडहाधिकमूनं वापि योजनीयमिति षडहमित्युपयोगो बाहुल्येन| अथवाऽनेन क्रमेण पेयादीनां षडहान्तप्रयोगप्रतिषेधपरमेतत्||२१६||

Adhikarana rogAvasthodAharaNam (217) · Śloka 217

छर्दिहृद्रोगगुल्मार्ते वमनं च चिकित्सिते| निषिद्धमपि निर्दिष्टं बस्तिरर्शसकुष्ठिनोः||२१७||

🔊 Audio coming soon

छर्द्यादिभिरार्ते प्रतिषिद्धमपि वमनं चिकित्सायां निर्दिष्टम्| ऊर्ध्वगे हि दोषे न वमनं पथ्यं, छर्द्यां तु बहुदोषस्य सततवमथोश्च वमनमेव पथ्यमिति| हृद्रोगगुल्मयोस्तु यद्यपि वाताधिक्य भयाद्वमनं निषिद्धं, तत्रापि श्लेष्मणा वातस्य मार्गरोधे पथ्यमेव| अर्शसः कुष्ठिनश्च प्रतिषिद्धोऽपि बस्तिनिर्दिष्ट एव| यद्यप्यर्शसः वातवर्जित मलसन्तर्पको बस्तिः| तत्राप्यतिदोषौषधक्षपितत्वाद्वाताधिक्ये योज्य एव| एवं कुष्ठिनो दोषस्य क्लेदस्वभावत्वादपथ्यमप्यतिरूक्षतायां पथ्यमिति रोगावस्थाविशेषः|| २१७||

Adhikarana samprAptivisheShodAharaNam (218) · Śloka 218

ज्वरे तुल्यर्तुदोषत्वं प्रमेहे तुल्यदूष्यता| रक्तगुल्मे पुराणत्वं सुखसाध्यत्वहेतवः||२१८||

🔊 Audio coming soon

सर्वरोगेषु सदृशर्तुत्वं सदृशदोषत्वं चासाध्यत्वहेतुः| तदेव ज्वरे अतिसुखसाध्यत्वहेतुः| ज्वरस्यच सदृशर्तुदोषत्वे त्वेकमार्गक्रियारम्भेण शीघ्रमुपशमः| अन्यरोगाणां तु सदृशर्तुदोषत्वं व्याधेर्महारम्भकत्वादसाध्यमिति सम्प्राप्तिविशेषः| एवं प्रमेहे सदृशदूष्यत्वं रक्तगुल्मे च पुराणत्वं विज्ञेयम्| एतच्च वक्ष्यामः|| २१८||

Adhikarana rogAvasthAvisheShodAharaNam (219) · Śloka 219

आश्चोतनमभिष्यन्दे युञ्जीतोर्ध्वं दिनत्रयात्| अञ्जनं पक्वदोशस्य प्रतिश्याये च नावनम्| नातिप्रवृद्धे तिमिरे सिरामोक्षो विधीयते||२१९||

🔊 Audio coming soon

अभिष्यन्दे पथ्यमप्याश्च्योतनं प्रथमदिनत्रयमपथ्यमित्यवस्थाविशेषः| एवमेव पक्वदोषस्याञ्जनं प्रतिश्याये च नस्यमवस्थाविशेषेण पथ्यम्| प्रथमोद्भूते तिमिरे सिरामोक्षः, अवस्थाविशेषात्|| २१९||

Adhikarana rogasvabhAvavisheShodAharaNam (220) · Śloka 220

दुष्टास्रसम्भवेऽपीष्टो नास्रपित्ते सिराव्यधः||२२०||

🔊 Audio coming soon

दुष्टरक्तसम्भवेऽपि रक्तपित्ते न सिराव्यधः पथ्यः रोगस्वभावात्|| २२०||

Adhikarana pradesharogavisheShodAharaNam (221) · Śloka 221

अपथ्यं पथ्यमप्यन्नं निशायां नेत्ररोगिणाम्||२२१||

🔊 Audio coming soon

नेत्ररोगिणां पथ्यं नेत्ररोगनाशनसमर्थमप्यन्नं निशायां अपथ्यम्, प्रदेशरोगस्वभावविशेषात्|| २२१||

Adhikarana kAraNavisheShodAharaNam (222) · Śloka 222

अहिताः सक्तवः शुष्का हितास्ते तु प्रमेहिणः||२२२||

🔊 Audio coming soon

सर्वस्य शुष्काः सक्तवोऽहिताः, प्रमेहिणस्तु हिताः कारणविशेषात्|| २२२||

Adhikarana dravyashaktivisheShodAharaNam (223) · Śloka 223

गुल्मिनः क्षीरदध्यादि हपुषाद्यैर्युतं हितम्| वातलं वातकोपेऽपि वर्षासु मधु शस्यते||२२३||

🔊 Audio coming soon

क्षीरादिकमहितमपि गुल्मिनां हपुषादिना संयुक्तं हितमेवेति द्रव्यशक्तिविशेषः| वर्षासु वातकोपकाले लाघवं मधु शस्यते इति कालस्वभावद्रव्यशक्तिविशेषः|| २२३||

Adhikarana upayogavisheShodAharaNam (224) · Śloka 224

तदेव मद्यं मद्यस्य..............................||२२४||

🔊 Audio coming soon

येनैव मद्येन रोग उत्पन्नस्तदेव मद्यं केनचिद्विशेषेण हितमित्युपयोगविशेषः|| २२४||

Adhikarana vastuvisheShodAharaNam (225) · Śloka 225

..................................विषयस्य तु विषान्तरम्||२२५||

🔊 Audio coming soon

विषस्य तु विजातीयं विषमेव नाशनसमर्थमिति वस्तुविशेषः|| २२५||

Adhikarana deshakAlavisheShodAharaNam,vyAdhisvabhAvavisheShodAharaNamvastusvabhAvavisheShodAharaNam (226) · Śloka 226

घृतमानूपदेशोत्थं हेमन्ते च बलाधिकम्| आलस्यगौरवे रूपं वातजेऽपि ज्वरे पुरः| स्वेदैर्याति शमं दाहः प्रायो लशुनपानजः||२२६||

🔊 Audio coming soon

लशुनोपयोगजो दाहः प्रायः सदृशेनैवाग्न्यादिस्वेदेन नश्यतीति वस्तुस्वभावः|| २२६||

Adhikarana kAlavastusvabhAvavisheShodAharaNam (227) · Śloka 227

दिवास्वप्नाज्जरां याति भुक्तमन्येद्युरद्य न|२२७|

🔊 Audio coming soon

अन्येद्युर्भुक्तमन्नं जरां याति दिवास्वप्नेनाद्यैव भुक्तं दिवास्वप्नेन न जरां यातीति कालवस्तुस्वभावः|| २२७||

Adhikarana kAraNavisheShodAharaNam (227) · Śloka 227

कोष्ठे रुद्धोऽग्निकृद्वायुर्मेदसार्शोभिरग्निहृत्||२२७||

🔊 Audio coming soon

Adhikarana prabhAvavisheShodAharaNam (228) · Śloka 228

दुष्पानं दुर्जरं सर्पिर्दीपनं च पयोऽन्यथा|२२८|

🔊 Audio coming soon

Adhikarana vastusvabhAvavisheShodAharaNam (228) · Śloka 228

सर्पादिशवकोथेभ्यो वृश्चिकानां समुद्भवः| ते तैरेव पुनर्दष्टाः सद्यो जहति जीवितम्|२२८|

🔊 Audio coming soon

Adhikarana dravyasvabhAvavisheShodAharaNam (228) · Śloka 228

स्वयमेव विषं तीव्रं तान्पुनर्नातिबाधते|२२८|

🔊 Audio coming soon

Adhikarana avasthAvisheShodAharaNam (228) · Śloka 228

सर्वाङ्गव्यापि तेषाञ्च शुक्रवत्संसृतं विषम्| तन्मांसमुपयोगाय मांसवर्गे च पठ्यते||२२८||

🔊 Audio coming soon

सर्पादीनां मृतशरीरक्लेदात् वृश्चिकोत्पत्तिः| ते च सर्पादयस्तैरेव वृश्चिकैर्दष्टाः सद्य एव जीवितं त्यजन्तीति वस्तुस्वभावः| विषं च स्वयं तीव्रमप्यन्यप्राणिवत् सर्पादीनां न तथा बाधते, किञ्चिद्बाधत इति द्रव्यस्वभावः| तेषां च सर्पादीनां शुक्रवत् सर्वाङ्गव्यापि विषभुक्तम्| अतोऽपि तन्मांसं देहोपयोगाय मांसवर्गे निर्दिष्टमित्यवस्थाविशेषः| अन्यथा हेयत्वादनिर्देशः प्राप्तः|| २२८||

Adhikarana svabhAvavisheSho viruddhakAryakAraNodAharaNam (229) · Śloka 229

छर्दिघ्नी मक्षिकाविट् च मक्षिकैव तु वामयेत्||२२९||

🔊 Audio coming soon

छर्दिकाराणान्मक्षिकातोऽपि जाता विट् छर्दिघ्नीति स्वभावः|| २२९||

Adhikarana samprAptivisheShodAharaNam (230) · Śloka 230

कफे लङ्घनसाध्येऽपि कर्तरि ज्वरगुल्मयोः| तुल्येऽपि देशकालादौ लङ्घनं न समं मतम्||२३०||

🔊 Audio coming soon

यद्यपि सर्वः कफो लङ्घनसाध्यस्तत्रापि ज्वरकारणे कफे गुल्मकारणे च लङ्घनं पथ्यत्वेन न सदृशं, सम्प्राप्तिविशेषात्| तेनैतदुक्तं भवति- यथैव देशकालादिसम्पदा कफज्वर उत्पन्नः, तथैवोत्पन्ने कफगुल्मे पथ्यत्वेन लङ्घनं न सदृशम्| ज्वरे त्वधिकं पथ्यमिति| शीघ्रं व्याध्युपशमात्| अथवा यदेकत्र लङ्घनं तदन्यत्रेत्यसमं सर्वेण प्रकारेणामत्वेन पक्वत्वेन च दीपनसङ्ग्रहणत्वात्|| २३०||

Adhikarana rogasvabhAvavisheShodAharaNam (231) · Śloka 231

सर्वथा दोषजित्तक्रं ग्रहण्यां दोषकृद् व्रणे| संस्कारस्वभावविशेषोदाहरणम् पीनसश्वासकासादौ सिद्धमेव प्रशस्यते||२३१||

🔊 Audio coming soon

ग्रहण्यां दोषत्रयनाशनं तक्रं व्रणे तु पूयहेतुत्वाद्दोषत्रयकरमिति रोगस्वभावः| पीनसादौ सिद्धमेव तक्रं शस्यते नासिद्धमिति संस्कारस्वभावः|| २३१||

Adhikarana mAtrAdiprakaraNopasaMhAraH (7) · Śloka 7

इत्येतेऽन्ये च बहवः सूक्ष्मा दुर्लभहेतुकाः| धर्मा विचित्रा भावेषु किञ्चित्तेषां निदर्शितम्| दिशाऽनया शेषमपि स्वयमूह्येत बुद्धिमान्| न शास्त्रमात्रशरणो न चानालोचितागमः||२३२|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसङ्ग्रहसंहितायां सूत्रस्थाने अन्नस्वरूपविज्ञानीयो नाम सप्तमोऽध्यायः||७||

🔊 Audio coming soon

इत्येते भावेषु वस्तुषु धर्मा विचित्रा विलक्षणा दृष्टाः सूक्ष्मा दुर्लक्ष्याः| दुर्लभो हेतुर्येषां ते दुर्लभहेतुकाः| अन्ये च विस्तरभयान्नोक्ताः| दृष्टाच्च स्तोकमात्रमत्र निदर्शितम्| अनया च दिशा अशेषं सर्वमपि वस्तुजातं नानाविशेषैर्वाक्यार्थावबोधेन च स्पष्टबुद्धिः स्वयमूहेत| किम्भूतः? न शास्त्रमात्रशरणः शास्त्रवाक्यपठितमात्रवस्तुशरणो न भवेत्, न चानालोचितागमो भवेदिति सम्बन्धः| तेन च शास्त्रेण तत्पृष्ठभाविना च साधुगुरूपदेशेन सर्वं वस्तुजातं स्वरूपेणान्यविशेषेण च बुद्ध्या स्वयमूहेतेत्यर्थः| मात्रादिकप्रकरणं समाप्तम्|| २३२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसङ्ग्रहव्याख्यायां शशिलेखायां सूत्रस्थाने सप्तमोध्यायः ||७||