Adhikarana athAtaH bastividhirnAmAShTAviMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातो बस्तिविधिं नामाध्यायं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
वमने कफनाशायोपदिष्टे पित्तनाशाय विरेचने च वातनाशाय बस्तेः प्रसङ्गात्तत्परिज्ञानार्थमध्याय आरभ्यते-अथाऽत इत्यादि|| १||
Adhikarana basteH prAdhAnyambastisaMj~jAyA anvarthattva~jca (2) · Śloka 2
बस्तिरनिलप्रधानेशु प्रयुज्यते|
बस्तिना दीयते बस्तिं वा पूर्वमन्वेत्यतो बस्तिः|
स च सर्वोपक्रमाणां प्रधानतमः शीग़्रं बृंहणादिकारित्वाद्विकृतानिलोच्छेदित्वाच्च||२||
तत्रानिलप्रधानेषु दोषेषु बस्तिः प्रयुज्यते इति| तत्र बस्ति संज्ञाया अन्वर्थतोच्यते| बस्तिना अजादिमूत्राधारेण यतो दीयतेऽतो बस्तिः| अथवा यतो दत्तं सत् पूर्वमादौ बस्तिमनुगच्छत्यतो बस्तिरिति| स च बस्तिः सर्वेषां वमनादीनामुपक्रमाणां मध्ये प्रधानः| कुत इत्याह-शीग़्रेत्यादि| शीग़्रमनायासेन वक्ष्यमाण बृंहणादिगुणकारित्वाद्विकृतानिलोच्छेदित्वाच्च|| २||
Adhikarana vAtasya prAdhAnyam (3) · Śloka 3
अनिलो हि दोषाणां नेता|
सर्वशरीरचेष्टैककारणम्|
पञ्चात्मतया अङ्गप्रत्यङ्गव्यापी|
विधाता विविधबाह्या- ध्यात्मिकभावानां सर्गस्थितिप्रलयानां हेतुः मार्गत्रय- जानामपि रोगाणामिति||३||
यतः सोऽनिलो दोषव्यापारकः| एतदेवाह-अनिलेत्यादि| अङ्गानि शिरःप्रभृतीनि| प्रत्यङ्गानि नेत्रकर्णाङ्गुल्यादीनि| विविधानां बाह्यानां तरुप्रभृतीनामाध्यात्मिकानाञ्च देहस्थानां भावानां ये सर्गस्थितिप्रलयास्तेषां विधाता| सर्ग उत्पत्तिः| स्थितिः स्थानम्| प्रलयो विनाशः| अन्तर्मार्गजानां मध्यममार्गजानाञ्च हेतुः|| ३||
Adhikarana basterviShayaH guNAshca (4) · Śloka 4
सुख़त्वादेव च बस्तिर्बालवृद्धकृशस्थूलक्षीणधात्वि- न्द्रियेषु च स्त्रीषु चानिलोपसर्गाप्रजासु कृच्छ्रप्रजासु चोप- दिश्यते|
तथाग्निबलवर्णमेदधास्वरायुः सुख़प्रदो वयः- स्थापनः पङ्गूरुस्तम्भमग्नसङ्कुचितानिलाध्मानशूलारो चकोदावर्तपरिकर्तिकादिषु हित इति||४||
अयं बस्तिः सुख़सेव्यत्वादेव बालादिषु वातोपसृष्टदेहत्वाच्चाप्रजासु स्त्रीषु चोपदिश्यते| तथाऽग्न्यादिप्रदः| वयसो यौवनस्य स्थापनः पङ्ग्वादिषु हितः पथ्यश्च|| ४||
Adhikarana basterAsthApanAdiBedena traividhyamAsthA- panasya trayodashavidhatva~jca (5) · Śloka 5
स तु बस्तिस्त्रिविधः|
आस्थापनमनुवासनमुत्तरबस्तिश्च|
तत्रास्थापनं दोषदूष्याद्यनुसारेण नानाद्रव्यसंयोगादिनि- र्वृत्तम्|
तस्य भेदाः उत्क्लेशनं संशोधनं संशमनं लेख़नं बृंहणं वाजीकरणं पिच्छाबस्तिर्माधुतैलिकमित्यादयः|
माधुतैलिकस्य पर्याया यापनो युक्तरथो दोषहरः स्निग्धब- स्तिरिति|
तेषां नामभिरेव स्वरूपमाख़्यातम्||५||
स च बस्तिस्त्रिप्रकार आस्थापनादिभेदेन| तत्रेत्यादिनाऽऽस्थापनलक्षणमुच्यते| तस्यैवोल्क्लेशनादयो भेदाः| तेषामुत्क्लेशनादीनां नामभिरेव स्वरूपं व्याख़्यातम्| तत्र यो बस्तिः संयोगादिवशाद्दोषमुत्क्लेशयति स उत्क्लेशकः| यस्तु शमयति स शमनः| यः श्लेष्ममेदःप्रभृतीन् विलख़ति स लेख़नः| यः शोधयति दोषान् स शोधनः| पिच्छास्वरूपत्वात् पिच्छाबस्तिः मधुतैलप्राधान्यान्माधुतैलिकः| एवं माधुतैलिकपर्यायाणामर्थोऽप्यूह्यः| तेन तेषामित्यादि व्याख़्यातम्|| ५||
Adhikarana AsthApananirUhashabdayoH nirvacanam (6) · Śloka 6
तद्वयः स्थापनाद्दोषस्थापनाद्वाऽऽस्थापनमित्युच्यते शरी- रारोहणाद्दोषनिर्हरणादचिन्त्यप्रभावतया यस्मिन्नूहास- म्भवान्निरुह इति||६||
तद्वय इत्यादिना आस्थापनसंज्ञाया अन्वतर्थतामाह- शरीरेत्यादिना निरूहसंज्ञायाः| निरूहास्थापनौ पर्यायौ|| ६||
Adhikarana anuvAsanasvarUpAdi (7) · Śloka 7
अनुवासानं यथार्हौषधसिद्धः स्नेहनार्थः स्नेहः स्नेहविधौ स चतुर्धाभिहितः||७||
यस्तु बस्तिः स्नेहनार्थं यथादोषं यथाव्याधि चौषधैः सिद्धः स्नेहो दीयते तदनुवासनम्| स च स्नेहः स्नेहविधौ ग़ृतादिभेदेन चतुर्द्धाभिहितः|| ७||
Adhikarana anuvAsanaBedo mAtrAbastiH tasya mAtrAdi (8) · Śloka 8
तस्य भेदो मात्राबस्तिः|
स पेयस्नेहह्नस्वमात्रातुल्यः|
सेव्यः सदा च माधुतैलिकवत्|
बालवृद्धाध्वभार- यानव्यायामचिन्तास्त्रीनित्यस्त्रीनृपेश्वरसुकुमारदुर्बलानि- लभग्नाल्पाग्निभिर्निष्परिहारतया सुख़ो बल्यो वर्ण्यः सृष्टमलो दोषग़्नश्च|
तथापि तौ नाजीर्णे योज्यौ न च दिवास्वप्नः सेव्यः||८||
तस्य चानुवासनस्य भेदो मात्राबस्तिर्नाम| एतच्च सर्वं कल्पस्थाने वक्ष्यते| स च मात्राबस्तिः पेयस्नेहस्य ह्रस्वया मात्रया तुल्यः सेव्यः| तेनैतदुक्तं भवति-आतुरो मुख़ेनोपयुक्तं स्नेहं यत्परिमाणं याभ्यां यामाभ्यां जरयितुं शक्नोति तत्परिमाणं तस्य मात्राबस्तिर्भवतीति| स च मात्राबस्तिर्वक्ष्यमाणेन माधुतैलिकविधानेन बालवृद्धादिभिः सेव्यो निष्परिहारत्वादेहितोः| एवङ्गुणयुक्तत्वेऽपि तावनुवासनमात्राबस्ती अजीर्णे न च योज्यौ| न च तयोरुपयुक्तयोर्दिवास्वप्नः सेव्यः|| ८||
Adhikarana anuvAsanirvacanam (9) · Śloka 9
यतश्च सोऽन्नमनुवसन्नपि न दुष्यत्यनुवासरमपि वा दीयत इत्यनुवासनम्||९||
यतश्चेत्यादिनानुवासनान्वर्थतामाह|| ९||
Adhikarana uttarabastisvarUpantatra matAntara~jca (10) · Śloka 10
उत्तरबस्तिरपि स्नेहोऽनुवासनवच्छोधनं निरूहवदपि केचिदाहुः||१०||
यस्तु बस्तिर्मूत्रमार्गेण दीयते स्नेहः स उत्तरबस्तिः| तस्य विधानं वक्ष्यमाणानुवासनसदृशम्| अन्ये त्वाहुः शोधनं निरूहसदृशमिति|| १०||
Adhikarana uttarabasternirvacanam (11) · Śloka 11
स निरूहादुत्तरमुत्तरेण वा मार्गेण दीयत इत्युत्तर- बस्तिः||११||
स निरूहेत्यादिनान्वर्थकथनम्|| ११||
Adhikarana AsthApyAH (12) · Śloka 12
तत्रास्थाप्या गुल्मप्लीहानाहशूलशुद्धातीसारजीर्णज्वर- प्रतिश्यायाढ्यरोगहृदयकुक्षिपार्श्वग्रहपर्वाभितापपार्श्वयो- निशूलाङ्गसुप्तिशोषकम्पगौरवातिलाग़वान्त्रकूजनवात- वर्चोमूत्रशुक्रसङ्गाश्मरीशर्करावृद्धिशुक्रार्त्तवस्तन्यनाश- रजः क्षयोन्माददोषकिर्मिणकोष्ठविषमाग्निसशब्दा- ल्पाल्पोग्रगन्धोत्थानादयो दोषभेदीयोक्ताश्च वातव्याधयः|
विशेषेणैते हि परं बस्तिनाशमुपयान्ति मूलच्छेदेन वृक्षवत्||१२||
तत्र च बस्तिभेदेषु मध्ये गुल्मादयो वातप्रधाना दोषभेदीयपठिताश्च वातहेतुका व्याधय आस्थाप्याः| एतेष्वास्थापनो योज्य इत्यर्थः| एते ह्यनेन वाते छिन्ने नाशमुपयान्ति| यथा मूले छिन्ने वृक्षाः| शुद्धश्चासावतिसारस्तथोक्तः| शुद्धशब्देनामरक्तयोः प्रतिषेधः| ग्रहशब्दस्य हृदयादिभिः सम्बन्धः| शूलशब्दस्य पार्श्वयोनिभ्याम्| सङ्गशब्दस्य वातादिभिः| नाशशब्दस्य शुक्रादिभिः| रेतोदोषाः कुणपादयः| अल्पाल्पमुग्रगन्धं च तदुत्थानं चेति समासः|| १२||
Adhikarana anAsthApyAstatra hetavashca (13) · Śloka 13
अनास्थाप्यास्त्वतिस्निग्धोत्क्लिष्टदोषक्षतोरस्कातिकृशा निरन्नाः कृतवमनविरेचननस्यप्रसक्तच्छर्दिनिष्ठीविका- कासश्वासहिक्कार्शोबद्धच्छिद्रदकोदराध्मानालसकवि- षूचिकामातीसारारोचकाल्पाग्निगुदशोफकुष्ठमधुमे- हार्ताः|
गर्भिणी चाप्रवृत्ताष्टममासा|
तत्रातिस्निग्धो- त्क्लिष्टदोषयोर्दोषानुत्क्लेश्योदरं मूर्च्छां श्वयथुं वा निरूहो जनयेत्|
क्षतोरस्कस्यातिकृशस्य च क्षोभमापन्नः शरीर- माशु पीडयेत्|
अनिरन्नस्य वक्ष्यते|
कृतवमनविरेकयोस्तु रिक्तं देहं क्षतं क्षार इव दहेत्|
स्नेहबस्तिस्तु सद्योऽ- ग्निमवसाद्य श्लेष्मामयाय स्यात्|
कृतनस्यस्यास्य- विभ्रंशं विवृतोर्ध्वस्रोतस्तया कुर्यात्|
अनुवासनं तु दोषोत्क्लेशम्|
प्रसक्तच्छर्द्यादीनां वायुर्निरूहमूर्ध्वं नयेत्|
अनुवासनञ्चार्शसस्यावृतमार्गत्वादनागच्छन्बस्तिः प्राणान् हिंस्यात्|
स्नेहः पुनरर्शांस्यभिष्यन्द्याध्मानाय स्यात्|
बद्धोदराद्याध्मानान्तानां भृशतरमाध्मानान्मृत्युः|
अलस- कार्तादीनां चामदोषात्|
अरोचकार्तादीनां यथास्वमाम- यवृद्धिः|
गर्भिण्याः पूर्वोक्तो दोषः||१३||
अनास्थाप्या इत्यादि सुबोधम्| अनिरन्नस्य यदास्थापनेन भवति तदस्मिन्नेवाध्याये निरूहश्च समीरश्चेत्यादिना वक्ष्यते| कृतवमनविरेकयोस्तदहरेव स्नेहबस्तिरित्यादिना य एवानास्थाप्यास्त एवाननुवास्या इति वक्ष्यमाणत्वात्| कृतवमनविरेकयोरनुवासनेनापि यद्भवति तत् लाग़विकत्वादिस्मिन्नेव प्रसङ्ग उच्यते| कृतनस्यस्यास्थापनमास्यविभ्रंशं कुर्यात्| ऊर्ध्वस्रोतसां विवृतत्वात्| तस्यैवानुवासनं दोषोत्क्लेशं कुर्यात्| स्नेहोऽर्शसानामनुवासनम्| गर्भिण्या आस्थापनेन पूर्वोक्तो वमनोक्तो दोष आमगर्भभ्रंशादिः सा चाप्रवृत्ताष्टममासा यस्या न प्रवृत्तोऽष्टमो मासः| प्रवृत्ते त्वष्टमे मासि बस्तिर्विहित एव तस्मादेतेऽनास्थाप्याः|| १३||
Adhikarana anuvAsyAH ananuvAsyAshca (14) · Śloka 14
य एवास्थाप्यास्त एवानुवास्याः|
रूक्षातिदीप्ताग्नयः केवलानिलार्ताश्च विशेषेण|
एते परमनुवासनेनाप्याय्यन्ते मूलसेकेन वृक्षवत्|
य एवानास्थाप्यास्त एवाननुवा- स्याः|
तथा निरन्ननवज्वरपाण्डुरोगकामलाप्रमेहप्रति- श्यायप्लीहकफोदराढ्यवातवर्चोभेदार्तपीतविषगरपित्त- कफाभिष्यन्दगुरुकोष्ठातिस्थूलश्लीपदगलगण्डापची- क्रिमिणकोष्ठः|
तत्रातिस्निग्धादीनां यथास्वमुक्ताः पृथ- ग्दोषाः||१४||
य एवास्थाप्या गुल्मादयः त एवानुवास्या अपि| तथा निरन्नादयो नानुवास्याः| निरन्नप्लीहादीनामास्थापनविधानादपवाद वचनमनुवासने| अतिस्निग्धादीनां यथास्वमिति प्रत्येकं पृथगसङ्करेणास्थापनप्रतिषेधप्रसङ्गेऽस्मिन्नध्याय एवोक्तः|| १४||
Adhikarana aBuktavata eva nirUho deyaH, BojanaM kRutavata evAnuvAsanaM deyam (15) · Śloka 15
अपि च - अभुक्ते रिक्तकोष्ठस्य प्रयुक्तमनुवासनम्|
सरदूरगसूक्ष्मत्वैः क्षिप्रमूर्ध्वं प्रपद्यते|
तेन वायोर्जयो न स्याद्वातस्थाने ह्यतिष्ठता|
कायाग्नेराशु नाशश्च विशेषादनिवर्तनात्|
स्नेहः सद्योशिताहाररुद्धे त्वामाशयेऽनिलम्|
पक्वस्थं हन्ति पक्वस्थश्च्यवते चान्नपाकतः|
निरूहश्च समीरश्च तीक्ष्णवेगावुभावपि|
तावन्नमूर्च्छितौ तीक्ष्णावधोऽन्नेन सहागतौ|
ऊर्ध्वं वा शकृता सार्द्धं संस्थितौ कोष्ठ एव वा|
समलाहारविष्टब्धौ हरेतामाशु जीवितम्|
भुक्तवाननुवास्योऽस्मान्न निरूह्यस्तु भुक्तवान्||१५||
अपि चेति समुच्चये| भुक्तवानस्मात् कारणादनुवास्यः| कुत इत्याह-अभुक्त इत्यादि| अभुक्ते निरन्ने रिक्तकोष्ठस्य सतः पुरुषस्यानुवासनं प्रयुक्तं सरत्वात् दूरगत्वात् सूक्ष्मस्रोतः प्रवेशित्वाच्च शीग़्रमेवोर्ध्वं पूर्वकायं प्रपद्यते| ततः किमित्याह-तेनेत्यादि| तेनानुवासनेनोर्ध्वं प्रवृत्तेन वातधाग्निपक्वाशये अतिष्ठता वायोर्जयो न स्यात्| स्नेहस्य चानिवर्तनादपतनाद्विशेषेणाग्निनाशः स्यात्| यदा तु भुक्तं तदनुवासनं देयमेव| यतः सद्योशितेनाहारेणामाशये रुद्धे पक्वाशयस्थोऽनुवासनस्नेहः पक्वाशयस्थमेवानिलं हन्ति| अन्नपाकतश्च पक्वाशयस्थ एव च्यवते| स्नेहः पतत्यतोऽग्निनाशं न करोतीति भावः| अस्मादन्नं भुक्तवाननुवास्य इति सम्बन्धः| निरूह्यः पुनरभुक्तवानेवान्नम्| यतो भुक्ते निरूहो जीवितं हन्ति| कथमित्याह-निरूहश्चेत्यादि| निरूहस्तावत्तीक्ष्णवेगः समीरो वायुरपि तीक्ष्ण एव| तावुभौ निरूहसमिरौ तीक्ष्णवेगत्वादन्नेन सहाधो गुदेनागतौ शकृता पुरीषेण वा सार्धमूर्ध्वं मुख़ेन वागतौ समलेन सपुरीषेण वा आहारेण विष्टब्धौ कोष्ठ एव स्थितौ| सर्वथा सान्ने कोष्ठे निरूहसमीरावाशु जीवितं हरेताम्| अतोऽस्मान्ननिरूह्यस्त्वन्नं भुक्तवानिति सम्बन्धः|| १५||
Adhikarana pANDurogArtAdInAmanuvAsane doShaH (16) · Śloka 16
पाण्डुरोगार्तादीनां दोषानुत्क्लेश्य स्नेहबस्तिरुदरं जनयेत्|
प्रतिश्यायादिमतां भूय एव दोषं वर्धयेत्||१६||
इत्यनास्थाप्यानामनुवासनेन दोषानुक्त्वा पूर्वोक्तानामननुवास्यानां पाण्डुरोगार्तादीनामित्यादिना दोषान् कथयति| एकेनादिशब्देन प्रमेहान्तानां ग्रहणम्| अन्येन क्रिमिणकोष्ठान्तानाम्||१६||
Adhikarana bastenetravidhAnam (17) · Śloka 17
तयोस्तु नेत्रं सुवर्णादिधातुमणिशङ्ख़शृङ्गदन्तास्थिवेणुन- लख़दिरकदरतिनिशतिन्दुकादिदारुसारमयमृज्वकर्कशं गोपुच्छाकृतिगुलिकामुख़मूनवर्षवार्षिकसप्तद्वादश- षोडशवर्षाणां विंशतिप्रभृतिषु च क्रमात् पञ्चषट्सप्ता- ष्टनवद्वादशाङ्गुलप्रमाणम्|
मूलेऽग्रे चातुराङ्गुष्ठकनिष्ठि- कापरिणाहमर्धाङ्गुलात् प्रभृत्यर्धाङ्गुलप्रवृद्धत्र्यङ्गुलपर्य- न्तप्रवेशमूलच्छिद्रं वनमुद्गमुद्गमाषकलायक्लिन्नकला- यकर्कन्धुवाह्यग्रच्छिद्रं मूलछिद्रप्रमाणाङ्गुलैरग्रे यथा- स्वं सन्निविष्टकर्णिकं कर्णिकान्तः प्रतिबद्धसूत्रान्तर्गृही- ताग्रपिधानग़नचैलवर्ति|
मूले द्व्यङुलान्तराले कर्णिकाद्वयं कारयेत्|
वर्षान्तरेषु च वयोबलशरीराण्यवेक्ष्य नेत्र- प्रमाणमुत्कर्षयेत्||१७||
तयोस्त्वास्थापनानुवासनयोः सुवर्णादिमयमृज्वादियुक्तं नेत्रं वैद्यः कारयेदिति सम्बन्धः| अकर्कशं श्लक्ष्णं गुलिकामुख़मतीक्ष्णाग्रत्वाद् गुदं न क्षिणोति| अस्य च नेत्रस्य यत् गुदे प्रविशति तदग्रं यत्र बस्तिर्बध्यते तन्मूलमिति क्रमाद्यथासङ्ख़्येनेत्यर्थः| तत्रोनवर्षस्य पञ्चाङ्गुलप्रमाणं नेत्रं कारयेत्| आतुराङ्गुलप्रमाणेन पूर्णवर्षस्य षडङ्गुलम्| सप्तवर्षस्य सप्ताङ्गुलम्| द्वादशवर्षस्याष्टाङ्गुलम्| षोडशवर्षस्य नवाङ्गुलम्| विंशतिप्रभृति च यावज्जीवं द्वादशाङ्गुलमिति नेत्रस्यायामप्रमाणम्| मूलप्रमाणं तु आतुराङ्गुष्स्ठसमपरिणाहं सर्वं नेत्रं कारयेत्| अग्रे चातुरकनिष्ठिकापरिणाहं परिणाहस्थौल्ये पर्यायवत्तुल्ये उच्येते| अर्धाङ्गुलादारभ्यार्धाङ्गुलमर्धाङ्गुलं वर्धयन् यावत् त्र्यङ्गुलपरिमण्डलं वस्तु यस्य मूलच्छिद्रे प्रविशति तत्तथोक्तम्| तेनोनवर्षास्यार्धाङ्गुलपरिमण्डलप्रवेशं मूलच्छिद्रं कारयेत्| वार्षिकस्याङ्गुलम्| सप्तवर्षस्य सार्धाङ्गुलम्| द्वादशवर्षस्य द्व्यङ्गुलम्| षोडशवर्षस्य सार्धद्व्यङ्गुलम्| विंशतिवर्षप्रभृति त्र्यङ्गुलमिति| तस्माद् द्वादशाङ्गुलायामे नेत्रे स्थौल्येनाङ्गुष्ठसमे मूले द्व्यङ्गुलपर्यन्तं त्र्यङ्गुलपरिमण्डलप्रवेशाङ्गुलीयकादिच्छिद्रेण समीभवतीति| एतच्च सर्वमातुराङ्गुलमानेन योज्यम्| तस्य च नेत्रस्य गोपुच्छाकृतित्वा त्तदग्रं कनिष्ठिकास्थौल्यमुक्तम्| तद्वनमुद्गादिप्रवेशच्छिद्रं कारयेत्| मकुष्ठवाच्यो वनमुद्गः| क्लिन्नः कलायः उच्छूनो भवति| पञ्चाङ्गु-लादीनां षण्णां नेत्राणां वनमुद्गादयः षट् योजनीयाः| तच्च नेत्रमग्रे सन्निविष्टकर्णिकं कारयेत्| किम्प्रमाणे अग्र इत्याह-मूलच्छिद्रप्रमाणाङ्गुले| यथास्वमिति| तेनैतदुक्तं भवति| त्र्यङ्गुलप्रवेशे नेत्रे त्रीण्यङ्गुलानि विमुच्याग्रे कर्णिकां कारयेदिति| कर्णिकाकृतित्वात् कर्णिकाम्| अन्येषां यथास्वं भागैः प्रमाणामूह्यम्| तत्कर्णिकावसक्तसूत्रान्तगृहीता अग्रपिधानार्थग़नचैलसम्बन्धिनी वर्तिर्यस्य तत्तथोक्तं कर्णिकाया छिद्रे सूत्रस्यालम्बनम्| तस्य नेत्रस्य मूले परस्परं द्व्यङ्गुलान्तरालं कर्णिकाद्वयं कारयेदिति नेत्रस्यायामपरिणाहच्छिद्रैः प्रमाणम्| वर्षान्तरेषूक्तवर्षशेषेषु विंशतेरधो यान्युक्तनि वर्षान्तराणि तान्यवधीकृत्य| तदनुगुणे चाङ्गलमाने अवधीकृत्य| तदन्तरानुवर्तिनो वर्षान् अङ्गुलभागांश्चाकलय्य वयोबलशरीराद्यपेक्षया नेत्रप्रमाणं वर्धयेत्|| १७||
Adhikarana bastiyantram (18) · Śloka 18
ततोऽजाविवराहहरिणगोमहिषान्यतमजं स्नेहमुद्गविमृदितं विगतच्छिद्रसिराग्रन्थिस्कन्धं नातिवर्तुलं मृदु दृढं कषायरक्तं सुख़सम्स्थाप्यौषधप्रमाणं न्युब्जं विवृता- ननं निवेश्य बस्तिं कर्णिकयोर्दृढेन सूत्रेण ग़नं समं च बध्वा परिवर्त्त्य पुनश्चान्यद्बस्तिमुख़बन्धनार्थं सूत्रमुप धायानुगुप्तं निधापयेत्||१८||
ततस्तस्मिन् नेत्रे अजाद्युद्भवं बस्तिं यथोक्तगुणं कृत्वा न्युब्जमधोमुख़ं प्रवेशयेत्| ततः कर्णिकयोर्बध्वा पुनः परिवर्तयेत्| बस्तिर्यथोर्ध्वमुख़ो भवति| सुबोधमन्यत्|| १८||
Adhikarana bastyaBAve svIkAryamanyat (19) · Śloka 19
बस्त्यभावे प्लवनी छागलाङ्कपादमधूच्छिष्टोपदिग्ध- ग़नसूक्ष्मतान्तवान्यतमं निवेशयेत्||१९||
बस्तेरभावे प्लवनीच्छागलाद्यन्यतमं निवेशयेत्| प्लवनी जलचरो विहङ्गविशेषः| अङ्कपादो विपाटितमेषकृत्तिपादः|| १९||
Adhikarana AsthApanamAtrA (20) · Śloka 20
आस्थापनमात्रा तु प्रथमे वर्षे प्रकुञ्चः|
ततः परं प्रतिवर्षं प्रकुञ्चमभिवर्धयेदाषट्प्रसृतात्|
ततश्चोर्ध्वं प्रसृताभि वृद्धिः|
प्राप्तानतीताष्टादशसप्ततेस्तु द्वादश प्रसृताः|
परं चातो दशैव|
अन्ये पुनर्द्वादशप्रसृतस्याप्यष्टाविच्छन्ति||२०||
आस्थापनामात्रेत्यादिना प्रदेयौषधमात्रोच्यते| प्रथमे वर्षे आस्थापनस्य प्रकुञ्चः पलं मात्रा| ततो द्वितीयादिषु वर्षेषु प्रकुञ्चं प्रकुञ्चमभिवर्धयेत्| यावद् द्वादशे वर्षे षट् प्रसृताः द्वादश पलानि भवन्ति| ततस्त्रयोदशादिषु वर्षेषु प्रसृतं प्रसृतं वर्धयेत्| यावदष्टादशे वर्षे द्वादश प्रसृताः| अष्टादशप्रभृतिसप्ततिर्यावदिदमेवास्थापनमानम्| यद्वा दश प्रसृताः सप्तेतेरुपरि यावज्जीवं दशैव प्रसृताः| अन्ये पुनराचार्या द्वादशप्रसृतस्थानेऽष्टौ प्रसृतानीच्छन्ति|| २०||
Adhikarana mAdhutailikAnuvAsanayormAtrA (21) · Śloka 21
यथास्वमास्थापनमात्रा पादहीना माधुतैलिके प्रयोज्या|
अनुवासने त्वेवमेवास्थापनस्य पाद इति||२१||
यथास्वमित्यादिना माधुतैलिकमात्रोच्यते| येषु वर्षेषु यावत्यास्थापनमात्रा विहिता तेषु वर्षेषु माधुतैलिकस्य तावत्येव चतुर्भागहीना| स एव चतुर्भागोऽनुवासनस्य योज्यः| तेनाष्टादशप्रभृति सप्ततिर्यावत् माधुतैलिकस्य नव प्रसृता देयाः| अनुवासनस्य त्रयः प्रसृताः| एवं सर्वत्रोह्यम्|| २१||
Adhikarana AsthApanIyasya pUrvamanuvAsanantasya kAlashca (22) · Śloka 22
अथास्थापनीयमातुरं स्नेहस्वेदोपपन्नं कृतवमनविरेक- मासेवितपेयादिसंसर्गक्रममुपजातबलमनुवासनार्हं पूर्व- मेवानुवासयेत्|
शीतवसन्तयोर्दिवा अन्यथा रात्राववेक्ष्य वा दोषादीन्|
अन्यथा हि स्नेहोक्तामयप्रादुर्भवः||२२||
अथेति मङ्गले| य आतुर आस्थापनीयस्तमादावनुवासयेत्| किम्भूतमित्याह-स्नेहेत्यादि| अनुवासनार्हमित्यनेनैतद् दर्शयति| दोषव्याध्यपेक्षया कदाचिदकृतानुवासन एवास्थाप्य इति| कस्मिन् कालेऽनुवासयेदिति आह-शीते वसन्ते च दिवानुवासयेत्| अन्यत्र ग्रीष्मादिषु रात्राविति| अथवा दोषदूष्यातुरादीनवेक्ष्य रात्रौ दिवा वा| अन्यथा शीतवसन्तयोः रात्रावनुवासनेन ग्रीष्मशरदोश्च दिवानुवासनेन| एषु कालेषु स्नेहपाने स्नेहविधौ य आमया उक्ताः तेषां प्रादुर्भावः|| २२||
Adhikarana anuvAsanabastidAnaviShaye dhAnvantarIyamataM Atyayike svamata~jca (23) · Śloka 23
धन्वन्तरीयाः पुनराहुः- न रात्रौ प्रणयेद्बस्तिं स्नेहोत्क्लेशो हि रात्रिजः|
स्नेहवीर्ययुतः कुर्यादाध्मानं गौरवं ज्वरम्|
अह्नि स्थानस्थिते दोषे वह्नौ चान्नरसान्विते|
स्फुटस्रोतोमुख़ं देहं स्नेहो यत् परिसर्पति|
अल्पपित्तकफं रूक्षं भृशं वातरुजार्दितम्|
भुक्तं जीर्णाशनं कामं रात्रावप्यनुवासयेत्|
केवलानिलनिपीडितं त्वशुद्धमप्यनिरूपितबलं चाप्य- नुवासयेदात्ययिकत्वाद्व्याधेः||२३||
धन्वन्तरीयाः पुनराचार्या एवमाहुः| यथा सर्वो बस्ती रात्रौ न देयः दिवैव देयः| अथवा कदाचिदल्पपित्तादीनां रात्रावपिदेयः| एतदेव मतं न रात्रावित्यादि श्लोकत्रयेण पठति| केवलानिलेत्यादिना स्वमतमनुसरति| अत्र ह्यात्ययिकव्याध्यपेक्षितत्वात् बस्तिविधेः कालनियमो नाश्रयितव्यः|| २३||
Adhikarana anuvAsyasya pUrvA~ggatvena ma~ggalAdi (24) · Śloka 24
तस्य विधिर्वमनादधिकतरं कृतमङ्गलमनुसुख़मभ्य- क्तमुष्णाम्बुस्नातं युक्तस्नेहमुचितात् पादहीनं द्रवपूर्वं लग़ूष्णं सानुपानमशनमशितवन्तं कृतचङ्क्रमणमुत्सृष्ट- विण्मूत्रमशनार्द्रहस्तमशङ्कनीयपरिचारकं निवाते वेश्मनि प्रततशयने नात्युच्छ्रिते स्वास्तृते ईषदुन्नमितपाददेशे वाम- पार्श्वेन प्राक्शिरसं संवेशयेत्||२४||
सुबोधमन्यत्| अशनार्द्रहस्तत्वेन तत्कालभुक्तत्वं लक्षयति||२४||
Adhikarana anuvAsyasya snigdhAdyAhArasevane doShAH (25) · Śloka 25
अतिस्निग्धाशिनो ह्युभयमार्गसंसर्गात् स्नेहो मदमूर्च्छा- ग्निसादहृल्लासान् जनयति|
रूक्षाशिनो विष्टम्भं बलवर्णहानिं वा|
अल्पमात्रद्रवाशिनो विसृष्टविण्मूत्रस्य चानावृतेन तदावृताद् व्यापदम्|
चिरमशितवतो विदा- हाभिमुख़भक्तस्य ज्वरं कुर्यात्||२५||
द्रवाशिन उत्सृष्टविण्मूत्रस्य चानावरणाद् व्यापदं न करोति||२५||
Adhikarana anuvAsyasya vAmapArshvashAyane hetavaH (26) · Śloka 26
यतश्च वामपार्श्वाश्रयाणि वह्निग्रहणीगुदवलामुख़ानि तानि तत्पार्श्वशायिनो निम्नानि भवन्ति|
अतस्तदौषधमस्ख़- लितमाप्नोति प्रवेशनिर्गमावति संविष्टं चैनमृजुस्थितदेहं स्वबाहूपधानं प्रसारितवामसक्थिमाकुञ्चितेतरं तस्यैव चोपरि प्रसारितदक्षिणबाहुं कारयेत्||२६||
वामपार्श्वशायिनस्तत्पार्श्वाश्रयाणि ग्रहण्यग्न्यादीनि निम्नान्यविरोधकान्यौषधस्य भवन्ति| वह्निना ह्यमुर्तेनाप्यनिम्नेनौषधस्य प्रतिग़ातः क्रियत एव| स्व एव वामो बाहुर्द्विगुणीकृत उपधानं शिरस उपाश्रयो यस्य तं तथोक्तम्| इतरेति दक्षिणस्य स्क्थ्नः परामर्शः|| २६||
Adhikarana anuvAsanabastidAnavidhiH (27) · Śloka 27
पुर्वमेव तु वैद्यो वर्त्त्या सुपिहिताग्रच्छिद्रं नेत्रं भाजन- स्योपरि कृत्वा दक्षिणपादाङ्गुष्ठाङ्गुलीभ्यां कर्णिकाया उपरिष्टन्निष्पीड्याविबन्धाय शताह्वसैन्धवचूर्णावचूर्णितं प्रागेव नेत्रस्पर्शात् पूर्ववदभिमन्त्रितं यथार्हं यथार्हौषधा- विपक्वं सुख़ोष्णं बस्तौ स्नेहमासिच्यावलीकोच्छ्वासं निःसारितवातबुद्बुदमौषधान्ते सूत्रेण द्विस्त्रिर्वा बस्तिमुख़- मावेष्ट्य दक्षिणपाणौ नेत्रमुपनिधाय तिष्ठेत्|
ततो ग़ृता- भ्यक्ते पाणौ वामहस्तप्रदेशिन्याभ्यक्तप्रवेशप्रदेशमप- नीतवर्त्युत्तानवामहस्ताङ्गुष्ठोदरपिहिताग्रं मध्यमाप्रदेशि- न्युपगृहीतकर्णिकमृज्वनुपृष्ठवंशमनुसुख़मेकमना लाग़- वेन निष्कम्पमद्रुतमविलम्बितं नेत्रमाकर्णिकं प्रवेशयेत्|
आतुरोऽपि तदनुलोमयन्नवलम्बेत|
ततश्च वैद्यो बस्ति- मुख़ं दक्षिणहस्ताङ्गुष्ठप्रदेशिनीभ्याममुञ्चन्नेत्रमचालयन् हस्तद्वयेनोत्तानेनैकग्रहणेनैवानिलाधिष्ठानभूतं किञ्चिदव- शेषयन् शनैः शनैरवेगमनुपीडयेत्|
अन्यथा हि व्यापदो भवन्ति|
ताः ससाधनाः सिद्धिषु वक्ष्यन्ते||२७||
पूर्वमेवेत्यादि सुबोधम्| पृष्ठवंशमनु पृष्ठवंशानुपूर्व्या नेत्रं प्रणयेत्| आतुरोऽपि तन्नेत्रमनुलोमयन् तस्य प्रवेशानुकूल्यं भजन्नवलम्बेत आसीत्| एकग्रहणेनैकमेकवारं गृहीतं यथोक्तविधि-विपर्ययेण ये व्याधयो भवन्ति ते सिद्धिषु वक्ष्यन्ते|| २७||
Adhikarana bastipIDanakAlaviShaye anyamatam (28) · Śloka 28
अन्ये तु त्रिंशन्मात्राः पीडनकालमाहुः||२८||
अन्ये पुनराचार्यास्त्रिंशन्मात्रा बस्तेः पीडनकालमाहुः| मात्रा च यावत् पचतीत्यादिवक्ष्यमाणलक्षणा|| २८||
Adhikarana bastidAnasamaye AtureNa parihAryANi (29) · Śloka 29
न च बस्तौ दीयमाने क्षवकासहासजृम्भास्पन्दनान्या- चरेत्||२९||
सुबोधम्|| २९||
Adhikarana Aturasya viNmUtrAnilavege vidhAnam (30) · Śloka 1
विण्मूत्रानिलवेगे तु नेत्रमाकृष्य वेगान्ते शेषं प्रणयेत्||१||
यदा तु बस्तौ दीयमाने विणंउत्रानिलानामागमो मध्ये भवति तदा तमुत्सृज्य तत्कालं पुनः शेषं देयम्|| ३०||
Adhikarana bastidAnAnantarIyo vidhiH (31) · Śloka 31
अन्ते चोत्तानस्य स्फिजौ पाणितलेन त्रिचतुरो वारांस्ता- डयेत्|
तथा तत्पार्ष्णिभ्याम्|
पादतश्च शय्यां त्रिरुत्क्षिपेत्|
सोपधानस्य च प्रसारितसर्वाङ्गस्य पार्ष्णिके मुष्टिना हन्यात्|
तथा पार्ष्ण्यङ्गुलिपादतलपिण्डिकाः|
सरुजं चाङ्गं स्नेहेन प्रतिलोमं वाक्शतमात्रं शनैर्विमृद्नीयात्|
एवमाशु स्नेहो न निवर्तते|
समनुगच्छति चासमन्ता- त्सिराः|
ततः परं तु स्नेहोक्तमाचारमनुवर्तते||३१||
सरुजमङ्गं स्नेहेन विमृद्नीयादिति सम्बन्धः| न निवर्तेते न प्रत्यागच्छति गुदम्|| ३१||
Adhikarana anuvAsitasya BojananiyamAdi (32) · Śloka 32
दीप्ताग्निञ्च सायं लग़्वन्नं भोजयेत्|
नैव चानागत- स्नेहमपि द्वितीयेऽहनि|
न च तमनुवासयेत्||३२||
दीप्ताग्निं सायं भोजयेत्| अदीप्ताग्निं द्वितीयेऽहनि अनागतस्नेहमास्नेहपरिणामान्न भोजयेत्| तं चानागतस्नेहं द्वितीयेऽहनि नानुवासयेत्|| ३२||
Adhikarana anuvAsanauShadhapratyAgamanakAlAvidhiH anivRuttau pratIkArAdi (7) · Śloka 7
आगमनकालस्तु परो यामत्रयम्|
ततः परमनागच्छन्त- महोरात्रमुपेक्षेत|
तदाप्यनिवर्तमाने फलवर्तीभिर्लवणा- रनालप्रायैर्वा तीक्ष्णबस्तिभिः शोधयेत्|
स्नेहव्याप- त्सिद्धिं चावेक्षेत|
अतिरौक्ष्यादनागच्छन्न चेज्जाड्या- द्युपद्रवाय स्यात्, तथाप्युपेक्ष्यः|
शीग़्रनिवृत्ते तु विना मलेन केवले स्नेहे स्नेहमन्यंपुनर्योजयेत्|
न ह्यसावतिष्ठन् कार्यकरो भवति||७||
Adhikarana anuvAsitasya paradine kvAthauShadhAdi (33) · Śloka 33
सुख़ोषितं चैनं तथाकृतवमनविरेचनास्थापनान्यतमं प्रातः शुण्ठीधान्यक्वाथमितरच्चोष्णोदकं वा स्नेहशेषजरणाय वातकफोपशान्तये च पाययेत्||३३||
तदाप्यनिवर्त्तमानं फलवर्त्त्यादिभिः शोधयेत्|| ३३||
Adhikarana punaranuvAsanam (34) · Śloka 34
ततोऽन्नकाले यथोक्तमन्नमश्नीयात्|
न चानुवासितं पेयां पाययेत्|
सा हि सस्नेहकोष्ठमभिष्यन्दयति|
पुनश्च तृतीयेऽहन्यनुवासयेत् पञ्चमे वा|
यथा वा स्नेहपक्तिः स्यात्|
अतश्च दीप्ताग्निरूक्षवातोबणव्यायामनित्यान् प्रत्यहम्|
एवममुना क्रमेण दोषाद्यनुसारतिस्त्रिचतुरैः स्नेहबस्तिभिरुपस्निग्धं शोधनेनास्थापनेन स्रोतोविशु- द्ध्यर्थमास्थापयेत्|
वाताधिक्यादस्निग्धन्तु स्नेहनेन||३४||
ततोऽन्नकाल इत्यादि स्नेहपक्तिः स्यादित्येवमन्तं सुबोधम्| अतश्चेति यतः स्नेहपाकपरतन्त्रमनुवासनविधानम्| अतो दीप्ताग्नित्वादियुक्तं प्रत्यहमनुवासयेत्| एवमित्यादि सुबोधम्|| ३४||
Adhikarana anuvAsitasyAsthApanAtprAkkRutyam (35) · Śloka 35
अथैनं तृतीये पञ्चमे वाहनि किञ्चिदावृत्ते मध्याह्ने कृत- मङ्गलस्वस्त्ययनमभ्यक्तदेहं स्वेदितमुत्सृष्टमलमनाशितं नातिक्षुधितमवेक्ष्यातुरमार्यावलोकितं नाथमार्यतारामा- त्मभुवं धातारमश्विनाविन्द्रमात्रेयं सप्तर्षीन् काशिराजं विदेहपतिप्रभृतीनग्निवेशादींश्च तन्त्रकारान् दीपगन्ध- फलबलिधूर्पैर्यज्ञ इव प्रकल्पितभागान् कृत्वौषधीर्वृद्ध- वैद्यद्विजातींश्च सम्पूज्य तद्विद्यसहितो दोषौषधादिबलेन यथार्हमुपकल्पयेद्बस्तिम्||३५||
अथानुवासनेन स्निग्धं सन्तं तृतीये पञ्चमे वाऽहन्यास्थापयेदिति सम्बन्धः| सुबोधमन्यत्|| ३५||
Adhikarana AsthApanauShadhakalpanA (36) · Śloka 36
तत्र विंशतिमात्राणि पलान्यौषधानां मदनफलाष्टकं च क्वाथकल्पेन विपचेत्|
क्वाथाच्चतुर्थाशं स्नेहमनिले षष्ठांशं पित्ते स्वस्थवृत्ते चाष्टमांशं तु कफे|
सर्वस्य चाष्टमांशं कल्कस्य स्याद्यावता नात्यच्छसान्द्रता भवेत्|
गुडस्य पत्नं युक्त्या मधुसैन्धवे यथायोग्यं च शेषाणि कल्पयेत्||३६||
तत्रौषधपलानि विंशतिमात्राणि पानीयपलशतानि त्रीणि षट्त्रिंशदधिकानि प्रक्षिप्य मदनफलाष्टकं च गणनया क्वाथयेत्| क्वथितशिष्टानि चतुरशीतिपलान्यवतारयेद् इति क्वाथकल्पः| यदा ह्यनिलेऽधिके बस्तिः प्रकल्प्यते तदा क्वाथाच्चतुर्भागं एकविंशतिपलानि तत्र क्वाथे स्नेहस्य क्षिपेत्| यदा पित्तेऽधिके स्वस्थवृत्ते वा बस्तिः तदा चतुर्दशपलानि क्वाथात् षष्ठांशं स्नेहस्य क्वाथे क्षिपेत्| यदा कफेऽधिके बस्तिस्तदा क्वाथादष्टमांशं सार्धानि दशपलानि स्नेहस्य क्वाथे क्षिपेत्| सर्वत्र वाते पित्ते श्लेष्मणि स्वस्थवृत्ते च क्वाथादष्टमांशमर्धैकादशानि पलानि कल्कस्य क्वाथे क्षिपेत्| अथवा यावत्प्रमाणेन कल्केन बस्तेरच्छाता सान्द्रता च न भवति तावन्तं कल्कं क्षिपेत्| क्वाथो गुडस्य च पलं क्षिपेत्| मधु माक्षिकं सैन्धवं च युक्त्या दोषाड्यपेक्षया| यथायोगं दोषाद्यपेक्षयैव शेषाणि मूत्रमद्यारनालादीनि क्वाथे क्षिपेदिति| विंशतिमात्राणीति मात्राग्रहणमौषधानं मात्राया अनियमप्रदर्शनार्थम्| केवलं क्वाथकल्पविहितात् क्वाथच्चतुर्थादिभागेषु स्नेहस्य नियमस्ततः|| ३६||
Adhikarana AsthApanauShadhasya saMskAraH praNayana~jca (37) · Śloka 37
सर्वाणि चैकध्यमुष्णोदककुम्भबाष्पाभितप्तानि ख़ज- मथितानि बस्तौ प्रक्षिप्यानुवासनवन्निरूहं प्रणयेत्|
नात्यु- ष्णशीतं नातिमृदुतीक्ष्णं नातिस्निग्धरूक्षं नातितनुसान्द्रं न हीनातिमात्रं नलवणतिलवणं नात्यम्लञ्च|
तत्र बाष्प- मात्रानुतापादौषधस्य विदाहो न भवति|
ख़जप्रमथनात्तु क्वाथस्नेहादयः सम्यक् सम्प्रयुक्ताः सम्यगेव योगमार- भन्ते|
अन्यथा पुनः क्वाथादीनामुल्बणोऽन्यतमोऽन्य- तमं यथास्वं दोषमीरयेत्|
अत्युष्णादीनान्तु पृथग्व्यापदः साधनानि च सिद्धिषूत्तरकालमुपदेक्ष्यन्ते||३७||
सवमैकध्यं योजयेत् कुम्भीतप्ता प्रदेयौषधमात्रा बस्तौ प्रक्षेप्या| सुबोधमन्यत्|| ३७||
Adhikarana vaikalyAdiBirjAyamAnAH doShAH (6) · Śloka 6
अपि च- तिर्यक्प्रणीते हि न याति धारा गुदे व्रणः स्याच्चलिते च नेत्रे|
दत्तः शनैर्नाशयमेति बस्तिः कण्ठं प्रधावेदतिपीडितस्तु|
स्तम्भं विधत्तेऽतिमृदुर्हिमश्च तप्ताम्लतीक्ष्णो भ्रमदाहमोहान्|
स्निग्धोऽतिजाड्यं पवनन्तु रूक्ष- स्तन्वल्पमात्रा लवणस्त्वयोगम्|
करोति मात्राभ्यधिकोऽतियोगं क्षोभं तु सान्द्रः सुचिरेण चैति|
दाहातिसारौ लवणोऽति कुर्यात् तस्मात्सुयुक्तं सममेव दद्यात्||६||
Adhikarana AsthApanadravyamAtrAviShaye anyamatam (38) · Śloka 38
अन्ये पुनराहुः- मात्रां त्रिपलिकां कुर्यात् स्नेहमाक्षिकयोः पृथक्|
कर्षार्धं माणिमन्थस्य स्वस्थे कल्कपलद्वयम्|
सर्वद्रवाणां शेषाणां पलानि दश कल्पयेत्||३८||
अन्ये पुनराचार्या बस्तेर्योजनमात्रामन्यथैवाहुः| कथमित्याह-मात्रामित्यादि| स्नेहपलानि त्रीणि माक्षिकपलानि माणिमन्थस्य सैन्धवस्यार्धकर्षः| कल्कस्य पलद्वयं शेषाणां क्वाथादीनां त्रयाणां दश पलानि| एवमेते ह्यष्टादशैव पलानि बस्तेर्मानमिच्छन्ति| एतेषामेव च मतमस्मिन्नेवाध्याये नवप्रसृतानाहुरित्युक्तम्|| ३८||
Adhikarana nirUhadravyANAM saMyojanavidhiH (39) · Śloka 39
माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात्|
आवपेत निरूहाणामेष संयोजने विधिः||३९||
माक्षीकादीनामावपने क्रमोऽयं विधेयः|| ३९||
Adhikarana nirUhadAnottaraM rogiNaH kRutyam (40) · Śloka 40
दत्तमात्रे तूत्तानः सोपधानो निरूहवीर्येण देहव्याप्तये तन्मनास्थिष्ठेत्|
उदीर्णवेगश्चोत्कुटिको विसृजेत्||४०||
दत्तमात्र इत्यादि व्याख़्यासमम्|| ४०||
Adhikarana nirUhapratyAgamanakAlaH anAgame pratIkArashca (5) · Śloka 5
आगमनकालस्तु परो मुहूर्तः|
तदा ह्यनागच्छन्नाशु मृत्यवे स्यात्|
अतस्तत्रानुलोमिकं स्नेहक्षारमूत्राम्लस्निग्धती- क्ष्णोष्णमन्यं प्रयोजयेत्|
फलवर्तिस्वेदभयोत्त्रासादींश्च|
बस्तिव्यापत्सिद्धिं चावेक्षेत||५||
Adhikarana punarnirUhAH (41) · Śloka 41
स्वयं निवृत्ते तु पूर्ववद् द्वितीयं तृतीयं चतुर्थं च दद्याद्या- वद्वा सुनिरूढः स्यात्||४१||
स्वयंग्रहणं यत्राप्रवर्त्तमानं यत्नेनानीतं तत्र तदहः पुनः प्रयोगप्रतिषेधार्थम्| प्रथमे बस्तावागते द्वितीयो देयः| द्वितीये तृतीयः| तृतीये आगते चतुर्थः| यावद्वा सम्यङ्निरूढलक्षणानि वक्ष्यमाणान्युत्पन्नानि| तेन कदाचिदेकः| कदाचिद् बहवोऽपि|| ४१||
Adhikarana prathamadvitIyatRutIyanirUDhAnAM krameNa vAtAdinirharatvam (42) · Śloka 42
तत्राद्योऽनिलं स्वमार्गादपकर्षति|
द्वितीयः पित्तम्|
तृतीयः श्लेष्माणमिति||४२||
तत्र बस्तिषु मध्ये य आद्यो बस्तिः स वातमेव सुतरामपकर्षति तस्यापकृष्टत्वात्| द्वितीयः पित्तजयाय कल्पते| ततोऽवशिष्टं श्लेष्माणं तृतीयो नाशयति| यत्र च दोषा एवं नापकृष्टाः संयोगादिवशात् तत्र चतुर्थादीनां विषयः|| ४२||
Adhikarana nirUhahInayogAdilakShaNAni (43) · Śloka 43
तस्य हीनसम्यगतियोगास्तु विरिक्तवत्||४३||
तस्य चास्थापनस्य हीनसम्यग्योगादिलक्षणं विरिक्तवज्ज्ञेयम्| विरेचने तु कुक्ष्यशुद्धीत्याद्युक्तम्|| ४३||
Adhikarana samya~gnirUDhasyopacAraH (44) · Śloka 44
सम्यङ्निरूढन्तु कोष्णसलिलावसिक्तं तनुना जाङ्ग- लरसेन भोजयेत्|
स्नाताशितस्यास्य चला दोषशेषाः स्वस्थानमाश्रयन्ते||४४||
चलानां दोषाणां शेषाः स्नात्वा भुक्तवतः स्वस्थानमायान्ति|
Adhikarana AsthApanAntaraM punaranuvAsanaM tasya vidhishca (45) · Śloka 45
ततः पुनर्वातार्तमातुरं बृंहणीयमन्यं वा तद्विधमशिता- नन्तरं सायं वा पुनरल्पलग़्वशितं यथास्वम-निलादिषु दशमूलादिसिद्धेन तैलेन अनुवासयेत्|
तस्य हीनसम्य- गतियोगास्तु स्नेहपीतवत्|
विशेषस्तु सम्यगनुवासिते किञ्चित्कालं स्थित्वा स्नेहः सपुरीषोऽनिलानुगतः प्रव- र्तत एव||४५||
ततो वातार्तामातुरं द्विविधोपक्रमोक्तप्रकारेण बृंहणीयं सन्तमन्यं वा तत्प्रकारमास्थापितं पुनरनुवासयेत्| केनानूवासयेदित्याह-वातादिषु दशमूलादिसिद्धेन तैलेन| आदिग्रहणेन पित्ते न्यग्रोधादिपद्मकादीनां कफे वत्सकादीनां च परिग्रहः| तस्य चानुवासनस्य सम्यग्योगादयः स्नेहपीतवद्विज्ञेयाः| स्नेहसम्यग्योगादनुवासनसम्यग्योगे इयान् विशेषः| यः स्नेहः किञ्चित्कालं स्थित्वा पुरीषेणानिलेन चानुगतः प्रवर्तते बहिः|| ४५||
Adhikarana doShaBedAnusAraM tattadAvRutti- pUrtAvAsthApanavidhishca (46) · Śloka 46
भवति चात्र- एवं कफे स्नेहबस्तिमेकं त्रीन् वा प्रयोजयेत्|
पञ्च वा सप्त वा पित्ते नवैकादश वाऽनिले|
पुनस्ततोऽप्ययुग्मांस्तु पुनरास्थापनां ततः||४६||
भवति चात्रेति तन्त्ररीतिः| एवमित्यादि सुबोधम्| एकेन त्रिभिर्वा स्नेहबस्तिभिः कफे प्रधाने सम्यग्योगलिङ्गे चानुत्पत्रे पुनरपि बस्तीन् प्रकल्पयेत्| अयुग्मानिति सर्वत्र सम्बध्यते| वाते पित्ते कफं च यथोक्तादधिकानपि एवमेव| तत्र द्वितीयचतुर्थष्ष्ठाष्टमादयो युग्माः| तृतीयपञ्चमसप्तमादयोऽयुग्मा| ततः सम्यक् स्निग्ध आस्थापनम्|| ४६||
Adhikarana doShaBedAnusAramannasahayogidravaBedaH (47) · Śloka 47
कफपित्तानिलेष्वपन्नं यूषक्षीररसैः क्रमात्||४७||
सुबोधम्|| ४७||
Adhikarana vAtAdiBedena nirUhayogaBedA- steShAM saMKyA ca (48) · Śloka 48
वातग़्नौषधनिष्क्वाथत्रिवृत्तासैन्धवैर्युतः|
बस्तिरेकोऽनिले स्निग्धः स्वाद्वल्मोष्णरसान्वितः|
न्यग्रोधादिगणक्वाथपद्मकादिसितायुतौ|
पित्ते स्वादुहिमौ साज्यक्षीरेक्षुरसमाक्षिकौ|
आरग्वधादिनिष्क्वाथवत्सकादियुतास्त्रयः|
रूक्षाः सक्षौद्रगोमुत्रास्तीक्ष्णोष्णकटुकाः कफे|
त्रयश्च सन्निपातेऽपि दोषाण् ग़्नन्ति यतः क्रमात्||४८||
यद्यपि बस्तिर्वाते वातप्रधानेषु च दोषेषूक्तस्तथापि पित्तश्लेष्मविनाशनशक्तिर्विद्यत एव| तत्र यदा स्वधाम्न्येव केवलो वायुः कुपितस्तदा वातग़्नौषधादियुत एक एव बस्तिर्योज्यः| यदा तु वाताशये पित्तजयाय वातपारतन्त्र्याद्बस्तेः प्रयोगोऽभिमतस्तदा न्यग्रोधादिगणक्वाथादियुतौ द्वौ बस्ती योज्यौ| अत्र च प्रथमस्य स्वभावात् पित्तहरस्यापि वातजये चरितार्थत्वाद् द्वितीयस्यावश्यं प्रयोगः| एवं कफेऽपि वाताशयस्थे वाच्यम्| यदा तु त्रयोऽपि दोषाः समं कुपिता बस्तिविषयत्वं यातास्तदा तेषामौषधैः क्रमेण त्रय एव बस्तयः| यतः पूर्वेण प्रकारेण क्रमाद्दोषान् हन्ति|| ४८||
Adhikarana nirUhabastisa~gKyAyAmAcArya- carakasya sammatiH (49) · Śloka 49
नाचार्यचरकस्यातो बस्तिस्त्रिभ्यः परं मतः|
न हि दोषश्चतुर्थोऽस्ति पुनर्दीयेत यं प्रति||४९||
एवं दोषक्रमेणैव चरकाचार्यो बस्तित्रयमेवेच्छति|| ४९||
Adhikarana anyamatena bastestraividhyam (50) · Śloka 50
उत्क्लेशनं शुद्धिकरं दोषाणां शमनं क्रमात्|
त्रिधैव कल्पयेद्बस्तिमित्यन्येऽपि प्रचक्षते||५०||
अन्ये पुनराचार्या दोषयौगपद्यहरणेऽप्युत्क्लेशनादिभेदेन बस्तित्रयमिच्छन्ति|| ५०||
Adhikarana nirUhabastisa~gKyA samyagyoganirBarA (51) · Śloka 51
दोषौषधादिबलतः सर्वमेतत् प्रमाणयेत्|
सम्यङ्निरूढलिङ्गन्तु नासम्भाव्य निवर्तयेत्||५१||
एतत्सर्वं मतत्रितयमपि दोषकलौषधादिबलेन प्रमाणयेत् समर्थयेदित्यर्थः| तत्र सङ्ख़्यानिरपेक्षा सम्यग्योगापेक्षा एकः पक्षः| दोषक्रमेण द्वितीयः पक्षः| उत्क्लेशनादिना तृतीयः| इदं तु शिष्यमोहोत्पत्तिभयान्न विकल्प्यतेऽस्माभिः| न च सम्यग्योगलक्षणान्यदृष्ट्वा बस्तिस्त्याज्यः|| ५१||
Adhikarana karma-kAla-yoga-bastividhiH (52) · Śloka 52
प्राक्स्नेह एकः पञ्चान्ते द्वादशास्थापनानि च|
सान्वासनानि कर्मैवं बस्तयस्त्रिंशदीरिताः|
कालः पञ्चशैकोऽत्र प्राक्स्नेहोऽन्ते त्रयस्तथा|
षट् पञ्च बस्त्यन्तरताः योगोऽष्टौ बस्तयोऽत्र तु|
त्रयो निरूहाः स्नेहाश्च स्नेहावाद्यन्तयोरुभौ||५२||
तस्य बस्तेस्त्रिविधः प्रयोगाः| एकः कर्मसंज्ञः, द्वितीयः कालसंज्ञः तृतीयो योगसंज्ञः| यदा तु बस्तिः प्रयुज्यते स्वस्थे सुदृढव्याधौ च तदावश्यमेतस्य त्रयस्यान्यतमेन योज्यः| यथेच्छं तु न| कर्म किमुच्यते? आह-त्रिंशद्बस्तयः कर्म| कथमित्याह-प्रागित्यादि| प्राक्प्रथममेकः स्नेहोऽनुवासनमिति यावत्| अन्ते च पञ्च स्नेहाः| षड्विंशसप्तविंशाष्टाविंशैकोनत्रिंशत्रिंशदाक्य़ाः| द्वादशास्थापनानि निरूहाः| द्वितीयचतुर्थषष्ठाष्टमदशद्वादशचतुर्दशषोडशाष्टादशविंशद्वाविंशचतुर्विंशसंज्ञानि| तथा द्वादशैवानुवासनानि तृतीयपञ्चमसप्तमनवमैकादशत्रयोदशपञ्चदशसप्तदशैकोनविंशैकविंशत्रयोविंशपञ्चविंशख़्यानि| इत्यनेन विधानेन त्रिंशद् बस्तयः कर्म| कालः किमुच्यत इत्याह-कालः पञ्चदश बस्तयः| कथमित्याह-अत्र प्राक् प्रथममेकः स्नेहबस्तिः, अन्ते च त्रयः स्नेहः| त्रयोदश चतुर्दश पञ्चदशाख़्याः| मध्ये च षट् स्नेहबस्तयः| द्वितीयचतुर्थषाष्ठाष्टमदशमद्वादशाख़्याः| किम्भूताः पञ्चभिर्बस्तिभिरास्थापनैस्तृतीयपञ्चमसप्तमनवमैकादशैरन्तरिता व्यवहिताः स्नेहा इति पञ्चदशबस्तयः कालः| योगः किमुच्यत इत्याह-योगोऽष्टौ बस्तयः| कथमित्याह-अत्र तु योगे आदावन्ते च उभौ प्रथमाष्टमाख़्यौ स्नेहौ| त्रयो निरूहाः द्वितीयचतुर्थषष्ठाख़्यास्त्रयः स्नेहास्तृतीय पञ्चमसप्तमाख़्याः इति योगः|| ५२||
Adhikarana snehabastinirUhayorekasyaiva nairantaryeNa prayoganiShedhastatra hetushca (53) · Śloka 53
स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्|
उत्क्लेशाग्निवधो स्नेहान्निरूहान्मरुतो भयम्|
तस्मान्निरूढः स्नेह्याः स्यान्निरूह्यश्चानुवासितः|
स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषजित्||५३||
स्नेहबस्तिं निरूहञ्च निरन्तरं नैकं शीलयेत् इत्याह| उत्क्लेशेत्यादि सुबोधम्|| ५३||
Adhikarana aShTAdashAShTAdashakabastisevanaPalam (54) · Śloka 54
अष्टादशाष्टदशकान् बस्तीनां यो निषेवते|
विधिना ना यथोक्तेन स भवेदजरोऽरुजः|
सहस्रायुः श्रुतधरो वीतपाप्मामरप्रभः|
वाजिस्यदो नागबलः स्थिरबुद्धीन्द्रियानलः||५४||
यो हि पुरुषो बस्तीनां सम्बन्धिनोऽष्टादशकान्यथोक्तेन कालकर्मयोगादिना विधिना निषेवते, सोऽजरादिगुणो भवति| कियतोऽष्टादशकानित्याह-अष्टादश| एवमष्टादशभिरष्टादशकैः बस्तीनां त्रीणि शतानि चतुर्विशत्यधिकानि भवन्ति| वाजिस्यदो योऽश्व इव स्त्रीषु स्रवति|| ५४||
Adhikarana uttarabastyupayogaH (2) · Śloka 2
बस्तौ रोगेषु नारीणां योनिगर्भाशयेषु च|
द्वित्रास्थापनशुद्धेभ्यो विदध्याद्बस्तिमुत्तरम्||२||
Adhikarana puruShANAmuttarabastinetrapramANAdi (55) · Śloka 55
आतुराङ्गुलमानेन तन्नेत्रं द्वादशाङ्गुलम्|
वृत्तं गोपुच्छवन्मूलमध्ययोः कृतकर्णिकम्|
सिद्धार्थकप्रवेशाग्रं श्लक्ष्णं हेमादिसम्भवम्|
कुन्दाश्वमारसुमनःपुष्पवृन्तोपमं दृढम्|
तस्य बस्तिर्मृदुलग़ुर्मात्रा शुक्तिर्विकल्प्य वा||५५||
बस्तौ रोगेषु इत्यादिनोत्तरबस्तिविधानम्| पुरुषस्य बस्तेः रोगेषु नारीणां योनिगर्भाशयेषु च रोगेषूत्तरबस्तिं दद्यात्| चशब्दाद्बस्तिजेष्वपि| किम्भूतेभ्य आतुरेभ्य आह-द्वाभ्यां त्रिभिर्वा पूर्वोक्तैरास्थापनैः शुद्धेभ्यः| सुबोधम्| तस्योत्तरबस्तेर्बस्तिद्रव्याधारो मृदुर्लग़ुश्च| तस्य च शुक्तिर्मात्रा| शुक्तिरर्धपलम्| अथवा दोषादीन् विकल्प्योत्तरबस्तेर्मात्रा योग्या विधेया भवति|| ५५||
Adhikarana puruShANAmuttarabastipraNayanavidhAnAdi (56) · Śloka 56
अथ स्नाताशितस्यास्य स्नेहबस्तिविधानतः|
ऋजोः सुख़ोपविष्टस्य पीठे जानुसमे मृदौ|
हृष्टे मेढ्रे स्थिते चर्ज्जु शनैः स्रोतोविशुद्धये|
मालतीपुष्पवृन्ताग्रपरिणाहां ग़नामृजुम्|
श्लक्ष्णां शलाकां प्रणयेत्तया शुद्धेऽनुसीवनीम्|
आमेहनान्तं नेत्रं च निष्कम्पं गुदवत्ततः|
पीडितेऽनुगते स्नेहे स्नेहबस्तिक्रमो हितः|
बस्तीननेन विधिना दद्यात् त्रींश्चतुरोऽपि वा|
अनुवासनवच्छेषं सर्वमेवास्य चिन्तयेत्||५६||
अथेत्यादि| अस्य चातुरस्य मेढ्रे स्रोतोविशुद्ध्यर्थं प्रथमं शलाकां प्रणयेत्| सीवनी स्पष्टतया यावन्मेहनान्तमतोऽनुनेत्रं प्रणयेत् गुदवत्| किम्भूतां शलाकामित्याह-मालतीत्यादि| मालतीपुष्पवृन्तसमः परिणाहो यस्याः सा तथोक्ता| स्नेहबस्तिक्रमोऽनुवासनविधिः| उत्तरबस्तावनुवासनवत् सर्वं भोजनाचारादिकर्म कार्यम्|| ५६||
Adhikarana strINAM yoniviBraMshAdiShUttara- bastidAnakAlaH (57) · Śloka 57
स्त्रीणामार्तवकाले तु योनिर्गृह्णात्यपावृतैः|
विदधीत तदा तस्मादनृतावपि चात्यये|
योनिविभ्रंशशूलेषु योनिव्यापद्यसृग्दरे||५७||
स्त्रीनामार्तवकाले योनिरपावृता विवृतमुख़ा भवति| अतस्तासु तत्कालमुत्तरबस्तिं दद्यात्| इति स्वस्थवृत्तम्| आत्ययिके तु व्याधावनृतावपि देय इत्यर्थः|| ५७||
Adhikarana strINAmuttarabastinetrapramANAdi (58) · Śloka 58
नेत्रं दशाङ्गुलं मुद्गप्रवेशं चतुरङ्गुलम्|
अपत्यमार्गे योज्यं स्याद् द्व्यङ्गुलं मूत्रवर्त्मनि|
मूत्रकृच्छ्रविकारेषु बालानां त्वेकमङ्गुलम्|
प्रकुञ्चो मध्यमा मात्रा बालानां शुक्तिरेव तु||५८||
स्त्रीणाञ्च नेत्रं स्वप्रमाणेन दशाङ्गुलं कार्यम्| अग्रे मुद्गप्रवेशच्छिद्रं गोपुच्छाकृतीति सर्वत्र| तस्यां च योनौ द्वौ मार्गौ| एको गर्भमाऱ्गः, द्वितीयो मूत्रमार्ग| तत्र गर्भमार्गे गर्भव्यापत्सु नेत्राग्रं चतुरङ्गुलं योनौ योजयेत्| मूत्रमार्गे मूत्रविकारेषु द्व्यङ्गुलाग्रम्| बालासु त्वेकाङ्गुलमग्रम्| स्त्रीणामुत्तरबस्तेर्मध्यमा मात्रा प्रकुञ्चः पलम्| बालानां त्वर्धमेव|| ५८||
Adhikarana strINAmuttarabastidAnavidhiH bastyAvarttanakramashca (59) · Śloka 59
उत्तानायः शयानायाः सम्यक्सङ्कोच्य सक्थिनी|
ऊर्ध्वजान्वास्त्रिचतुरानहोरात्रेण योजयेत्|
बस्तीस्त्रिरात्रमेवं तु स्नेहमात्रां विवर्धयेत्|
त्र्यहमेवं च विश्रम्य प्रणिदध्यात्पुनस्त्र्यहम्||५९||
उत्तानाया इत्यादि| तस्याः स्त्रिया अहोरात्रेण त्रिचतुरानुत्तरबस्तीन् योजयेत्| एवं द्वितीयतृतीयक्रमेण यथास्वं प्रत्यहं स्नेहमात्रां वर्धयेत्| ततस्त्र्यहं विश्रम्य पुनरनेनैव विधानेन त्र्यहं दद्यात्|| ५९||
Adhikarana vamanAdInAmantaram (60) · Śloka 60
पक्षाद्विरेको वमिते ततः पक्षान्निरूहणम्|
सद्यो निरूढश्चान्वास्यः सप्तरात्राद्विरेचितः||६०||
उपसंहरन्नाह-पक्षादित्यादि| वमिते पक्षे गते विरेको देयः| विरेकात् निरूहः पक्षेण निरूढश्च सद्य एवानुवास्यः| विरेचनाच्च सप्तरात्रेणैवानुवास्यः| विरेकनिरूहयोर्मध्येऽनुवास्य इत्यर्थः|| ६०||
Adhikarana bastinA malamAtranirharaNe dRuShTAntaH (61-62) · Śloka 62
यथा कुसुम्भादियुतात्तोयाद्रागं हरेत् पटः|
तथा द्रवीकृताद् देहाद्बस्तिर्निर्हरते मलान्||६१||
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने बस्तिविधिर्नामाष्टाविंशोऽध्यायः||६२||
विरेचननिरूहयोर्मध्येऽनुवासनस्य किं प्रयोजनमित्याह- यथा कुसुम्भादिमिश्रात्तोयात् पटो रागं गृह्णाति जलं च त्यजति, तद्वद् देहाद्बस्तिः स्नेहादिद्रवीकृतान् मलान् दुष्टान् दोषान् हरत्यदुष्टान् देह एव योजयतीति|| ६१|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थानेऽष्टाविंशोऽध्यायः