Adhikarana atha vamanavirecanavidhirnAma saptaviMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातो वमनविरेचनविधिं नामाध्यायं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
पूर्वोऽध्यायो दोषाः शुद्धिभिर्निर्ह्नियन्त इत्युक्तम्| इदानीं तासां वमनविरेचनबस्त्यादिसंज्ञितानां निर्देशः क्रियते| तत्र वमनविरेचनयोरेकरूपत्वाद्दोषसंस्थानक्रमेणैकेनैवाध्यायेन निर्णयः क्रियते आथत इत्यादि|| १||
Adhikarana vamanavirecanapariBAShA (2) · Śloka 2
दोषहरणमूर्ध्वभागं वमनाख़्यम्|
अधोभागं विरेच- नाख़्यम्|
उभयं वा मलविरेचनाद्विरेचनमित्युच्यते||२||
तत्रोर्ध्वभागं यदेतद्दोषहरणं शरीरपूर्वभागे प्राधान्येन दोषनिर्हरणं मुख़ेन तद्वमनशब्दवाच्यम्| द्रव्ये वमनकारणे कार्योपचारात्| एवं यदधोभागमपरकायिकदोषनिर्हरणं गुदेन तद्विरेचनाख़्यम्| अथवोभयमपि वमनं विरेचनं मलरेचनाद्दोषनिर्हरणाद्धेतोर्विरेचनमित्युच्यतेऽस्मिञ्छास्त्रे|| २||
Adhikarana vamanavirecanobhayatoharauShadhAnAM kArmukatve yuktiH (3) · Śloka 3
तत्रोष्णतीक्ष्णसूक्ष्मव्यवायिविकाषीण्यौषधानि स्ववीर्येण हृदयमुपेत्य सौक्ष्म्याद् व्यवायित्वाच्च धमनीरनुसृत्य स्नेहेन मृदूकृत्यान्तःशरीरे स्वेदोष्मणाऽऽर्द्रदारुवद्विष्यण्णे स्थूलाणुस्रोतोभ्यः सकलमपि दोषसङ्ग़ातमौष्ण्यात्पुन- र्विष्यन्दयन्ति|
तैक्ष्ण्याद्विकाषित्वाच्च विच्छिन्दयन्ति|
स विष्यण्णविच्छिन्नो दोषसङ्ग़ातः पारिप्लवः स्नेहाक्त- भाजनस्थ इवोदकाञ्जलिरसज्जन्ननुप्रसरणभावादामा- शयमनुगम्योदानप्रणुन्नोऽग्निवाय्वात्मकत्वादुर्ध्वभाग- प्रभावाच्चौषधस्योर्ध्वं प्रवर्तते|
सलिलपृथिव्यात्मक- त्वादधोभागप्रभावाच्च औषधस्याधः|
उभयतश्चोभय- गुणात्मकत्वादुभयभागप्रभावाच्च||३||
कथं हि कोष्ठस्थो दोष ऊर्ध्वं प्रपद्यते कथं वाऽधो यातीत्याह-तत्रेत्यादि| तत्रेति निर्धारणे| उष्णत्वादिगुणयुक्तान्यौषधानि सकलं दोषसङ्ग़ातं विष्यन्दयन्ति विच्छिन्दयन्ति| स विष्यण्णो विच्छिन्नो दोषसङ्ग़ात ऊर्ध्वं प्रपद्य इति सम्बन्धः| कथं दोषसङ्ग़ातं विष्यन्दयन्ति विच्छिन्दयति वेत्याह-स्वविर्येण स्वशक्त्या हृदयमुपेत्य प्राप्यातिसौक्ष्म्यात् सूक्ष्मस्रोतःप्रवेशित्वात् व्याप्तिशीलत्वाच्च हेतोर्धमनीःस्रोतांस्यनुसृत्य शरीरेऽन्तःस्नेहेन मृदूकृते सति ततः स्वेदोष्मणा आर्द्रदारुवद्विष्यण्णे सस्रावे शरीरे सति तान्यौषधान्यौष्ण्याद्धेतोस्तेभ्यः स्थूलेभ्योऽणुभ्यश्च स्रोतेभ्यो दोषसङ्ग़ातं विष्यन्दयति महानिन्मे स्रावयन्ति| तैक्ष्ण्याद्विकाषित्वाच्च हेतोस्तं दोषस~ग़्ग़ातं विच्छिन्दयन्ति विगतसंहितं कुर्वन्ति| केन प्रकारेण ऊर्ध्वं प्रवर्तत इत्याह-सविष्यण्णविच्छिन्न इत्यादि| स दोषसङ्ग़ातो विष्यण्णविच्छिन्नः सन् पारिप्लवः परिप्लवनरूपः| यथा स्नेहाभ्यक्ते भाजने उदकाञ्जलिरसञ्जन् न कुत्रचित्सङ्गं प्राप्नुवन्| अनुप्रसरणभावादामाशयमागम्यौषधस्याग्निवाय्वात्मकत्वादूर्ध्वभागदोषापनयनप्रभावाच्च उदानप्रणुन्न उदानप्रेरितः ऊर्ध्वं मुख़ेन प्रतिपद्यत इति| एवमौषधस्य सलिलाद्यात्मकत्वादधोभागप्रभावच्च सकलस्रोतोभ्यो दोषसङ्ग़ातोऽधः प्रतिपद्यत इति सम्बन्धः| औषधस्योभययुणात्मकत्वादौष्ण्यतैक्ष्ण्यादितः सलिलात्मकत्वादितश्चोभयत ऊर्ध्वमधश्च युगपद्दोषस~ग़्ग़ातः प्रतिपद्यत इति सम्बन्धः|| ३||
Adhikarana vamanavirecanaviShayaviBAgaH (4) · Śloka 4
तत्रोत्कृष्टे श्लेष्मणि पित्तसंसृष्टे वा तत्स्थानगते वा पित्तेऽनिले वा श्लेष्मोत्तरे वमनमाचरेत्|
पित्ते तु विरेकं श्लेष्मसंसृष्टे वा तत्स्थानगते वा श्लेष्मणीति||४||
अथास्मिन् व्याधौ देशे वा वमनविरेचनमाचरेत्| अस्मिन्नेति प्रदर्शनार्थमाह-तत्रेत्यादि| तत्र केवले कफे स्वस्थानस्थे बृद्धे वमनमाचरेत्| तथा श्लेष्मणि स्तोकेन पित्तेन संसृष्टे वमनमेव| तथा तस्य श्लेष्मणः स्थानं गते पित्ते अनिले वा श्लेष्मोत्तरे सति वमनमाचरेत्| एवं केवले पित्ते विरेचनमाचरेत्| स्तोकेन श्लेष्मणा संसृष्टे पित्ते विरेचनमेव| तथा पित्तस्थानगते श्लेष्मणि प्रभूतपित्ते विरेचनमेव| कफस्थानगते वा प्रभूते पित्ते इति|| ४||
Adhikarana vamanasAdhyAH vikArAH (5) · Śloka 5
तत्र वमनसाध्या विषपीतदष्टदिग्धविद्धविरुद्धाजीर्णा- न्ननवज्वरराजयक्ष्मातिसाराधोरक्तपित्तविशूचिकालस- काविपाकारोचकापचिग्रन्थ्यर्बुदश्लीपदमेदोगदगरो- न्मादापस्मारश्वासकासहृल्लासे वीसर्पप्रमेहकुष्ठपाण्डु- वर्त्ममुख़ग़्राणकपालरोगकर्णरोधशोफस्तन्यदोषादयो दोषभेदीयोक्ताश्च श्लेष्मव्याधयो विशेषेण एते हि परं वमनेन नाशमुपयान्ति|
सलिलापगमनेनानिष्पन्नशा- ल्यादिवत्||५||
तत्र विषपीतादयो दोषभेदीयोक्ताश्च ये श्लेष्मव्याधयस्ते सर्वे वमनसाध्याः| यद्यपि सकलदेहदोषापनयनात्सकलरोगपथ्यत्वं वमनस्य| तथाऽप्येते यथोद्दिष्टा रोगा विशेषेणात्यन्तिकं नाशमुपयान्ति| यथा निष्पन्ना अर्धपक्वाः शाल्यादयः केदारात्सलिलापगमनेनाश्वेव नश्यन्ति तद्वदेतेऽपि दोषहरणेन| विषपीतो येन स्वरूपेणैव विषं पीतम्| दष्टः सर्पादिना| दिग्धविद्धो विषेप-लिप्तसायकाद्याहतः| मेदोगदाः सर्वे मेदोहेतुका विकाराः| रोगशब्दस्य पाण्ड्वादिभिः सम्बन्धः| स्तन्यदोषा बालामयोक्ताः| आदिग्रहणेनान्येषां श्लेष्मजानां ग्रहणम्| शालिदृष्टान्तः एतेषां रोगाणामभिनवानां वमनयोग्यताप्रदर्शनार्थम्|| ५||
Adhikarana avamyAstatra kAraNAni ca (6) · Śloka 6
अवाम्यास्तु गर्भिणीसुकुमारान्यकार्यव्यग्ररूक्षरूक्षाश- नप्रायातिदीप्ताग्निभाराध्वकर्मनित्यक्लान्तक्षतक्षीणाति- स्थूलकृशवृद्धबालदुर्बलश्रमभयशोकक्रोधमदमूर्च्छा- क्षुत्पिपासार्त्तोपवासव्यवायव्यायामाध्ययनचिन्ताप्रसक्त- च्छर्दिरूर्ध्वरक्तपित्तवातास्थापितानुवासितसंवृतकोष्ठ- दुश्छर्दितहृद्रोगोदावर्तमूत्राग़ातगुल्मप्लीहोदराष्ठीलार्शः- स्वरोपग़ाततिमिरभ्रमानिलार्तार्दिताक्षेपकाक्षिशिरः शङ्ख़- कर्णपार्श्वशूलिनोऽनास्थापितश्च कृमिणकोष्ठ इति|
अन्यत्रामगरविषविरुद्धाभ्यवहारेभ्यः शीग़्रकारित्वादे- षाम्|
तत्र गर्भिण्या गर्भव्यापदामगर्भभ्रंशाच्च दारुण- रोगप्राप्तिः स्यात्|
सुकुमारस्य हृदयविकर्षणादूर्ध्वमधो वा रुधिरप्रवृत्तिः|
अन्यकार्यव्यग्रस्यौषधं न प्रवर्तते|
कृच्छ्रेण वा प्रवर्तमानमयोऽङ्गदोषान् कुर्यात्|
रूक्षस्य वायुरङ्गग्रहणम्|
रूक्षाशनप्रायस्य वायुना क्षपितदेहत्वाद् बलक्षयः स्यात्|
तथाऽतिदीप्ताग्नेरग्निबलेन भाराध्व- कर्मनित्यानक्लान्तानां चायासेन क्षतस्य भूयःक्षण- नाद्रक्तातिप्रवृत्तिः|
क्षीणादीनामौषधबलाक्षमत्वाद्देह बलोपरोधोऽन्तः क्षतभयञ्च|
प्रसक्तच्छर्द्यूर्ध्वरक्तपित्तयो- रुदान उत्क्षिप्य प्राणान् हरेद्रक्तं चातिप्रवर्तयेत्|
ऊर्ध्व- वातास्थापितानुवासितानामूर्ध्वं वातादिप्रवृत्तिः|
संवृत- कोष्ठस्य दुश्छर्दितस्य वातिमात्रप्रवाहणादन्तःकोष्ठे समु-त्क्लिष्टैर्दोषैर्विसर्पस्तम्भजाड्यवैचित्यानि मरणं वा|
हृद्रोगिणो हृदयोपरोधः|
उदावर्तादिभिरर्तानामर्दिता- दिभिश्च यथायथमामयप्रवृद्धिर्मरणं वा|
कृमिण कोष्ठ- स्यास्थापनेनाधःपूर्वमनिर्हृतैः कृमिभिरतिबहुत्वाद- शोषानिस्सरणेन हृदयमतिकर्षद्भिश्छर्दिषोऽतिप्रवृत्तिः स्यात्||६||
गर्भिणीसुकुमारादयः कृमिणकोष्ठान्ता अवाम्याः वमने वर्जयितव्याः| अन्यत्रामादिभ्यः| तेनैतदुक्तं भवति-गर्भिण्यादीनामप्यामादिषु वमनं विधेयमेव यत एवमादयः शीग़्रकारिणः स्वं कर्म मारणाख़्यं शीग़्रं कुर्वन्ति| अतो गर्भिण्यादयोऽपि वाम्या एवैतेषु| अनास्थापितश्वासौ कृमिणकोष्ठस्तथोक्तः| सर्वस्यास्थापितस्य वमनं निषिद्धम्| कृमिणकोष्ठस्य त्वनास्थापितस्य| सुबोधमन्यत्|| ६||
Adhikarana garBiNyAdInAM niShedhAntarANi (7) · Śloka 7
गर्भिण्यादिचिन्ताप्रसक्तान्ताश्चात्र धूमान्तैः प्रायः सर्व- कर्मभिर्वक्ष्यमाणैः परिहर्तव्याः|
अजीर्णी तु सवैरेव च वमनवर्ज्जैरामदोषभयात्|
नवज्वरस्य दोषस्तम्भभया- दिति||७||
गर्भिण्यादयश्चिन्ताप्रसक्तान्ताः प्रायः सर्वैरेव धूमान्तैः कर्मभिर्वमनविरेचनास्थापनानुवासनशिरोविरेचनधूमैर्वर्ज्याः| अजीर्णौ तु सर्वैरेव वमनवर्ज्यैः| आमदोषभयात्| तथा चोक्तम्-आमसन्नोऽनलो नालं पक्तुमित्यादि| नवज्वरश्च वमनवर्ज्यैर्वर्ज्यः| दोषस्तम्भादिभयात्|| ७||
Adhikarana virecanasAdhyA vikArAH (8) · Śloka 8
अथ विरेचनसाध्या जीर्णज्वरोर्ध्वरक्तपित्तगुल्मविद्रधि- प्लीहार्शोभगन्दरोदरकृमिणकोष्ठमूत्राग़ातरेतोयोनिदोष- वातशोणितहलीमकव्यङ्गतिमिरकाचाभिष्यन्दाक्षिपाक- क्षाराग्निदग्धदुष्टव्रणशिरःपक्वाशयशूलोदावर्तविबन्ध- च्छर्दिविस्फोटादयो वाम्योक्ताश्च विषूचिकादयो दोष- भेदीयोक्ताश्च पितव्याधयः विशेषेण|
एते हि परं विरे- चनेन नाशमुपयान्त्यग्न्यपनयनेनाग्निगृहतापवत्||८||
जीर्णज्वरादयोऽपि वाम्यप्रकरणपठिताश्च विषूचिकालसकाविपाकादयो दोषभेदीयोक्ताश्च पित्तव्याधयः| एते सर्वे विरेचनसाध्याः| यद्यपि दोषहरणेन सर्वे व्याधयः शमं यान्ति, तथाप्येते विशेषेण शीग़्रं शमं यान्ति| दृष्टान्तो यथाग्निगेहेऽग्नावपनीते तत्र स्थितोऽग्निसञ्जातो भृशतापः शमं याति तद्वदेतेऽपि व्याधयोऽग्न्यपनयनरूपेण विरेकदोषापनयनेन दृष्टन्तेन तप्तवेश्मदिशा परिपाकावस्थायां विरेकयोग्यतां दर्शयति|| ८||
Adhikarana avirecyAstatra kAraNAni ca (9) · Śloka 9
अविरेच्याः पुनर्नवज्वरातिसार्यधोरक्तपित्तक्षतगुदलङ्ग़ित- रात्रिजागरितास्थापिताल्पाग्निराजयक्ष्ममदात्ययार्ता- ध्मातसशल्याभिहतातिस्निग्धरूक्षक्रूरकोष्ठाः|
तत्र नव ज्वरस्याविपक्वान् दोषान्न निर्हरेत्|
वातानेव च कोपयेत्|
अतीसार्यधोरक्तपित्तयोरतिप्रवृत्त्या हन्यात्|
क्षतगुदस्य गुदे प्राणोपरोधकरीं रुजं जनयेत्|
लङ्ग़ितादयो भेषजवेगं न सहेरन्|
राजयक्ष्मार्तस्य क्षीणधातुतया मलबलत्त्वम्|
तदभावाद् देहनाशः स्यात्|
मदात्ययार्तस्य मद्यक्षीणे देहे वायुः प्राणोपरोधाय|
आध्मातस्य पुरीषाशये निचितो वायुर्विसर्पन् सहसा तीव्रतरमाध्मानं मरणं वा जनयेत्|
सशल्याभिहतयोः क्षते वायुराश्रितो जीवितं हिंस्यात्|
अतिस्निग्धस्यातियोगो भवेत्|
क्रूरकोष्ठस्यौषधोद्धता दोषा ह्यप्रवर्तमाना हृदयशूलपर्वभेदानाहच्छर्दिमूर्च्छाक्ल- मान् जनयित्वा प्राणान् हन्युः|
गर्भिण्यादीनां पूर्वोक्त- दोषः स्यात्||९||
नवज्वरातिसारादयः क्रूरकोष्ठान्ताः अविरेच्याः| मलबलवत्त्वं बहुपुरीषत्वम्| तत्क्षयात् पुरीषक्षयान्नाशः| गर्भिण्यादीनां पूर्वोक्ता वमनोक्ता दोषाः|| ९||
Adhikarana vamanavidhiH (10) · Śloka 10
अथ साधारणे काले सम्यक् स्निग्धस्विन्नमनुपहतमानसं श्वः च्छर्दयितव्यमिति ग्राम्यानूपौदक शृतमांसरसक्षीरद- धिमाषतिलपललशाकादिभिर्द्रवप्रायैः समुत्क्लेशित- श्लेष्माणं सुख़ोषितं जिर्णाहारं पूर्वाह्णे स्नातानुलिप्तं स्रग्विणमहतवाससं देवताऽग्निद्विजगुरुवृद्धवैद्यानर्चित- वन्तं कृतहोमबलिमङ्गलप्रायश्चित्तस्वस्तिवचनं जानुस- मसंस्तृतसोपधानोपाश्रयासनोपविष्टं निरन्नमीषत्स्निग्धं वा यवागूमण्डेन ग़ृतमात्रां पीतवन्तं भीरुकृशबालवृद्ध- सुकुमारान् वा दोषानुरोधेनाकण्ठं पीतक्षीरतक्रूयूषे- क्षुमांसरसमद्यतुषोदकयवागूमण्डान्यतमं नक्षत्रतिथि- करणमुहूर्तोदये प्रशस्ते यथाव्याधिदोषदूष्यादिविहिता- मौषधमात्रां मधुसैन्धवयुक्तां सुख़ोष्णां ब्राह्मणप्रयुक्ता- भिराशीर्भिरभिमन्त्रिताम्|
पुनश्च ब्रह्मदक्षाश्विरुदेन्द्रभूचन्द्रार्कानिलानलाः|
ऋषयः सौषधिग्रामा भूतसङ्ग़ाश्च पान्तु वः|
रसायनमिवर्षीणाममराणामिवामृतम्|
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते|
औम् नमो भगवते भैषज्यगुरवे वैडूर्यप्रभराजाय तथागता- यार्हते सम्यक्सम्बुद्धाय|
तद्यथा-औम् भैषज्ये भैषज्ये महाभैषज्ये भैषज्यसमुद्गते स्वाहा|
इत्येवमभिमन्त्र्योदङ्मुख़ः प्राङ्मुख़मातुरं पाययेत्||१०||
अथेत्यादिना वमनविरेचनयोरुपयोगविधानमाह| अथेति मङ्गले| साधारणे यथोक्ते काले प्राङ्मुख़मातुरमौषधमात्रां पाययेदिति सम्बन्धः| साधारण इति| स्वस्थवृत्तोपलक्षणम्| आतुरवृत्ते तु व्याध्यादिवशाद्वमनचारेत्| तत्कालाद्यनुरूपेणैव विधानेन| किम्भूतमातुरं पाययेदित्याह-सम्यगित्यादि| श्वः चर्दयितव्य इत्येतेन वमनात् पुर्वमेकमहः श्लेष्मोत्क्लेशकान्नप्रयोगं दर्शयति| निरन्नं तद्दिवसमकृतभोजनं वमनं पाययेत्| अथवा ईषत् स्तोकमात्रं स्निग्धम्| किम्भूतमित्याह-यवागूमण्डेन ग़ृतमात्रां पीतवन्तम्| मात्राशब्दः स्तोकपार्यायः| अथवाभीरुकृशादीनातुरान् दोषानुगुण्येन क्षीरतक्रादीनामन्यतमं पाययित्वा वमनं पाययेत्| आकण्ठग्रहणं बहुत्वोपलक्षणार्थम्| कामौषधमात्रामित्याह-यथाव्याधीत्यादि| व्याधेर्दोषस्य दूष्यस्य च या यस्य स्वेषु प्रकरेणेषु विहिता ताम्| तथा मधुना सैन्धवेन च युक्ताम्| ब्राह्मणप्रयुक्ताभिर्वेदविहिताभिराशीभिरभिमन्त्रिताम्| स्वस्थवृत्तपक्षे आतुरग्रहणं तत्कालावस्थया व्याख़्येयम्| पुनश्च ब्रह्मेत्याद्यभिमन्त्रितां ब्रह्मेत्यादिर्वेदवादिमन्त्रः| औम् नम इत्यादि सौगतः|| १०||
Adhikarana vamanauShadhapAnottaravidhiH pravRuttavamanavegasya vidhishca (11) · Śloka 11
ततः पीतवानूरुन्यस्तभुजो वमनानुगतमानसोऽग्नितप्तैः पाणिभिरुपतप्यमानो मुहूर्तमनुपालयेत्|
स यदा जानी- यात् स्वेदप्रादुर्भावेन दोषं प्रविलयमापद्यमानं, रोमहर्षेण वा स्थानेभ्यः प्रविचलितं, कुक्ष्याध्मानेन च कुक्षिमनुसृतं च क्रमात् हृदयोपमर्दहृल्लासास्यसंस्रवणैश्चोर्ध्वमभि- मुख़ी भूतं समुपस्थितानेकप्रतिग्राहः पार्श्वललाटोपग्रहेण नाभिप्रपीडने पृष्ठप्रतिलोममर्दनेन च प्रवृत्ताव्यपत्रपणीय- पुरुषो विवृत्तोष्ठतालुकण्ठो नातिमहता व्यायामेन वेगा- नुदीरयन् नाप्रवृत्तान् न प्रवर्त्तयन् प्रवृतांश्चानुवर्त्तयन् सुपरिलिख़ितनख़ाभ्यामङ्गलीभ्यामुत्पलकुमुदैरण्ड- नालैर्वा कण्ठमभिमृशन् वमेन्नात्युन्नतो नात्यवनतो नपा- र्श्वापवृत्तो वा|
तत्रात्युन्नतस्य पृष्ठहृदयपीडा भवति|
अत्यवनतस्य शिरःकोष्ठपीडा, पार्श्वापवृत्तस्य पार्श्व- कोष्ठहृदयोर्ध्वजत्रुपीडेति||११||
तत आतुरो वमनं पीतवानूरुन्यस्तभुजत्वादियुक्तो मुहूर्त्तं नाडिकाद्वयमनुपालयेत्| प्रतीक्षेत| स चातुरः स्वेदप्रादुर्भावादिना चिह्नेनापनेयदोषावस्थं विशेषं यदा जानीयात्| यथोक्तेन तदाङ्गुलीभ्यामुत्पलनालादिना वा छर्दयेदिति सम्बन्धः| अनेक प्रतिग्राहस्थापनान्नैकट्येन वेगधारणं भवति| पार्श्वाद्युपग्रहे प्रवृत्ता अव्यपत्रपणीयाः पुरुषा यस्य स तथोक्तः| अपत्रपणीयो निर्यन्त्रण इत्यर्थः| विवृतमरुद्धमोष्ठताल्वादि यस्य स तथोक्तः| स्वल्पेन व्यायामेनोदीरयन् स्वयं प्रवृत्तान् वेगान्| सुष्ठु परिलिख़िते छिन्ने नख़े ययोरङ्गुल्योस्ताभ्याम्| उन्नतमुर्ध्वशिराः पार्श्वापवृत्तं तिर्यक् शिराः अवनतोऽधःशिराः|| ११||
Adhikarana doShaBedena vamanadravyaBedaH (12) · Śloka 12
एवं कटुतीक्ष्णोष्णैः कफे छर्दयेत्|
स्वादुभिः पित्त- युक्ते|
अम्लैः सस्नेहैरनिलसंसृष्टे||१२||
तत्र केवले श्लेष्मणि कटुतीक्ष्णैरौषधैश्छर्दयेत्| पित्तयुक्ते श्लेष्मणि स्वादुभिर्मधुरैर्वमनद्रव्यैः| वायुसंसृष्टे श्लेष्मणि अम्लैः सस्नेहैश्छर्दयेदिति सम्बन्धः|| १२||
Adhikarana vamanavidhiH (13) · Śloka 1
यावत् कफच्छेदः केवलमौषधप्रवृत्तिः पित्तदर्शनं वा||१||
किमवधिं छर्दयेदित्याह-यावदित्यादि| यावत् प्रथममेव कफः क्षीणस्तावद्यत्नेनाङ्गुल्यादिना छर्दयेत्| अथवा कफच्छेदानन्तरं केवलौषधप्रवृत्तिदर्शनं यावत्| अथवा ततोऽप्यनन्तरं यावत् पित्तदर्शनम्| एतच्च व्याध्यादिबलापेक्षया|| १३||
Adhikarana hInavegasyauShadhAdi (14) · Śloka 14
हीनवेगस्तु पिप्पल्यामलकसर्षपकल्कलवणोष्णोदकैः पुनः पुनः प्रवर्तयेत्|
प्रभूतवमनासहिष्णुद्व्यहं त्र्यहं वा विश्रम्य||१४||
हीनवेगः स्तोकं प्रवृत्तो यो दोषस्तं पिप्पल्याद्युष्णोदकैः पुनः पुनः प्रवर्तयेत्| यस्तु पुरुषः सकृत् प्रभूतं वमनं सोढुं न शक्नोति स द्व्यहं त्र्यहं वा स्तोकं वमनमुपयुञ्जीत|| १४||
Adhikarana vamanavirecanadravyasvarUpam (15) · Śloka 15
असात्म्यबीभत्सदुर्दर्शदुर्गन्धानि वमनानि विदध्यात्|
विपरीतानि तु विरेचनानि||१५||
असात्म्यत्वादियुक्तं वमनं विदध्यात्| विपरीतं विरेचनम्| सात्म्यं तु विरेचनमध्यायोपान्ते प्रतिषेत्स्यते|| १५||
Adhikarana sarveShu vamaneShu madhusaindhavopayogaH (16) · Śloka 16
सर्वैषु च वमनेषु सैन्धवं मधु च विदध्यात्कफविलय- नविच्छेदनार्थम्||१६||
सैन्धवमधुनी विलयनविच्छेदनयोश्च यथासङ्ख़्यम्|| १६||
Adhikarana vamanavegAnAmavekShaNam (17) · Śloka 17
वेगांश्चास्य प्रतिग्राहगतानवेक्षेत||१७||
सुख़ादागतः प्रतिगाहप्राप्तो वेग उच्यते|| १७||
Adhikarana vamanAyogalakShaNaM tajjA vyAdhayashca (18) · Śloka 18
तत्राप्रवृत्तिः केवलस्य वा भेषजस्य प्रवृत्तिर्विबन्धो वा वेगानामयोगलक्षणम्|
ततश्चारोचकगौरवाध्मानकण्डू स्फोटकोठालस्यशूलप्रतिश्यायलोमहर्षप्रसेकशोफशीत- ज्वरादयः||१८||
तत्रेत्यादिना वमनस्यायोगादिलक्षणमुच्यते| अप्रवृत्तिरौषधे पीते न किञ्चित् प्रत्यागच्छति| अथवा विना दोषेण केवलमेवौषधं प्रत्यागच्छति| वेगानां वा विबन्धः स्वल्पं स्वल्पमागमनमिति वमनायोगलक्षणम्| ततो वमनायोगादरोचकगौरवादयो जायन्ते|| १८||
Adhikarana samyagyogalakShaNaM tatPala~jca (19) · Śloka 19
योगलक्षणं पुनः काले क्रमात् कफपित्तानिलप्रवृत्ति- र्नातिमहती व्यथा स्वयं चावस्थानं ततश्च स्वस्थता मनः- प्रसादः स्वरविशुद्धिररोचकादिवैपरीत्यञ्च||१९||
सम्यग्योगलक्षणं पुनः क्रमेण कफादिप्रवृत्तिः काले| काले चौषधपानं कृत्वा यथोक्तान् मुहूर्तादनन्तरम्| स्वल्पा चाङ्गव्यथा| वेगानां च स्वयं रोधः स्तम्भननिरपेक्षम्|तत इत्यौषधं कृतमपेक्ष्य स्वस्थता| अरोचकादीनामयोगरोगाणां वैपरीत्यं रुचिलाग़वकोष्ठतनुत्ववक्त्रवैशद्यादिकम्|
Adhikarana vamanAtiyogalakShaNaM tajjA vyApadashca (20) · Śloka 20
अतियोगे तु फेनिलरक्तचन्द्रिकोद्गमनम्|
ततश्च क्षाम- तास्वरक्षयदाहकण्ठशोषभ्रममोहोन्मादमूर्च्छाशिरः शू- न्यताहृद्धूमायनगात्रशूलसुप्तितृष्णोर्ध्वानिलप्रकोपकर्ण- शूलार्द्दितवाक्सङ्गहनुसंहननजिह्वाप्रवेशनिर्गमाक्षिव्यावृ- त्तिविसंज्ञतानिद्राबलाग्निहानयो भवन्ति|
जीवशोणित- प्रवृत्त्या मरणं वा|
एषां सिद्धिषु साधनं वक्ष्यते||२०||
फेनिलाद्युद्गमनमतियोगलक्षणम्| ततश्चौषधात् पीताद्या क्षामता सातियोगादधिका भवति| जिह्वाया वायुवशात् प्रवेशो निर्गमो वा हानिशब्दस्य निद्रादिभिः सम्बन्धः| एते वमनातियोगाद भवन्ति| अथवा वमनातियोगे जीवाख़्यस्य रक्तस्यातिप्रवृत्त्या मरणं भवति| एषां च वमनातियोगजानां रोगाणां साधनं चिकित्सितं सिद्धिषु कल्पस्थाने वमनविरेचनव्यापत्सिद्धौ वक्ष्यते, विशेषेण तु वमनातियोग इत्यादिना ग्रन्थेन|| २०||
Adhikarana samyagvAntasyopacAraH (21) · Śloka 21
योगेन तु ख़ल्वेनं छर्दितवन्तं सुविशोधितपाणिपाद- मुख़ं मुहूर्तमाश्वास्य धूमत्रयस्यान्यतमं सामर्थ्यतः पाय- यित्वा पुनरुपस्पृष्टोदकं सम्मानितसुरभिताम्बूलं निवाता- गारशय्यास्थैतं स्नेहोक्तेनाचारविधिनानुशिष्यात्||२१||
एवमातुरं योगेन सम्यग्योगेन छर्दितवन्तं स्नेहोक्तेनाचारविधिनानुशिष्यादिति सम्बन्धः| धूमत्रयस्यान्यतमं मृदु मध्यं विरेचनं वा आतुराद्यपेक्षया| स्नेहोक्त आचार उष्णोदकोपचारी स्यादित्यादि|| २१||
Adhikarana samyagvAntasyAgnibalAnurodhenAhAravidhiH (22) · Śloka 22
ततोऽग्निबलमवेक्ष्य क्षुधं च सायाह्ने अपरे वाह्नि सुख़ोद- कपरिषिक्तः पुराणानां रक्तशालितण्डुलानां सुसिद्ध- मन्नमस्नेहलवणकटुकमल्पस्नेहलवणकटुकं वा द्रव- प्रायमुष्णोदकानुप्रायं सायं प्रातरुपभुञ्जानो विधिमि- ममवेक्षेत पेयादीनाम्||२२||
ततो यद्यस्यातुरस्याग्निर्बलवांस्ततः सायाह्ने तस्मिन्नेवाहनि तं भोजयेत्| अथ स्वल्पबलस्ततो द्वितीयेऽह्नि भोजयेत्| अत्रं रक्तशालितण्डुलानां सम्बन्धि| इमं विधिमवेक्षेत|| २२||
Adhikarana peyAdikramaH (33) · Śloka 2
पेयं विलेपीमकृतं कृतञ्च यूषं रसं त्रीनुभयं तथैकम्|
क्रमेण सेवेत नरोऽन्नकालान्प्रधानमध्यावरशुद्धिशुद्धः|२|
कथमित्याह-पेयामित्यादि| प्रधानशुद्धिशुद्धो मध्यशुद्धिशुद्धोऽवरशुद्धिशुद्धश्च नरो यथासङ्ख़्येन त्रीनन्नकालानुभयं चान्नकालमेकं चान्नकालं पेयादीन् पञ्च क्रमेण सेवेत| तेनैतदुक्तं भवति-भोजनं हि प्रत्यहमुभयकालं प्रतिष्ठितम् | तत्र यः प्रधानरूपया वक्ष्यमाणलक्षणया शुद्ध्या शुद्धः स प्रथमे दिवसे सायमेकमन्नकालं पेयामुपयुञ्जीत| द्वितीये दिवसे द्वावन्नकालौ पेयामुपयुञ्जीत| एवं त्रीनन्नकालान् पेयोपयुक्ता भवति| ततः त्ऱ्तुतीये दिवसे द्वावन्नकालौ विलेपीमुपयुञ्जीत| चतुर्थे दिवसे प्रातरेकमन्नकालं विलेपीं सेवेत| एवं त्रीनन्नकालान् विलेप्युपयुक्ता भवति| चतुर्थे दिवसे सायमेकमन्नकालमकृतयूषमुपयुञ्जीत| पञ्चमे द्वावन्नकालावकृतयूषमुपयुञ्जीत| एवमकृतो यूषस्त्रीनन्नकालानुपयुक्तो भवति| षष्ठे दिवसे द्वावन्नकालौ कृतं यूषमुपयुञ्जीत| सप्तमे दिवसे प्रातरेकमन्नकालं कृतं यूषमुपयुञ्जीत| एवं कृतयूषस्त्रीनन्नकालानुपयुक्तो भवति| सप्तमे सायमेकमन्नकालं मांसरसमुपयुञ्जीत| अष्टमे द्वावन्नकालौ मांसरसं सेवेत| एवं मांसरसस्त्रीनन्नकालान् सेवितो भवति| इति प्रधान शुद्धिशुद्धस्य पेयादीनां क्रमेण प्रत्येकमन्नकालत्रयसेवने क्रमः| एवं मध्यशुद्धिशुद्धेन पेयादयः क्रमेण प्रत्येकमन्नकालद्वयमासेव्याः| तथा स्वल्पशुद्धिशुद्धेन पेयादयः क्रमेणैकमन्नकालमासेव्याः|| ३३||
Adhikarana peyAdyupacArapraBAvaH (24) · Śloka 2
यथाणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण|
महास्थिरः सर्वचरस्तथैव शुद्धस्य पेयादिभिरन्तराग्निः|२|
किमनेन पेयादिक्रमेण भवतीत्याह-यथेत्यादि| यथा बाह्योऽग्निरणुः स्वल्पः सन् तृणगोमयाद्यैः सूक्ष्मैः क्रमेण सन्धुक्ष्यमाणो महान् भवति| स्थिरश्च भवति| सर्वं च पक्तुं शक्नोति| तद्वच्छुद्धस्य शोधनेनान्तराग्निरल्पः सन् पेयादिभिः क्रमेण गुरुभिर्महान् स्थिरः सर्वपचश्च भवति|| २४||
Adhikarana vamanavirecanayoH vegAnusAraM vireke mAnatashca jaghanyamadhyapravrashuddhilakShaNam (25) · Śloka 2
जघान्यमध्यप्रवरे तु वेगाः चत्वार इष्टा वमने षडष्टौ|
दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा स्याद्द्विचतुर्गुणश्च||२||
ननु प्रधानमध्यावरशुद्धिशुद्ध इत्युक्तम्| अत्र न ज्ञायते का प्रधाना शुद्धिः, का मध्या, काऽवरेति| अतो द्वयोरपि वमनविरेचनयोर्वेगसङ्ख़्यया मानतः प्रवृत्तदोषदर्शनतश्च जग़न्येत्यादिना शुद्धित्रयस्य लक्षणमुच्यते| तत्र जग़न्ये वमने चत्वारो वेगा इष्ट आचार्यैः | मध्ये वमने षड् वेगाः| प्रवरे वमनेऽष्टौ वेगाः| विरेके तु जग़न्ये वेगाः दशेष्टाः| मध्ये विरेके द्विगुणा दश विंशतिर्वेगा इष्टाः| प्रवरे तु विरेके त्रिगुणा दश त्रिंशद् वेगा इष्टाः| इति वमनविरेचनयोर्वेगसङ्ख़्य्या जग़न्यमध्यप्रवरत्वम्| तथा जग़न्यमध्यप्रवरे विरेके यथासङ्ख़्येन प्रस्थः द्विगुणश्चतुर्गुणश्च स्यादिति सम्बन्धः|| २५||
Adhikarana anyamatena vamanavirekayoH pravarashuddhilakShaNaM, vamane mAnataH jaghanyAdishuddhilakShaNaM vamanavirecanayogalakShaNa~jca (26) · Śloka 1
पित्तावसानं वमनं विरेकादर्द्धं कफान्तञ्च विरेकमाहुः|१|
अन्ये पुनराचार्याः पित्तावसानमुत्कृष्टं वमनमाहुः| विरेकाच्च प्रस्थपरिमाणेनार्धमाहुः| तेन जग़न्ये वमनेऽर्धप्रस्थः मध्ये प्रस्थः| प्रवरे प्रस्थौ द्वाविति| तथा कफान्तं विरेकमाहुः| त एवमाहुः आदावेव कफान्ते विरेके प्रवरत्वम्|| २६||
Adhikarana vamanavirecanayorvegagaNanAvidhiH (27) · Śloka 1
द्वित्रान्सविट्कानपनीय वेगान्मेयं विरेके वमने तु पीतम्||१||
तत्र विरेके सपुरीषान् द्वित्रान् वेगानपनीयान्यन्मेयं प्रस्थादिना| वमने तु यत् परिमाणं पीतं तदपनीय मेयम्|| २७||
Adhikarana virecanavidhiH (28) · Śloka 28
अथ वमितवन्तं पुनरेवं स्नेहस्वेदाभ्यामुपपाद्य श्वो विरेच- यितव्य इति सुजरमश्लेष्मलं स्निग्धं फलाम्लमुष्ण- मुष्णोदकानुपानं जाङ्गलरसौदनं भोजयेत्|
ततः सुख़ो- षितं पूर्वोक्तेन विधिनातीते श्लेष्मकाले निरन्नं विभज्य कोष्ठं यथार्हौषधमात्रां पाययेत्|
न त्वकृतवमनमन्य- त्रातिक्रूरकोष्ठात्||२८||
अथ वमितवन्तं विधिना संस्नेह्य संस्वेद्य च श्व अयमातुरो विरेच्य इति रसौदनं भोजयेत्| किम्भूतमित्याह-सुजरमित्यादि| फलेन दाडिमादिनाम्लम्| ततो रसौदनं भुक्त्वा रात्रौ सुख़ेनानायासेनोषितं प्रातर्निरन्नं श्लेष्मकाले दिनस्य प्रथमत्रिभागे गते कोष्ठं मृद्वादिभेदेन विभज्य विकल्प्य यथार्हामौषधमात्रां पाययेत्| पूर्वोक्तेन च वमनोक्तेन मङ्गलपूर्वेण विधिना| अकृतवमनमातुरं विरेचनं न पाययेत्| क्रूरकोष्ठमकृतवमनमेव विरेचनं पाययेत्|| २८||
Adhikarana akRutavamanasya virecanauShadhadAne doShaH (29) · Śloka 29
अकृतवमनस्य हि श्लेष्मणोपहतमौषधमूर्ध्वं प्रवर्तते|
उरसि वावरुद्धमवतिष्ठते|
ततो नालं विरेकाय||२९||
कुत एवमित्याह-अकृतवमनस्येत्यादि| अकृतवमनस्य स्नेहादिना हृदि श्लेष्मावश्यमेव भवतीति| तेन श्लेष्मणा उपहतं विरेकौषधं पीतं मुख़ेन प्रत्यागच्छति| अथवा वक्षसि रुद्धं विरेकाय न पर्याप्तं भवति| तैक्ष्ण्यात् पर्याप्तमपि वा विरेकाय|| २९||
Adhikarana krUrakoShThaM varjayitvA samyagviriktasyApi samBAvyA vyApat (30) · Śloka 30
सम्यग्विरिक्तस्यापि चाधः स्रस्तः श्लेष्मा ग्रहणीं छाद- यित्वा गौरवमापादयति प्रवाहिकां वा|
न त्वेष दोषो- ऽतिक्रूरकोष्ठस्य वाय्वात्मकत्वात्||३०||
तथा विरिक्तस्य श्लेष्मा हृदयात् कुक्षावपस्रस्तो ग्रहणी चादयित्व कोष्ठगौरवं प्रवाहिकां वापादयति| क्रूरकोष्ठस्य तु वातकोष्ठत्वात् श्लेष्मा कोष्ठे न किञ्चिच्छक्नोति|| ३०||
Adhikarana shleShmakAle virecanaprayoge doShaH (31) · Śloka 31
श्लेष्मकाले त्वकृतवमनोक्तदोषाः|
शूलाध्मानगौर- वाणि च कृत्वा छर्दिक्षीणे श्लेष्मण्यपराह्णे रात्रौ वा विरेचयेत्||३१||
य एवाकृतवमनस्य विरेचनेन दोष उक्तः स एव कृतवमनस्यापि श्लेष्मकालपीतेन| अथवा श्लेष्मकालपीतं विरेचनं शूलादीनि कृत्वाग्निबलात् क्षीणे श्लेष्मणि सायाह्ने रात्रौ वा विरेचयेत्|| ३१||
Adhikarana annAvRute virecanadoShaH (32) · Śloka 32
तेनान्नावृतमपि तुल्यम्|
छर्दिञ्च पुनस्तज्जनयति||३२||
तेनैव श्लेष्मकालपीतेन विरेचनोनान्नावृतमपि विरेचनं तुल्यम्| तेनैतदुक्तं भवति-यद् भुके विरेचनं पीयते तदन्नावृतं विरेचनं क्षीणेऽन्ने सायाह्ने रात्रौ वा विरेचयेत्| तदन्नावृतं पुनश्छर्दि जनयतीति श्लेष्मकालपीताद्विशेषः|| ३२||
Adhikarana aviriktasya shleShmakAle vamanaM deyam (33) · Śloka 33
अविरिक्तस्य तु श्लेष्मकाले च वमनं निरन्नं योज्यम्|
तथोर्ध्वं सुख़ेन निर्हरणात्||३३||
यः पुनः पूर्वमविरिक्तस्तस्याविरिक्तस्य श्लेष्मकालपीतं वमनं सुख़ेन स्वकार्यं करोति|| ३३||
Adhikarana koShThatraividhyaM tallakShaNa~jca (34) · Śloka 34
कोष्ठस्तु त्रिविधो भवति-मृदुः क्रूरो मध्यश्च|
तत्र बहुपित्तो मृदुः|
स विरिच्यते क्षीरेक्षुरसाम्लतक्र- मस्तुगुडकृसरसर्पिर्नवमद्योष्णोदकपीलुद्राक्षापूगफला- दिभिरपि|
बहुवातः क्रूरः|
स दुर्विरेच्यस्त्रिफलाति- ल्वकत्रिवृन्नीलिनीफलादिभिरपि|
बहुश्लेष्मा समदोषश्च मध्यः|
स साधारणः|
ये च स्निह्यन्त्यच्छपानेन प्रायशः त्रिसप्तपञ्चरात्रैरिति||३४||
कोष्ठं विभज्येतुयुक्तं, तत्र न ज्ञायते कतिविधः कोष्ठः कीदृशश्चेत्याह-कोष्ठस्त्वित्यादि| सुबोधम्| तथा योऽच्छपेयस्नेहेन त्रिरात्रेण स्निह्यति स मृदुकोष्ठः| यः सप्तरात्रेण स्निह्यति स क्रूरः| यः पञ्चरात्रेण स्निह्यति स मध्य इति लक्षणान्तरम्|| ३४||
Adhikarana doShaBedena virecanadravyaBedaH (35) · Śloka 35
तत्र कषायमधुरद्रव्यैः पित्ते विरेचनम्|
मूत्रकटुष्णैः कफे|
स्निग्धोष्णलवणैर्वाते||३५||
तत्र कषायत्वादियुक्तैर्द्रव्यैः पित्ते विरेचनं योज्यम्| मूत्रादिभिः श्लेष्मणि| स्निग्धत्वादियुक्तैर्वाते|
Adhikarana virecanauShadhapAnottaramupacAraH (36) · Śloka 3
पीतमात्र एव चौषधे छर्दिविग़ाताय शीताम्बुना मुख़मस्य सहसा सिञ्चेत्|
ततश्चोष्णोदकेन सोऽन्तर्मुख़ं विशो- ध्यार्द्रसुरभिमृन्मातुलुङ्गजम्बीरसुमनः सौगन्धिकादिह्ऱृद्य- गन्धानुपजिग़्रेत्|
निवातसुख़शय्यास्थितश्चाविबन्धा- र्थमल्पाल्पमुष्णोदकमनुकण्ठ्यंस्तन्मना वेगान्नधारयन् ईरयमाणश्च शय्यासने प्रतिग्राहेऽशीतस्पृग्वरिच्येत||३||
सुबोधम्| अनुकण्ठ्यं स्तोकमात्रं पिबन्|| ३६||
Adhikarana virecane doShabahirgamanakramaH (37) · Śloka 37
यथा च वमने स्वेदप्रसेकौषधकफपित्तानिलाः क्रमेण प्रवर्तन्ते तथा विरेचने वातमूत्रपुरीषपित्तकफाः पुनश्चान्ते वायुः|
दोषाणां हि देहे तथा सन्निवेशान् मार्गवैपरीत्याच्च शोधनयोरिति||३७||
यथा च वमने स्वेदादीनि क्रमेण प्रवर्तन्ते, तद्विद्विरेचने वातादीनि| कुतोऽयं वमनविरेचनयोर्दोषनिर्गमे परस्परविपरीतः क्रमः इत्याह-दोषाणामित्यादि| मुख़ेन वमनमूर्ध्वभागनैकुट्यादादौ कफं निर्हरति| ततः पित्तम्| पश्चादनिलम्| विरेचनं वैपरीत्यादधोभागनैकट्यादादावनिलम्| मध्ये पित्तम्| अन्ते कफम्| तत्र च पुनरन्तेऽनिलमपतर्पणादिति विज्ञेयम्|| ३७||
Adhikarana virecanApravRuttAvalpapravRuttau ca vidhiH (38) · Śloka 38
अप्रवृत्तौ तु भेषजात्तेजनार्थमुष्णोदकं पाययेत्|
पाणि- तापैश्च जठरं स्वेदयेत्|
प्रवृत्ते च दीप्ताग्नेः स्निग्धवपुषा बहुदोषस्याल्पदोषे नैव वा प्रवृत्तेऽल्पदोषस्यापि जीर्ण- भैषज्यस्याहःशेषं बलं चापेक्ष्य भूयो मात्रां विदध्यात्|
न त्वजीर्णौषधस्यातियोगभयात्|
तदहर्वा भुक्तवतो- ऽन्येद्युः अदृढस्नेहं व दशरात्रादूर्ध्वमुपस्कृतदेहमवहितो भूयः पाययेत्||३८||
विरेचने च वेगाप्रवृत्तावुष्णोदकं च पानाय योजयेत्| जठरं च स्वेदयेत्| दीप्ताग्नेः स्निग्धशरीरस्य बहुदोषस्य चौषधेनाल्पे दोषे प्रवृत्ते नैव वा प्रवृत्ते योग्यं दिवसशेषं दृष्ट्वा बलं च पनरौषधमात्रां विदध्यात्| अल्पदोषस्यापि दीप्ताग्नित्वादकृतविरेक एव भेषजे जीर्णे भूयो मात्रां विदध्यात्| अल्पदोषस्य पुनर्यद्यजीर्ण एवौषधे पुनरौषधं दीयते ततो विरेचनातियोगमुत्पादयति| अथवा यस्य सप्रयोजनाय भूय औषधमात्रा न सम्भवति तस्यान्येद्युर्द्वितीयेऽहनि देयः| अथवा अदृढस्नेहमबहुस्निग्धं मात्रां दशरात्रादूर्ध्वं भूयः पाययेत्| कीदृशमुपस्कृतदेहं स्नेहादिसंस्कृतदेहमित्यर्थः| कीदृशो भिषक् पाययेत्| अवहितोऽवहितग्रहणं पूर्वायोगकारणत्यागार्थम्|| ३८||
Adhikarana sadAturAdiShu visheShakRutyam (39) · Śloka 39
ह्नीभयत्नोभैश्च वेगाभिग़ातशीलाः प्रायशः स्त्रियो राज- समीपस्था वणिजश्च भवन्ति|
तस्मादेते वेगधारणप्र- वृद्धवातत्वात्सदाऽऽतुरा दुर्विरेच्याश्च|
तान् सुस्निग्धान् शोधयेत्|
अन्यानपि चाकालनिर्हारविहारहारान्|
तत- श्चैषां सदातुरत्वादल्पोऽप्यामयो दुःसाध्यो भवति|
तेषां पुनः क्रियाविधिः स्नेहव्यापत्सिद्धावुपदेक्ष्यते||३९||
ह्निया लज्जया स्त्रियो भयेन च राजसमीपस्था लोभेन च वणिजः प्रायो वेगाग़ातशीला भवन्ति| अतस्तेषां वेगधारणेन प्रवृद्धवातत्वात् सदातुरत्वं दुर्विरेच्यत्वं च| अतस्तानतिस्निग्धान् कृत्वा शोधयेत्| अपि चेति समुच्चये| न केवलं स्त्र्यादीनेवैवं शोधयेत्| यावदन्यानप्येवं शोधयेत्| कानित्याह-अकालेत्यादि| अकालेऽप्राप्तेऽतिक्रान्ते काले निर्हारादयो येषां ते तथोक्ताः| निर्हारो मुत्राद्युत्सर्गः| विहारश्चङ्क्रमणादिः| आहारः प्रसिद्धः| तेषां स्त्र्यादीनां क्रियाविधिः| स्नेहव्यापत्सिद्धावध्याये कल्पस्थान उपदेक्ष्यते|| ३९||
Adhikarana virekAyogalakShaNam (40) · Śloka 40
तत्रासम्यग्विरेकात् कुक्षिहृदयाविशुद्धिराध्मानमरुचिः प्रसेकः कफपित्तोत्क्लेशछर्दिभ्रमाः कण्डूः पिटका वि- दाहो गौरवमग्निसादस्तन्द्रा स्तैमित्यं प्रतिश्यायो वातवि- ण्मूत्रसङ्गश्च||४०||
तत्रेत्यादिना विरेचनस्यासम्यग्योगयोगातियोगानां लक्षणमाह| असम्यग्योगो विरेचनस्यायोगः| तेन कुक्ष्यविशुद्ध्यादीनां मूत्रसङ्गान्तानामुद्भवः|| ४०||
Adhikarana samyagvirekaPalam (41) · Śloka 41
सम्यग्विरेकाद्व्याध्युपशमो यथोक्तविपर्ययश्च||४१||
सम्यग्योगाद्विरेचनसाध्यस्य व्याधेरुपशमः| स्वस्थस्याप्ययोगादिव्याधीनां वैपरीत्यं कुक्षिशुद्धिरुचिवक्त्रवैशद्यादिकं भवति|| ४१||
Adhikarana ativirekajavyApadaH (42) · Śloka 42
अतिविरेकात्तु केवलं दोषरहितमुदकं रक्तं वा मेदो- मांसधावनोपमं कृष्णं वा प्रवर्तते|
परिकर्तिका हृदयोद्वेष्टेनं गुदनिस्सरणं नयनप्रवेशः पिपीलिकासञ्चार इवाङ्गे वम- नातियोगतुल्यता च||४२||
विरेचनातियोगात्तु दोषप्रवृत्त्यनन्तरं दोषरहितस्य केवलस्योदकस्य रक्तस्य वा मेदोमांसधावनतुल्यस्य कृष्णस्य वा प्रवृत्तिः| परिकर्तिकादयो वमनातियोगोक्ताश्च व्याधयो क्षामतास्वरक्षयादयो जायन्ते|| ४२||
Adhikarana samyagvirikte vidhiH (43) · Śloka 43
सम्यग्विरिक्तं चैनं वमनोक्तेन धूमवर्ज्येन विधिनोपपा- दयेत्|
अथ वमितवानिव क्रमेणान्नान्युपयुञ्जानः प्रकृति- भोजनमागच्छेदिति||४३||
एनं पुरुषं योगेन यथोक्तलक्षणेन विरिक्तं वमनोक्तेन विधिनोपचरेत्| अत्र धूमो वर्ज्य इति विशेषः| यच्च वमितस्य पेयाद्यन्नगणोपयोगक्रमेण प्रकृतिभोजनागमनुमुक्तं तद्विरिक्तस्यापि विधेयम्|
Adhikarana vamanavirecanayoryogyAvasthA (44) · Śloka 44
भवति चात्र- जीर्णाऽन्ने वमनं योज्यं कफे जीर्णे विरेचनम्||४४||
भवति चात्रेति गद्यबन्धोपसंहारे रीतिः| ह्यस्तनेऽन्ने जीर्णे वमनं देयम्| श्लेष्मणि च जीर्णे विरेचनम्| तैनेतदुक्तं भवति- वमनं जीर्णेऽन्ने ह्यस्तने देयं श्लेष्मणि च स्थित एव देयम्| विरेचनं पुनरन्ने श्लेष्मणि च जीर्णे देयमिति|| ४४||
Adhikarana pItauShadhasya mandAgnitvAdau la~gGanam (45) · Śloka 45
मन्दवह्निमसंशद्धुमक्षामं दोषदुर्बलम्|
अदृष्टजीर्णलिङ्गञ्च ल~ग़्ग़येत् पीतभेषजम्|
स्नेहस्वेदौषधोत्क्लेशसङ्गैरिति न बाध्यते||४५||
वमनाय विरेचनाय च पीतौषधं मन्दाग्निमसंशुद्धमप्रवृत्तदोषमक्षामं दोषैर्दुष्टैर्हीनबलमदृष्टजीर्णौषधलक्षणं च तं तदहर्लङ्ग़येत् आ जीर्णलिङ्गात्| एतावता हि स्नेहोत्क्लेशादिभिरातुरो न बाध्यते|| ४५||
Adhikarana peyAderagnivardhakatvampeyAnarhatarpaNArhAH (46) · Śloka 46
संशोधनास्रविस्रावस्नेहयोजनलङ्ग़नैः|
यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत्|
स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम्|
पेयां न पाययेत्तेषां तर्पणादिक्रमो हितः||४६||
संशोधनेत्यादिना प्रसङ्गेन यथोक्तस्य पेयादिक्रमस्य विषयं दर्शयति| तत्र संशोधने प्रवृत्ते यस्य पित्तश्लेष्माणौ अल्पौ स्रुतौ देहावस्थितौ| यश्च स्वभावेन मद्यपो यश्च प्रकृत्या वातपैत्तिकस्तान् पेयां न पापयेत्| तेषां हि तर्पणादिक्रमो हितः| पेयास्थाने तर्पणा देया इत्यर्थः| तर्पणा लाजसक्तवः|| ४६||
Adhikarana apakvapacyamAnavamanavirecanayoreva doShasaMshodhakatvam (47) · Śloka 47
अपक्वं वमनं दोषाण् पच्यमानं विरेचनम्|
निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्||४७||
तथा वैद्यो वमनस्य पाकावस्थां न प्रतिपालयेत्| अयोगे शीग़्रमेव प्रतिक्रियां कुर्यादित्यर्थः| विरेचने तु पाकावस्थां प्रतिपालयेदेव| कुत इत्याह-अपक्वमित्यादि| सुबोधम्|
Adhikarana vamanavirecanayorviparIta- gatayorupacAraH (48) · Śloka 48
ऊर्ध्वाधोरेचनं युक्तं वैपरीत्येन जायते|
यदा तदा छर्दयतः सिञ्चेदुष्णेन वारिणा|
पादौ शीतेन चोर्ध्वाङ्गं विपरीतं विरेचने||४८||
ऊर्ध्वरेचनं वमनं युक्तं सद्यदा केनचित् कारणेन वैपरीत्येन विरेचनतया जायते| तथाऽधारेचनं विरेचनं यदा कुतश्चिन्निमित्ताद्वैपरित्येन वमनत्वेन जायते तदा विरेचनेन वैपरीत्याच्छर्दयत उष्णेन वारिणा पादौ सिञ्चेत् शीतेन चोर्ध्वाङ्गं सिञ्चेत्| यदा तु वमने वैपरीत्याद्विरेकस्तदा विरिच्यतः पुर्वविपरीतं कार्यं पादौ शीतोदकेन सिञ्चेदुष्णोदकेन चोर्ध्वाङ्गमित्यर्थः|| ४८||
Adhikarana doShapAkajAte svayaM vireke AhAravidhAnam (49) · Śloka 49
दुर्बलो बहुदोषश्च दोषपाकेन यः स्वयम्|
विरिच्यते भेदनीयैर्भोज्यैस्तमुपपादयेत्||४९||
दौबलयादियुक्तो दोषपाकेन यः स्वयं विरिच्यते| तं भेदनीयैराहारैरुपपादयेत्| न तस्मै विरेचनमौषधं देयं नापि स्तम्भनमित्यर्थः|| ४९||
Adhikarana durbalAdiShu mRudbalpashodhanauShadha vidhistatra hetushca (3) · Śloka 3
दुर्बलः शोधितः पूर्वमल्पदोषः कृशो नरः|
अपरिज्ञातकोष्ठश्च पिबेन्मृद्वल्पमौषधम्|
वरं तदसकृत् पीतमन्यथा संशयावहम्||३||
Adhikarana durbalasya bahucaladoShasya stokaM stokaM shodhanavidhiralpadoShasya shamanauShadhavidhishca (2) · Śloka 2
हरेद्बहूंश्चलान् दोषानल्पानल्पान् पुनः पुनः|
दुर्बलस्य मृदुद्रव्यैरल्पान् संशमयेत्तु तान्||२||
Adhikarana bahudoShANAmanirharaNe vyApat (50) · Śloka 50
क्लेशयन्ति चिरं ते हि हन्युर्वैनमनिर्हृताः||५०||
दुर्बलः सन् पूर्वं शुद्धः तथाल्पदोषस्तथा कृशः तथा मृद्वादिविशेषेणापरिज्ञातकोष्ठः स मृद्वल्पं चौषधं पिबेत्| यतस्तदौषधं प्रयोजनापेक्षायामसकृदनेकवारं पीतं वरम्| न त्वन्यथा सकृत् संशयावहं पीतं वरमतियोगभयात्| तथा दुर्बलस्य चलान् दोषान् बहून् प्रभूतान् सतः स्तोकं कृत्वा मृदुभिर्द्रव्यैर्हरेत् पुनः पुनः| तांस्तु दुर्बलस्य चलान् दोषान् अल्पान् सतः अनिर्हृतानेव शमनैः शमयेत्| यतस्ते दोषा बहवः प्रचलिता एनमातुरमनिर्हृताः सन्तश्चिरं व्याधिभिः क्लेशयन्ति| हन्युरेव वा|
Adhikarana mandAgnikrUrakoShThayoH shodhane purvakRutyam (51) · Śloka 51
मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः|
सन्धुक्षिताग्निं विजितकफवातं च शोधयेत्||५१||
मन्दाग्निं पुरुषं शोधनप्रसङ्गे सति सक्षारैश्च ग़ृतैर्यथोक्तैः सन्धुक्षिताग्निं विजितश्लेष्माणं च शोधयेत्| तथा क्रूरकोष्ठं सलवणैर्ग़ृतैः सन्धुक्षिताग्निं विजितवातं च शोधयेत्|| ५१||
Adhikarana rUkShavirekAtpUrvaM bastyAdividhistatra hetushca (52) · Śloka 52
रूक्षबह्वनिलक्रूरकोष्ठव्यायामशीलिनाम्|
दीप्ताग्नीनां च भैषज्यमविरेच्यैव जीर्यति|
तेभ्यो बस्तिं पुरो दद्यात्ततः स्निग्धं विरेचनम्|
शकृन्निर्हृत्य वा किञ्चित्तीक्ष्णाभिः फलवर्तिभिः|
प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत्सुख़म्||५२||
रूक्षत्वादियुक्तानां विरेचनं भैषज्यमविरेच्यैव जरां याति| अतस्तेषां प्रथमं बस्तिं दत्त्वा स्निग्धं विरेचनं देयम्| अथवा तेषां तीक्ष्णाभिः फलवर्तिभिः किञ्चित् पुरीषं निर्हृत्य स्निग्धं विरेचनं देयमिति सम्बन्धः| यतः फलवर्तिभिर्बस्तिना वा प्रवृत्तं मलं स्निग्धो विरेकः सुख़ं निर्हरेत्|| ५२||
Adhikarana IShatsnehapUrvakaM saMshodhyAH (53) · Śloka 53
विषाभिग़ातपिटकाकुष्ठशोफविसर्पिणः|
कामलापाण्डुमेहार्तान्नातिस्निग्धान् विशोधयेत्||५३||
विषादिमन्तः कामलाद्यार्ताश्च नातिस्निग्धान् विशोधयेत्| स्तोकस्निग्धान् विशोधयेदित्यर्थः|| ५३||
Adhikarana sarveShu snehavirecanavidhiH susnigdheShu tu rUkShavirecanavidhiH (54) · Śloka 54
सर्वान् स्नेहविरेकैश्च रूक्षैस्तु स्नेहभावितान्||५४||
एतान् सर्वान् विशोध्य व्याध्यार्तान् स्नेहविरेचनैः शोधयेत्| स्नेहभावितदेहान् वा रूक्षैरेव विरेचनैः शोधयेत्| स्नेहभातिदेहो येषां सञ्चितस्नेहसंस्कारो देहस्य विद्यते|| ५४||
Adhikarana vamanAdInAM madhye madhye sneha svedau sarvAnte snehashca (55) · Śloka 55
कर्मणां वमनादीनां पुनरप्यन्तरेऽन्तरे|
स्नेहस्वेदौ प्रयुञ्जीत स्नेहमन्ते बलाय च||५५||
तथा वमनादीनां वमनविरेचनास्थापनानुवासनशिरोविरेचनानामन्तरेऽन्तरे मध्ये मध्ये स्नेहस्वेदौ प्रयुञ्जीत| अन्ते च बलार्थं स्नेहमुपयुञ्जीत|| ५५||
Adhikarana svedAdyutkliShTadoShasyaiva sushodhyatvamatra dRuShTAntashca (56) · Śloka 56
ऊषादिभिर्यथोत्क्लेश्य ह्नियते वाससो मलः|
तथैव वपुषः स्नेहस्वेदमाषतिलादिभिः||५६||
कुतः किमर्थं स्नेहस्वेदौ युञ्जीतेत्याह-ऊषेत्यादि| यथा वाससः ऊषादिभिरुत्क्लेश्य मलो ह्नियते तद्वद्वपुषः स्नेहादिभिर्ह्नियत इति सम्बन्धः| ऊषा स्यात् क्षारमृत्तिका|| ५६||
Adhikarana snehasvedarahitashodhane vyApat (57) · Śloka 57
स्नेहस्वेदावनभ्यस्य कुर्यात्संशोधनं तु यः|
दारुशुष्कमिवानामे शरीरं तस्य दीर्यते||५७||
अन्यच्च स्नेहस्वेदावनभ्यस्य यस्तु संशोधनं कुर्यात् तस्य शरीरं दीर्यते नश्यति| यथा शुष्कं दार्वानमने|| ५७||
Adhikarana tIkShNavirecananirUhalakShaNam (58) · Śloka 58
सुख़ं क्षिप्रं महावेगमसक्तं यत् प्रवर्तते|
नातिग्लानिकरं नापि हृदि पायौ च रुक्करम्|
अन्तराशयगं क्लिन्नं कृत्स्नं दोषं निरस्यति|
विरेचनं निरूहं वा तत्तीक्ष्णमिति निर्दिशेत्||५८||
विरेचनं निरूहो वा यत् सुख़ं क्षिप्रादियोगेन कृत्स्नं दोषं निरस्यति तत्तीक्ष्णमुच्यते|| ५८||
Adhikarana bheShajasya tIkShNaprAptau hetuH (59) · Śloka 59
जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम्|
नवं मात्राधिकं किञ्चित्तुल्यवीर्यैः सुभावितम्|
स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम्|
अतो विपर्यये मन्दं मन्दतां च प्रपद्यते||५९||
ननु तीक्ष्णत्वं कथं यातीत्याह-जलाग्नीत्यादि| जलादिभिरस्पृष्स्टं योग्ये देशे काले च जातं गुणैश्च पूर्णं तुल्यवीर्यैः साधु भावितं तीक्ष्णत्वं यातीति सम्बन्धः| अतो यथोक्तैस्तीक्ष्णलक्षणैर्विपर्यये सति मन्दं ज्ञेयम्| तैक्ष्णयहेतुविपर्ययाच्च भेषजं मन्दतां प्रपद्यते| सुख़ं क्षिप्रमित्यादि तीक्ष्णलक्षणं सर्वमपि| जलाग्न्यस्पृष्टादिस्तैक्ष्ण्यहेतुस्तयोर्वैपरीत्ये मध्यम्|
Adhikarana tIkShNAdivyAdhiShu tIkShNAdiBeShajaM kramAddeyam (60) · Śloka 60
तीक्ष्णो मध्यो मृदुर्व्याधिः सर्वमध्याल्पलक्षणः|
बलापेक्षं हितं तेषु मध्यं मृदु क्रमात्||६०||
त्रिविधभेषजप्रदर्शनप्रसङ्गेनोच्यते-तीक्ष्ण इत्यादि| यो व्याधिः स्वनिदानोक्तैर्लक्षणैः सम्पुर्णः स तीक्ष्णः| यो मध्यलक्षणः स मध्यो व्याधिः| स्वल्पलक्षणो मृदुरिति| तत्र तीक्ष्णव्याधेस्तीक्ष्णमौषधं देयम्| मध्यं मध्यस्य| मृदुर्मृदोरिति| एतच्चातुरबलापेक्षया योज्यम्| तेनैतदुक्तं भवति-स्वल्पतीक्ष्णव्याधेरपि तीक्ष्णं न योज्यमिति सर्वत्र व्यभिचारः|| ६०||
Adhikarana sAtyashodhanauShadhaniShedhastatra hetushca (61) · Śloka 61
अप्रवर्त्त्य मलान् द्रव्यं सात्मीभूतं हि जीर्यति|
वमनं वा विरेकं वा तस्मात्सात्म्यं न योजयेत्||६१||
तथा वमनं भवतु विरेको वा भवतु यद्यस्य सात्म्यमाहाररूपेणाभ्यस्तं तद्वमनाय विरेचनाय वा न योज्यम्| यतः सात्मीभूतं द्रव्यं मलानप्रवर्त्त्यैव जीर्यति|| ६१||
Adhikarana shAstravidhinA saMshodhanaM sevyameva (62) · Śloka 62
विभ्रंशो विषवत्सम्यग्योगो यस्यामृतोपमः|
कालेऽवश्यं प्रयोज्यञ्च यस्माद्यत्नेन तत्पिबेत्||६२||
तच्च शोधनं शास्त्रोक्तेन विधानेनावहितः पिबेत्| यतस्तस्य शोधनस्य विभ्रंशो विपरीता सेवा विषवत्| सम्यग्योगश्च यस्यामृतोपमः| ननु कदाचिदुपेक्ष्य इत्यत आह-कालेऽवश्यं प्रयोज्यञ्च व्याधिभयात्|| ६२||
Adhikarana samyagupAsyamAnashodhanaPalam (63-64) · Śloka 64
बुद्धिप्रसादं बलमिन्द्रियाणां धातुस्थिरत्वं ज्वलनस्य दीप्तिम्|
चिराच्च पाकं वयसः करोति संशोधनं सम्यगुपास्यमानम्||६३||
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रह- संहितायां सूत्रस्थाने वमनविरेचनविधिर्नाम सप्तविंशोऽध्यायः||६४||
उपसंहरन्नाह-बुद्धिप्रसादमित्यादि| संशोधनं सम्यक् साधु कृत्वा उपास्यमानसेव्यमानं बुद्धिप्रसादादिकं करोति|| ६३|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रह- व्याख़्यायां शशिलेख़ायां सूत्रस्थाने सप्तविंशोऽध्यायः