Adhikarana athAtaH bastividhirnAmAShTAviMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातो बस्तिविधिं नामाध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana athAtaH bastividhirnAmAShTAviMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातो बस्तिविधिं नामाध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana basteH prAdhAnyambastisaMj~jAyA anvarthattva~jca (2) · Śloka 2
बस्तिरनिलप्रधानेशु प्रयुज्यते| बस्तिना दीयते बस्तिं वा पूर्वमन्वेत्यतो बस्तिः| स च सर्वोपक्रमाणां प्रधानतमः शीग़्रं बृंहणादिकारित्वाद्विकृतानिलोच्छेदित्वाच्च||२||
🔊 Audio coming soon
Adhikarana vAtasya prAdhAnyam (3) · Śloka 3
अनिलो हि दोषाणां नेता| सर्वशरीरचेष्टैककारणम्| पञ्चात्मतया अङ्गप्रत्यङ्गव्यापी| विधाता विविधबाह्या- ध्यात्मिकभावानां सर्गस्थितिप्रलयानां हेतुः मार्गत्रय- जानामपि रोगाणामिति||३||
🔊 Audio coming soon
Adhikarana basterviShayaH guNAshca (4) · Śloka 4
सुख़त्वादेव च बस्तिर्बालवृद्धकृशस्थूलक्षीणधात्वि- न्द्रियेषु च स्त्रीषु चानिलोपसर्गाप्रजासु कृच्छ्रप्रजासु चोप- दिश्यते| तथाग्निबलवर्णमेदधास्वरायुः सुख़प्रदो वयः- स्थापनः पङ्गूरुस्तम्भमग्नसङ्कुचितानिलाध्मानशूलारो चकोदावर्तपरिकर्तिकादिषु हित इति||४||
🔊 Audio coming soon
Adhikarana basterAsthApanAdiBedena traividhyamAsthA- panasya trayodashavidhatva~jca (5) · Śloka 5
स तु बस्तिस्त्रिविधः| आस्थापनमनुवासनमुत्तरबस्तिश्च| तत्रास्थापनं दोषदूष्याद्यनुसारेण नानाद्रव्यसंयोगादिनि- र्वृत्तम्| तस्य भेदाः उत्क्लेशनं संशोधनं संशमनं लेख़नं बृंहणं वाजीकरणं पिच्छाबस्तिर्माधुतैलिकमित्यादयः| माधुतैलिकस्य पर्याया यापनो युक्तरथो दोषहरः स्निग्धब- स्तिरिति| तेषां नामभिरेव स्वरूपमाख़्यातम्||५||
🔊 Audio coming soon
Adhikarana AsthApananirUhashabdayoH nirvacanam (6) · Śloka 6
तद्वयः स्थापनाद्दोषस्थापनाद्वाऽऽस्थापनमित्युच्यते शरी- रारोहणाद्दोषनिर्हरणादचिन्त्यप्रभावतया यस्मिन्नूहास- म्भवान्निरुह इति||६||
🔊 Audio coming soon
Adhikarana anuvAsanasvarUpAdi (7) · Śloka 7
अनुवासानं यथार्हौषधसिद्धः स्नेहनार्थः स्नेहः स्नेहविधौ स चतुर्धाभिहितः||७||
🔊 Audio coming soon
Adhikarana anuvAsanaBedo mAtrAbastiH tasya mAtrAdi (8) · Śloka 8
तस्य भेदो मात्राबस्तिः| स पेयस्नेहह्नस्वमात्रातुल्यः| सेव्यः सदा च माधुतैलिकवत्| बालवृद्धाध्वभार- यानव्यायामचिन्तास्त्रीनित्यस्त्रीनृपेश्वरसुकुमारदुर्बलानि- लभग्नाल्पाग्निभिर्निष्परिहारतया सुख़ो बल्यो वर्ण्यः सृष्टमलो दोषग़्नश्च| तथापि तौ नाजीर्णे योज्यौ न च दिवास्वप्नः सेव्यः||८||
🔊 Audio coming soon
Adhikarana anuvAsanirvacanam (9) · Śloka 9
यतश्च सोऽन्नमनुवसन्नपि न दुष्यत्यनुवासरमपि वा दीयत इत्यनुवासनम्||९||
🔊 Audio coming soon
Adhikarana uttarabastisvarUpantatra matAntara~jca (10) · Śloka 10
उत्तरबस्तिरपि स्नेहोऽनुवासनवच्छोधनं निरूहवदपि केचिदाहुः||१०||
🔊 Audio coming soon
Adhikarana uttarabasternirvacanam (11) · Śloka 11
स निरूहादुत्तरमुत्तरेण वा मार्गेण दीयत इत्युत्तर- बस्तिः||११||
🔊 Audio coming soon
Adhikarana AsthApyAH (12) · Śloka 12
तत्रास्थाप्या गुल्मप्लीहानाहशूलशुद्धातीसारजीर्णज्वर- प्रतिश्यायाढ्यरोगहृदयकुक्षिपार्श्वग्रहपर्वाभितापपार्श्वयो- निशूलाङ्गसुप्तिशोषकम्पगौरवातिलाग़वान्त्रकूजनवात- वर्चोमूत्रशुक्रसङ्गाश्मरीशर्करावृद्धिशुक्रार्त्तवस्तन्यनाश- रजः क्षयोन्माददोषकिर्मिणकोष्ठविषमाग्निसशब्दा- ल्पाल्पोग्रगन्धोत्थानादयो दोषभेदीयोक्ताश्च वातव्याधयः| विशेषेणैते हि परं बस्तिनाशमुपयान्ति मूलच्छेदेन वृक्षवत्||१२||
🔊 Audio coming soon
Adhikarana anAsthApyAstatra hetavashca (13) · Śloka 13
अनास्थाप्यास्त्वतिस्निग्धोत्क्लिष्टदोषक्षतोरस्कातिकृशा निरन्नाः कृतवमनविरेचननस्यप्रसक्तच्छर्दिनिष्ठीविका- कासश्वासहिक्कार्शोबद्धच्छिद्रदकोदराध्मानालसकवि- षूचिकामातीसारारोचकाल्पाग्निगुदशोफकुष्ठमधुमे- हार्ताः| गर्भिणी चाप्रवृत्ताष्टममासा| तत्रातिस्निग्धो- त्क्लिष्टदोषयोर्दोषानुत्क्लेश्योदरं मूर्च्छां श्वयथुं वा निरूहो जनयेत्| क्षतोरस्कस्यातिकृशस्य च क्षोभमापन्नः शरीर- माशु पीडयेत्| अनिरन्नस्य वक्ष्यते| कृतवमनविरेकयोस्तु रिक्तं देहं क्षतं क्षार इव दहेत्| स्नेहबस्तिस्तु सद्योऽ- ग्निमवसाद्य श्लेष्मामयाय स्यात्| कृतनस्यस्यास्य- विभ्रंशं विवृतोर्ध्वस्रोतस्तया कुर्यात्| अनुवासनं तु दोषोत्क्लेशम्| प्रसक्तच्छर्द्यादीनां वायुर्निरूहमूर्ध्वं नयेत्| अनुवासनञ्चार्शसस्यावृतमार्गत्वादनागच्छन्बस्तिः प्राणान् हिंस्यात्| स्नेहः पुनरर्शांस्यभिष्यन्द्याध्मानाय स्यात्| बद्धोदराद्याध्मानान्तानां भृशतरमाध्मानान्मृत्युः| अलस- कार्तादीनां चामदोषात्| अरोचकार्तादीनां यथास्वमाम- यवृद्धिः| गर्भिण्याः पूर्वोक्तो दोषः||१३||
🔊 Audio coming soon
Adhikarana anuvAsyAH ananuvAsyAshca (14) · Śloka 14
य एवास्थाप्यास्त एवानुवास्याः| रूक्षातिदीप्ताग्नयः केवलानिलार्ताश्च विशेषेण| एते परमनुवासनेनाप्याय्यन्ते मूलसेकेन वृक्षवत्| य एवानास्थाप्यास्त एवाननुवा- स्याः| तथा निरन्ननवज्वरपाण्डुरोगकामलाप्रमेहप्रति- श्यायप्लीहकफोदराढ्यवातवर्चोभेदार्तपीतविषगरपित्त- कफाभिष्यन्दगुरुकोष्ठातिस्थूलश्लीपदगलगण्डापची- क्रिमिणकोष्ठः| तत्रातिस्निग्धादीनां यथास्वमुक्ताः पृथ- ग्दोषाः||१४||
🔊 Audio coming soon
Adhikarana aBuktavata eva nirUho deyaH, BojanaM kRutavata evAnuvAsanaM deyam (15) · Śloka 15
अपि च - अभुक्ते रिक्तकोष्ठस्य प्रयुक्तमनुवासनम्| सरदूरगसूक्ष्मत्वैः क्षिप्रमूर्ध्वं प्रपद्यते| तेन वायोर्जयो न स्याद्वातस्थाने ह्यतिष्ठता| कायाग्नेराशु नाशश्च विशेषादनिवर्तनात्| स्नेहः सद्योशिताहाररुद्धे त्वामाशयेऽनिलम्| पक्वस्थं हन्ति पक्वस्थश्च्यवते चान्नपाकतः| निरूहश्च समीरश्च तीक्ष्णवेगावुभावपि| तावन्नमूर्च्छितौ तीक्ष्णावधोऽन्नेन सहागतौ| ऊर्ध्वं वा शकृता सार्द्धं संस्थितौ कोष्ठ एव वा| समलाहारविष्टब्धौ हरेतामाशु जीवितम्| भुक्तवाननुवास्योऽस्मान्न निरूह्यस्तु भुक्तवान्||१५||
🔊 Audio coming soon
Adhikarana pANDurogArtAdInAmanuvAsane doShaH (16) · Śloka 16
पाण्डुरोगार्तादीनां दोषानुत्क्लेश्य स्नेहबस्तिरुदरं जनयेत्| प्रतिश्यायादिमतां भूय एव दोषं वर्धयेत्||१६||
🔊 Audio coming soon
Adhikarana bastenetravidhAnam (17) · Śloka 17
तयोस्तु नेत्रं सुवर्णादिधातुमणिशङ्ख़शृङ्गदन्तास्थिवेणुन- लख़दिरकदरतिनिशतिन्दुकादिदारुसारमयमृज्वकर्कशं गोपुच्छाकृतिगुलिकामुख़मूनवर्षवार्षिकसप्तद्वादश- षोडशवर्षाणां विंशतिप्रभृतिषु च क्रमात् पञ्चषट्सप्ता- ष्टनवद्वादशाङ्गुलप्रमाणम्| मूलेऽग्रे चातुराङ्गुष्ठकनिष्ठि- कापरिणाहमर्धाङ्गुलात् प्रभृत्यर्धाङ्गुलप्रवृद्धत्र्यङ्गुलपर्य- न्तप्रवेशमूलच्छिद्रं वनमुद्गमुद्गमाषकलायक्लिन्नकला- यकर्कन्धुवाह्यग्रच्छिद्रं मूलछिद्रप्रमाणाङ्गुलैरग्रे यथा- स्वं सन्निविष्टकर्णिकं कर्णिकान्तः प्रतिबद्धसूत्रान्तर्गृही- ताग्रपिधानग़नचैलवर्ति| मूले द्व्यङुलान्तराले कर्णिकाद्वयं कारयेत्| वर्षान्तरेषु च वयोबलशरीराण्यवेक्ष्य नेत्र- प्रमाणमुत्कर्षयेत्||१७||
🔊 Audio coming soon
Adhikarana bastiyantram (18) · Śloka 18
ततोऽजाविवराहहरिणगोमहिषान्यतमजं स्नेहमुद्गविमृदितं विगतच्छिद्रसिराग्रन्थिस्कन्धं नातिवर्तुलं मृदु दृढं कषायरक्तं सुख़सम्स्थाप्यौषधप्रमाणं न्युब्जं विवृता- ननं निवेश्य बस्तिं कर्णिकयोर्दृढेन सूत्रेण ग़नं समं च बध्वा परिवर्त्त्य पुनश्चान्यद्बस्तिमुख़बन्धनार्थं सूत्रमुप धायानुगुप्तं निधापयेत्||१८||
🔊 Audio coming soon
Adhikarana bastyaBAve svIkAryamanyat (19) · Śloka 19
बस्त्यभावे प्लवनी छागलाङ्कपादमधूच्छिष्टोपदिग्ध- ग़नसूक्ष्मतान्तवान्यतमं निवेशयेत्||१९||
🔊 Audio coming soon
Adhikarana AsthApanamAtrA (20) · Śloka 20
आस्थापनमात्रा तु प्रथमे वर्षे प्रकुञ्चः| ततः परं प्रतिवर्षं प्रकुञ्चमभिवर्धयेदाषट्प्रसृतात्| ततश्चोर्ध्वं प्रसृताभि वृद्धिः| प्राप्तानतीताष्टादशसप्ततेस्तु द्वादश प्रसृताः| परं चातो दशैव| अन्ये पुनर्द्वादशप्रसृतस्याप्यष्टाविच्छन्ति||२०||
🔊 Audio coming soon
Adhikarana mAdhutailikAnuvAsanayormAtrA (21) · Śloka 21
यथास्वमास्थापनमात्रा पादहीना माधुतैलिके प्रयोज्या| अनुवासने त्वेवमेवास्थापनस्य पाद इति||२१||
🔊 Audio coming soon
Adhikarana AsthApanIyasya pUrvamanuvAsanantasya kAlashca (22) · Śloka 22
अथास्थापनीयमातुरं स्नेहस्वेदोपपन्नं कृतवमनविरेक- मासेवितपेयादिसंसर्गक्रममुपजातबलमनुवासनार्हं पूर्व- मेवानुवासयेत्| शीतवसन्तयोर्दिवा अन्यथा रात्राववेक्ष्य वा दोषादीन्| अन्यथा हि स्नेहोक्तामयप्रादुर्भवः||२२||
🔊 Audio coming soon
Adhikarana anuvAsanabastidAnaviShaye dhAnvantarIyamataM Atyayike svamata~jca (23) · Śloka 23
धन्वन्तरीयाः पुनराहुः- न रात्रौ प्रणयेद्बस्तिं स्नेहोत्क्लेशो हि रात्रिजः| स्नेहवीर्ययुतः कुर्यादाध्मानं गौरवं ज्वरम्| अह्नि स्थानस्थिते दोषे वह्नौ चान्नरसान्विते| स्फुटस्रोतोमुख़ं देहं स्नेहो यत् परिसर्पति| अल्पपित्तकफं रूक्षं भृशं वातरुजार्दितम्| भुक्तं जीर्णाशनं कामं रात्रावप्यनुवासयेत्| केवलानिलनिपीडितं त्वशुद्धमप्यनिरूपितबलं चाप्य- नुवासयेदात्ययिकत्वाद्व्याधेः||२३||
🔊 Audio coming soon
Adhikarana anuvAsyasya pUrvA~ggatvena ma~ggalAdi (24) · Śloka 24
तस्य विधिर्वमनादधिकतरं कृतमङ्गलमनुसुख़मभ्य- क्तमुष्णाम्बुस्नातं युक्तस्नेहमुचितात् पादहीनं द्रवपूर्वं लग़ूष्णं सानुपानमशनमशितवन्तं कृतचङ्क्रमणमुत्सृष्ट- विण्मूत्रमशनार्द्रहस्तमशङ्कनीयपरिचारकं निवाते वेश्मनि प्रततशयने नात्युच्छ्रिते स्वास्तृते ईषदुन्नमितपाददेशे वाम- पार्श्वेन प्राक्शिरसं संवेशयेत्||२४||
🔊 Audio coming soon
Adhikarana anuvAsyasya snigdhAdyAhArasevane doShAH (25) · Śloka 25
अतिस्निग्धाशिनो ह्युभयमार्गसंसर्गात् स्नेहो मदमूर्च्छा- ग्निसादहृल्लासान् जनयति| रूक्षाशिनो विष्टम्भं बलवर्णहानिं वा| अल्पमात्रद्रवाशिनो विसृष्टविण्मूत्रस्य चानावृतेन तदावृताद् व्यापदम्| चिरमशितवतो विदा- हाभिमुख़भक्तस्य ज्वरं कुर्यात्||२५||
🔊 Audio coming soon
Adhikarana anuvAsyasya vAmapArshvashAyane hetavaH (26) · Śloka 26
यतश्च वामपार्श्वाश्रयाणि वह्निग्रहणीगुदवलामुख़ानि तानि तत्पार्श्वशायिनो निम्नानि भवन्ति| अतस्तदौषधमस्ख़- लितमाप्नोति प्रवेशनिर्गमावति संविष्टं चैनमृजुस्थितदेहं स्वबाहूपधानं प्रसारितवामसक्थिमाकुञ्चितेतरं तस्यैव चोपरि प्रसारितदक्षिणबाहुं कारयेत्||२६||
🔊 Audio coming soon
Adhikarana anuvAsanabastidAnavidhiH (27) · Śloka 27
पुर्वमेव तु वैद्यो वर्त्त्या सुपिहिताग्रच्छिद्रं नेत्रं भाजन- स्योपरि कृत्वा दक्षिणपादाङ्गुष्ठाङ्गुलीभ्यां कर्णिकाया उपरिष्टन्निष्पीड्याविबन्धाय शताह्वसैन्धवचूर्णावचूर्णितं प्रागेव नेत्रस्पर्शात् पूर्ववदभिमन्त्रितं यथार्हं यथार्हौषधा- विपक्वं सुख़ोष्णं बस्तौ स्नेहमासिच्यावलीकोच्छ्वासं निःसारितवातबुद्बुदमौषधान्ते सूत्रेण द्विस्त्रिर्वा बस्तिमुख़- मावेष्ट्य दक्षिणपाणौ नेत्रमुपनिधाय तिष्ठेत्| ततो ग़ृता- भ्यक्ते पाणौ वामहस्तप्रदेशिन्याभ्यक्तप्रवेशप्रदेशमप- नीतवर्त्युत्तानवामहस्ताङ्गुष्ठोदरपिहिताग्रं मध्यमाप्रदेशि- न्युपगृहीतकर्णिकमृज्वनुपृष्ठवंशमनुसुख़मेकमना लाग़- वेन निष्कम्पमद्रुतमविलम्बितं नेत्रमाकर्णिकं प्रवेशयेत्| आतुरोऽपि तदनुलोमयन्नवलम्बेत| ततश्च वैद्यो बस्ति- मुख़ं दक्षिणहस्ताङ्गुष्ठप्रदेशिनीभ्याममुञ्चन्नेत्रमचालयन् हस्तद्वयेनोत्तानेनैकग्रहणेनैवानिलाधिष्ठानभूतं किञ्चिदव- शेषयन् शनैः शनैरवेगमनुपीडयेत्| अन्यथा हि व्यापदो भवन्ति| ताः ससाधनाः सिद्धिषु वक्ष्यन्ते||२७||
🔊 Audio coming soon
Adhikarana bastipIDanakAlaviShaye anyamatam (28) · Śloka 28
अन्ये तु त्रिंशन्मात्राः पीडनकालमाहुः||२८||
🔊 Audio coming soon
Adhikarana bastidAnasamaye AtureNa parihAryANi (29) · Śloka 29
न च बस्तौ दीयमाने क्षवकासहासजृम्भास्पन्दनान्या- चरेत्||२९||
🔊 Audio coming soon
Adhikarana Aturasya viNmUtrAnilavege vidhAnam (30) · Śloka 1
विण्मूत्रानिलवेगे तु नेत्रमाकृष्य वेगान्ते शेषं प्रणयेत्||१||
🔊 Audio coming soon
Adhikarana bastidAnAnantarIyo vidhiH (31) · Śloka 31
अन्ते चोत्तानस्य स्फिजौ पाणितलेन त्रिचतुरो वारांस्ता- डयेत्| तथा तत्पार्ष्णिभ्याम्| पादतश्च शय्यां त्रिरुत्क्षिपेत्| सोपधानस्य च प्रसारितसर्वाङ्गस्य पार्ष्णिके मुष्टिना हन्यात्| तथा पार्ष्ण्यङ्गुलिपादतलपिण्डिकाः| सरुजं चाङ्गं स्नेहेन प्रतिलोमं वाक्शतमात्रं शनैर्विमृद्नीयात्| एवमाशु स्नेहो न निवर्तते| समनुगच्छति चासमन्ता- त्सिराः| ततः परं तु स्नेहोक्तमाचारमनुवर्तते||३१||
🔊 Audio coming soon
Adhikarana anuvAsitasya BojananiyamAdi (32) · Śloka 32
दीप्ताग्निञ्च सायं लग़्वन्नं भोजयेत्| नैव चानागत- स्नेहमपि द्वितीयेऽहनि| न च तमनुवासयेत्||३२||
🔊 Audio coming soon
Adhikarana anuvAsanauShadhapratyAgamanakAlAvidhiH anivRuttau pratIkArAdi (7) · Śloka 7
आगमनकालस्तु परो यामत्रयम्| ततः परमनागच्छन्त- महोरात्रमुपेक्षेत| तदाप्यनिवर्तमाने फलवर्तीभिर्लवणा- रनालप्रायैर्वा तीक्ष्णबस्तिभिः शोधयेत्| स्नेहव्याप- त्सिद्धिं चावेक्षेत| अतिरौक्ष्यादनागच्छन्न चेज्जाड्या- द्युपद्रवाय स्यात्, तथाप्युपेक्ष्यः| शीग़्रनिवृत्ते तु विना मलेन केवले स्नेहे स्नेहमन्यंपुनर्योजयेत्| न ह्यसावतिष्ठन् कार्यकरो भवति||७||
🔊 Audio coming soon
Adhikarana anuvAsitasya paradine kvAthauShadhAdi (33) · Śloka 33
सुख़ोषितं चैनं तथाकृतवमनविरेचनास्थापनान्यतमं प्रातः शुण्ठीधान्यक्वाथमितरच्चोष्णोदकं वा स्नेहशेषजरणाय वातकफोपशान्तये च पाययेत्||३३||
🔊 Audio coming soon
Adhikarana punaranuvAsanam (34) · Śloka 34
ततोऽन्नकाले यथोक्तमन्नमश्नीयात्| न चानुवासितं पेयां पाययेत्| सा हि सस्नेहकोष्ठमभिष्यन्दयति| पुनश्च तृतीयेऽहन्यनुवासयेत् पञ्चमे वा| यथा वा स्नेहपक्तिः स्यात्| अतश्च दीप्ताग्निरूक्षवातोबणव्यायामनित्यान् प्रत्यहम्| एवममुना क्रमेण दोषाद्यनुसारतिस्त्रिचतुरैः स्नेहबस्तिभिरुपस्निग्धं शोधनेनास्थापनेन स्रोतोविशु- द्ध्यर्थमास्थापयेत्| वाताधिक्यादस्निग्धन्तु स्नेहनेन||३४||
🔊 Audio coming soon
Adhikarana anuvAsitasyAsthApanAtprAkkRutyam (35) · Śloka 35
अथैनं तृतीये पञ्चमे वाहनि किञ्चिदावृत्ते मध्याह्ने कृत- मङ्गलस्वस्त्ययनमभ्यक्तदेहं स्वेदितमुत्सृष्टमलमनाशितं नातिक्षुधितमवेक्ष्यातुरमार्यावलोकितं नाथमार्यतारामा- त्मभुवं धातारमश्विनाविन्द्रमात्रेयं सप्तर्षीन् काशिराजं विदेहपतिप्रभृतीनग्निवेशादींश्च तन्त्रकारान् दीपगन्ध- फलबलिधूर्पैर्यज्ञ इव प्रकल्पितभागान् कृत्वौषधीर्वृद्ध- वैद्यद्विजातींश्च सम्पूज्य तद्विद्यसहितो दोषौषधादिबलेन यथार्हमुपकल्पयेद्बस्तिम्||३५||
🔊 Audio coming soon
Adhikarana AsthApanauShadhakalpanA (36) · Śloka 36
तत्र विंशतिमात्राणि पलान्यौषधानां मदनफलाष्टकं च क्वाथकल्पेन विपचेत्| क्वाथाच्चतुर्थाशं स्नेहमनिले षष्ठांशं पित्ते स्वस्थवृत्ते चाष्टमांशं तु कफे| सर्वस्य चाष्टमांशं कल्कस्य स्याद्यावता नात्यच्छसान्द्रता भवेत्| गुडस्य पत्नं युक्त्या मधुसैन्धवे यथायोग्यं च शेषाणि कल्पयेत्||३६||
🔊 Audio coming soon
Adhikarana AsthApanauShadhasya saMskAraH praNayana~jca (37) · Śloka 37
सर्वाणि चैकध्यमुष्णोदककुम्भबाष्पाभितप्तानि ख़ज- मथितानि बस्तौ प्रक्षिप्यानुवासनवन्निरूहं प्रणयेत्| नात्यु- ष्णशीतं नातिमृदुतीक्ष्णं नातिस्निग्धरूक्षं नातितनुसान्द्रं न हीनातिमात्रं नलवणतिलवणं नात्यम्लञ्च| तत्र बाष्प- मात्रानुतापादौषधस्य विदाहो न भवति| ख़जप्रमथनात्तु क्वाथस्नेहादयः सम्यक् सम्प्रयुक्ताः सम्यगेव योगमार- भन्ते| अन्यथा पुनः क्वाथादीनामुल्बणोऽन्यतमोऽन्य- तमं यथास्वं दोषमीरयेत्| अत्युष्णादीनान्तु पृथग्व्यापदः साधनानि च सिद्धिषूत्तरकालमुपदेक्ष्यन्ते||३७||
🔊 Audio coming soon
Adhikarana vaikalyAdiBirjAyamAnAH doShAH (6) · Śloka 6
अपि च- तिर्यक्प्रणीते हि न याति धारा गुदे व्रणः स्याच्चलिते च नेत्रे| दत्तः शनैर्नाशयमेति बस्तिः कण्ठं प्रधावेदतिपीडितस्तु| स्तम्भं विधत्तेऽतिमृदुर्हिमश्च तप्ताम्लतीक्ष्णो भ्रमदाहमोहान्| स्निग्धोऽतिजाड्यं पवनन्तु रूक्ष- स्तन्वल्पमात्रा लवणस्त्वयोगम्| करोति मात्राभ्यधिकोऽतियोगं क्षोभं तु सान्द्रः सुचिरेण चैति| दाहातिसारौ लवणोऽति कुर्यात् तस्मात्सुयुक्तं सममेव दद्यात्||६||
🔊 Audio coming soon
Adhikarana AsthApanadravyamAtrAviShaye anyamatam (38) · Śloka 38
अन्ये पुनराहुः- मात्रां त्रिपलिकां कुर्यात् स्नेहमाक्षिकयोः पृथक्| कर्षार्धं माणिमन्थस्य स्वस्थे कल्कपलद्वयम्| सर्वद्रवाणां शेषाणां पलानि दश कल्पयेत्||३८||
🔊 Audio coming soon
Adhikarana nirUhadravyANAM saMyojanavidhiH (39) · Śloka 39
माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात्| आवपेत निरूहाणामेष संयोजने विधिः||३९||
🔊 Audio coming soon
Adhikarana nirUhadAnottaraM rogiNaH kRutyam (40) · Śloka 40
दत्तमात्रे तूत्तानः सोपधानो निरूहवीर्येण देहव्याप्तये तन्मनास्थिष्ठेत्| उदीर्णवेगश्चोत्कुटिको विसृजेत्||४०||
🔊 Audio coming soon
Adhikarana nirUhapratyAgamanakAlaH anAgame pratIkArashca (5) · Śloka 5
आगमनकालस्तु परो मुहूर्तः| तदा ह्यनागच्छन्नाशु मृत्यवे स्यात्| अतस्तत्रानुलोमिकं स्नेहक्षारमूत्राम्लस्निग्धती- क्ष्णोष्णमन्यं प्रयोजयेत्| फलवर्तिस्वेदभयोत्त्रासादींश्च| बस्तिव्यापत्सिद्धिं चावेक्षेत||५||
🔊 Audio coming soon
Adhikarana punarnirUhAH (41) · Śloka 41
स्वयं निवृत्ते तु पूर्ववद् द्वितीयं तृतीयं चतुर्थं च दद्याद्या- वद्वा सुनिरूढः स्यात्||४१||
🔊 Audio coming soon
Adhikarana prathamadvitIyatRutIyanirUDhAnAM krameNa vAtAdinirharatvam (42) · Śloka 42
तत्राद्योऽनिलं स्वमार्गादपकर्षति| द्वितीयः पित्तम्| तृतीयः श्लेष्माणमिति||४२||
🔊 Audio coming soon
Adhikarana nirUhahInayogAdilakShaNAni (43) · Śloka 43
तस्य हीनसम्यगतियोगास्तु विरिक्तवत्||४३||
🔊 Audio coming soon
Adhikarana samya~gnirUDhasyopacAraH (44) · Śloka 44
सम्यङ्निरूढन्तु कोष्णसलिलावसिक्तं तनुना जाङ्ग- लरसेन भोजयेत्| स्नाताशितस्यास्य चला दोषशेषाः स्वस्थानमाश्रयन्ते||४४||
🔊 Audio coming soon
Adhikarana AsthApanAntaraM punaranuvAsanaM tasya vidhishca (45) · Śloka 45
ततः पुनर्वातार्तमातुरं बृंहणीयमन्यं वा तद्विधमशिता- नन्तरं सायं वा पुनरल्पलग़्वशितं यथास्वम-निलादिषु दशमूलादिसिद्धेन तैलेन अनुवासयेत्| तस्य हीनसम्य- गतियोगास्तु स्नेहपीतवत्| विशेषस्तु सम्यगनुवासिते किञ्चित्कालं स्थित्वा स्नेहः सपुरीषोऽनिलानुगतः प्रव- र्तत एव||४५||
🔊 Audio coming soon
Adhikarana doShaBedAnusAraM tattadAvRutti- pUrtAvAsthApanavidhishca (46) · Śloka 46
भवति चात्र- एवं कफे स्नेहबस्तिमेकं त्रीन् वा प्रयोजयेत्| पञ्च वा सप्त वा पित्ते नवैकादश वाऽनिले| पुनस्ततोऽप्ययुग्मांस्तु पुनरास्थापनां ततः||४६||
🔊 Audio coming soon
Adhikarana doShaBedAnusAramannasahayogidravaBedaH (47) · Śloka 47
कफपित्तानिलेष्वपन्नं यूषक्षीररसैः क्रमात्||४७||
🔊 Audio coming soon
Adhikarana vAtAdiBedena nirUhayogaBedA- steShAM saMKyA ca (48) · Śloka 48
वातग़्नौषधनिष्क्वाथत्रिवृत्तासैन्धवैर्युतः| बस्तिरेकोऽनिले स्निग्धः स्वाद्वल्मोष्णरसान्वितः| न्यग्रोधादिगणक्वाथपद्मकादिसितायुतौ| पित्ते स्वादुहिमौ साज्यक्षीरेक्षुरसमाक्षिकौ| आरग्वधादिनिष्क्वाथवत्सकादियुतास्त्रयः| रूक्षाः सक्षौद्रगोमुत्रास्तीक्ष्णोष्णकटुकाः कफे| त्रयश्च सन्निपातेऽपि दोषाण् ग़्नन्ति यतः क्रमात्||४८||
🔊 Audio coming soon
Adhikarana nirUhabastisa~gKyAyAmAcArya- carakasya sammatiH (49) · Śloka 49
नाचार्यचरकस्यातो बस्तिस्त्रिभ्यः परं मतः| न हि दोषश्चतुर्थोऽस्ति पुनर्दीयेत यं प्रति||४९||
🔊 Audio coming soon
Adhikarana anyamatena bastestraividhyam (50) · Śloka 50
उत्क्लेशनं शुद्धिकरं दोषाणां शमनं क्रमात्| त्रिधैव कल्पयेद्बस्तिमित्यन्येऽपि प्रचक्षते||५०||
🔊 Audio coming soon
Adhikarana nirUhabastisa~gKyA samyagyoganirBarA (51) · Śloka 51
दोषौषधादिबलतः सर्वमेतत् प्रमाणयेत्| सम्यङ्निरूढलिङ्गन्तु नासम्भाव्य निवर्तयेत्||५१||
🔊 Audio coming soon
Adhikarana karma-kAla-yoga-bastividhiH (52) · Śloka 52
प्राक्स्नेह एकः पञ्चान्ते द्वादशास्थापनानि च| सान्वासनानि कर्मैवं बस्तयस्त्रिंशदीरिताः| कालः पञ्चशैकोऽत्र प्राक्स्नेहोऽन्ते त्रयस्तथा| षट् पञ्च बस्त्यन्तरताः योगोऽष्टौ बस्तयोऽत्र तु| त्रयो निरूहाः स्नेहाश्च स्नेहावाद्यन्तयोरुभौ||५२||
🔊 Audio coming soon
Adhikarana snehabastinirUhayorekasyaiva nairantaryeNa prayoganiShedhastatra hetushca (53) · Śloka 53
स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्| उत्क्लेशाग्निवधो स्नेहान्निरूहान्मरुतो भयम्| तस्मान्निरूढः स्नेह्याः स्यान्निरूह्यश्चानुवासितः| स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषजित्||५३||
🔊 Audio coming soon
Adhikarana aShTAdashAShTAdashakabastisevanaPalam (54) · Śloka 54
अष्टादशाष्टदशकान् बस्तीनां यो निषेवते| विधिना ना यथोक्तेन स भवेदजरोऽरुजः| सहस्रायुः श्रुतधरो वीतपाप्मामरप्रभः| वाजिस्यदो नागबलः स्थिरबुद्धीन्द्रियानलः||५४||
🔊 Audio coming soon
Adhikarana uttarabastyupayogaH (2) · Śloka 2
बस्तौ रोगेषु नारीणां योनिगर्भाशयेषु च| द्वित्रास्थापनशुद्धेभ्यो विदध्याद्बस्तिमुत्तरम्||२||
🔊 Audio coming soon
Adhikarana puruShANAmuttarabastinetrapramANAdi (55) · Śloka 55
आतुराङ्गुलमानेन तन्नेत्रं द्वादशाङ्गुलम्| वृत्तं गोपुच्छवन्मूलमध्ययोः कृतकर्णिकम्| सिद्धार्थकप्रवेशाग्रं श्लक्ष्णं हेमादिसम्भवम्| कुन्दाश्वमारसुमनःपुष्पवृन्तोपमं दृढम्| तस्य बस्तिर्मृदुलग़ुर्मात्रा शुक्तिर्विकल्प्य वा||५५||
🔊 Audio coming soon
Adhikarana puruShANAmuttarabastipraNayanavidhAnAdi (56) · Śloka 56
अथ स्नाताशितस्यास्य स्नेहबस्तिविधानतः| ऋजोः सुख़ोपविष्टस्य पीठे जानुसमे मृदौ| हृष्टे मेढ्रे स्थिते चर्ज्जु शनैः स्रोतोविशुद्धये| मालतीपुष्पवृन्ताग्रपरिणाहां ग़नामृजुम्| श्लक्ष्णां शलाकां प्रणयेत्तया शुद्धेऽनुसीवनीम्| आमेहनान्तं नेत्रं च निष्कम्पं गुदवत्ततः| पीडितेऽनुगते स्नेहे स्नेहबस्तिक्रमो हितः| बस्तीननेन विधिना दद्यात् त्रींश्चतुरोऽपि वा| अनुवासनवच्छेषं सर्वमेवास्य चिन्तयेत्||५६||
🔊 Audio coming soon
Adhikarana strINAM yoniviBraMshAdiShUttara- bastidAnakAlaH (57) · Śloka 57
स्त्रीणामार्तवकाले तु योनिर्गृह्णात्यपावृतैः| विदधीत तदा तस्मादनृतावपि चात्यये| योनिविभ्रंशशूलेषु योनिव्यापद्यसृग्दरे||५७||
🔊 Audio coming soon
Adhikarana strINAmuttarabastinetrapramANAdi (58) · Śloka 58
नेत्रं दशाङ्गुलं मुद्गप्रवेशं चतुरङ्गुलम्| अपत्यमार्गे योज्यं स्याद् द्व्यङ्गुलं मूत्रवर्त्मनि| मूत्रकृच्छ्रविकारेषु बालानां त्वेकमङ्गुलम्| प्रकुञ्चो मध्यमा मात्रा बालानां शुक्तिरेव तु||५८||
🔊 Audio coming soon
Adhikarana strINAmuttarabastidAnavidhiH bastyAvarttanakramashca (59) · Śloka 59
उत्तानायः शयानायाः सम्यक्सङ्कोच्य सक्थिनी| ऊर्ध्वजान्वास्त्रिचतुरानहोरात्रेण योजयेत्| बस्तीस्त्रिरात्रमेवं तु स्नेहमात्रां विवर्धयेत्| त्र्यहमेवं च विश्रम्य प्रणिदध्यात्पुनस्त्र्यहम्||५९||
🔊 Audio coming soon
Adhikarana vamanAdInAmantaram (60) · Śloka 60
पक्षाद्विरेको वमिते ततः पक्षान्निरूहणम्| सद्यो निरूढश्चान्वास्यः सप्तरात्राद्विरेचितः||६०||
🔊 Audio coming soon
Adhikarana bastinA malamAtranirharaNe dRuShTAntaH (61-62) · Śloka 62
यथा कुसुम्भादियुतात्तोयाद्रागं हरेत् पटः| तथा द्रवीकृताद् देहाद्बस्तिर्निर्हरते मलान्||६१|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने बस्तिविधिर्नामाष्टाविंशोऽध्यायः||६२||
🔊 Audio coming soon