Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

29. nasyavidhiḥ

Adhikarana atha nasyavidhirnAmaikonatriMsho&dhyAyaH pratij~jA (1) · Śloka 1

अथातो नस्यविधिर्नामाध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

इह हि दोषनिर्हरणाय वमनादीनि कर्माण्युक्तानि तानि च शिरोगतान् दोषाण् न तथा निर्हर्तुं शक्नुवन्ति यथा नस्यम् | नासा यस्माच्छिरसो द्वारम् | तया च प्रयुक्तमोउषधमाश्वेवोत्तमाङ्गाद् दोषमपकर्शत्यतस्तस्य विधानपरिज्ञानार्थमध्यायारम्भः- अथात इत्यादि || १ ||

Adhikarana nasyanirvacanaM paryAyAshca (2) · Śloka 2

नासायां प्रणीयमानमोउषधं नस्यम्| नावनं नस्यकर्मेति च संज्ञां लभते||२||

🔊 Audio coming soon

नासायामित्यादिना नस्यसंज्ञाया अन्वर्थकथनम् | नासया शिरसि प्रणीयमानमोउषधं नस्यसंज्ञां लभते || २ ||

Adhikarana nasyasyordhvajannuvikAreShu kArmukatvam (3) · Śloka 3

नासा हि शिरसो द्वारम्| तत्रावसेचितमोउषधं स्रोतः- शृङ्गाटकं प्राप्य व्याप्य च मूर्धानं नेत्रश्रोत्रकण्ठादि- सिरामुख़ानि च मुञ्जादिषीकामविसक्तामूर्ध्वजत्रुगतां वैकारिकीमशेषामाशु दोषसंहतिमुत्तमाङ्गादपकर्षति||३||

🔊 Audio coming soon

स्रोतःशृङ्गाटकं शिरसो&अम्प्;न्तर्मध्यं प्राप्य व्याप्य च मूर्धानं नेत्रादीनि चोत्तमाङ्गादूर्ध्वगतां विविधविकारहेतुं दोषसंहतिमपकर्षति | यथान्यः कश्छिन्मुञ्जात्तृणविशेषादिषीकां दर्भशलाकामपकर्षति | सा हीषिका मुञ्जे तदङ्गत्वादतिसुलग्ना भवतीति दृष्टान्तप्रयोजनम् | अक्षकाख़्योरस्थ्नोः सन्धिर्जत्रुर्नाम मर्म || ३ ||

Adhikarana nasyaBedAH (4) · Śloka 4

तत्तु त्रिविधं विरेचनं बृंहणं शमनं च||४||

🔊 Audio coming soon

तच्च नस्यं विरेचनादिभेदेन त्रिविधम् | नामभिरेव प्रधानो&अम्प्;र्थो व्याख़्यातः || ४ ||

Adhikarana virecananasyArhAH virecananasyadravyAdi ca (5) · Śloka 5

तेषां विरेचनं जत्रूर्ध्वगोउरवशोफोपदेहकण्डूस्तम्भाभि- ष्यन्दपाकप्रसेकवैरस्यारोचकस्वरभेदक्रिमिप्रतिश्याया- पस्मारगन्धाज्ञानग्रन्थ्यर्बुददद्रुकोठादिषु श्लेष्मजेषु तीक्ष्णेन स्नेहेन शिरोविरेचनद्रव्यैर्वा सिद्धेन तेषां वा क्वाथचूर्ण- स्वरसैस्तैरेव वा यथार्हद्रवश्लक्ष्णकल्कितालोडितैर्मधु- सैन्धवासवपित्तमूत्रैर्यथास्वञ्चोपदिष्टैर्योज्यम्||५||

🔊 Audio coming soon

तत्र विरेचनं नाम नस्यं श्लेष्मजेषु जत्रूर्ध्वगोउरवादिषु देयम् | केनोउषधेनेत्युच्यते-तीक्ष्णेनेत्यादि | तीक्ष्णेन सार्षपादिना स्नेहेन शिरोविरेचनद्रव्यैर्वा सिद्धेन स्नेहेन तेषामेव शिरोविरेचनानां क्वाथादिभिः तैरेव वा शिरोविरेचनद्रव्यैर्यथार्हेण मद्याद्यन्यतमेन द्रवेनालोडितैर्यथास्वं यथोक्तेषु च व्याधिषु स्वप्रकरणेषूपदिष्टैरोउषधैः || ५ ||

Adhikarana adhikAraBedena snehAdikalpanABedaH (6) · Śloka 6

तत्र भीतक्लीबकृशसुकुमारेषु स्नेहः| गलरोगसन्नि- पातज्वरातिनिद्रामनोविकारक्रिमिविषाभिपन्नाभिष्य- ण्णसर्पदष्टविसंज्ञेषु शेषाः| तेष्वेव भूयसि दोषे शीग़्र- कारिणि च चूर्णः| स हि निहितनासाग्रआवेगकरतरो भवति||६||

🔊 Audio coming soon

तत्र भीतादिषु यथोक्ते व्याधोउ स्नेहविरेचनं देयम् | गलरोगादिषु सेह्षाः क्वाथादयः | तेष्वेव गलरोगादिषु प्रभूते शीग़्रकारिणि दोषे चूर्णस्य विशेष इति विरेचनं नस्यम् || ६ ||

Adhikarana bRuMhaNanasyArhA vyAdhayaH dravyANi ca (7) · Śloka 7

बृंहणं सूर्यावर्तार्धावभेदककृमिशिरोरोगाक्षिसङ्कोचस्प- न्दतिमिरकृच्छ्रावबोधदन्तकर्णशूलनादनासामुख़शोष- वाक्यसङ्गस्वरोपग़ातमन्यारोगापतानकापबाहुकनिद्रा- नाशादिष्वनिलोत्थेषु स्निग्धमधुरद्रव्यैस्तत्सिद्धैर्यथायथ- ञ्चोपदिष्टैः स्नेहैर्निर्यासैर्धन्वमांसरसरक्तैश्छ||७||

🔊 Audio coming soon

बृंहणं तु सूर्यावर्तादिषु वातप्रधानेषु स्निग्धमधुरादिभिर्द्रव्यैर्योज्यम् | निर्यासो यो वृक्षात् परिस्रुत्य निस्सरति ख़पुरादिः ||७||

Adhikarana shamanasyArhA vyAdhayaH dravyaBedashcha dravyAdi ca (8) · Śloka 8

शमनमकालवलीपलितख़लतिदारुणकरक्तराजीव्यङ्गनी- लिकारक्तपित्तादिषु यथास्वमुपदिष्टैः स्नेहैर्भेषजस्वर- सादिभिः क्षीरोदकाभ्यां वा समदोषे वाणुतैलेनेति||८||

🔊 Audio coming soon

शमनं पुनरकालपलितादिषु यथास्वप्रकरणोक्तैः स्नेहैः स्वर सादिभिश्छ | समदोषे पुरुषे वक्ष्यमाणेनाणुतैलेन || ८ ||

Adhikarana snehanasyasya dvaividhyamavapIDAdivivaraNa~jca (9) · Śloka 9

तत्र स्नेहो मात्राभेदाद् द्विधा-मर्शः प्रतिमर्शश्छ| विरे- चनः शमनो वा नासया प्रणीयमानः कल्को&अम्प्;वपीडसंज्ञो विरेचनचूर्णस्य प्रधमनाख़्यः| परिशेषं तु नावनमव- पीडकसंज्ञम्| कल्कीकृतादोउषधादवपीडितः स्रुतो रसो- &अम्प्;वपीड इत्यपरेषाम्| तत्र पुनस्तीक्ष्णे वैशेषिकी शिरो- विरेचनसंज्ञा| तथान्ये सर्वमेव विरेचनं नस्यमित्याहुः| सद्यः श्लेष्मविरेचनसामान्यात्||९||

🔊 Audio coming soon

तत्र स्नेहो मात्राद्वैविध्याद् द्विधा मर्शः प्रतिमर्शश्छ | चूर्णस्य प्रधमनं पर्यायः | शेषं क्वाथादिकमवपीडकमुच्यते | अपरेषामाचार्याणां कल्क एवावपीडकमवपीड्य दानात् | यद्यपि सर्वं नस्यं श्लेष्मरेचनसामान्याद्विरेचनं तथापि तीक्ष्णे नस्ये विरेचनसंज्ञा वैशेषिकी अद्वितीया असाधारणा || ९ ||

Adhikarana aNutailANuGRute (10) · Śloka 10

अथाणुतैलस्य विधानमुच्यते| अणुतैलविधानं तु मञ्जि- ष्ठामधुकप्रपोउण्डरीकजीवकर्षभककालोलीद्वयपयस्या- सारिवानन्तानीलोत्पलाञ्जनरास्नाविडङ्गतण्डुलमधुपर्णी- श्रावणीमेदाकाकनासासरलसालभद्रदारुचन्दनैः सुपि- ष्टैरष्टगुणं षड्गुणेन पयसा तैलं पचेत्| ग़ृतं व पित्तो- ल्बणेषु दोषेषु||१०||

🔊 Audio coming soon

मञ्जिष्ठादीन् समभागात्सुपिष्टान् कारयेत् | एकीकृत्य च तांस्तुलया परिच्छिद्य ततो&अम्प्;ष्टगुणं तैलं तैलाद् षडगुणं क्षीरमोउषधेन सम्मिश्र्य विपचेत् | अत्रापठितमाचार्याः सामान्येनोउषधरसनिर्हरणाय स्नेहाच्चतुर्गुणं तोयमिच्छन्ति | द्विगुणं त्वत्र न्याय्यम् | स्नेहस्य कल्कादष्टगुणत्वात् | अथवा पित्तोल्बणेषु दोषेष्वनेनैव विधानेन तैलवद् ग़ृतं विपचेदित्यणुतैलाणुग़ृते || १० ||

Adhikarana dvitIyamaNutailam (11) · Śloka 11

अथवा चन्दनागरुपत्रदार्वीत्वङ्मधुकबलाद्वयबिल्वोत्प- लपद्मकेसरप्रपौण्डरीकविडङ्गोशीरह्नीबेरवन्यत्वङ्मुस्ता- सारिवाबृहतीद्वयांशुमतीद्वयजीवन्तीदेवदारुसुरभिशता- वरीः शतगुणे दिव्येऽम्भसि दशभागावशिष्टं क्वा थयेत्| ततस्तस्य क्वाथस्य दशमांशेन समांशं तैलं साधयेत्| दशमे चात्र पाके तैलतुल्यमाजमपि पयो दद्यात्| एतदय्यणुतैलं पुर्वस्माद्विशेषेणेन्द्रियदार्ढ्यकरं केश्यं त्वच्यं कण्ठ्यं प्रीणनं बृंहणं दोषत्रयग़्नं च||११||

🔊 Audio coming soon

द्वितीयमणुतैलमथवेत्यादीना | चन्दनादीनि समान्येकीकृत्य परिच्छिद्य ततः शतगुणे दिव्यजले क्वाथयेत् यावत् क्वाथो दशभागशेषः | ततश्च क्वाथाद्दशांशाः समाः कार्याः | तत्रैकेनांशेन समं तैलं तेनैव सह पचेत् तत्पक्वं पुनर्द्वितीयेन पचेत् | तत् पुनस्तृतीयेन यावन्नव पाकाः | दशमे तु पाके तैलतुल्यमाजं पयो देयमेतद् द्वितीयमणुतैलम् | सुबोधमन्यत् ||११||

Adhikarana nasyAnarhAstatra kAraNAni ca (12) · Śloka 12

अनस्यार्हास्तु भुक्तभक्तस्नेहमद्यगरतोयपीतपातुकाम- शिरःस्नातस्नातुकामसिरादिव्यधस्रुतरक्तमूत्रितोच्चरिता- भिहतकृतवमनविरेकबस्तिकर्मगर्भिणीसूतिकानवप्रति- श्यायश्वासकासिनोऽनार्तवदुर्दिनेष्वपि| तत्र भुक्तभक्तस्य नस्येरितो दोषऊर्ध्वस्रोतांस्यावृत्य छर्दिश्वासकासप्रति- श्यायान् जनयेत्| स्नेहादिपीतपातुकामानामक्षिनासा- स्यस्यन्दोपहतितिमिरशिरोरोगान्| शिरःस्नातस्य शिरो- ऽक्षिकर्णशूलकण्ठरोगपीनसहनुमन्यास्तम्भार्दितशिरः- कम्पान्| स्नातुकामस्य मूर्धस्तैमित्यजाड्यारुचिपीन- सान्| स्रुतरक्तस्य क्षामतामरुचिमग्निसादञ्च| मूत्रितो- च्चारितयोर्भृशतरं वेगधारणजान् विकारान्| अभिहत- स्य तीव्रतरां रुजम्| कृतवमनादीनां श्वासकासस्वरे- न्द्रियहानिशिरोगौरवकण्डूकृमिदोषान्| गर्भिण्या भक्त- द्वेषज्वरमूर्च्छार्धावभेदकाः स्युरपत्यञ्च व्यङ्गं विक- लेन्द्रियमुन्मादापस्मारयुक्तं वा| सूतिकायाः स्रुतरक्तो- क्तान् दोषान्| नवप्रतिश्यायस्य स्रोतोरोधाद् दुष्टप्रति- श्यायकेशशातकृमिकण्डूविचर्चिकाः| श्वासकासिनो- र्व्याधिवृद्धिः| अकाले दुर्दिने सहसैव शैत्याच्छिरोरु- ग्वेपथुस्तैमित्यतालुनेत्रकण्डूपाकमन्यास्तम्भकण्ठरोग- प्रतिश्यायारूंषिकाः||१२||

🔊 Audio coming soon

अनस्यार्हा इत्यादि | भुक्तभक्तादयोऽस्य नस्यस्यानर्हाः | स्नातुकामशब्देन नस्ये दत्ते स्नानप्रतिषेधमाह | तद्वत् पातुकामशब्देन | कृतं वमनादि यस्मिन् तद्दिवसम् दुर्दिने न कस्यचिद् नस्यं योज्यम् | दुर्दिन इति यद्यपि सामान्येनोक्तं तथाप्यकालदुर्दिन इति विज्ञेयम् | शीते वर्षासु च कालनियमस्य वक्ष्यमाणत्वात् | सूतिकायाः स्रुतरक्तोक्तान् दोषाण् क्षामतारुच्यादीन् || १२ ||

Adhikarana nasyAnarhANAM nasyaprayogAjjAteShUpadraveShu pratIkAraH (13) · Śloka 13

तेषु यथास्वमायतनं दोषोद्रेकं चापेक्ष्य स्नेहस्वेदशिरो- वक्त्रलेपसेकतीक्ष्णावपीडधूमगण्डूषादीनाचरेत्| विशे- षेण तु गर्भिणी रूक्षे नस्यकर्मणि वर्षाभूकाकोलीक- पिकच्छुभिः शृतं पयः पिबेत्| बलाविदार्यंशुमती- मेदाभिर्वा| एभिरेव च शृतं हविः| वातहरश्च सिद्धः स्नेहः शिरोबस्तौ कर्णपूरणे च योज्यः| सर्वञ्च बृंहण- मन्नपानम्| भुक्तभक्तादिष्वपि चात्ययिकव्याध्यातुरम- पेक्षेत||१३||

🔊 Audio coming soon

तेषां च नस्यरोगाणां यथास्वं यथात्मीयमायतनं निदानदोषादिकं चापेक्ष्य स्नेहादीनाचरेत् | विशेषेण तु गर्भिणीत्यादि सुबोधम् || १३ ||

Adhikarana marshanasyapramANam (14) · Śloka 14

मर्शप्रमाणं तु प्रदेशिन्यङ्गुलीपर्वद्वयान्निमग्नोद्धृताद्यावत्प- तति स बिन्दुः| अमी दशाष्टौ षड्बिन्दव उत्तममध्य- मकनीयस्यो मात्राः| क्वाथादीनामष्टौ षट् चत्वारः| प्रधमनस्य तु षडङ्गुलद्विमुख़या नाड्या मुख़ानिलेरित- स्याकण्ठगतेर्दोषानुरोधतश्च पुनः पुनर्योजनमिति||१४||

🔊 Audio coming soon

मर्शप्रमाणं दश स्नेहबिन्दव उत्तममात्रा | अष्टौ मध्यमा | षट् कनीयसी | बिन्दुरिति किमुच्यत इत्याह-प्रदेशिनीत्यादि | सुबोधम् | क्वाथादीनामष्टौ षट् चत्वारश्च बिन्दवो यथासङ्ख़्येन उत्तममध्यमकनीयस्यो मात्राः | प्रधमनस्य चूर्णस्य मात्रा षडङ्गुलद्विमुख़या नाड्या नासायां वैद्यमुख़ानिलप्रेरितं चूर्णं यावत् कण्ठप्रदेशं प्राप्नोति | दोषपारतन्त्र्येण पुनःपुनर्योजनम् || १४ ||

Adhikarana nasyavidhiH (15) · Śloka 15

अथ नस्यार्हं नरमव्याहतवेगं धौतान्तर्बहिर्मुख़ं स्निग्ध- स्विन्नशिरसं नातिक्षुधितं प्रायोगिकधूमपानविशुद्धस्रोतसं स्वास्तीर्णनिवातशयनस्थमुत्तानशिर्षमीषदुन्नतपादं प्रसा- रितकरचरणं जत्रूर्ध्वं पाणितापेन पुनः पुनः स्वेदयेत्| ततः कनकरजतताम्रान्यतमशुक्तिस्थितं प्रदेयमौषधत्रि- भागमुष्णाम्बुप्रतप्तं किञ्चित् प्रलम्बितशिरसो वामहस्ता- ङ्गुष्ठकनिष्ठिकाभ्यामाक्रम्य नयनप्रच्छादनं चतुर्गुणं वासो मध्यमया नासाग्रमुन्नमय्य प्रदेशिन्यनामिकाभ्यं चैकैकं नासापुटं पर्यायेण पिधायेतरस्मिन् नासास्रोतसि दक्षिण- हस्तेन प्रनाड्या पिचुना वानवच्छिन्नमासिञ्चेत्||१५||

🔊 Audio coming soon

अथ नस्येत्यादि सुबोधम् | प्रायोगिको धूमो वक्ष्यमाणलक्षणः | तेन विशुद्धिः स्रोतसाम् | प्रदेयादौषधान्मात्राभेदेनोक्तात् त्रिभागमुष्णाम्बुप्रतप्तं कुर्यात् | ततो द्वितीयो भागः, ततस्तृतीयः | अन्यथा शीतीभवति | पर्यायेणेति | यदा वामं पिहितं तदा दक्षिणे यदा दक्षिणं पिहितं तदा वाम इति | इतरस्मिन्नित्यपिहिते | पिचुः कार्पासस्तोकः || १५ ||

Adhikarana doShAnusAraM vyAdhyAdyanusAra~jca nasyakAlAH (16) · Śloka 16

वातपित्तकफामयेशु क्रमेणापराह्णमध्याह्नपूर्वाह्णेषु| ला- लास्रावसुप्तप्रलापदन्तकटकटायनक्रथनकृच्छ्रोन्मीलन- पूतिमुख़कर्णनादतृष्णार्दितशिरोरोगश्वासकासोन्निद्रेषु रात्रौ| स्वस्थवृत्ते तु शीते मध्याह्ने शरद्वसन्तयोः प्राह्णे ग्रीष्मे- ऽपराह्णे वर्षास्वादित्यदर्शने पञ्चकर्माण्याचरतो बस्ति- कर्मोत्तरकालमेव||१६||

🔊 Audio coming soon

वातादिषु यथासङ्ख़्येनापराह्णादिषु कालेषु नस्यमाचरेत् | लालास्रावादिषु रात्रौ | स्वस्थवृत्ते तु शीते हेमन्तशिशिरयोर्मध्याह्न एव | शरदि वसन्ते च पूर्वाह्ण एव | ग्रीष्मेऽपराह्णे सायङ्काले | वर्षासु तु यदैवादित्यदर्शनम् | पञ्चकर्माङ्गत्वे बस्त्युत्तरकालमेव || १६ ||

Adhikarana hInatvAdiyuktanasyaniShedhastatra hetushca (10) · Śloka 10

न च हीनाधिकं सकृदेव सर्वमत्युष्णशीतमत्युन्नतावन- तशिरसे सङ्कुचितगात्रावयवाय देयम्| तत्र हीनं दोष- मुत्क्लेश्य न निर्हरेत्| गौरवारुचिकासप्रसेकपीनसच्छ- र्दिकण्ठरोगान् कुर्यात्| अधिकमतियोगदोषान्| सकृ- देव सर्वं दत्तमुत्स्नेहनशिरोरोगप्रतिश्यायग़्ऱानक्लेदानुच्छ्- वासोपरोधञ्च| अत्युष्णं दाहपाकज्वररक्तागमशिरोरु- ग्दृष्टिदौर्बल्यमूर्च्छाभ्रमान्| अतिशीतं हीनदोषान्| अत्यु- न्नतशिरसोऽपि सम्यक् शिरोऽप्रतिपद्यमानं तानेव| अत्यवनतशिरसोऽतिदूरगमनान्मूर्च्छाजाड्यकण्डूदाह- ज्वरान्| सङ्कुचितगात्रस्य सम्यग्धमनीरव्याप्नुवद्दोषो- त्केल्शं वेदनां स्तम्भं वा||१०||

🔊 Audio coming soon

Adhikarana nasyamUrcCAyAM pratIkAraH (1) · Śloka 1

यदि च नस्ये दीयमाने भेषजवेगादसात्म्यतया वा मूर्च्छा स्यात् ततः शोरोवर्जं शीताम्भसा सिञ्चेत्||१||

🔊 Audio coming soon

Adhikarana nasyasevanasamaye varjanIyantatra hetushca (17) · Śloka 2

न च नस्ये निषिच्यमाने कोपहास्यव्याहारस्पन्दनोच्छिङ्ख़- नान्याचरेत्| तथा हि शिरोरुक्प्रतिश्यायकासतिमिर- ख़लतिपलितव्यङ्गतिलकालकमूकदूषिकाणां सम्भवः||२||

🔊 Audio coming soon

न च हीनत्वादियुक्तं नस्यं योजयेत् | अतियोगदोषा अत्रैववक्ष्यमाणाः | उत्स्नेहनं कण्ठस्रोतस्यन्यनाडीगमनम् | हीनयोगदोषा दोषमुत्क्लेश्यानिर्हरन्नित्यादिनोक्ताः | तस्मान्नातिशीतं कुर्यात् | सुबोधम् || १७ ||

Adhikarana nasyadAnottarakRutyam (18) · Śloka 18

दत्तमात्रे तु नस्ये कर्णललाटकेशभूमिगण्डमन्यास्क- न्धपाणिपादतलान्यनुसुख़ं मर्दयेत्| शनैश्चोच्छिङ्ख़ेत्| अन- भ्यवहरंश्च वामदक्षिणपार्श्वयोरौषधं निष्ठीवेत्| सकलं हि तदभ्यवहृतमग्निमवसादयेत्| दोषं च संवर्धयेत्| एकपार्श्वनिष्ठीवनेन सर्वाः सिरा भेषजेन सम्यग्व्याप्यन्ते| पुनः पुनश्चैनं स्वेदयेदाभेषजदर्शनान्नोछिङ्ख़न्निष्ठीवेच्च| ततश्चैवमेव द्वितीयमंशमनुषेचयेत्तथा तृतीयं दोषादिबलेन वा| विरेचने त्ववपीडे दोषबलमपेक्ष्य पश्चात् स्नेहमनु- षेचयेत्| निवृत्तनस्यं चैवमुन्निद्रमुत्तानं वाक्शतमात्रं शाय- येत्| ततः पुनरप्युत्क्लिष्टदोषशेषोपशान्तये वैरेचनिकं यथार्हं वा धूमं पाययित्वोष्णोदकगण्डूषान् धारयेत्| अथास्य स्नेहोक्तमाचारमादिशेत्| अतिद्रवपानञ्च वर्जयेत्| पुनश्च तृतीयेऽहनि नस्यमवसेचयेत्| हिध्मास्वरोपग़ात- मन्यास्तम्भापतानकेषु शिरसि चानिलार्त्याद्यभिभूते प्रत्यहं सायम्प्रातरुभयकालं वा| अनेन विधिना पञ्च सप्त नव वा दिनानि दद्यादासम्यग्योगाद्वा||१८||

🔊 Audio coming soon

दत्तमात्रे नस्ये कर्णादीनि सुख़ं मर्दयेत् | सुबोधम् | दोषादिबलापेक्षया द्वितीयतृतीयावंशौ सेचयेन्न वा | अनेनानुमानात् कल्पिताया अपि मात्राया दोषाद्यपेक्षप्रयोग उक्तः | सुबोधम् | हिध्मादिषु दोषाद्यपेक्षया प्रत्यहमेकवारं सायं प्रातर्वा नस्यमवसेचयेत् | आसम्यग्योगलक्षणोत्पत्तेः || १८ ||

Adhikarana nasyasamyagyogAyogAtiyogalakShaNAni (19) · Śloka 19

तत्र सम्यक् स्निग्धे मूर्धनि विरिक्ते वा सुख़ोच्छ्वासनि- श्वासक्षवथुस्वप्नप्रबोधशिरोवेदनेन्द्रियविशुद्धयो भवन्ति| यथोक्तव्याध्युपशमश्च| अयोगातियोगयोस्तु यथास्वं वातकफविकारास्तान्यथा स्वमेव साधयेत्| अन्यांश्च पूर्वोक्तान् विकारान्||१९||

🔊 Audio coming soon

तत्र नस्ये सम्यक् स्निग्धस्य शिरोविरिक्तस्य च सुख़ोच्छ्वासादयो भवन्ति | तत्साध्यानां व्याधीनां चोपशम इति सम्यग्योगः | अयोगेऽतियोगे च यथास्वं वातकफविकाराः | तत्र स्नेहस्यायोगे वातविकाराः | अतियोगे कफविकाराः | विरेचनस्यायोगे कफविकाराः | अतियोगे वातविकारा इति यथास्वशब्दार्थः || १९ ||

Adhikarana pratimarshArhAnarhAshca (20) · Śloka 20

प्रतिमर्शस्तु क्षामक्षततृष्णामुख़शोषवृद्धबालभीरुसुकु- मारेष्वप्यकालवर्षदुर्दिनेष्वपि च योज्यः| न तु दुष्ट- प्रतिश्यायबहुदोषक्रिमिणशिरोमद्यपितदुर्बलश्रोत्रेषु| एषां ह्युदीर्णदोषत्वात् तावता दोषोत्क्लेशो भवति||२०||

🔊 Audio coming soon

प्रतिमर्शः पुनः क्षामादीनां योज्यः | दुष्टप्रतिश्यायादिषु वर्ज्यः || २० ||

Adhikarana pratimarshasya pa~jcadashakAlA teShu nasyadAnaguNAshca (21) · Śloka 21

तस्य पञ्चदशकालस्तेषं च गुणाः| प्रातर्दत्ते भुक्त- वतश्चान्ते स्रोतोविशुद्धिः शिरोलाग़वं मनःप्रसादश्च भवति| विण्मूत्रशिरोऽभ्यङ्गाञ्जनकवलान्ते दृष्टिप्रसादः| दन्तधावनान्ते दन्तदृढता सौगन्ध्यञ्च| अध्वव्यायामव्य- वायान्ते श्रमक्लमस्वेदस्तम्भनाशः| दिवास्वप्नान्ते निद्रा- शेषगौरवप्रणाशो मनःप्रसादश्च| अतिहसितान्तेऽनि- लप्रशमः| छर्दितान्ते स्रोतोलीनलेष्मव्यपोहः| दिनान्ते स्रोतोविशुद्धिः सुख़निद्राप्रबोधश्च भवति||२१||

🔊 Audio coming soon

तस्य पञ्चदश कालाः प्रत्येकं कालेषु च गुणाः प्रातरित्यादिनोच्यन्ते | प्रातरिति कालः | स्रोतोविशुद्धिरिति गुणः | तद्वत् भक्तान्ते | एवं कालो गुणश्च सर्वत्र वाच्यः | अन्तशब्दस्य पीडादिभिः पञ्चभिः सम्बन्धः | द्वितीयस्यान्तशब्दस्याध्वादिभिस्त्रिभिः | अन्यत् सुबोधम् || २१ ||

Adhikarana pratimarshapramANam (3) · Śloka 3

भवति चात्र- प्रमाणं प्रतिमर्शस्य बिन्दुद्वितयमिष्यते| बिन्दुर्वा येन चोत्क्लेशो नानुत्क्लिष्टस्य जायते| निष्ठ्यूते यत्र वा स्नेहो न साक्षादुपलक्ष्यते|३|

🔊 Audio coming soon

Adhikarana nasyAdInAM visheSheNa niShedhaH (3) · Śloka 3

न नस्यमूनसप्ताब्दे नातीताशीतिवत्सरे| न चोनाष्टादशे धूमः कवलो नोनपञ्चमे| न शुद्धिरूनदशमे न चातिक्रान्तसप्ततौ|३|

🔊 Audio coming soon

Adhikarana pratimarshaprashaMsA (3) · Śloka 3

आजन्ममरणं शस्तः प्रतिमर्शस्तु बस्तिवत्| मर्शवच्च गुणान् कुर्यात् स हि नित्योपसेवनात्| न चात्र यन्त्रणा नापि व्यापद्भ्यो मर्शबद्भयम्||३||

🔊 Audio coming soon

Adhikarana nityanasyArthaM tailasya shraiShThyam (22) · Śloka 22

तैलमेव च नस्यार्थे नित्याभ्यासेन शस्यते| शिरसः श्लेष्मधामत्वात्स्नेहाः स्वस्थस्य नेतरे||२२||

🔊 Audio coming soon

बिन्दुद्वयोनानुत्क्लेशनेन चौषधादर्शनेन च प्रतिमर्शस्य लक्षणत्रयम् | कवलो वक्ष्यमाणः | स च प्रतिमर्शो नित्यसेवनाच्छिरसो बस्तिसादृश्यान् मर्शसदृशांश्च गुणान् करोति | सुबोधम् || २२ ||

Adhikarana marshaprashaMsA (23) · Śloka 23

आशुकृच्चिरकारित्वं गुणोत्कृष्टावकृष्टता| मर्शे च प्रतिमर्शे च न विशेषो भवेद्यदि| को मर्शं सपरीहारं सापदं च भजेत्ततः||२३||

🔊 Audio coming soon

मर्शप्रतिमर्शयोर्यदि विशेषो न स्यात् तत् कोऽमूर्ख़ः सपरीहारं सापदञ्च मर्शमातुरस्य वदेत् | ननु मर्शस्य प्रतिमर्शात् को विशेष इत्याह-आशुकृदित्यादिना | यथासङ्ख़्येन मर्शप्रतिमर्शयोर्विशेषः || २३ ||

Adhikarana prasa~ggAcacCapAnAdInAM prashaMsA (24-25) · Śloka 25

अच्छापानविचाराख़्या कुटीवातातपस्थिती| अन्वासमात्राबस्ती च तद्वदेव विनिर्दिशेत्||२४|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने नस्यविधिर्नामैकोनत्रिंशोऽध्यायः||२५||

🔊 Audio coming soon

एवं प्रसङ्गेनोच्यते | विचारणाख़्यात् स्नेहादच्छपेय आशु स्वकार्यं करोति गुणोत्कृष्टश्च तद्वद्वातातपिकाद्रसायनात्कुटीरसायनं मात्राबस्तितश्चानुवासनमिति || २४ || इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थाने एकोनत्रिंशोऽध्यायः