Adhikarana atha dhUmapAnavidhirnAma triMsho~adhyAyaH pratij~jA atha dhUmapAnavidhirnAma triMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातो धूमपानविधिं नामाध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana atha dhUmapAnavidhirnAma triMsho~adhyAyaH pratij~jA atha dhUmapAnavidhirnAma triMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातो धूमपानविधिं नामाध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana dhUmayogyAH vyAdhayaH dhUmapAnasya bRuMhaNAdikartRutvaM ca (2) · Śloka 2
धूमो हि शिरोऽक्षिकर्णशूलाभिष्यन्दगौरवार्धावभेदक- पीनसकासश्वासास्यवैरस्यप्रसेकवैस्वर्यपूतिग़्राणमुख़हिध्मा गलरोगदन्तशूलदौर्बल्यारुचिहनुमन्याग्रहकृमिकण्डू- पाण्डुत्वक्केशदोषक्षवथुनाशबाहुल्यतन्द्रातिनिद्राक्रथनादि जत्रूर्ध्वगतवातकफव्याधिप्रशमाय प्रयुज्यते| तथा शिरःकपालेन्द्रियमनोबृंहणाय प्रसादनाय च||२||
🔊 Audio coming soon
Adhikarana dhUmasya pittaraktaviruddhatvam (3) · Śloka 3
शीतद्रव्यनिर्वृत्तोऽप्यग्निसंयोगादुष्णतया पित्तरक्तवि- रुद्धः||३||
🔊 Audio coming soon
Adhikarana dhUmasya paryAyAH (4) · Śloka 4
स त्रिविधो भवति-शमनो बृंहणः शोधनश्च| तथा कासग़्नो वामनो व्रणधूपनश्च| तत्र शमनः प्रायोगिको मध्यम इति पर्यायः| बृंहणः स्नेहनो मृदुरिति| शोधनो विरेचनस्तीक्ष्ण इति च||४||
🔊 Audio coming soon
Adhikarana adhUmArhAH, atidhUmapAne doShAH (5) · Śloka 5
अधूमार्हस्तु विरिक्तदत्तबस्तिरात्रिजागरिताभिहतशिरोम धुदधिदुग्धमद्यस्नेहयवागूविषपीतमत्स्याशितपाण्डुरोग प्रमेहोदराध्मानोर्ध्ववाततिमिररोहिणिकारक्तपित्तिनोऽत्यु ष्णेऽन्येऽपि च| एषां हि भ्रमज्वरशिरोऽभितापेन्द्रि योपग़ाततालुशोषपाकधूमायनच्छर्दिमूर्च्छारक्तपित्ता र्दितानि मृत्युं वा धूमो जनयति| अतिमात्रश्चान्येषा मपि||५||
🔊 Audio coming soon
Adhikarana dhUmopaGAte pittasyetaradoSha saMsargAnusAramupacAraH (6) · Śloka 6
तत्र वातकफान्यतरसंसृष्टं पित्तमुपलक्ष्य यथास्वं सर्पिः कषायपाननस्यास्यालेपनाञ्जनपरिषेकान् स्निग्धरूक्ष शीतान् प्रयुञ्जीत| एतेन सर्वधूमोपग़ातप्रतिकारा व्या ख़्यातः||६||
🔊 Audio coming soon
Adhikarana sarvasroto~aBigatadhUmalakShaNAni cikitsA ca (7) · Śloka 7
विशेषतस्तु सर्वस्रोतोगते धूमे तीव्रतरा वेदना भवन्त्यू षाध्माननेत्ररोगश्वासकासपीनसाङ्गस्वरसादाम्लकाः| तत्रग़ृतक्षीरेक्षुरसद्राक्षाशर्करोपयोगस्तद्विधैरेव वमनम्| कातुतिक्तैरपि च नस्यगण्डूषाः||७||
🔊 Audio coming soon
Adhikarana trividhadhUmapAnakAlAH (8) · Śloka 8
पानकालास्त्वष्टौ प्रयोगिकस्य निशामूत्रशकृद्दन्तधावन स्वेदनस्याहारशस्त्रकर्मान्ताः| एकादश मृदोः| क्षुतव्य वायहसितचिरासितजृम्भितमुत्रशकृद्दन्तधावनतर्पणपुट पाकशस्त्रकर्मान्ताः| पञ्च तीक्ष्णस्य नस्याञ्जनछर्दितस्ना नाहस्स्वप्नान्ताः| एषु हि कालेषु वातकफोत्क्लेशो भवति||८||
🔊 Audio coming soon
Adhikarana dhUmanetram (9) · Śloka 9
नेत्रं तु बस्तिनेत्रद्रव्यभवं गोपुच्छाकारमग्रमूलयोः कनि ष्ठकाङ्गुष्ठपरिणाहं राजमाषवाहिधूमवर्तिप्रवेशच्छिद्रमृजु त्रिकोशं श्लक्ष्णं शिथिलशलाकागर्भं शमनादिषु क्रमा दातुराङ्गुलमानेन चत्वारिंशद्द्वात्त्रिंशच्चतुर्विंशत्यङ्गुलं कुर्यात्| कासग़्ने वमने च दशाङ्गुलम्| व्रणधूपनार्थे ऽष्टाङ्गुलं कलायपरिमण्डलं कुलत्थवाहि स्रोत इति| एवं हि धूमो दूरात् प्रवृत्तो नेत्रस्य पर्वच्छेदादूर्ध्वं तनुतया च शनैः श्लिष्यन्न बाधको भवति||९||
🔊 Audio coming soon
Adhikarana kAsaghnAdiShu netrAbhAve nalAdinADI (10) · Śloka 10
कासाघ्नादिषु तु नेत्राभावे देवनलवंशैरण्डादोनामन्यतमां नाडीं योजयेत्||१०||
🔊 Audio coming soon
Adhikarana dhUvartinirmANam (11) · Śloka 11
यथास्वं च धूमद्रव्याणां कल्केन श्लक्ष्णेनाक्षमात्रेण द्वाद- शाङ्गुलामिषीकामम्भस्यहोरात्रोषितां कृत्वा लेपयेत्| तत्र न नवाङ्गुलगर्भां पञ्चप्रलेपामङ्गुष्ठस्थूलां यवमध्यां छाया- शुष्कां वर्ति कृत्वा विगतेषीकाञ्च स्नेहाक्तामङ्गारेषु प्रदीप्य नेत्रमूलच्छिद्रे च निधाय यथार्हं पानायोपनयेत्||११||
🔊 Audio coming soon
Adhikarana dhUmapAnavidhiH (12) · Śloka 12
अथ धूमार्हः सुमना ऋजूपविष्टः प्राक्कृतोच्छ्वासनि- श्वासो विवृतौष्ठदशनो नेत्राग्रनिविष्टदृष्टिः पर्यायेणैकैकं नासापुटं पिधायेतरेणाक्षिप्य मुख़ेनोत्सृजेत्| मुख़ेन तु मुख़ेनैव| न नासया दृग्विग़ातभयात्||१२||
🔊 Audio coming soon
Adhikarana dhUmapAnavidhiH (13) · Śloka 13
तत्र प्रायोगिकं द्वौ द्वौ त्रींस्त्रीन् वाऽऽपानां स्त्रींश्च पर्यायान् कण्ठाच्चोर्ध्वमुत्क्लिष्टे दोषे पूर्वं नासया ततो मुख़ेन| कण्ठे तु पुर्वमास्येन| परं चहोरात्रस्य द्विः पिबेत्| स्नैहिकं त्रीस्त्रींश्चतुरश्चतुरो वाऽऽपानान् यावद्वाऽऽस्रप्र वृत्तिस्तथा अहोरात्रस्य| तीक्ष्णं नासाभ्यामेव चतुरश्च तुरश्चाऽऽपानान् यावद्वा स्रोतोलाग़वम्| तथा त्रिश्चतु र्वाऽहोरात्रस्य| तत्राक्षेपविसर्गावापानमित्याहुः||१३||
🔊 Audio coming soon
Adhikarana kAsaghnadhUmapAnavidhiH (14) · Śloka 14
कासग़्नं तु चूर्णं गुटिकां वा निर्धूमदीप्तस्थिराङ्गार पूर्णे सुसंस्थिते शरावे प्रक्षिप्यान्येन मूर्ध्नि प्रवृत्तच्छिद्रेण शरावेणापिधाय निधाय च तत्स्रोतसि नेत्रं मुख़ेनैव धूमं पिबेत्| उरःप्राप्तञ्च मुकेनैवोद्वमेत्| प्रशान्ते च धूमे पुनः क्षिपेत्| पिबेच्चादोषशुद्धेर्लाग़वाद्वा||१४||
🔊 Audio coming soon
Adhikarana vAmanadhUmavraNadhUpanayorvidhiH (15) · Śloka 15
तद्वद्वामनमपि कृसरामनतिग़नां पीत्वा पिबेत्| तद्वच्च व्रणमपि धूपयेद्वैशद्याय क्लेदवेदनोपशमनाय च||१५||
🔊 Audio coming soon
Adhikarana ayogAtiyogalakShaNAni (16) · Śloka 16
धूमस्यायोगे दोषोत्क्लेशाद्रोगवृद्धिः| अतियोगे प्रागु क्तमिति||१६||
🔊 Audio coming soon
Adhikarana samyakpItalakShaNam shamanAdidhUmAnAmadhikAraBedAH (17-18) · Śloka 18
भवति चात्र-हृत्कण्ठेन्द्रियसंशुद्धिः शिरसो लाग़वं शमः| यथेरितानां रोगाणां सम्यक्पीतस्य लक्षणम्| शमनो वातकफयोः संसर्गे स्वस्थकर्मणि| बृंहणो मारुते शस्तो धूमः संशोधनः कफे||१७|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने धूमपानविधिर्नाम त्रिंशोऽध्यायः||१८||
🔊 Audio coming soon