Adhikarana athAto dvividhopakramaNIyo nAma caturviMsho&dhyAyaH pratij~jA (1) · Śloka 1
अथातो द्विविधोपक्रमणीयं नामाध्यायं व्याख़्यास्यामः| इति ह स्माहुरत्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana athAto dvividhopakramaNIyo nAma caturviMsho&dhyAyaH pratij~jA (1) · Śloka 1
अथातो द्विविधोपक्रमणीयं नामाध्यायं व्याख़्यास्यामः| इति ह स्माहुरत्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana upakramasya dvaividhyaM tatparyAyau ca (2) · Śloka 2
उपक्रम्यस्य हि द्वित्वाद् द्विधैवोपक्रमो मतः| एकः सन्तर्पणस्तत्र द्वितीयश्चापतर्पणः| बृंहणो लङ्घनश्चेति तत्पर्यायावुदाहृतौ||२||
🔊 Audio coming soon
Adhikarana bRuMhaNala~gghanasvarUpaM tayormahAbhUtasa~ggatishca (3) · Śloka 3
बृंहणं यद् बृहत्वाय लङ्घनं लाघवाय यत्| देहस्य भवतः प्रायो भौमापमितरच्च ते||३||
🔊 Audio coming soon
Adhikarana snehanAdInAmapi bRuMhaNala~gghanayorevAntarbhAvaHgh (4) · Śloka 4
स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनञ्च यत्| भूतानां तदपि द्वैध्याद् द्वितयं नातिवर्तते||४||
🔊 Audio coming soon
Adhikarana la~gghanaM dvividham (5) · Śloka 5
शोधनं शमञ्चेति द्विधा तत्रापि लङ्घनम्||५||
🔊 Audio coming soon
Adhikarana shodhanalakShaNantasya pa~jcavidhatva~jca (6) · Śloka 6
यदीरयेद्बहिर्दोषान् पञ्चधा शोधनञ्च तत्| निरूहो वमनं कायशिरोरेकोऽस्रविस्रुतिः||६||
🔊 Audio coming soon
Adhikarana shamanalakShaNantasya saptavidhatva~jcabRuMhaNasyAvasthAyAM shamanatvam (7) · Śloka 7
न शोधयति यद्दोषान् समान्नोदीरयत्यपि| समीकरोति विषमान् शमनं तच्च सप्तधा| पाचनं दीपनं क्षुत्तृड्व्यायामातपमारुताः| बृंहणं शमनन्त्वेव वायोः पित्तानिलस्य च||७||
🔊 Audio coming soon
Adhikarana bRuMhyAH bRuMhaNAni ca (8) · Śloka 8
बृंहयेद्व्याधिभैषज्यमद्यस्त्रीशोककर्शितान्| भाराध्वोरःक्षतक्षीणरूक्षदुर्बलवातलान्| गर्भिणीसूतिकाबालवृद्धान् ग्रीष्मेऽपरानपि| मांसक्षीरसितासर्पिर्मधुरस्निग्धबस्तिभिः| स्वप्नशय्यासुख़ाभ्यङ्गस्नाननिर्वृतिहर्षणैः||८||
🔊 Audio coming soon
Adhikarana la~gGyAH (9) · Śloka 9
मेहामदोषातिस्निग्धज्वरोरुस्तम्भकुष्ठिनः| विसर्पविद्रधिप्लीहशिरः कण्ठाक्षिरोगिणः| स्थूलांश्च लङ्ग़येन्नित्यं शिशिरे त्वपरानपि||९||
🔊 Audio coming soon
Adhikarana sthUlAdibhedena la~gghanabhedAH (10) · Śloka 10
तत्र संशोधनैः स्थौल्यबलपित्तकफाधिकान्| आमदोषज्वरच्छर्दिरतीसारहृदामयैः| विबन्धगौरवोद्गारहृल्लासादिभिरातुरान्| मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः| एभिरेवामयैरार्तान् हीनस्थौल्यबलादिकान्| क्षुत्तृष्णानिग्रहैर्दोषैस्त्वार्तान् मध्यबलैर्दृढान्| समीरणातपायासैः किमुताऽल्पबलैर्नरान्||१०||
🔊 Audio coming soon
Adhikarana la~gghanIyeShu bRuMhaNaniShedhaH deshAdivashAttadanumatishca (11) · Śloka 11
न बृंहयेल्लङ्घनीयान् बृंह्यांस्तु मृदु लङ्घयेत्| युक्त्या वा देशकालादिबलतस्तानपाचरेत्||११||
🔊 Audio coming soon
Adhikarana bRuMhatila~gGitalakShaNAni (12) · Śloka 12
बृंहिते स्याद्बलं पुष्टिस्तत्साध्यामयसङ्क्षयः| विमलेन्द्रियता सर्गो मलानां लाग़वं रुचिः| क्षुत्तृट्सहोदयश्शुद्धहृदयोद्गारकण्ठता| व्याधिमार्दवमुत्साहस्तन्द्रानाशश्च लङ्ग़िते||१२||
🔊 Audio coming soon
Adhikarana atibRuMhite~atila~gGite ca doShAH (13) · Śloka 13
अनपेक्षितमात्रादिसेविते कुरुतस्तु ते| अतिस्थौल्यातिकार्श्यादीन् वक्ष्यन्ते ते च सौषधाः| रूपं तैरेव च ज्ञेयमतिबृंहितलङ्ग़िते||१३||
🔊 Audio coming soon
Adhikarana atisthaulyanidAnasamprAptilakShaNAni atisthUlasvarUpam (14) · Śloka 14
तत्र शोधनमुद्दिश्य स्थौल्याद्याः प्रागुदाहृताः| गुर्वादिवृद्धसंलीनश्लेष्ममिश्रोऽन्नजो रसः| आम एव श्लथीकुर्वन् धातून् स्थौल्यमुपानयेत्| अतिस्थौल्यादतिक्षुत्तृट्प्रस्वेदश्वासनिद्रताः| आयासाक्षमता जाड्यमल्पायुर्बलवेगता| दौर्गन्ध्यं गद्गदत्वञ्च भवेन्मेदोऽतिपुष्टितः| स्रोतः सु मेदोरुद्धेषु वायुः कोष्ठे विशेषतः| चरन् प्रज्वलयत्यग्निं क्षुत्तृषौ स्तस्ततोऽधिकम्| स्थूलं कोटरवद्दृद्धौ दहतोऽग्न्यनिलौ च तम्| स्वेदवाहिसिरामूलभावाद्विष्यन्दनादपि| मेदसः श्लेष्मयोगाच्च भवति स्वेदभूरिता| कोष्ठ एव विपक्वेऽस्य संरुद्धस्रोतसो रसे| सर्वत्रालब्धवृत्तित्वात्प्रायो मेदः प्रचीयते| तच्छेषोऽल्परसोऽल्पत्वान्नालं रक्तादिपुष्टये| तुल्येऽपि वाय्वादिचये प्राक्चितं चीयतेतराम्| मेदस्तेनाऽसमस्तेन धातूनां विदधाति तत्| श्वासादीनचिराच्चान्यान् ज्वरोदरभगन्दरान्| मेहोरुस्तम्भपिटका विद्रधिप्रभृतीन् गदान्| अयथोपचयोत्साहश्चलस्फिगुदरस्तनः| अतिस्थूलः स्मृतो .....................||१४||
🔊 Audio coming soon
Adhikarana atisthaulye AhArauShadhAdi (15) · Śloka 15
...........................योज्यं तत्रान्नं मारुतापहम्| श्लेष्ममेदोहरं यच्च कुलत्था यवका यवाः| जूर्णश्यामाकमुद्गाद्याः पानेऽरिष्टां मधूदकम्| मस्तु तक्रञ्च तीक्ष्णोष्णं रूक्षं छेदि च भेषजम्| चिन्ताव्यवायव्यायामशोधनास्वपनं भजेत्| देहापेक्षी तथा रूक्षं स्नानमुद्वर्तनादि च| मधुना त्रिफलां लिह्याद्गुडूचीमभयां ग़नम्| रसाञ्जनस्य महतः पञ्चमूलस्य गुग्गुलोः| शिलाह्वस्य प्रयोगश्च साग्निमन्थरसो हितः| विडङ्गं नागरं क्षारः काललोहरजो मधु| यवामलकचूर्णञ्च योगोऽतिस्थौल्यदोषजित्| मदनं त्रिफला मुस्ता सप्ताह्वारिष्टवत्सकम्| सपाठारग्वधं पीतमतिबृंहणरोगजित्| तद्वद्वत्सकशम्याकदेवदारुनिशाद्वयम्| समुस्तपाठाख़दिरत्रिफलानिम्बगोक्षुरम्| मदनादीनि चालेपः स्नानादिष्वपि योजयेत्| हिङ्गुगोमेदकव्योषकुष्ठक्रौञ्चास्थिगोक्षुरम्| एलावृक्षकषड्ग्रन्थाख़राश्वोपलभेदकम्| तक्रेण दधिमण्डेन पीतं कोलरसेन वा| मूत्रकृच्छ्रं कृमीन् मेहं स्थूलताञ्च व्यपोहति| कृमिग़्नत्रिफलं तैलसक्तुत्र्यूषणदीप्यकैः| लोहोदकाप्लुतो मन्थः शस्तो बृंहणरोगिणाम्| व्योषकट्वीवराशिग्रुविडङ्गातिविषास्थिराः| हिङ्गुसौवर्चलाजाजीयवानीधान्यचित्रकाः| निशे बृहत्यौ हपुषा पाठा मूलञ्च केम्बुकात्| एषां चूर्णं मधु ग़ृतं तैलं च सदृशांशकम्| सक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत्| अतिस्थौल्यादिकान्सर्वान् रोगानन्यांश्च तद्विधान्| हृद्रोगकामलाश्वित्रश्वासकासगलग्रहान्| बुद्धिमेधास्मृतिकरं सन्नस्याग्नेश्च दीपनम्| योज्यं तथा यथाव्याधि स्वेदासृक्स्रावणान्यपि||१५||
🔊 Audio coming soon
Adhikarana atili~gGitalakShaNAni atikRushAsyAyAsAdyasahatvam kRushasulaBA vyAdhayaH (16) · Śloka 16
अतिकार्श्य भ्रमः कासस्तृष्णाधिक्यमरोचकः| स्नेहाग्निनिद्रादृक्श्रोत्रशुक्रौजः क्षुत्स्वरक्षयः| बस्तिहृन्मूर्द्धजङ्ग़ोरुत्रिकपार्श्वरुजा ज्वरः| प्रलापोर्ध्वानिलग्लानिच्छर्दिपर्वास्थिभेदनम्| वर्चोमूत्रग्रहाद्याश्च जायन्तेऽतिविलङ्ग़नात्| अतिकार्श्येन नायासवर्षशीतोष्णतृट्क्षुधः| तृप्तिव्याध्यौषधमदान् सहतेऽल्पबलत्वतः| श्वासकासक्षयप्लीहगुल्मार्शोवह्निमन्दताः| कृशं प्रायश्च धावन्ति रक्तपित्तानिलामयाः||१६||
🔊 Audio coming soon
Adhikarana sthaulyAtkArshyasya varatvantatra hetushca (17) · Śloka 17
कार्श्यमेव वरं स्थौल्यान्न हि स्थूलस्य भेषजम्| बृंहणं ल~ग़्गनं नालमतिमेदोऽग्निवातजित्| मधुरस्निग्धसौहित्यैर्यत् सौख़्येन च नश्यति| क्रशिमा स्थविमात्यन्तविपरीतनिषेवणैः||१७||
🔊 Audio coming soon
Adhikarana atikRushalakShaNam (18) · Śloka 18
शुष्कस्फिगुदरग्रीवः स्थूलपर्वा सिरा ततः| उच्यतेऽतिकृशः...............................||१८||
🔊 Audio coming soon
Adhikarana atikArshye BeShajam prakRuShTabRuMhaNopAyAH (19) · Śloka 19
.....................तत्र प्रागुक्तो बृंहणो विधिः| अश्वगन्धाविदार्याद्या वृष्याश्चौषधयो हिताः| अचिन्तया हर्षणेन ध्रुवं सन्तर्पणेन च| स्वप्नप्रसङ्गाच्च कृशो वराह इव पुष्यति||१९||
🔊 Audio coming soon
Adhikarana cirakShINasadyaHkShINayorupakrame visheShaH (20) · Śloka 20
लङ्ग़नोत्थेषु रोगेषु शेषेष्वप्युपकल्पयेत्| यत्तदात्वे समर्थं स्याद्यच्चाभ्यासेन पुष्टये| सद्यः क्षीणो यतः सद्यो बृंहणेनोपचीयते| चिरं क्रमेण च क्षीणस्तदभ्यासेन तत्र च| बृंहणं तत्र मात्राग्निबलादीन्वीक्ष्य योजयेत्||२०||
🔊 Audio coming soon
Adhikarana bRuMhaNe mAMsasya rasakShIrAdInA~jca prayogaH (21) · Śloka 21
न हि मांससमं किञ्चिदन्यद् देहबृहत्त्वकृत्| मांसादमांसं मांसेन सम्भृतत्वाद् विशेषतः| क्रव्यान्मांसरसांस्तस्माद्दकलावणिकान् लग़ून्| वेशवारीकृतैस्तद्वज्जाङ्गलैश्च कृताकृतान्| रसांस्तथा च क्षीरादीन् तर्पणांस्तर्पणान् पुनः| युञ्ज्यात्कृशानां ज्वरिणां कासिनां मूत्रकृच्छ्रिणाम्| तृष्यतामूर्ध्ववातानां मूढमारुतवर्चसाम्||२१||
🔊 Audio coming soon
Adhikarana santarpaNAH manthayogAH (22) · Śloka 22
समैः कृष्णासितातैलक्षौद्राद्यैद्वर्यंशतर्पणैः| मन्थस्तद्वत्सिताक्षौद्रमदिरासक्तुयोजितः| फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम्| तर्पणं मूत्रकृच्छ्रग़्नमुदावर्त्तहरं परम्| मन्थः ख़र्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः| परूषकैः सामलकैः सद्यस्तृष्णादिरोगजित्| स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा| सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः||२२||
🔊 Audio coming soon
Adhikarana sthUlakRushayorAhAraH (23) · Śloka 23
गुरु चातर्पणं स्थूले विपरीतं हितं कृशे| यवगोधूममुभयोस्तद्योग्याहितकल्पनम्||२३||
🔊 Audio coming soon
Adhikarana sahajasthaulyakArshyayoshcikitsAtideshaH (24) · Śloka 24
स्यौल्यकार्श्ये प्रकृत्यापि स्यातां तत्राऽप्ययं विधिः| सततं व्याधिततया सदा योज्यो विभज्य च||२४||
🔊 Audio coming soon
Adhikarana mAtrayA bRuMhaNala~gGanayoH sevanaPalam (25) · Śloka 25
मात्रादियुक्ते सेवेत यस्तु ल~ग़्ग़नबृंहणे| समधात्वग्निदेहोऽसौ समसंहननो भवेत्| दृढेन्द्रियबलत्वाच्च न द्वन्द्वैरभिभूयते||२५||
🔊 Audio coming soon
Adhikarana sarvopakramANAM la~gGanabRuMhaNayorevAntarBAvaH (26-27) · Śloka 27
दोषगत्यातिरिच्यन्ते ग्राहिभेद्यादिभेदतः| उपक्रमा न तु द्वित्वाद्भिन्ना अपि गदा इव||२६|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने द्विविधो- पक्रमणियोनाम चतुर्विशोऽध्यायः||२७||
🔊 Audio coming soon