Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

25. snēhavidhiḥ

Adhikarana atha snehavidhirnAma pa~jcaviMsho~adhyAyaH pratij~jA (1) · Śloka 1

अथातः स्नेहविधिमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

पूर्वस्मिन्नध्याये द्विविध उपक्रम उक्तः| तत्र च लङ्ग़नस्य शोधनात्मकत्वाच्छोधनस्य च स्नेहस्वेदपूर्वकत्वात् ततोऽपि स्नेहस्य दोषमार्दवकारणप्राधान्यात्तद्विज्ञानार्थमध्यायारम्भः-अथात इत्यादि|| १||

Adhikarana snehAdyupayuktadravyasamBArasaMgrahaNAvashyakatA (2) · Śloka 2

स्नेहादिषूपयोगाय तद्व्यापच्छामनाय च| कुर्यात्प्रागेव तद्योगिद्रव्यसम्भारसङ्ग्रहम्||२||

🔊 Audio coming soon

स्नेहस्य शोधनाङ्गत्वात् प्रागेव स्नेहादिष्वनारब्धेषु स्नेहाद्युपयोगाय देशादिवैपरीत्यात् स्नेहाद्युद्भूतव्यापच्छमनाय च तद्योगिद्रव्याणां स्नेहोपयोगयोगिनां ग़ृततैलवसाशरावोदञ्चनादीनां तद्व्यापच्छमनयोगिनां च द्रव्याणां सम्भारसङ्ग्रहं कुर्यात्|| २||

Adhikarana snehanavirUkShaNauShadhalakShaNam (3) · Śloka 3

गुरुशीतसरस्निग्धमन्दसूक्ष्ममृदुद्रवम्| औषधं स्नेहनं प्रायो विपरीतं विरूक्षणम्||३||

🔊 Audio coming soon

सर्वं गुर्वादिगुणयुक्तमौषधं प्रायेण स्नेहनमन्यदेवंगुणमप्यस्नेहनं भवतीति प्रदर्शनार्थं प्रायोग्रहणम्| विपरीतं लग़्वादिगुणं विरूक्षणम्| अत्रापि प्रायोग्रहणमनुबध्यते|| ३||

Adhikarana pravarasnehadravyANi teShu GRutasyottamatvam (4) · Śloka 4

सर्पिर्मज्जा वसा तैलं स्नेहेषु प्रवरं मतम्| तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात्| माधुर्यादविदाहित्वाज्जन्मादेव च शीलनात्||४||

🔊 Audio coming soon

सर्पिरादिचतुष्टयं सर्वस्नेहेषु प्रवरं श्रेष्ठमाशु स्वकार्यकरणात्| तत्रापि चतुष्टये सर्पिरुत्तमं संस्कारानुवर्तनात्| येन हि द्रव्येण संस्क्रियते तमनुवर्तते| स्वगुणानजहत् संस्कारगुणान् गृह्णातीति संस्कारानुवर्ती| न ह्येतत्तैलादिषु सम्भवति| ते हि स्वगुणांस्त्यजन्ति| तथा च चन्दनादौ तैलादीनां विपरीतैर्द्रव्यान्तरैरौष्ण्यादिनाशो भवति| न हि स्नेहनाशस्तस्य बहुत्वात्| तथा माधुर्यदिगुणयोगाच्च सर्पिरेवोत्तमम्|| ४||

Adhikarana sarpirAdInAM doShaghnatvavivaraNam (5) · Śloka 5

पित्तघ्नास्ते यथापूर्वमितरघ्ना यथोत्तरम्||५||

🔊 Audio coming soon

ते सर्पिरादयो यथापूर्वं पित्तघ्नाः| यथोत्तरमितरघ्नाः| श्लेष्मणः स्नेहप्रतिषेधादितरशब्देन वातघ्ना इति गम्यते| अथवा द्रव्यान्तरसंस्कृतसर्पिराद्यपेक्षया इतरशब्देन कफस्यापि ग्रहणम्| तेनैवं तैलस्यापि पित्तघ्नत्वं सिद्धम्| अक्षादियोनेर्वा तैलस्य पित्तघ्नत्वमिति| यो यस्मात् पूर्वः स तस्मात् पितघ्नः| यो यस्मादुत्तरः स तस्माद्वातघ्नः| तैलस्य पूर्वत्वासम्भवात् पित्तघ्नत्वासम्भवः | वसाया मज्ज्ञश्च यत्र मांसानुगस्वरूपत्वेन पित्तघ्नत्वं सम्भवति तत्र पित्तघ्नत्वम्| अथवा शोधनाङ्गानां सर्पिरादीनां वमनादिक्रियोपकारयोगा-देवंस्वरूपता परिणाम इति ग्रन्थाविरोधः|| ५||

Adhikarana ghRutAdInAmuttarottaraM gurutvam (6) · Śloka 6

घृतात्तैलं गुरु वसा तैलान्मज्जा ततोऽपि च||६||

🔊 Audio coming soon

सुबोधम्|| ६||

Adhikarana yamakAdipariBAShAH (7) · Śloka 7

द्वाभ्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान्||७||

🔊 Audio coming soon

सर्पिरादिभ्योऽन्यतमाभ्यां यमको भवत्यन्यतमैस्त्रिवृतो भवति| सर्वैः पुनर्महास्नेहः| एतच्च प्रदेशे वाक्येषूपयुज्यते|| ७||

Adhikarana snehAshayAH (8) · Śloka 8

स्नेहाशया दधि क्षीरं मांसास्थिफलदारु च||८||

🔊 Audio coming soon

दध्यादयः स्नेहाशयाः सर्पिरादिस्नेहानां योनयः| तत्र दधि क्षीरश्च ग़ृताशयः क्षीरस्य नवनीतयोनित्वात्| मांसं वसाशयः| अस्थि मज्जाशयः| फलानि च दारूणि च तैलाशयः|| ८||

Adhikarana snehyAH (9) · Śloka 9

स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचिन्तकाः| वृद्धबालाबलकृशा रूक्षाः क्षीणास्ररेतसः| वातार्तस्यन्दतिमिरदारुणप्रतिबोधिनः| स्नेह्याः........................................||९||

🔊 Audio coming soon

स्नेहस्य विषयं दर्शयति| स्वेद्यादयः स्नेह्याः| न ह्यस्नेहितः स्वेद्य इत्यर्थः| तथा यः संशोध्यः स प्रथमं स्नेह्यः| आसक्त शब्दस्य मद्यादित्रयेण सम्बन्धः| स्यन्दी अभिष्यन्दाक्षिरोगी| दारुणप्रतिबोधः कृच्छ्रोन्मीलाख़्यो वर्त्मरोगः| एते स्नेह्याः|| ९||

Adhikarana asnehyAH (10) · Śloka 10

..........................ंअ त्वतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः| ऊरुस्तम्भाऽतिसारामगलरोगगरोदरैः| मूर्च्छाच्छर्द्यरुचिश्लेष्मतृष्णामद्यैश्च पीडिताः| अपप्रसूता युक्ते च नस्ये बस्तौ विरेचने||१०||

🔊 Audio coming soon

अतिमन्दाग्न्यादयो न तु स्नेह्या इति सम्बन्धः| तीक्ष्णाग्नेः स्नेहनादत्यग्नित्वमतिस्थूलस्याग्निमेदसोर्वृद्धिः| दुर्बलस्या-जरणशक्तेः स्नेहव्यापत्| ऊरुस्तम्भादीनां पीडितशब्देन सम्बन्धः| अत्र शोधनप्रसङ्गेऽप्यस्नेहनं स्नेहेन विना शोधनमिति यावत्| अपप्रसूता न स्नेह्येति विभक्तिपरिणामः| तथा नस्यादित्रितये युक्त आदोषसाम्यात् स्नेहो न योज्यः|| १०||

Adhikarana ghRutAdiviBAgAnusAramadhikAraBedaH (11) · Śloka 11

तत्र धीस्मृतिमेधाग्निकांक्षिणां शस्यते घृतम्| ग्रन्थिनाडीकृमिश्लेष्ममेदोमारुतरोगिषु| तैलं लाग़वदार्ढ्यार्थिक्रूरकोष्ठेषु देहिषु| वातातपाध्वभारस्त्रीव्यायामक्षीणधातुषु| रूक्षक्लेशक्षमात्यग्निवातावृतपथेषु च| शेषौ......................................||११||

🔊 Audio coming soon

तत्र स्नेहेषु मध्ये धीप्रभृतिकाङ्क्षिणां स्नेहप्रसङ्गे सति ग़ृतं स्नेहः शस्यते| तस्य तथाशक्तित्वात्| धीर्बुद्धिः| मेधा प्रज्ञा| ग्रन्थ्यादिषु श्लेष्मादिरोगिषु शरीरलाग़वदृढत्वार्थिषु क्रूरकोष्ठेषु च देहिषु तैलं शस्यत इति सम्बन्धः| वातादिभिः कारणैः क्षीणधातुषु रूक्षादिषु च शेषो वसा मज्जा च| क्लेशक्षमशब्देनाक्लेशक्षमस्य सर्पिस्तैलं च प्रयोजयेदिति| अत्यग्नेरतितीक्ष्णाग्नेः स्नेहप्रतिषेधो वसाया मज्ज्ञश्चापवादवाक्यम्| वातावृतपथः वातरुद्धदेहस्रोतः|| ११||

Adhikarana vasAyAH visheShakShetram (12) · Śloka 12

................वसा तु सन्ध्यस्थिमर्मकोष्ठरुजासु च| तथा दग्धाहतभ्रष्टयोनिकर्णशिरोरुजि||१२||

🔊 Audio coming soon

वसा पुनः सन्ध्यादिरुजास्वपीष्टा| तथा दग्धादिषु योन्यादिरुजि च वसा शस्यत इति सम्बन्धः|| १२||

Adhikarana RutuvisheSheNa snehavisheShanirNayaH (13) · Śloka 13

तैलं प्रावृषि वर्षान्ते सर्पिरन्यौ तु माधवे| सर्वं सर्वस्य च स्नेहं युञ्ज्याद्भास्वति निर्मले| ऋतौ साधारणे...................................||१३||

🔊 Audio coming soon

अनन्तरं स्नेहानामृतुविशेषेण नियमप्रदर्शनार्थमिदमाह-तैलं प्रावृषीत्यादि| प्रावृषि श्रावणे शोधनप्रसङ्गे तैलं स्नेहनाय शस्तम्| वर्षान्ते कार्तिके सर्पिः शस्तम्| अन्यौ शेषौ वसामज्जानौ माधवे वसन्ते चैत्रे| शोधनप्रसङ्गे प्रावृषि तैलं वातजयप्राधान्यात्| शरदि ग़ृतं पित्तजयाय| वमनप्रयोगे कफोत्क्लेशनशक्तत्वात्| सदृशेऽपि काले वसाया मज्ज्ञोश्चोपयोगः| तथा सर्वो ग़ृतादिस्नेहः सर्वस्य शोध्यस्याशोध्यस्य च साधारणे वसन्तशरत्प्रावृडाख़्ये ऋतौ भास्वति तीक्ष्णरश्मौ निर्मले व्यभ्रे योज्यः| न त्वत्यर्थशीतोष्णवर्षाहेमन्तशिशिरग्रीष्माख़्ये|| १३||

Adhikarana doShAnusAraM divArAtriviBAgaH (14) · Śloka 14

..............................दोषसाम्येऽनिलकफे कफे| दिवा निश्यनिले पित्ते संसर्गे पित्तवत्यपि||१४||

🔊 Audio coming soon

ऋतुनियमं दर्शयित्वा तत्पृष्ठभावितया रात्र्यहर्भेदेन नियमं दर्शयति| दोषसाम्ये प्राकृते अनिलकफे केवले च कफे प्राकृते वैकृते च यथोक्तेष्वृतुषु द्विधैव स्नेहयोजनम्| अनिले केवले पित्ते च केवले तथा पित्तवति संसर्गे पित्तानिले पित्तकफे न च निशि स्नेहो योज्यः|| १४||

Adhikarana Atyayike vidhiH (15) · Śloka 15

त्वरमाणे तु शीतेऽपि दिवा तैलं च योजयेत्| उष्णेऽपि रात्रौ सर्पिश्च दोषादीन् वीक्ष्य चान्यथा| निश्यश्नुते वातकफाद्रोगानहनि पित्ततः||१५||

🔊 Audio coming soon

शीतोष्णयोः स्नेहप्रतिषेधादिदमुच्यते-त्वरमाण इत्यादि| स्नेहविषयव्याध्युपशमाय त्वरमाण शीतेऽप्यृतौ स्नेहं योजयेत्| न तु सामान्येनापि तु दिवा तैलमेव न च रात्रौ नाऽप्यन्यस्नेहः| तथा कारणवशात् त्वरमाण उष्णेऽप्यृतौ स्नेहं योजयेत्| अत्र तु रात्रावेव सर्पिरेव च| अथवा दोषदूष्यबलादीन् वीक्ष्य तदानुगुण्येनान्यथापि योजयेत्| यत्र दिवा उक्तं तत्र रात्रावपि योजयेत्| यत्र च तैलमुक्तं तत्रान्योऽपि स्नेहो योज्यः| तथा यत्र रात्रौ सर्पिरुक्तं तत्र दिवान्यदपि| अन्यथा यथोक्तकारणवैपरीत्ये इति प्राप्तम्| निशि स्नेहमुपयुञ्जानो वातकफाद्धेतो रोगानश्नुते| एवमहनि पित्ततो रोगानश्नुते इति सम्बन्धः||१५||

Adhikarana acCapeyasya shreShThatA (16) · Śloka 16

युक्त्यावचारयेत्स्नेहं भक्ष्याद्यन्नेन बस्तिभिः| नस्याभ्यञ्जनगण्डूषमूर्धकर्णाक्षितर्पणैः| रसभेदैककत्वाभ्यां चतुष्षष्टिर्विचारणाः| स्नेहस्यान्याभिभूतत्वादल्पत्वाच्च क्रमात्स्मृताः| यथोक्तहेत्वभावाच्च नाच्छपेयो विचारणा| स्नेहस्य कल्पः स श्रेष्ठः स्नेहकर्माशुसाधनात्||१६||

🔊 Audio coming soon

इति स्नेहस्य कालनियममुक्त्वा योजनां दर्शयति-युक्त्येत्यादि| सर्वं युक्त्या मात्रादिकया स्नेहमवचारयेत्| केनेत्याह-भक्ष्यादिना आदिग्रहणेन भोज्यलेह्यपेयस्य विविधस्याप्यन्नस्य ग्रहणम्| तथा बस्तिभिर्नस्यादिभिश्च| एवं भक्ष्यादिनान्नेन प्रयुज्यमानस्य स्नेहस्य चतुष्षष्टिसङ्ख़्या विचारणा भवन्ति-कथमित्याह| रसभेदैककत्वाभ्याम्| तत्र रसभेदाः पूर्वं त्रिषष्टिर्व्याख़्याताः| एकस्नेहेन चतुष्षष्टिः| एकको यः स्नेहः केवलमुपयुज्यते न च पीयते तस्मात्| भक्ष्याद्यन्ने रसभेदसम्भवः| एककशब्देन बस्तिनस्याभ्यञ्जनादिकं गृह्यते| कथमेता एव विचारणा उच्यन्ते-नाच्छपेय इत्याह| स्नेहस्येत्यादि| क्रमाद्यथासङ्ख़्येन रसभेदेष्वन्याभिभूतत्वात् स्नेहस्य| नस्यादिषु शरीरे स्नेहस्याल्पत्वाच्च चतुष्षष्टिर्विचारणा उच्यन्ते| यथोक्तस्य च हेतोरन्याभिभवलक्षणस्याल्पत्वलक्षणस्य चाभावादच्छापेयस्नेहो विचारणाशब्देन नोच्यते| स्नेहस्य चोपयोगे स एवाच्छपेयाख़्यः कल्पः श्रेष्ठः| कुतः? स्नेहकर्मणां तर्पणमाऱ्दवादीनामाशु सम्पादनात्|| १६||

Adhikarana snehamAtrA (17) · Śloka 17

द्वाभ्यां चतुर्भिरष्टाभिर्यामैर्जीर्यन्ति याः क्रमात्| ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च ह्रसीयसीम्| कल्पयेद्वीक्ष्य दोषादीन् प्रागेव तु ह्रसीयसीम्| अज्ञातकोष्ठे हि बहुः कुर्याज्जीवितसंशयम्||१७||

🔊 Audio coming soon

तस्य च स्नेहस्य ह्रस्वमध्यमोत्तमा मात्रा भवन्ति| कास्ता इत्याह-द्वाभ्यामित्यादि| एवं क्रमादेव तल्लभ्यते| या द्वाभ्यां यामाभ्यां स्नेहमात्रा जीर्यति सा ह्रस्वा या वा चतुर्भिर्यामैर्जीर्यति सा मध्यमा| या त्वष्टाभिर्जीर्यति सा उत्तमा| ताभ्यश्च तिसृभ्यो मात्राभ्यः ह्रसीयसीं कल्पयेदिति| इयं ह्रस्वा इयं च ह्रस्वा| इयमनयोरतिशयेन ह्रस्वा ह्रसीयसी| ननु सर्वत्र ह्रसीयसीं कल्पयेत् ? न अपि तु दोषादीन् वीक्ष्य| तेनैतदुक्तं भवति-दोषदूष्याद्यानुगुण्येन ह्रसीयसीमपि चतुर्थी मात्रां कल्पयेत्| जरणकालानुक्तेर्दोषादिपारतन्त्र्योक्तेश्च ह्रसीयस्या बहुविधमात्रत्वं दर्शितम्| तथा यत्राप्यन्यतमा मात्रा योज्या तत्राप्यज्ञातकोष्ठत्वात् प्रागेव प्रथममेव ह्रसीयसीं कल्पयेत्| तुशब्दोऽवधारणे| कुत इत्याह-अज्ञातकोष्ठे पुरुषे बहुस्नेहोऽशक्तस्य कदाचिज्जीवसंशयं कुर्यात्| हिशब्दो यस्मादर्थे| यस्मादेवं तस्मात् प्रागेव ह्रसीयसीं कल्पयेदित्यर्थः|| १७||

Adhikarana hrasvamAtrAyAH adhikArIhrasvamAtrAyAH adhikArI tasyAH prAshastya~jca (18) · Śloka 18

तत्र दुर्बलमन्दाग्निबालवृद्धसुख़ात्मकः| अपथ्यरिक्तकोष्ठश्च ज्वरातीसारकासिभिः| ह्रस्वा पेया सुख़ा सा हि परिहारेऽनुवर्तते| चिराच्च बल्या न रुजे व्यापन्नापि प्रकल्पते||१८||

🔊 Audio coming soon

अनन्तरं ह्रस्वादीनां मात्राणां विषयभेदं दर्शयति-तत्रेत्यादि| तत्र मात्रात्रये ह्रस्वा मात्रा दुर्बलादिभिः पेया| अपथ्यमहितं रिक्तकोष्ठत्वं येषां तैरपथ्यरिक्तकोष्ठत्वैर्ह्रस्वा पेया| सा हि ह्रस्वा परिहारे यन्त्रणायां सुख़ा न दुःख़परिहारा| चिरं बहुकालं च शरीरेऽनुवर्तते| अबलानां बल्या भवति| देशकालापचारादिना व्यापन्ना विरमितापि रुजे रोगाय न प्रवर्तते|| १८||

Adhikarana madhyayamAtrAyA adhikArI guNAshca (19) · Śloka 19

मेहोरुः पिटकाकुष्ठवातशोणितपीडितैः| मध्यमा मृदुकोष्ठैश्च स्नेहनी स्यात्सुख़ेन सा| न बलक्षपणी मन्दविभ्रंशा शुद्धयेऽप्यलम्||१९||

🔊 Audio coming soon

मेहादिपीडितैर्मृदुकोष्ठैश्च मध्यमा पेयेति सम्बन्धः| सा हि मध्यमा सुख़ेनानायासेन स्नेहनी स्यात्| तथा न च बलक्षपणी मन्दविभ्रंशा व्यापन्नापि सती स्वल्पापायेत्यर्थः| तथा शुद्धये दोषाणां शोधनायालं पर्याप्ता|| १९||

Adhikarana mahatI mAtrAyAH adhikAriNaH guNAshca (20) · Śloka 20

महादेहानलबलक्षुत्तृट्क्लेशसहिष्णुभिः| गुल्मोदावर्तवीसर्पसर्पदंशाभिपीडितैः| उन्मत्तैः कृच्छ्रमूत्रैश्च महती शीघ्रमेव सा| सर्वमार्गानुसारेण जयेद्व्याधीन् सुयोजिता||२०||

🔊 Audio coming soon

महादेहादिभिस्तथा गुल्माद्यभिपीडितैस्तथोन्मत्तैः कृच्छ्रमूत्रैश्च महती पेयेति सम्बन्धः| महच्छब्दस्य देहादित्रयेण समासः| सा हि महती मात्रा सर्वमार्गानुसारेण सकलस्रोतोऽनुगमनेन करणभूतेन सुयोजिता सती शीग़्रमेव व्याधीन् जयेत्| दुर्योजिता त्वजीर्णादीन् व्याधीनावहतीति तात्पर्यार्थः|| २०||

Adhikarana shodhanArthaM snehapAnavidhiH (21) · Śloka 21

ह्यस्तने जीर्ण एवान्ने स्नेहोऽच्छः शुद्धये बहुः||२१||

🔊 Audio coming soon

तत्र यः स्नेहः शुद्धये शोधनार्थं युज्यते स ह्यस्तनेऽन्ने जीर्णमात्र एव युज्यते| तथा यः शुद्धये स्नेहोऽच्छो बहुश्च योज्यः| एवकारकरणं कालातिक्रमपरिहारार्थम्| बहुरुत्तमया मात्रयेत्यर्थः|| २१||

Adhikarana shamanArthaM snehapAnavidhiH (22) · Śloka 22

शमनः क्षुद्वतोऽनन्नो मध्यमात्रश्च शस्यते||२२||

🔊 Audio coming soon

तथा यः शमनस्नेहः स क्षुद्वतः पुरुषस्याऽनन्नो मध्यमया मात्रया शस्यते| अनन्न इति ह्यस्तनेऽन्ने जीर्णे ततश्च क्षुद्वत उपयुज्यते| तथा तस्मिन् जीर्णेऽन्नमिति|| २२||

Adhikarana bRuMhaNArthaM snehapAnavidhiH (23) · Śloka 23

बृंहणो रसमद्याद्यैः सभक्तोऽल्पो हितः स च| बालवृद्धपिपासार्तस्नेहद्विण्मद्यशीलिषु| स्त्रीस्नेहनित्यमन्दाग्निसुख़ितक्लेशभीरुषु| मृदुकोष्ठाल्पदोषेषु काले चोष्णे कृशेषु च||२३||

🔊 Audio coming soon

यस्तु बृंहणः स रसमद्याद्यैः सभक्तः सभोजनोऽल्पोऽल्पया मात्रया योज्यः| स च बृंहणो बालवृद्धादिभ्यो हितः| पिपासार्तः प्रसक्ततृडार्तः| स्नेहद्विषो ये स्वभावेन स्नेहं द्विषन्ति| तथा स्त्रीनित्यानां स्नेहनित्यानां च|| २३||

Adhikarana Bojanasya prA~gmadhyottaraM snehapAnaPalam (24) · Śloka 24

स्नेहः प्राग्भोजनात् कुर्यादूरुजङ्ग़ाकटीबलम्| वेगानुलोम्यमारोग्यमधः कायगदक्षयम्| मध्ये बृहत्त्वाग्निबलस्थिरताकुक्षिरुक्शमान्| इन्द्रियस्थिरतामूर्ध्वमूर्ध्वजत्रुगदक्षयम्||२४||

🔊 Audio coming soon

स च प्रयुक्तो बृंहणस्नेहो भोजनात् प्राक् प्रथमं भोजनस्य प्रयुक्त ऊरुबलादीन् कुर्यात्| तथा स एव भोजनमध्ये पीतो बृहत्वादीन् कुक्षिरुक्शमनान्तान् कुर्यात्| स एव भोजनादूर्ध्वमनन्तरं प्रयुक्त इन्द्रियस्थिरतामूर्ध्वजत्रुगदक्षयं च कुर्यात्|| २४||

Adhikarana doShAnusAraM snehasAhAyyadravyANi (25) · Śloka 25

वाते सलवणं सर्पिः पित्ते केवलमिष्यते| वैद्यो दद्याद्बहुकफे क्षारत्रिकटुकान्वितम्||२५||

🔊 Audio coming soon

सर्वशश्च ग़ृतं मारुतेऽधिके सलवणं हितम्| पित्तेऽधिके केवलमिष्यते| बहुकफे तु पुरुषे क्षारत्रिकटुकान्वितं ग़ृतं वैद्यो दद्यात्|| २५||

Adhikarana acCapAnottaravidhiH (26) · Śloka 26

वायुर्ष्णमच्छेऽनुपिबेत्स्नेहे तत्सुख़पक्तये| आस्योपलेपशुद्ध्यै च तौवरारुष्करे न तु| उष्णोपचारः स्नेहे स्यादुष्णो ह्युष्णैर्विरुध्यते| ततो गुरुप्रावरणो निवातशयनस्थितः| जरणान्तं प्रतीक्षेत तृष्यन्नुष्णाल्पवारिपः||२६||

🔊 Audio coming soon

अच्छस्नेहेऽनु पश्चादुष्णं वारि पिबेत्| किं प्रयोजनमाह-तस्य स्नेहस्य सुख़पक्त्यर्थमास्योपलेपशुद्ध्यर्थञ्च| किं सर्वत्र आह-न तु तौवरे आरुष्करे च स्नेहे वार्युष्णं पिबेदिति सम्बन्दः| कस्मादित्याह-उष्णेत्यादि| सर्वस्नेहेषूष्णोपचारेण भवितव्यम्| उष्णोपचार उष्णैस्तौरवादिभिर्यतो विरुध्यते| ततस्तत्र त्यजेत्| ततश्च प्रकृतादुष्णोदकपानादनन्तरं गुरुप्रावरणाद्युक्तगुणः सन् जरणान्तं प्रतीक्षेत| जीर्यमाणे तस्मिन् तृष्यन् सन्नुष्णाल्पवारिपो भवेत्|| २६||

Adhikarana jIryamANasnehalakShaNam (27) · Śloka 27

शिरोरुग्भ्रमनिष्ठीवमूर्च्छासादारतिक्लमैः| जानीयाद् भेषजं जीर्यत्.....................||२७||

🔊 Audio coming soon

तच्च भेषजं स्नेहाख़्यं शिरोरुगादिभिर्लक्षणैर्जीर्यज्जानीयात्|

Adhikarana jIrNasnehalakShaNam (28) · Śloka 28

...........................जीर्णं तच्छान्तिलाघवात्| अनुलोमानिलस्वास्थ्यक्षुत्तृष्णोद्गारशुद्धिभिः||२८||

🔊 Audio coming soon

तदेव भेषजं तच्छान्त्या शिरोरुगादिशान्त्या अङ्गानां लाघवेन च जीर्णं जानीयात्| तथा अनुलोमानिलादिभिश्च जीर्णं जानीयात्|| २८||

Adhikarana jIrNAjIrNavisha~gkAyAM kRutyam (29) · Śloka 29

जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिबेत्| तेनोद्गारविशुद्धिः स्यात्ततश्च रुचिलाग़वम्||२९||

🔊 Audio coming soon

तथा स्नेहस्य जीर्णाजीर्णशङ्कायां पुनरुष्णोदकं पिबेत्| उष्णोदकेन पीतेनोद्गारविशुद्धिः स्यात्| ततश्च जीर्णाजीर्णशङ्कातोऽधिकमङ्गलाग़वं रुचिश्च भवति|| २९||

Adhikarana snehaM pAsyataH pibataH pItavatashca BojanavidhiH (30) · Śloka 30

भोज्योऽन्नं मात्रया पास्यन् श्वः पिबन् पीतवानपि| द्रवोष्नमनभिष्यन्दि नातिस्निग्धमसङ्करम्||३०||

🔊 Audio coming soon

तं च स्नेहं श्वः पास्यन् पुरुषोऽद्य वा पिबन् ह्यः पीतवांश्च मात्रया स्वल्पत्वेनान्नं भोज्यः| किम्भूतमन्नमाह-द्रवोष्णेत्यादि| असङ्करम् अनानाजातीयम्|| ३०||

Adhikarana snehapIte niyamAH (31) · Śloka 31

उष्णोदकोपचारी स्याद् ब्रह्मचारी क्षपाशयः| व्यायामवेगसंरोधशोकवर्षहिमातपान्| प्रवातयानयानाध्वभाष्यात्यासनसंस्थितीः| नीचात्युच्चोपधानाहस्स्वप्नधूमरजांसि च| यान्यहानि पिबेत्तानि तावन्त्यन्यान्यपि त्यजेत्| सर्वकर्मस्वयं प्रायो व्याधिक्षीणेषु च क्रमः| उपचारस्तु शमने कार्यः स्नेहे विरिक्तवत्||३१||

🔊 Audio coming soon

तथा स्नेहप्रसङ्गेषु पुरुष उष्णोदकोपचारी ब्रह्मचारी क्षपाशयश्च स्यात्| क्षपाशयशब्देन दिवास्वप्नस्य रात्रिजागरणस्य च प्रतिषेध उक्तः| तथा पुरुषो यान्यहानि स्नेहं पिबेत्तानि व्यायामादींस्त्यजेत्| अनन्तरमन्यानि स्नेहरहितान्यपि तावन्त्येव व्यायामादींस्त्यजेत्| यावन्ति स्नेहस्योपयोगः| न केवलमयमुष्णोदकोपचारादिकः क्रमः स्नेह एव योज्यः| यावत्सर्वकर्मसु स्वेदवमनादिषु व्याधिक्षीणेषु चायमेव क्रमः| शमने स्नेहे विरिक्तवदुपचारः कार्यः| तत्र विरिक्तस्य शमनस्नेहस्य च सदृश उपचारः| विरिक्तस्य च यदधिकं कर्म पेयादि तत्सर्वमस्मिन्नपि कार्यम्|| ३१||

Adhikarana snehapAnAtpUrvaM dIpanauShadhaM deyam (32) · Śloka 32

स्नेहस्य पानात् पूर्वञ्च दातव्यं मृदु भेषजम्| उत्तेजनं हुताशस्य कोष्ठलाग़वकारि च||३२||

🔊 Audio coming soon

सर्वस्य च स्नेहस्य पानात्पूर्वं हुताशस्याग्नेरुत्तेजनं कोष्ठलाग़वकारि च मृदु भेषजं दातव्यम्|| ३२||

Adhikarana snehapAne kAlamaryAdA (33) · Śloka 33

त्र्यहमच्छं मृदौ कोष्ठे क्रूरे सप्तदिनं पिबेत्| सम्यक्स्निग्धोऽथवा यावदतः सात्मीभवेत्परम्||३३||

🔊 Audio coming soon

तत्र त्वच्छं स्नेहं मृदौ कोष्ठे त्र्यहं पिबेत्| तमेवाच्छं क्रूरे कोष्ठे सप्तदिनं पिबेत्| अथवा नैष नियमः| सम्यक् स्निग्धलक्षणोत्पत्तिरेव नियमः| अतो यथोक्तान्नियमात् परं ऊर्ध्वमच्छः स्नेहः प्रयुक्तः सात्मीभवेत्| न शोधनकार्यं करोतीत्यर्थः|| ३३||

Adhikarana sAtmIBUtasnehapraBAvaH (34) · Śloka 34

सात्मीभूतो हि कुरुते न मलानामुदीरणम्||३४||

🔊 Audio coming soon

एतदेवाचष्टे-सात्मीभूत इत्यादि|| ३४||

Adhikarana snehAtiyoge doShaH (35) · Śloka 35

अतियोगेन वा व्याधीन् यथाम्ब्वोग़ोऽतियोजनात्| विहत्य सेतुं मृत्कोष्ठात् स्रवति क्षपयन् मृदम्| स्नेहोऽप्यग्निं तथा हत्वा स्रवति क्षपयंस्तनुम्||३५||

🔊 Audio coming soon

अथवा शोधनकार्यं कुर्वन्नप्यतियोगेन देहनाशरूपान् व्याधीन् कुरुते| तत्र दृष्टान्तो यथा अम्ब्वोग़ो वारिवेगोऽतियोजनात् सेतुं निहत्य मृत्कोष्ठैकदेशात् स्रवति| स्रवंश्च मृदं क्षपयेत्| तद्वत् स्नेहोऽपि सेतुसंस्थानमग्निं हत्वा देहकोष्ठात् स्रवन्मृत्संस्थानां तनुं क्षपयेत्|| ३५||

Adhikarana samyaksnigdhAsnigdhalakShaNam (36) · Śloka 36

वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्| मृदुस्निग्धाङ्गताग्लानि स्नेहोद्वेगोऽथ लाग़वम्| विमलेन्द्रियता सम्यक् स्निग्धे रूक्षे विपर्ययः||३६||

🔊 Audio coming soon

सम्यक् स्निग्धे पुरुषे वातानुलोम्यादिलक्षणं भवति| वर्चः पुरीषम्| स्निग्धमसंहतं शिथिलं च| विमलेन्द्रियतान्तं सम्यक् स्निग्धलक्षणम्| रूक्षे पुनरस्निग्धे यथोक्तेभ्यो लक्षणेभ्यो यथास्वं वैपरीत्यमिति स्नेहायोगलक्षणम्|| ३६||

Adhikarana atisnigdhalakShaNAni (37) · Śloka 37

पाण्ड्वामयाङ्गसदनग़्राणवक्त्रगुदस्रवाः| गुददाहारुचिश्छर्दिमूर्च्छातृष्णाप्रवाहिकाः| शुक्तोद्गारभ्रमश्वासकासाः स्नेहातिसेवनात्||३७||

🔊 Audio coming soon

स्नेहस्यातिसेवनात् पाण्ड्वामयाद्युद्भवः| स्रवशब्दस्य ग़्राणादिना समासः| प्रवाहिका निस्तानिका| शुक्तोद्गारो विदग्धाम्लोद्गारः| इति स्नेहातियोगलक्षणम्|| ३७||

Adhikarana mithyAsnigdhalakShaNam (38) · Śloka 38

अमात्रयाऽहितोऽकाले मिथ्याहारविहारतः| स्नेहः करोति शोफार्शस्तन्द्रानिद्राविसंज्ञताः| कण्डूकुष्ठज्वरोत्क्लेशशूलानाहबलक्षयान्| जठरेन्द्रियदौर्बल्यजाड्यामस्तम्भवाग्ग्रहान्| तांस्तान्स्वदोषहेतूत्थान्पाण्ड्वादींश्चातियोजनात्||३८||

🔊 Audio coming soon

सर्वस्य स्नेहो दोषानपेक्षया मात्रया अप्थ्यश्चाकाले च युक्तस्तथा मिथ्याहारविहारतश्च हेतोः स्नेहः शोफादीन् करोति| तांस्तांश्च पूर्वोक्तानपचारानुगुण्येन वातादिदोषकारणजान् व्याधीन् करोति| उत्क्लेशो दोषादीनां विकारः|| ३८||

Adhikarana snehavyApadi sAdhanam (39) · Śloka 39

क्षुत्तृष्णोल्लेख़नस्वेदरूक्षपान्नभेषजम्| तक्रारिष्टख़लोद्दालयवश्यामाककोद्रवाः| पिप्पलीत्रिफलाक्षौद्रपथ्यागोमूत्रगुग्गुलु| यथास्वं प्रतिरोगं च स्नेहव्यापदि साधनम्||३९||

🔊 Audio coming soon

अस्यां च शोफादिकायां स्नेहव्यापदि क्षुत्तृडादिसाधनं चिकित्सा| उल्लेख़नं वमनम्| रूक्षशब्दस्य पानादित्रयेण सम्बन्धः| उद्दालः शालिविशेषः| तथा यद्दोषानुगुण्येन प्रतिरोगं यद्यस्मिन् रोगे स्वाध्यायोक्तं तदपि साधनम्|| ३९||

Adhikarana virUkShaNasya samyakkRutAtikRutalakShaNam (40) · Śloka 40

विरूक्षणे लङ्ग़नवत् कृतातिकृतलक्षणम्||४०||

🔊 Audio coming soon

स्नेहव्यापत्साधनस्य विरूक्षणस्वभावत्वात् प्रसङ्गेन विरूक्षणस्य सम्यक्कृतातिकृतलक्षणमुच्यते| यत् लङ्ग़नस्य सम्यक्कृतस्य लक्षणं तद्विरूक्षणस्यापि| एवमतिकृतलक्षणं लङ्ग़नवद् ज्ञेयम्| विरूक्षणायोगलक्षणं तु स्नेहायोगलक्षणैरेवोक्तम्|

Adhikarana pittaprakRuteH snehenAtitIkShNIBUtA- nilatRuShNAyAmupacAraH (41) · Śloka 41

स्नेहेन पैत्तिकस्याग्निर्यदा तीव्रतरीकृतः| स्नेहमाशु जरां नीत्वा पुनरोजोऽभितश्चरन्| उदीरयेत् सोपसर्गां पिपासामस्य बाधिकाम्| सोऽसूंस्त्यजेद्यद्युदकं न पिबेदाशु शीतलम्| शीतसेकावगाहान् वा तत्तृष्णापीडितो भजेत्| स्नेहाग्निना दह्यमानः स्वविषेणैव पन्नगः||४१||

🔊 Audio coming soon

पैत्तिकस्य पित्तप्रकृतेः पुरुषस्य यदा स्नेहेनाग्निस्तीक्ष्णतरीकृतो भवति तदा सोऽग्निराशु स्नेहं जरां नीत्वा पुनरोजसश्चाभिमुख़्येन चरन् तीक्ष्णत्वादस्य हि पैत्तिकस्य सोपसर्गां सज्वरादिमहारोगां बाधिकां प्राणनाशिनीं पिपासां तृषमुदीरयेत्| स च तथाविधः पुरुषस्तथाविधया पिपासयासून् प्राणांस्त्यजेत् यद्युदकं शीतलं न पिबेत्| तथाविधस्तृष्णापीडितः शीतसेकादीन्नभजेद्यदि तदासूंस्त्यजेत्| किम्भूतस्तृष्णापीडित आह-स्नेहाग्निना दह्यमानः| अत्र दृष्टान्तो यथा स्वविशेषाभिवृद्धेन पन्नगो भस्मसात् क्रियते, तद्वत् स्नेहाग्निना पुरुषः|| ४१||

Adhikarana pittaprakRuteH snehe~ajIrNe tIvratRuShNAyAM copacAraHkaPAnilaprakRuteH samaprakRuteshca tRuShNAyAmupacAraH (42) · Śloka 42

अजीर्णे बलवत्या तु शीतैर्दिह्याच्छिरोमुख़म्| छर्दयेत्तदशान्तौ च पीत्वा शीतोदकं पुनः| रूक्षान्नमुल्लिख़ेद् भुक्त्वा.......................... ................................तादृश्यां तु कफानिले| समदोषश्च निःशेषं स्नेहमुष्णाम्बुनोद्धरेत्| ततो दोषादिबलतः पूर्वोक्तञ्च विधिं श्रयेत्||४२||

🔊 Audio coming soon

स्नेहे त्वजीर्णे बलवत्यां तृषि पैत्तिकस्य शीतैरौषधैः शिरोमुख़ं दिह्यात्| तं चाजीर्णं स्नेहं छर्दयेत्| एवमपि तस्यास्तृषोऽशान्तौ स्नेहे छर्दितेऽपि शीतोदकं पीत्वा रूक्षान्नं च भुक्त्वा पुनरुल्लिख़ेत्| छर्दयेदिति पैत्तिकस्य तृट्साधनम्| कफानिले पुनस्तादृश्यामतिमात्रायां तृष्युष्णाम्बुना निःशेषं स्नेहमुद्धरेत् वमेदित्यर्थः| समदोषश्च तथैव वमेत् ततः स्नेहे वान्ते दोषदूष्यादिबलापेक्षया पूर्वोक्तं लाग़वे जाते सत्यन्नादिं विधिं चरेत्|| ४२||

Adhikarana pitte sarpiHpAnanirNayaH (43) · Śloka 43

न सर्पिः केवलं पित्ते पेयं सामे विशेषतः| सर्वं ह्यनुरुजं देहं हत्वा संज्ञा च मारयेत्||४३||

🔊 Audio coming soon

स्नेहनिर्णयप्रसङ्गेनाह-सर्पिरित्यादि| पित्ते तु केवले केवलमच्छं सर्पिर्न पेयम्| सामे तु पित्ते विशेषतः केवलः न पेयम्| कुतः ? यथासङ्ख़्येन हेतुद्वयमुच्यते| केवलं पित्ते सर्पिषि पीते पित्तं स्नेहसहायं सत् सर्वं देहमनुव्रजेत् ततश्चाधिकं रोगस-मीरणा| सामे पित्ते पीतं सामं स्नेहसहायं पित्तं स्रोतः-पिधानेन संज्ञां हत्वा मारयेत्| इदं च शोध्यपित्ताशयं पित्तघ्नास्त इति शमनीयम्| तेन ग्रन्थविरोधो न भवति| पित्ते केवलमिष्यत इत्येतच्चोपपन्नं भवति| चशब्दो हेतुसमुच्चये|| ४३||

Adhikarana snehanAnantaraM virekavamanasevanavidhiH (44) · Śloka 44

स्निग्धद्रवोष्णधन्वोत्थरसभुक्स्वेदमाचरेत्| स्निग्धस्त्र्यहं स्थितः कुर्याद्विरेकं वमनं पुनः| एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः| तिलमाषदधिक्षीरगुडमत्स्यरसादिभिः||४४||

🔊 Audio coming soon

एवमनन्तरेण प्रकारेण स्निग्धः सन् यदा वमनेन विना विरेकमेव कारणवशेन करोति तदाऽभ्यक्तस्नेहः सन् त्र्यहं स्थितो विरेकं कुर्यात्| किम्भूतः किं कुर्वन् त्र्यहं स्थितः| स्निग्धादिगुणयुक्तमांसरसभुक् तथा स्वेदमाचरन् यदा तु स्नेहादनन्तरं वमनमेवोपयुङ्क्ते| तदा स्निग्धः सन् द्व्यहं स्थितो वमनं कुर्यात्| कथं द्व्यहं स्थितः| एकाहमनेनैव प्रकारेण स्निग्धद्रवोष्णधन्वोत्थरसभुक् स्वेदमाचरन् स्थितः| अन्यच्च द्वितीयं दिनं कफमुत्क्लेश्य स्थितः केनोत्क्लेश्य तत्करैः कफकरैः| कैरित्याह-तिलेत्यादिभिः|| ४४||

Adhikarana mAMsalAdiShu snehanAtpUrvaM rUkShaNam (45) · Śloka 45

मांसला मेदुरा भूरिश्लेष्माणो विषमाग्नयः| स्नेहोचिताश्च ये स्नेह्यास्तान् पूर्वं रूक्षयेत्ततः| संस्नेह्य शोधयेदेवं स्नेहव्यापन्न जायते| अलं मलानीरयितुं स्नेहश्चासात्म्यतां गतः||४५||

🔊 Audio coming soon

मांसलत्वादियुक्ताः पुरुषा ये शोध्यत्वेन स्नेह्याः तान् स्नेहात् पूर्वं रूक्षयेत्| ततो रूक्षयित्वाऽनन्तरं च संस्नेह्य शोधयेत्| किमेवं सति भवति| इदं भवति-मांसलादीनां स्नेहस्य सदृशत्वाद्या स्नेहव्यापदाशङ्क्यते सा न जायते| तथा रूक्षस्य स्नेहः प्रयुक्तः असात्म्यत्वान्मलानीरयितुं शोधयितुमलं पर्याप्तो भवतीति फलद्वयम्|| ४५||

Adhikarana sadyaH snehanayogAstadarhAshca (46) · Śloka 46

बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु| योगानिमाननुद्वेगान् सद्यः स्नेहान् प्रयोजयेत्| प्रभूतमांसनिष्क्वाथान् जाङ्गलानूपजान् रसान्| स्नेहभृष्टेषु वा तेषु यवागूं वाऽतिसंहताम्| तिलचूर्णं च सस्नेहं फाणितं कृसरं तथा| तिलकाम्बलिकं भूरिस्नेहं सर्पिष्मतीमपि| पेयां सुख़ोष्णां क्षैरेयीं पात्रे वा ससिताघृते| सर्पिर्लवणयुक्तं वा सद्यः दुग्धं तथा पयः| पेयां च पञ्चप्रसृतां स्नेहैस्तण्डुलपञ्चमैः| पायसं माषमिश्रं च बहुस्नेहसमायुतम्| तैलशुण्ठीगुडरसं जीर्णे मांसरसाशिनः| स्नेहं वैकं सुराऽच्छेन दध्नो वा सगुडं सरम्| वसां वराहजां सर्पिः पिप्पलीं लवणं तिलान्| पिप्पलीं लवणं स्नेहांश्चतुरो दधिमस्तुकम्| दध्ना सिद्धं व्योषगर्भं धात्रीद्राक्षारसे घृतम्| यवकोलकुलत्थाम्बुक्षारक्षीरसुरादधि| घृतं च सिद्धं तुल्यांशं सद्यः स्नेहनमुत्तमम्| सिद्धांश्च चतुरः स्नेहान् बदरत्रिफलारसैः| योनिशुक्रामयहरान् सद्यः स्नेहान् प्रयोजयेत्| लवणोपहिताः स्नेहाः स्नेहयन्त्यचिरान्नरम्| तद्धि विष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च||४६||

🔊 Audio coming soon

तत्र बालवृद्धादिषु पूर्वं बृंहणस्नेहविषयपठितेशु तथा ये स्नेहे प्रयुज्यमाने वर्ज्यपरिहारं कर्तुं न शक्नुवन्ति तेषु च सद्यः स्नेहाख़्यान् योगान् प्रयोजयेत्| के त इत्याह-प्रभुतेत्यादि| जाङ्गलसत्त्वजानानूपसत्त्वजांश्च मांसरसान्यथायोग्यम्| किम्भूतान् प्रभूतमांसनिष्क्वाथान्| अथवा तेष्वनन्तरोक्तेषु रसेषु स्नेहेन घृतादिना भृष्टेषु सत्स्वधिकरणभूतेषु तेषु यवागूं सिद्धाम्| किम्भूतां नातिसंहतां नातिग़नाम्| तथा सस्नेहफाणितस्तिलचूर्णः| फाणितः क्षुद्रगुडः| तथा कृसरः तिलमिश्रा विलेपी| तथेति सस्नेहफाणितेत्यर्थः| तथोक्तलक्षणम्| काम्बलिकं तिलकृतं यद् भूरिस्नेहम्| क्षैरेयीं वा पेयां सर्पिष्मतीं सग़ृतां सुख़ोष्णां च| अपीति समुच्चये| तथा शर्कराघृतसहिते पात्रे सद्योदुग्धं पयः ससर्पिर्लवणम्| एतैर्युक्ते वा पात्रे सद्योदुग्धं पयः| तथा पञ्चप्रसृताख़्या पेया स्नेहैश्चतुर्भिः प्रसृतसम्मितैः पञ्चमेन च तावता तण्डुलेन कृता| अथवा पयसा सिद्धं बहुस्नेहसमायुतं माषमिश्रमोदनम्| तथा सर्पिरादिभ्य एकमन्यतमं तैलशुण्ठीगुडयुतं सुराच्छेन पीतं सद्यःस्नेहनम्| किम्भूतस्य पुरुषस्य स्नेहनमाह| तस्मिन्योगे जीर्णे मांसरसाशिनः| अथवा दध्नः सरः सगुडः| तथा वराहवसा सर्पिरादिचतुष्टययुक्ता योगः| तथा चत्वारः स्नेहाः पिप्पलीलवणदधिमस्तुयुक्ता योगः| तथा धात्र्या द्राक्षायाश्च मिश्रिते रसे दध्ना व्योषगर्भं घृतं सिद्धं योगः| अत्र दध्नः सहार्थे तृतीयाविधानात् स्नेहसमत्वात् धात्रीद्राक्षारसयोः प्रत्येकं स्नेहसमत्वं योगः| तथा यवादिक्वथिताम्लादिसमांशसिद्धं योगः| एतद् घृतमुत्तमं सद्यःस्नेहनम्| तथा चतुरः स्नेहान्| अभिष्यन्दि स्रोतसां स्रावकम्| अरूक्षत्वादिगुणयुक्तं च| सूक्ष्मं सूक्ष्मस्रोतःप्रवेशित्वात्| व्यवायि देहमख़िलं व्याप्य पाकाय कल्पते|| ४६||

Adhikarana kuShThAdiShu snehanArthaM guDAdInAM niShedhaH triPalAdInAM vidhishca (47) · Śloka 47

गुडानूपामिषक्षीरतिलमाषसुरादधि| कुष्ठशोफप्रमेहेषु स्नेहार्थं न प्रकल्पयेत्| त्रिफलापिप्पलीपथ्यागुग्गुल्वादिविपाचितान्| स्नेहान् यथास्वमेतेषां योजयेदविकारिणः| क्षीणानां त्वामयैरग्निदेहसन्धुक्षणक्षमान्||४७||

🔊 Audio coming soon

कुष्ठादिषु स्नेहप्रसङ्गे गुडादि स्नेहनाऱ्र्थं न प्रकल्पयेत्| केनतर्हि तान् स्नेहयेदित्याह-त्रिफलेत्यादि| एतेषां कुष्ठादीनां यथास्वमध्यायेषु पथ्यत्वेनोक्तौस्त्रिफलादिभिरविकारिणः स्नेहान् सिद्धान् प्रयोजयेत्| तथा आमयैर्व्याधिभिः क्षीणानां नराणां स्नेहनार्थमग्निदेहसन्धुक्षणक्षमान् वर्धनक्षमान् स्नेहान् योजयेदिति सम्बन्धः|| ४७||

Adhikarana snehAByAsasya Palam (3) · Śloka 3

दीप्तान्तराग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुः बलवर्णयुक्तः| दृढेन्दिर्यो मन्दजरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने स्नेहविधिर्नाम पञ्चविंशोऽध्यायः||३||

🔊 Audio coming soon

उपसंहरति-योऽभ्यासेन स्नेहमुपसेवते स दीप्तान्तराग्नित्वादिगुणयुक्तो भवतीति प्रदिष्ट आगमविद्भिरिति|| ४८|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थाने पञ्चविंशोऽध्यायः