Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

39. kṣārapākavidhiḥ

Adhikarana atha kShArapAkavidhirnAmaikonacatvAriMsho~adhyAyaH pratij~jA (1) · Śloka 1

अथातः क्षारपाकविधिमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Adhikarana kShArasvarUpaM guNAH upayogashca (2) · Śloka 2

क्षारो हि नानौषधसमवायनिर्वृत्तेः सर्वरसाधिष्ठानं कटु कलवणरसभूयिष्ठस्तीक्ष्णोष्णो दहनः पाचनो विदारणो विलायनः शोधनो रोपणः कृम्याममेदोविषापहः सर्व शस्त्रानुशस्त्राणां च वरिष्ठश्छेदनभेदनपाटनलेख़नक रणाद्यतश्च सम्बाधावकाशजेषु दुःख़ावचारणीयशस्त्रेषु नासार्शोऽर्बुदादिषु शस्त्रेण चासिध्यत्सु दुष्टव्रणेषु बहुशः प्रकोपिषु प्रयुज्यते||२||

🔊 Audio coming soon

Adhikarana kShAradvaividhyaM tayorviShayashca (3) · Śloka 3

स द्विधा-बाह्याभ्यन्तरपरिमार्जनभेदेन| तत्रार्शोर्बु दभगन्दरग्रन्थिदुष्टव्रणनाडीचर्मकीलवर्त्ममुख़रोगकुष्ठ किलासतिलकालकादिषु बहिः परिमार्जनेन अन्तः परि मार्जनेन तु गुल्मगरोदराग्निसादमलसङ्गशूलानाहाश्म रीशर्करादिषु| स यथास्वमेवोपदेक्ष्यते||३||

🔊 Audio coming soon

Adhikarana kShArAnarhAH (4) · Śloka 4

न तूभयोऽपि योज्यो भीरुदुर्बलक्षामवातपित्तार्दितज्व रातिसारपाण्डुशिरोहृदयरोगमेहाक्षिपाकतिमिरारोचका तुरकृतवमनविरेकर्तुमतीगर्भिण्युद्वृत्तफलयोनिसर्वाङ्ग शूलविषमद्यपीतेषु| मर्मसिरास्नायुसन्धितणास्थिसेवनी धमनीगलनाभिनख़ान्तरमुष्कशेफस्रोतस्स्वल्पमांसेषु च देशेष्वक्ष्णोश्चान्यत्र वर्त्मरोगात्| तथाऽतिशीतोष्णवर्ष दुर्दिनप्रवातेषु च||४||

🔊 Audio coming soon

Adhikarana barhiHparimArjanakShAraBedAH (5) · Śloka 5

अथ बहिःपरिमार्जनस्त्रिविधो मध्यो मृदुस्तीक्ष्णश्च|५|

🔊 Audio coming soon

Adhikarana kShArapAkavidhiH (5) · Śloka 5

तस्य पाकविधिः शरदि शुचिरुपोषितः शुक्लवासाः प्रशस्तेऽहनि प्रशस्तदेशजातं मध्यमवयसमनुपतं महान्तं कालमुष्ककं सुरापललसुमनोऽक्षतादिभिश्चतुर्दिशं बलिं कृत्वा प्रदक्षिणं चाभ्यर्च्यैनमधिवासयेत्| दैवतेभ्यो नमस्तेभ्यो निवसन्तीह ये श्रिताः| गन्तुपर्हन्त्यसंक्रुद्धास्त्यक्त्वेमं वाससव्यम्| भेषजार्थं ग्रहीष्यामि सर्वप्राणभृतामिमम्| वृक्षं न लोभान्न क्रोधाद् ब्राह्माणार्थे विशेषतः| अथातरेद्युस्तत्र यद्यद्भुतं वैकृतं वा किञ्चिन्न पश्येत्ततो युगमात्रमारुढे सवितरि ब्राह्मणान्वाचयित्वा तं पादपं पूर्वाग्रमुत्तराग्रं वा पातयेत्| एवं च पारिभद्रपलाशशव कर्णराजवृक्षमहावृक्षवृक्षकेन्द्रवृक्षस्फोतसप्तच्छदनक्त मालतिल्वककदलीबिभीतकाश्वमारकपूतीकचित्र कार्ककाकजङ्ग़ापामार्गाग्निमन्थान्वसन्तोपसंगृहीतांश्च यवान् सशूकनालांश्चतस्रश्च कोशातकीः सर्वान् समूल फलपत्रशाकान् ख़ण्डशः कल्पयित्वा नातिशुष्कान् शिलातलस्थान् निवाते पृथङ् निचयीकृत्य मुष्कक निचये च सुधाशर्कराः प्रक्षिप्य तिलकुन्तलैरादीपयेत्| दग्ध्वा च शान्तेऽग्नौ पृथक् सुधाशर्कराभस्म कृत्वे तरत्सर्वक्षारद्रोणमधिकमुष्ककं सलिलपलसहस्रेण गवा दिमूत्रपलसहस्रेण चालोड्य महता वस्त्रेण परिस्रा वयेत्| यावदच्छो रक्तस्तीक्ष्णः पिच्छिलश्च जातस्तदा तं क्षारनिष्यन्दं गृहीत्वा भस्म विवर्जयेत्| ततः स्नेहपाक विधिना पाचयेत्| पच्यमाने च तस्मिंस्ताः सुधाभस्म शर्कराः क्षीरबकं शङ्गनाभिं चायसे पात्रेऽग्निवर्णान् कृत्वा तत्क्षाराच्छकुडवमात्रे निर्वाप्य तेनैव च सुश्लक्ष्णं पिष्ट्वा प्रतीवापं दद्यात्| ततश्च सुतरां दर्व्यावग़ट्टयन् विप चेद्यावच्च सबाष्पैर्बुद्बुदैः समुत्तिष्ठेत् सान्द्रतया च दर्वी प्रलेपी स्यात्तदैनमवतार्यायोग़टे यवराशौ सुगुप्तं स्थाप येत्| एष मध्यमः क्षारः||५||

🔊 Audio coming soon

Adhikarana mRudutIkShNayorvisheShaH (6) · Śloka 6

मूर्दौ शर्करादीन्निर्वाप्यापनयेन्न तु पिष्ट्वा क्षिपेत्| तीक्ष्णे तु दन्तीचित्रकलाङ्गलिकापूतीकप्रवालतालपत्रीबिड स्वर्जिकाकनकक्षोरीहिङ्गुवचातिविषाः श्लक्ष्णचूर्णीकृता दग्धाश्च शङ्ख़शुक्तीः पूर्ववत् प्रतिवापं दद्यात्| तांश्च व्याधिबलतः सप्तरात्रादूर्ध्वं प्रयुञ्जीत| क्षीणबले तु बलाधानार्थं पुनः क्षारजलमावपेत्||६||

🔊 Audio coming soon

Adhikarana kShAraguNadoShAH (7) · Śloka 7

तत्र नातितीक्ष्णो नातिमृदुः श्वेतः श्लक्ष्णः शीग़्रः पिच्छिलः शिख़री सुख़निर्वाप्योऽल्परुगनिभिष्यन्दी चेति दश क्षारस्य गुणाः| दशैव च दोषाः| तद्यथा-अत्यु ष्णोऽतिशीतोऽतितीक्ष्णोऽतिमृदुरतितनुरतिग़नोऽतिपि च्छिलो विसर्पी हीनौषधो हीनपाकश्चेति||७||

🔊 Audio coming soon

Adhikarana kShArapAtanasyopakalpanIyam (8) · Śloka 8

तत्र क्षारकर्मण्युपहरेत् पिचुवर्तिशलाकादर्व्यञ्जलिका ग़ृतमधुशुक्ततुषोदकमस्तुक्षीरोदकशीतप्रदेहशयनासना दीनि|८|

🔊 Audio coming soon

Adhikarana kShArapAlanavidhiH kShArapAlanavidhiH (8) · Śloka 8

अथ क्षारार्हस्योपविष्टस्य संविष्टस्य वाप्तपरिचारक गृहीतस्य व्याधिं छित्वाऽवलिख़्य प्रच्छाय वा पिचुप्लो तान्यतरावगुण्ठितया शलाकया क्षारं पातयेत्| ततो मात्राशतमुपेक्षेत| वर्त्मरोगे तु निर्भुज्य वर्त्मनी पिचुना मधूच्छिष्टेन वा कृष्णभागं प्रच्छाद्य पद्मपत्रतनुः क्षार लेपः| ग़्राणजेशु त्वर्शोऽर्बुदेष्वादित्याभिमुख़स्योन्नमय्य नासिकामुपेक्ष्याश्च पञ्चाशन्मात्राः| तद्वच्छ्रोत्रजेषु| गुदा र्शस्सु पाणिना यन्त्रद्वारं पिधाय धारयेन्मात्राशतमेव| ततः प्रमार्जनेन प्रमृज्य क्षारं सम्यग्दग्धमवेक्ष्य निर्वापयेत् सर्पिर्मधुभ्यां शुक्ततुषोदकमुस्तुक्षीरादिभिश्च| ततः परं शीतमधुरैः सग़ृतैः प्रदिह्यात्| अभिष्यन्दीनि भोज्यानि क्लेदनाय च| स्थिरमूलत्वात्तु यदि क्षारदग्धं न विशीर्यते ततो धान्याम्लबीजमधुयष्टिकायुक्तैस्तिलैरालेपयेत्सुव र्णक्षीरीयुतैर्वा त्रिवृद्विडङ्गसारवद्भिर्वा|८|

🔊 Audio coming soon

Adhikarana vraNaprakShAlanaropaNadravyANi (8) · Śloka 8

मालतीवृषाङ्कोलनिम्बास्फोतपटोलीकरवीरपत्रक्वाथेन व्रणप्रक्षालनम्| एषामेव च कल्कक्वाथे सिद्धं सर्पिस्तैलं वा रोपणम्| नागपुष्पमञ्जिष्ठाचन्दनतिलपर्णिकासु वा| यथाव्याधिदोषं च व्रणमुपक्रमेत्| तिलाः सयष्टिमधुका रोपणे चास्य पूजिताः||८||

🔊 Audio coming soon

Adhikarana samyagdagdhalakShaNam (9) · Śloka 9

तत्र पक्वजाम्बवसङ्काशमवसन्नमीषद्यथास्वविकारोप शान्तौ च सम्यग्दग्धं भवति||९||

🔊 Audio coming soon

Adhikarana durdagdhalakShaNaM tatropacArashca (10) · Śloka 10

तद्विपर्ययेण तोदकण्डूजाड्यादिभिश्च दुर्दग्धम्| तत्र पुनः पातयेत्|१०|

🔊 Audio coming soon

Adhikarana atidagdhalakShaNaM tatropacArAshca (10) · Śloka 10

ऊषादाहरागशोफज्वरपाकविसर्पशिरोरोगवातपित्तको पैरतिदग्धम्| अपि च नेत्रेऽतियोगाद्वर्त्मनिर्भेदेनेन्द्रियभ्रंशः| ग़्राणे नासावंशतरुणास्थिदरणं सङ्कोचो गन्धाज्ञानं च तद्वच्छ्रोत्रादिष्वपि च यथास्वं व्यापत्| गुदे विण्मूत्र रोधोऽतीसारः पुंस्त्वोपग़ातो गुदविदरणाच्च मृत्युर्वा सर्वदा वा शोफतोदवेदनास्रावाः शकृन्मूत्रवातविधार णशक्तिर्वा| तमतिप्रवृत्तमाशु पूर्वोक्तैरेव निर्वापणैः पुनः पुनर्निर्वापयेत्| अतश्च दाह्यमतिप्रमाणं न सकृदेव दहेदिति||१०||

🔊 Audio coming soon

Adhikarana kShAranirvApaNaM sahetukam (11) · Śloka 11

भवति चात्र अम्लो हि शीतः स्पर्शेन क्षारस्तेनोपसंहितः| यात्याशु स्वादुतां तस्मादम्लैनिर्वापयेत्तराम्||११||

🔊 Audio coming soon

Adhikarana kShArAtiyogalakShaNaM visheShopacArAH (12-39) · Śloka 39

ज्वरातिसारतृण्मोहमूर्छाहृद्वेदनार्तिभिः| कक्षं दहत्यग्निरिव शरीरं क्षारविभ्रमः| पाययेतातियोगेऽतस्तं शीग़्रं सग़ृतं दधि| सगुडं वा दधिसरं तैलं वा ससितोपलम्| धात्रीफलकपित्थाम्लदाडिमस्वरसे ग़ृतम्| द्विगुणे साधितं पानसेकैः क्षारातिरुग्धरम्| दाडिमामलकाम्रातकपित्थकरमर्दकान्| आम्राच्च मातुलुङ्गाच्च रसं मृद्विग्निना पचेत्| ततोऽतिवृत्तक्षाराय दद्यान्मात्रां यथाबलम्| क्षारो निवर्तते तेन प्रसादं त्वक् च गच्छति| शोणितातिप्रवृत्तौ तु बाह्यान्तः शिशिरो विधिः||१२|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने क्षार विधिर्नामैकोनचत्वारिंशोऽध्यायः||३९||

🔊 Audio coming soon