Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

22. rōgabhēdīyaḥ

Adhikarana dvAviMsho&dhyAyaH-aShTA~ggasaMgrahaH pratij~jA (1) · Śloka 1

अथातो रोगभेदीयमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Adhikarana rogANAM saptavidhatvaM teShAM pRuthagdvividhatva~jca (2) · Śloka 2

सप्तविधाः ख़लु रोगा भवन्ति-सहगर्भजातपीडाकाल- प्रभावस्वभावजाः| ते तु पृथग्द्विविधाः| तत्र सहजाः शुक्रार्तवदोषान्वयाः| कुष्ठार्शोमेहादयः| पितृजा मातृ- जाश्छ| गर्भजा जनन्यभिचारात्कोउब्जपाङ्गुल्यपैङ्गल्य- किलासादयो&अम्प्;न्नरसजा दोउहृदविमाननजाश्छ| जातजाः स्वापचारात्सन्तर्पणजा अपतर्पणजाश्छ| पीडाकृताः क्षत- भङ्गप्रहारक्रोधशोकभयादयः शारीरामानसाश्छ| कालजाः शीतादिकृता ज्वरादयो व्यापन्नजा असंरक्षणजाश्छ| प्रभावजा देवगुरूल्लङ्ग़नशापाथर्वणादिकृता ज्वरादयः पिशाचादयश्छ| स्वभावजाः क्षुत्पिपासाज्वरादयः कालजा अकालजाश्छ| तत्र कालजा रक्षणकृताः| अरक्षणजा अकालजाः||२||

🔊 Audio coming soon

Adhikarana saptavidharogANAM punirdvividhatvam (3) · Śloka 3

त एते समासतः पुनिर्द्विविधा भवन्ति| प्रत्युत्पन्नकर्मजाः पूर्वकर्मजाश्च| तत्र रोगोत्पत्तिं प्रति प्रत्युत्पन्नं कर्म यदनेनैव शरीरेण दृष्टमदृष्टञ्चोद्दिश्याप्तोपदिष्टानां विहितानां प्रति- षिद्धानामननुष्ठानमनुष्ठानं वा| जन्मान्तरातीतेन तु पूर्वम्| तत्तु पुनर्दैवाख़्यमुक्तञ्च नियतानियतभेदेन प्राक्| तस्माद् दृष्टहेतवः प्रत्युत्पन्नकर्मजाः| विपरीता दैवजन्मानः| अल्पनिदाना महारुजाश्चोभयात्मकाः||३||

🔊 Audio coming soon

Adhikarana tatra sAmAnyaM cikitsAsUtram (4) · Śloka 4

तत्र यथास्वं प्रतिपक्षशीलनात्पूर्वेषां रोगाणामुपशमः| सत्येव विपक्षशीलनेऽनिष्टकर्मक्षयाद्दैविकानाम्| दोष- कर्मक्षयादन्येषाम्||४||

🔊 Audio coming soon

Adhikarana anyamatena parakRutakarmaNo~api pratyutpannakarmatvam (5) · Śloka 5

अन्ये पुनः प्रत्युत्पन्नं कर्म परकृतमपि वर्णयन्ति| तच्च पराभिसंस्कारमाचक्षते| एवञ्चाहुः- यदि स्वयं कृतादेव कर्मणः कार्यनिर्वृत्तिः स्यात्| न दृष्टपुरुषान्तरकृतात्| किमिति विद्वानपि पराचरित- योरुपकारापकारयोः सुख़दुःख़ानुरोधात्तोषरोषौ प्रति- कर्तव्यचित्तं वा प्रतिपद्यते| एवमेते व्याधयो द्विविधाः सन्तः त्रिविधा जायन्ते||५||

🔊 Audio coming soon

Adhikarana vyAdhInAM doShavisheSheNa punaH saptavidhatvam (6) · Śloka 6

ततश्च दोषवन्तो भूयः सप्तविधाः||६||

🔊 Audio coming soon

Adhikarana rogANAmAyurvedopadeshAt parihArAryatvAdi (7) · Śloka 7

सकलोऽपि चायं रोगसमूहः प्रतिकारवानायुर्वेदवि- हितमुपदेशमपेक्षते| यस्मान्नियतहेतुकोऽप्यामयः सम्य- ग्भिषगादेशानुष्ठानादुपात्तायुस्संस्कारापरिक्षये जातोऽपि वा सह्यवेदनतां प्रतिपद्यते| अनुपक्रम्याणस्तु सर्व एव प्रायशो भिनत्यकाण्डे| स्वयमपि च दैवान्निदानाल्पतया वा निवर्तमानः षोडशगुणसमुदितक्रियोपलम्भादाशुतर- मपिरिक्लिष्टस्य चाऽपगच्छति| अनियतफलदायिनि त दैवे हिताभ्यासरतस्यावकाशमेव न लभते व्याधिः| तस्मान्न कस्याञ्चिदवस्थायामात्मवान् हिताहितयोः तुल्य- दर्शी स्यात्||७||

🔊 Audio coming soon

Adhikarana rogANAM mRudvAdiBedena trividhatvam (8) · Śloka 8

त्रिविधाश्च पुनर्व्याधयो मृदुमध्याऽधिमात्रभेदेन| तत्रा- ल्पलक्षणा मृदवो, मध्यलक्षणा मध्याः, सम्पूर्णलक्षणा- स्त्वधिमात्राः||८||

🔊 Audio coming soon

Adhikarana vyAdhayaH suKasAdhyAdiBedena caturvidhoktAH (9) · Śloka 1

ते पुनः सुख़साध्यादिविशेषेण चतुर्विधाः प्रागुपदिष्टाः||१||

🔊 Audio coming soon

Adhikarana vyAdhInAM nijAgantuBedena dvaividhyam (10) · Śloka 10

सुबहुशोऽपि च भिद्यमाना व्याधयो निजागन्तुतां न व्यभिचरन्ति| तत्र निजास्तु दोषोत्थाः| तेषु पूर्वं वाता- दयो वैषम्यमापद्यन्ते ततो व्यथाऽभिनिर्वर्तते| बाह्यहेतु- जास्त्वागन्तवः| तेषु प्रहारेण व्यथा पूर्वमुपजायते ततो दोषवैषम्यम्| दोषवैषम्येणैव च बहुरूपा रुगनुबध्यते प्रवर्द्धते च| एवं च कृत्वा न दोषव्यतिरेकेण रोगा- नुबन्धः| केवलं पौर्वापर्ये विशेषः||१०||

🔊 Audio coming soon

Adhikarana rogANAmekatvAsa~gKyeyatvAdi (11) · Śloka 11

तस्मादेकाकारा एव रोगाः रुक्सामान्यात्| असङ्ख़्यभेदा वा प्रत्येकं समुत्थानस्थानसंस्थानवर्णनामवेदनाप्रभवो- पक्रमविशेषात्| ते यथास्थूलं यथास्वमेवोपदेक्ष्यन्ते| असङ्ख़्येयत्वाच्च दोषलिङ्गैरेव रोगानुपक्रमं च विभ- जेत्||११||

🔊 Audio coming soon

Adhikarana doShANAmeva sarvarogaikakAraNatvam (12) · Śloka 12

दोषा एव हि सर्वरोगैककारणम्| यथैव शकुनिः सर्वतः परिपतन् दिवसं स्वां च्छायां नाऽतिवर्तते| यथा वा कृत्स्नं विकारजातं वैश्वरूप्येण व्यवस्थितं गुणत्रयमच्यति- रिच्य न वर्तते; तथैवेदमपि कृत्स्नं विकारजातं दोष- त्रयमिति| यथा च विद्युद्वर्षादयो नभसि भवन्ति न त्वव- श्यं निमित्ततस्त्ववश्यमपि| तरङ्गबुद्बुदादयश्चाम्भसि तथा दोषेषु रोगाः||१२||

🔊 Audio coming soon

Adhikarana doShaprakopahetuH (13) · Śloka 13

त्रिविधन्तु निमित्तमेषामसात्म्येन्द्रियार्थसंयोगः प्रज्ञा- पराधः परिणामश्च| ते पुनः प्रत्येकमतियोगाऽयोग- मिथ्यायोगभेदात्त्रिधा भिद्यन्ते| तत्र यथास्वं चक्षुरा- दीन्द्रियाणां रूपादिभिरर्थैरतिसंसर्गोऽतियोगः| अल्पशो नैव वा संसर्गस्त्वयोगः| सूक्ष्मातिदूरान्तिकस्थाति भास्वत् भैरवाप्रियविकृतादिदशनम्| द्विष्टात्युच्चपरुषभीषणा- दिश्रवणम्| पूत्यमेध्यातितीक्ष्णोग्रप्रतिकूलाद्याग़्राणम्| स्वभावादिभिराहारकल्पनाविशेषायतनैरपथ्यानां रसा- नामभ्यवहारः तथा स्नानादीनां शीतोष्णादीनाञ्च स्पृ- श्यानामयथावदुपसेवनमशुचिभूताभिग़ातविषवातादि- संस्पर्शश्च मिथ्यायोगः||१३||

🔊 Audio coming soon

Adhikarana praj~jAparAdhaH (14) · Śloka 14

कायवाङ्मनोभेदेन तु त्रिविधमप्यहितं कर्म प्रज्ञापराधः| तत्र कायादिकर्मणोऽतिप्रवृत्तिरयोगः| अल्पशो नैव वा प्रवृत्तिरयोगः| वेगोदीरणधारणविषमाङ्गचेष्टनस्ख़लन- कण्डूयनप्रहारप्राणायामादि| तथा क्षुत्पिपासाऽर्धभुक्त- भाषणादि| भयशोकेष्यर्यामात्सर्यादि| दशविधं चाकुशलं कर्म यथास्वं मिथ्यायोगः||१४||

🔊 Audio coming soon

Adhikarana pariNAmaH (15) · Śloka 15

परिणामः काल उच्यते| सोऽपि शीतोष्णवर्षभे- दात्त्रिधा| तत्रातिमात्रस्वलक्षणः कालोऽतियोगः| हीन- स्वलक्षणस्त्वयोगः| विपरीतो मिथ्यायोगः| त एतेऽ- तियोगादयः सामान्यतोऽनुपशयलक्षणाः| सर्वो वा प्रज्ञापराध एवाऽयं यदेषामविवर्जनम्||१५||

🔊 Audio coming soon

Adhikarana arthAdInAM samyagyogena svAsthyahetutvam (16) · Śloka 3

अर्थकर्मकालाः पुनः सम्यग्योगेनोपशयात् भूयिष्ठं स्वा- स्थ्यहेतवः| तत्रापि रसवर्ज्या विषया यथायथमिन्द्रियं बाधन्तेऽनुगृह्णन्ति च| शेषा रसकर्मकालास्तु सर्वं देहम्||३||

🔊 Audio coming soon

Adhikarana sarveShAM vyAdhInAM nidAnAdivisheSheByo BAvABAvavisheShatvam (17) · Śloka 17

अपि च-सर्वभावानां भावाभावौ नान्तरेण योगा- तियोगादीन् व्यवस्येत्| सर्वेषां पुनिर्वकाराणां निदान- दोषदूष्याविशेषेभ्यो भावाभावविशेषा भवन्ति| यदा ह्येते त्रयो निदानादिविशेषात् नाऽन्योन्यमनुबध्नन्ती- षद्वानुबध्नन्त्यबला वा न तदाऽभिनिर्वर्त्तन्ते| व्याधयिश्चि- राद्वाऽभिनिर्वत्तन्ते तनवो वा भवन्त्यसम्पूर्णलिङ्गा वा| विपर्यये तु विपरीताः||१७||

🔊 Audio coming soon

Adhikarana trayo rogamArgA rogAshca (18) · Śloka 18

त्रयश्च रोगाणां मार्गा बाह्यमध्याभ्यन्तराः| तत्र बाह्यो रक्तादिधातवस्त्वक् च स पुनः शाख़ाख़्यः| तदाश्रयाः गण्डपिटकाज्यपचीचर्मकीलार्बुदाधिमांसमशव्यङ्गादयो बहिर्भागाश्च शोफार्शोगुल्मवीसर्पविद्रध्यादयः| मध्यो मूर्द्धहृदयबस्त्यादीनि मर्माण्यस्थिसन्धयः| तत्रोपनिब- द्धाश्च स्नायुसिराकण्डरादयः| तदाश्रयाः पक्षवधग्रहा- पतानकार्दिराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयो मुर्द्धा- दिरोगाश्च| आभ्यन्तरो महास्रोतः शरीरमध्यं महानि- म्नमामपक्वाशयाश्रयः कोष्ठोऽन्तरिति पर्यायाः| तदा- श्रया ज्वरातिसारछर्द्यलसकविषूचिकाश्वासकासहिध्मा- ऽऽनाहोदरप्लीहादयोऽन्तर्भागाश्च विसर्पशोफार्शोवि- द्रधिगुल्मादयः||१८||

🔊 Audio coming soon

Adhikarana rogANAmanubandhyanubandhAKyadvaividhyaM tallakShaNa~jca (19) · Śloka 19

ते च रोगाः स्वप्रधाना भवन्त्यन्यपरिवारा वा क्रमा- दनुबन्ध्यनुबन्धाख़्याः| तत्राऽद्याः स्वतन्त्राः स्पष्टाकृतयो यथास्वं समुत्थानोपशयश्च| इतरे तु तद्विपरीताः तद्वच्च दोषा अपि||१९||

🔊 Audio coming soon

Adhikarana pUrvarUpopadravayoH vivaraNam (20) · Śloka 20

तत्रान्यपरिवारा व्याधयो द्विविधाः| पुरागामिनोऽनुगा- मिनिश्च| तेष्वाद्याः पूर्वरूपसंज्ञाः| उपद्रवास्तिवतरे| तान्यथायथमेव वक्ष्यमाणानुपलक्षयेत्| प्रधानप्रशमे च प्रशमो भवति तेषाम्| अनुपशाम्यतो वा पश्चात्तानु- पक्रमेत्| त्वरितं वा बलवन्तमुपद्रवं प्रधानाविरोधेन| स हि पीडाकरतरो भवति| व्याधिपरिक्लिष्टदेहत्वात् प्रमेहपिटकादिवत्||२०||

🔊 Audio coming soon

Adhikarana ekorogo~anyasya rogasya hetutvam (21) · Śloka 21

तथाऽन्यः प्रधान एव रोगोऽन्यस्य प्रधानस्य हेतुः भवति| यथा ज्वरो रक्तपित्तस्य रक्तपित्तं वा ज्वरस्य| तौ श्वा- सस्य| प्लीहा जठरस्य| तच्छ्वयथोः| अर्शासि गुल्मो- दरातीसारग्रहणीनाम्| प्रतिश्यायः कासज्वरयोः| तौ क्षयस्य| क्षयः शोषस्य||२१||

🔊 Audio coming soon

Adhikarana doShaprakopahetUn samyagAgamAdiBiH parIkSheta (22) · Śloka 22

एकश्चाऽपचारो निमित्तमेकस्य व्याधेः| बहूनां च तथा बहवः| तद्वदेकं लिङ्गम्| एवमेव प्रशमेऽभ्युपायः| तथा स एवान्यस्य प्रकोपे| तस्मात्तानवहितः सम्य- गागमादिभिः परीक्षेत||२२||

🔊 Audio coming soon

Adhikarana Agamato pratyakShAdiBirAturasya parIkShA (23) · Śloka 23

तत्रागमो रोगमेवमेवं प्रकोपणमेवं योनिमेवमधिष्ठान- मेवमात्मानमेवं वेदनमेवं रूपशब्दगन्धरसस्पर्शमेवं पूर्व- रूपमेवमुपद्रवमेवं वृद्धिस्थानक्षयान्वितमेवमुदर्कमेवं नामानम्| तस्मिन्नियं प्रतीकारस्य प्रवृत्तिरन्यथा निवृत्तिः| प्रत्यक्षतस्त्वाऽऽतुरस्य यथास्वमिन्द्रियैर्वर्णसंस्थानप्रमा- णोपचयछायाविण्मूत्रछर्दिताधिक्यमान्त्रकूजनमङ्गुल्या- दिषु सन्धिषु स्फुटनं देहशकृद् व्रणादिगन्धं सुप्तशीतो- ष्णस्तम्भनसंस्पन्दश्लक्ष्णख़रस्पर्शञ्च| प्रकृतिविकृति- युक्तमास्यरसन्तु प्रश्नेन तथा सुच्छर्दनदुच्छर्दनत्वं मृदु- क्रूरकोष्ठतां स्वप्नदर्शनमभिप्रायं जन्मामयप्रवृत्तिनक्षत्र- द्विष्टेष्टसुख़दुःख़ानि च| तथा वयःप्रत्यक्षेण च| अनु- मानतस्तु यूकापसर्पणेन शरीरवैरस्यम्| मक्षिकोप- सर्पणेन शरीरमाधुर्यम्| तथाऽग्निं जरणशक्त्या| बलं व्यायामशक्त्या| गूढलिङ्गं व्याधिमुपशयाऽनुपश्यतः| दोषप्रमाणपचारविशेषेणायुषः क्षयं रिष्टैः| प्रकृति- सत्त्वसारसात्म्यबलाननुशीलनेनेति||२३||

🔊 Audio coming soon

Adhikarana BiShajA AturasyAdhyayanaM j~jAnapUrvakaM kAryam (24) · Śloka 24

भवति चात्र- ज्ञानबुद्धिप्रदीपेन यो नाविशति योगिवत्| आतुरस्याऽन्तरात्मानं न स रोगांश्चिकित्सति||२४||

🔊 Audio coming soon

Adhikarana AturasvarUpasya durvij~jeyatvam (25) · Śloka 25

द्वाविमौ व्याधितौ व्याधिस्वरूपस्याप्रकाशकौ| तद्यथैकौ गुरुव्याधिः सत्त्वदेहबलाश्रयात्| लग़ुव्याधिवदाभाति लग़ुव्याधिरतोऽन्यथा| बाह्यावयवमात्रेण तयोर्मुह्यति बालिशः| ततोऽल्पमल्पवीर्यं वा विपरीतमतोऽथवा| पथ्यं विपर्यये युञ्जन् प्राणान् मुष्णाति रोगिणाम्||२५||

🔊 Audio coming soon

Adhikarana BiShak tantrAnushIlanAdvyAdhestattvaj~jo Bavet (26) · Śloka 26

ज्ञानांशेन न हि ज्ञानं कृत्स्ने ज्ञेये प्रवर्तते| बुभुत्सेत भिषक्तस्मात्तत्वं तन्त्रानुशीलनात्| अभियुक्तस्तु सततं सर्वमालोच्य सर्वथा| न जातु स्ख़लति प्राज्ञो विषमेऽपि क्रियापथे||२६||

🔊 Audio coming soon

Adhikarana AgantunijayoranyonyAnubandhyAnubandhakatvam (3) · Śloka 3

आगन्तुरन्वेति निजं विकारंनिजस्तथागऽन्तुमतिप्रवृद्धः| तत्रानुबन्धं प्रकृतिञ्च सम्यग्ज्ञात्वा ततः कर्म समारभेत| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने रोगभेदीयो नाम द्वाविंशोऽध्यायः||३||

🔊 Audio coming soon