Adhikarana athAtaH svedavidhirnAma ShaDviMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातः स्वेदविधिर्नामाध्यायं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
शोधनप्रसङ्गे स्नेह उपयुज्यते| तेन च स्निग्धे देहे दोषाणां मार्दवाय स्वेदस्य प्रसङ्गात्तत्परिज्ञानार्थमध्याय आरभ्यते-अथात इत्यादि|| १||
Adhikarana Agneyasvedasya cAturvidhyam (2) · Śloka 2
चतुर्विधोऽग्निस्वेदो भवति तापोपनाहद्रवोष्म भेदेन||२||
तत्र स्वेदोऽग्निकृतोऽनग्निकृतश्च| तत्राग्निकृतस्तापादिभेदेन चतुर्विधो भवति|| २||
Adhikarana tApasvedaH (3) · Śloka 3
तत्र तापस्वेदः पाणिकांस्यफालवालुकावस्त्रग़टिकादिभिः साक्षादग्निना च प्रयोक्तव्यः||३||
तत्र तापस्वेदोऽग्नितप्तैः पाण्यादिभिः साक्षादव्यवधानेनाग्निना वा प्रयोक्तव्यः| कांस्यः कांस्यमयः पट्टः| फालः शस्त्रपट्टः| बालुकाः सिकताः| ग़टिकाग्नितप्ता गुल्माद्युच्छेदयोज्या| इति तापस्वेदः|| ३||
Adhikarana upanAhasvedaH (4) · Śloka 4
उपनाहस्वेदस्तु सर्वगन्धधान्यसर्षपकिण्ववचादेवदारुरा- स्नैरण्डमूलमधुकशताह्वासुराकिट्टादिवातहरद्रव्यचूर्णैर्य- वगोधूमशकलैरानूपासृक्पित्तशिरः पादामिषवेशवारैश्च|
तथा श्लेष्मसंसृष्टे वायौ सुरसादिभिः|
पित्तसंसृष्टे च पद्मकादिभिः|
पृथक् सहितैर्वा क्षीरशुक्तधान्याम्लल- वणमस्तुप्रगाढैः सुस्निग्धैः सुख़ोष्णैः साल्वलाभिधानै- स्तैर्बहुशः प्रदिह्योष्णवीर्यापूतिमृदुरोमचर्मभिस्तद भावे ग़न- वातहरपत्राविककौशेयैरुपनद्धमङ्गमहःस्थितं विदाहपरि- हारार्थं निशि मुञ्चेत्|
दिवा निशि बद्धम्|
दोषकाल- बलवशेन वा||४||
उपनाहस्वेदः पुनः सर्वगन्धाद्यैः| उपनाह उष्णापिण्डबन्धः| गन्धाः कुष्ठादयः| धान्यान्युष्णवीर्याणी तिलादीनि| किण्वं प्रसिद्धम्| सुराकिट्टं जगलः| अन्येषा वातहराणां द्रव्याणां शोधनादिपठितानां चूर्णैः| यवगोधूमशकलैरित्यश्लक्ष्णपिष्टैरित्यर्थः| तथानूपोद्भवैरसृक्पित्तैः| शिरःप्रभृतिभिः मांसैः| वेशवारैश्च| वेशवारः सूक्ष्मच्छिन्नं मांसम्| तथा श्लेष्मसंयुक्ते वायौ सुरसादिभिरुपनाहः| तथा पित्तसंसृष्टे वायौ पद्मकादिभिरेव साल्वलाभिधानैरौषधैः| पुनः पुनरङ्गं शरीरं प्रदिह्य चर्मभिर्बद्धं विदाहपरिहारऱ्थमहोरात्रमध्ये द्वौ वारौ मुञ्चेत्| किम्भूतैः साल्वलाभिधानैराह-पृथग्भूतैः सहितैर्वा| क्षीरादिप्रगाढैः| प्रगाढो ग़नपिष्टः| तथा सुस्निग्धैः स्नेहमिश्रत्वात्| सुख़ोष्णैश्च| एवम्भूतैः साल्वलादिभिर्बहुशोऽनेकवारमङ्गं प्रदिह्यालिप्य| एवंविधानि पद्मकादीन्येव साल्वलाभिधानानि| चर्मभिः किम्भूतैरुष्णवीर्यैरपूतिभिरदुर्गन्धैर्मृदुरोमभिश्च| तदभावे तथाविधचर्माभावे ग़नपिष्टानां निबिडानां वातहरानां द्रव्याणां मात्रया संयुक्तैः पत्रैः| कौशेयैरुपनद्धमङ्गं कस्मिन् काले मुञ्चेत् आह-अहःस्थितमङ्गलग्नं निशि मुञ्चेत्| निशि स्थितं दिवा मुञ्चेत्| देशकालद्यपेक्ष्य यथा विदाहो नोत्पद्यते तथा अथवा मुञ्चेत्| इत्युपनाहस्वेदः|| ४||
Adhikarana dvividhaH dravasvedaH (5) · Śloka 5
द्रवस्वेदस्तु द्विविधः|
परिषेकोऽवगाश्च|
तत्र शिग्रु- वरणाम्रातकमूलकसर्षपसुरसार्जकवासावंशाश्मन्तका- शोकशिरीषार्ककरञ्जैरण्डमालतीपत्र भङ्गपूतीकदशमू- लादिवातहरैर्द्रव्यैर्मस्तुसलिलसुराक्षीरशुक्तादिभिर्क्व- थितैः पूर्वोक्तैश्च यथादोषं पृथक्सहितैर्वा कुम्भीर्वर्ष- लिका प्रणालीर्वा पूरयित्वा वातहरसिद्धस्नेहाभ्यक्तमन- भ्यक्तं वोपविष्टं किलिञ्जे वा शयानमेकाङ्गे सर्वाङ्गे वा वस्त्रावच्छन्ने परिषेचयेत् तैरेवाद्भि पूर्णे महति कटाहे कुण्डे द्रोण्यां वाऽवगाहयेत्||५||
द्रवस्वेदः परिषेकावगाहभेदेन द्विविधः| तत्र परिषेकः शिग्र्वादिवातहरैर्मस्तुसलिलादिद्रवद्रव्यक्वथितैः| तथा न केवलं शिग्र्वादिभिः यावत् पूर्वौक्तैरुपनाहस्वेदपठितैः सर्वगन्धादिभिरेतैश्च सर्वैर्यथादोषं दोषविशेषापेक्षया कदाचित् पृथग्भूतैः| कदाचिद् विषयविशेषेण द्वित्रादिसहितैः सर्वैर्वा| तेषां क्वाथैः कुम्भाद्यन्यतमं पूरयित्वा स्वेद्यं प्रयोजनापेक्षया एकाङ्गे शरीरैकदेशे सर्वाङ्गे वा वस्त्रेणावच्छादिते| तेन तथाविधेन क्वाथेन परिषेचयेत्| किम्भूतं स्वेद्यम्? वातहरद्रव्यसिद्धेन स्नेहेनाभ्यक्तं दोषाद्यपेक्षयानभ्यक्तं वा तथा आसन उपविष्टम्| किलिञ्जे वा शयानम्| कुम्भीः स्थालीः| वर्षलिका आधूताः| प्रणालिका ऊर्ध्वताविशिष्टं भाण्डम्| किलिञ्जं तृणैर्बद्धा शय्येति परिषेकः| अवगाहः पुनस्तैरेव परिषेकक्वाथैः पूर्णे कटाहे कार्य इत्युभयथा द्रवस्वेदः|| ५||
Adhikarana UShmasvedaH aShTavidhaH (6) · Śloka 6
ऊष्मस्वेदः पुनरष्टधा भिद्यते-पिण्डः संस्तरो नाडी ग़नाश्म कुम्भी कूपः कुटी जेन्ताकश्च||६||
ऊष्मस्वेदः पुनर्वक्ष्यमाणपिण्डादिभेदेनाष्टविधः| ऊष्मा वाष्पः|
Adhikarana piNDasvedaH (7) · Śloka 7
तत्र मृत्कपालपाषाणलोष्टलोहपिण्डानग्निवर्णान् सन्दंशेन गृहीत्वाम्भस्यम्ले वा निम्मज्जयेत्|
तैरार्द्राविकवस्त्रेण वेष्टितैः श्लेष्ममेदोभूयिष्ठं सरुजमङ्गं ग्रन्थिमद्वा स्वेदयेत्|
पांसुसिकतागवादिपुरीषधान्यबुसपुलाकपललैर्वा- ऽम्लोत्क्वथितैः पूर्ववद्वेष्टितैः गवादिशकृतार्द्रेण पिण्डी- कृतेनोपनाहद्रव्योत्कारिकाकृसरमांसपिण्डैर्वा वातरोगे- ष्विति पिण्डस्वेदः|
स एव सङ्कराख़्यः||७||
तत्र मृत्कपालपाषाणादीनग्निवर्णान् सन्दंशेनादायायस्कारतप्तपिण्डग्रहणयन्त्रेण गृहीत्वा स्वेद्यदोषाद्यपेक्षयाम्भस्यम्ले वा काञ्जिकशुक्तादौ निमज्जयेत्| अथ तैर्निमज्जनजातबाष्पैरार्द्रेण धान्याम्लादिसिक्तेनाविकवस्त्रेणोर्णपट्टेन समन्ताद्वेष्टितैरङ्गं देहं सरुजं रुजायुक्तं ग्रन्थिमद्वा स्वेदयोग्यं स्वेदयेत्| श्लेष्ममेदोभूयिष्ठमङ्गं सरुजं ग्रन्थिमद्वा पांस्वादिभिरम्लोत्क्वथितैः पिण्डीभूतैः पूर्ववदेवार्द्राविकवस्त्रवेष्टितैः स्वेदयेत्| अथवा तथाविधमङ्गं गवाश्वादिशकृतार्द्रेणाशुष्केण स्वेदयेदिति सम्बन्धः| वातरोगेशु व पुनरुपनाहोत्कारिकादिभिः स्वेदयेत्| विकल्पः पूर्वापेक्षः| गवादिकरीषं गवाश्वादिशकृत्| पुलाकाख़्यधान्यविशेषस्य पलालः कक्षं केवलेन वा गवाद्यन्यतमेन शकृता| आदिग्रहणेनाश्वगर्दभहस्त्यादीनां ग्रहणम्| उपनाहद्रव्योत्कारिकाः पूर्वोक्ताः मांसवेशवारादिकृता इति पिण्डस्वेदः प्रथमस्तस्यैव च पिण्डस्वेदस्य सङ्कर इत्याख़्या| आख़्या नाम|| ७||
Adhikarana saMstarasvedaH (8) · Śloka 8
यथार्हस्वेदद्रव्याणि पिहितमुख़ायां कुम्भ्यां सम्यगुपस्वेद्य निवातशरणशयनस्थे किलिञ्जे प्रस्तीर्याविककौशेय- वातहरपत्रान्यतमोत्तरप्रच्छदे रौरवाजिनप्रावारादिष्वव- च्छन्नं स्वेदयेदिति संस्तरस्वेदः||८||
संस्तर उच्यते| दोषाद्यपेक्षया यथार्हं स्वेदद्रव्याण्येरण्डमूलादीनि मांसादीनि च पिहितमुख़ायां स्थगितमुख़ायां निर्विवर मुख़ायां उख़ायां स्थाल्यां स्वेदयेत्| स्वेदस्य च निर्वाते शरणे गृहे शयनं कल्पयेत्| तस्य शयनस्योपरि किलिञ्जः तान्युख़ास्विन्नान्यौषधानि प्रस्तार्याणि| तेषां चोपर्याविकादीनामन्यतमेन उत्तरप्रच्छदं कल्पनीयम्| एवं संस्तृते किलिञ्जे स्थितं स्वेद्यं कौशेयादिभिः शोभनं कृत्त्वोपर्यवच्छन्नं स्वेदयेत्| आविकमूर्णाकृतम्| कौशेयं पट्टम्| वातहराणामेरण्डादीनां पत्राणि तथोक्तानि| रौरवं पट्टविशेषः| इति संस्तरस्वेदो द्वितीय| संस्तरणरूपेण स्वेदनात्|| ८||
Adhikarana nADIsvedaH (9) · Śloka 9
पूर्ववदेवोपस्वेद्योख़ामुख़ेऽन्यामुख़ां नाडीं मूलच्छिद्रप्र- माणापाऱ्श्वच्छिद्रामुपसन्धायावलिप्य च पार्श्वच्छिद्रस्थया नाड्या शरेषिकावंशदलकिलिञ्जकरञ्जपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदीर्ग़याऽध्यर्द्धव्यामदीर्ग़या वा स्वायामचतुर्भागाष्टभागपरिणाहमूलाग्रस्रोतसा सर्वतो वातहरपत्रसंवृतछिद्रया द्विस्त्रिर्वा विनमितया सुख़ोप- विष्टस्य स्वभ्यक्तप्रावृतेऽङ्गे बाष्पमुपहरेत्|
बाष्पो ह्यनृ- जुगामी विहतचण्डवेगस्त्वचमिविदहन् सुख़ं स्वेदयतीति नाडीस्वेदः||९||
नाडीस्वेद उच्यते| पूर्ववत् संस्तरस्वेदवदुपस्वेद्यद्रवद्रव्यपूर्णाया उख़ाया मुख़ेऽन्यां द्वितीयामुख़ामुपसन्धाय तस्याः पार्श्वच्छिद्रस्थया नाड्या सञ्चारिणं बाष्पमुपहरेत्| स बाष्पः सुख़ं स्वेदयेदिति सम्बन्धः| तेनैतदुक्तं भवति-वातहरद्रवद्रव्यपूर्णामेकामुख़ां कारयेत्| तस्या अधोऽग्निं प्रज्वालयेत्| तस्या उख़ाया उपरि द्वितीयोख़ा कल्पनीया| तस्याश्चोपरिभवाया अधः छिद्राणि द्वितीयोख़ातो वाष्पसञ्चरणाय कार्याणि| उख़योश्च सन्धिः शालिपिष्टादिना लेप्यः| तस्याश्चोपरिस्थिताया उख़ायाः पार्श्वे द्वितीयं वक्ष्यमाणनाडीमूलप्रमाणच्छिद्रं कारयेत्| तथा शरेषिकादिसंस्तरणरचिता दैर्घ्येण केवलव्यामदीर्ग़ा सार्धव्यामदीर्ग़ा वा नाडी कार्या| तस्याश्च नाड्याः स्वदीर्ग़चतुर्भागप्रमाण वृत्ततया मूलेऽन्तः-स्रोतः कार्यम्| सा च नाडी यथाक्रमेण गजाग्रहस्तसदृशी कार्या| यथा स्वयामादष्टभागवृत्तं अग्रस्रोतः तस्या भवति| मूलस्रोतसोऽर्धपरिणाहमग्रस्रोतः इत्यर्थः| गजाग्रहस्तसदृशमुख़ा नाडी वर्तुलत्वादङ्गनां नैव बाष्पायते| तथाविधा नाडी उपरितनोख़ापार्श्वच्छिद्रे निवेश्या| तस्याश्चोख़ायाः पिहितमुख़त्वान्नाडीमुख़ एवोष्मा भवति| तस्या नाड्या ईषिकाद्युद्भवत्वाद्यानि छिद्राणि तैर्बाष्पनिर्गमपरिहाराय सर्वतो वातहरद्रव्यपत्रैर्वेष्टनम्| सा च नाडी द्वौ वारौ त्रीन् वा वारान् विनमिता करभग्रीवानुकारेण कुटिलीकृता कार्या| तयैवम्भूतया नाड्या सुख़ोपविष्टस्य पुरुषस्य स्वेदयोग्येऽङ्गे स्वभ्यक्तप्रावृत्ते वाष्पमुपहरेत्| तथाविधो वाष्पो ह्यनृजुगामित्वाद्विहतचण्डवेगत्वात्त्वचमविदहन् सुख़ं स्वेदयतीति नाडीस्वेदस्तृतीयः|| ९||
Adhikarana ghanAshmasvedaH (10) · Śloka 10
पुरुषायाममात्रमधिकं वा घनं समं च शिलातलं भूप्रदेशं वा वातहरदारुदीप्तेनाग्निना सर्वतस्तापयित्वाऽग्निमपो- ह्योष्णोदकाम्लादिभिरभ्युक्ष्य यथोक्तप्रच्छदे संस्तरवत्स्वे- दयेदिति घनाश्मस्वेदः||१०||
घनाश्मस्वेद उच्यते-पुरुषेत्यादि| पुरुषायाममात्रं सार्धस्तत्रयमात्रमतोऽपि वा किञ्चिदधिकप्रमाणं शिलातलं घनमभङ्गुरं सममनिम्नोत्रतमेवंविधं वा प्रमाणगुणाभ्यां भूप्रदेशं सर्वतोदिक्कमुपर्यधश्च वातहरदार्वग्निना प्रताप्य अग्निमनन्तरमपोह्यान्यतः कृत्वा तत्तप्तं शिलातलं भूप्रदेशं वा उष्णोदकेनाम्लादिभिश्च काञ्जिकमूत्रादिभिरभिषिच्य यथोक्तप्रच्छदे पूर्वोक्तवातहरपत्रप्रच्छदे संस्तरस्वेदोक्तप्रकारेण स्वेदयेदिति घनाश्मस्वेदश्चतुर्थः|| १०||
Adhikarana kumBIsvedaH (11) · Śloka 2
पूर्ववत्स्वेदद्रव्याणि कुम्भ्यामुक्त्वाथ्याश्लिष्योपविष्टस्त- द्वदूष्मणं गृह्णीयात्|
भूमौ वा तां निख़ाय तदूर्ध्वमासनं शयनं वा नातिग़नप्रच्छदं परितः प्रलम्बमानकुथाकम्ब- लगोणिकं निधाय तत्रस्थस्योष्माणं गृह्णतः कुम्भ्यामग्नि- वर्णानयोगुडानुपलांश्च शनिर्निमिज्जयेदिति कुम्भस्वेदः||२||
कुम्भस्वेद उच्यते-पूर्ववदित्यादि| पूर्ववन्नाडीस्वेदवत् स्वेदद्रव्याणि कुम्भ्यामुक्त्वाथ्य तां कुम्भीमाश्लिष्य उपविष्टः सन् अस्याः कुम्भ्या ऊष्माणं गृह्णीयादित्येकः प्रकारः कुम्भस्वेदस्य| अथवा वातहरक्वाथपूर्णा कुम्भीं भूमिं ख़नित्वा निधाय तस्या उपरि शयनं जानुमात्रोच्चमासनं वा निधेयम्| तस्मिंश्च नातिग़नं प्रच्छदं कुथाद्यन्यतमं सर्वतोदिक्कमाभूमिसंयोगात् प्रलम्बमानं कार्यम्| तत्र तस्मिञ्छयन आसने वा स्थितस्य पुरुषस्योष्माणमधःस्थितकुम्भीसंक्रान्तं गृह्णतरस्तस्यां कुम्भ्यां वाष्पापरिक्षयाय पुनः पुनरग्नितप्तानयः पिण्डान् तप्तांश्चोपलान् निमज्जयेदिति कुम्भीस्वेदः पञ्चमः|| ११||
Adhikarana kUpasvedaH (12) · Śloka 12
शयनस्याधोविस्तारद्विगुणख़ाते कूपे वातहरदारुकरीषा- न्यतरपूर्णदग्धे विगतधूमे स्वास्तीर्णशयनस्थं स्वेदयेदिति कूपस्वेदः||१२||
शयनस्येत्यादिना कूपस्वेद उच्यते| शयनस्याधोविस्ताराद् द्विगुणमधःख़ातं कूपं कृत्वा वातहरैर्द्रव्यैः करीषेण गोमयेन च पूर्णं कृत्वा ततो विदग्धं कृत्वा विगतधूमं च ज्ञात्वा तस्योपरिस्थशय्यायां तिष्ठन्तं स्वेदयेदिति| विस्तारस्य च शयनान्तसमत्वं सामर्थ्यलभ्यमिति कूपस्वेदः षष्ठः|| १२||
Adhikarana kuTIsvedaH (13) · Śloka 13
कुटीं नात्युच्चविस्तारां वृत्तामच्छिद्रामुपनाहकल्कग़न- प्रदिग्धकुड्यां सर्वतो विधूमप्रदीप्तख़दिराङ्गारपूर्णहसन्ति- कासमूहपरिवृतां विधाय तन्मध्ये च शय्यां तत्रस्थं स्वेदयेदिति कुटीस्वेदः||१३||
कुटीं नात्युच्चेत्यादिना कुटीस्वेद उच्यते| नात्युच्चविस्तारां कुटीं विधाय तस्याश्च कुट्या मध्ये शय्यां विधाय तत्रस्थं पुरुषं स्वेदयेत्| किम्भूतां कुटीमाह-वृत्तामन्तः कोणरहितां छिद्रैश्च रहिताम्| तथा पूर्वोक्तानां उपनाहस्वेदद्रव्याणां कल्केन ग़नप्रदिग्धमभितः कुड्यं यस्याः सा तथाविधा| किम्भूतां शय्यां सर्वतोदिक्कं ख़दिरदार्वङ्गापुर्णाभिर्विधूमाभिर्हसन्तिकाभिरग्निशकटीभिः परिवृतामिति कुटीस्वेदः सप्तमः||
Adhikarana jentAkasvedaH (14) · Śloka 14
अथ जेन्ताकं चिकीर्षुर्भूमिं परीक्षेत|
पूर्वस्यामुत्तरस्यां वा दिशि गुणवति प्रशस्तभूमिभागे|
देशे कृष्णमृत्तिके वा सुवर्णवर्णमृत्तिके परिधापुष्करिण्यादीनां जलाशया- नामन्यतमस्य कूले|
दक्षिणे पश्चिमे वा सुतीर्थे सम- सुविभक्तभूमिभागे|
सप्ताष्टौ वाऽरत्नीः परिक्रम्योदकात् प्राङ्मुख़मुदङ्मुख़ं वाऽभिमुख़तीर्थं कूटागारं कारयेत्|
उत्सेधविस्तारतः परमरत्नयः षोडशसमन्तात्सुवृत्तं मृत्क- र्मसम्पन्नमनेकवातायनम्|
अस्य कूटागारस्यन्तः सम- न्ततो भित्तिमरत्निविस्तारोच्छ्रायां पिण्डिकां कारये- दाकVवाटात्|
मध्ये चास्य कूटागारस्य किष्कुमुक्तं द्वि- पुरुषप्रमाणं मृन्मयं कन्दुसंस्थानं बहुसूक्ष्मचिछ्द्रमङ्गार- कोष्ठकस्तम्भं सापिधानं कारयेत्|
तं च ख़ादिराणां अश्वकर्णानां वा काष्ठानां पूरयित्वा दीपयेत्|
स यदा जानीयात्साधुदग्धानि काष्ठानि विगतधूमान्यवतप्तं सर्वमग्निना तदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति|
तत्रैनं वातहराभ्यङ्गाभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयेत्|
अनुशिष्यात् सौम्य, प्रविश कल्याणायारोग्याय च|
प्रविश्य चैनां पिण्डिकामारुह्य पार्श्वापरपार्श्वाभ्यां यथा- सुख़ं शयीथाः|
न च त्वरया स्वेदमूर्च्छापरितेनापि पिण्डिकैषा विमोक्तव्या प्राणोच्छ्रवासात्|
भ्रश्यमानो ह्यतः पिण्डिकावकाशाद् द्वारमनधिगच्छन् स्वेदमूर्च्छा- परीततया सद्यः प्राणान् जह्याः|
तस्मात् पिण्डिका- मेनां न कथञ्चन मुञ्चेथाः|
त्वं यदा जानीयाः विगता- भिष्यन्दमात्मानं सम्यक् प्रस्रुतस्वेदपिच्छं सर्वस्रोतो- विमुक्तं लग़ुभुतमपगतविबन्धस्तम्भसुप्तिवेदनागौरव- मिति|
ततः पिण्डिकानुसारेण द्वारं प्रपद्येथाः|
निष्क्रम्य च चक्षुषोः परिपालनार्थमतिस्विन्नोऽपि न सहसा शीतो- दकमनुप्रविशेथाः|
सम्यक् स्विन्नस्त्वपगतसन्तापक्लमो मुहूर्तात्सुख़ोष्णेन वारिणा यथान्यायं परिषिक्तोऽश्नीया- दिति जेन्ताकस्वेदः||१४||
अथेत्यादिना जेन्ताकलक्षणमुच्यते| अथेत्यानन्तर्ये मङ्गले वा| जेन्ताकस्वेदं चिकीर्षर्वैद्यस्तद्योग्यां भूमिं परीक्षेत| प्राप्य चोच्यमानसम्भवां भूमिं तत्र वास्तुकल्पनया पूर्वस्यां दिश्युत्तरस्यां वा वर्तमानस्य पुष्करिण्यादीनां जलाशयानं मध्यादन्यतमस्य जलाशयस्य पूर्वदिगपेक्षया दक्षिणे पश्चिमे वा कूले कूटागारं कारयेत्| कूटागारमिति नाम| किम्भूते कूल आह-सुतीर्थे शोभनं तीर्थं जलावरतणसोपानमार्गो यस्मिन्| तथा समः सुविभक्तश्च भूमिभागो यस्मिन् कूले तस्मिन् जलाशयकूले| उदकात्सप्ताष्टौ वा अरत्नीरपक्रम्यातिक्रम्य कूटागारं कारयेदिति सम्बन्धः| किम्भूतं कूटागारम्| प्राङ्मुख़ं पूर्वाभिमुख़द्वारं उदङ्मुख़मुत्तराभिमुख़द्वारं वा| तच्च कूटागारमन्तः उच्चैस्त्वेन विस्तारेण च परमरत्नयः षोडश| तच्च काष्ठासम्भवादातुराद्यपेक्षया स्वल्पमपि कारयेदिति ज्ञापनार्थे परग्रहणम्| षोडशारत्नीतोऽधिकं न कार्यमित्यर्थः| समन्तात्सुवृत्तकुसूलाकृतिः| मृत्कर्मणा भित्तिलेपादिना सम्यक् सम्पन्नम्| अनेकानि वातायनानि गवाक्षाणि यत्र तत्तथाविधम्| तैर्हि प्रथमं धूमबाष्पौ निस्सरतः| अस्य च अथोक्तस्य कूटागारस्यान्तः पिण्डिकां कारयेदिति सम्बन्धः| क्वेत्याह-समन्ततो भित्तिम्| किम्प्रमाणमित्याह-अरत्निविस्तारोच्छ्रयाम्| प्रसारिताङ्गुलिरुकूर्परादामध्यमाङ्गुलिप्रान्ताद्धस्तोऽरत्निः| तेन मित उच्छ्रायो वैपुल्यं च यस्याः सा तथाविधा| किमवधि तां कारयेदित्याह-आकवाटात्| कवाटं द्वारपक्षः| तेनैतदुक्तं भवति| एकस्माद् द्वारपक्षादारभ्य भित्तिमनुसरन् अरत्निविस्तारोच्छ्रायां पिण्डिकां कारयेत्| यावत् परिवृत्य द्वितीयो द्वारपक्षः| अस्य च कूटगारस्य मध्ये कन्दूसंस्थानं मृन्मयमङ्गारकोष्ठकस्तम्भं कारयेदिति सम्बन्धः| कन्दू मृन्मय्यनुपनद्धपटहाकृतिर्भवति| तं च स्तम्भमन्तःपिण्डिकातः किष्कुमात्रं त्यक्त्वा मध्ये औन्नत्येन द्विपुरुषप्रमाणं सप्तहस्तमात्रं कारयेत्| किष्कुर्हस्तचतुष्टयम्| तं चाङ्गारस्तम्भमन्तः ख़ादिराणामाश्वकर्णानां वा काष्ठानां पूरयित्वा दीपयेत्| ततश्च भिषग्यदा साधु दग्धानि काष्ठानीत्येवमादि जानीयात् तदा तमातुरं वातहराभ्यङ्गाभ्यक्तगात्रं तस्मिन् कूटागारे पिहितवातायनत्वात् स्वेदयोग्ये प्रवेशयन्ननुशिष्यात्| किमित्याह-सौम्येत्यादि| सौम्येत्यामन्त्रणम्| कल्याणायारोग्याय चेत्याशीर्वादः| हे सौम्य| अस्मिन् कूटागारेऽन्तःप्रविश्य पिण्डकामधिरुह्य तस्यां पिण्ड्लिकायां त्वं पार्श्वपरपार्श्वाभ्यां यथासुख़ं शयीथाः| त्वया च सौम्य स्वेदमूर्च्छोपतप्तेनापि पिण्डिकैषा न मोक्तव्या| यतः पिण्डिकावकाशादतो भ्रश्यन् स्वेदमूर्च्छापरीतत्वेन च द्वारं प्राप्तुमशक्नुवन् भवानत्रैव प्राणान् जह्यात्| ततः पिण्डिकां कथञ्चन न मुञ्चेत्| स चातुरो यदा विगताभिष्यन्दत्वादियुक्तमात्मानं जानीयात्| ततोऽनन्तरं पिण्डिकानुसारेण द्वारं प्रतिपद्येत्| विगताभिष्यन्दं विच्छिन्नास्रावम्| सम्यक्स्रुते स्वेदपिच्छे यतस्तं तथाविधम्| ततश्च द्वारान्निष्क्रम्यातिस्विन्नोऽपि स्वेदातियोगयुक्तोऽपि सहसा ज़टिति शीतोदकं न प्रविशेत्| चक्षुषोः परिपालकत्वात्| तेनैतदुक्तं भवति| स्वेदातियोगरोगोद्भवस्तम्भनाय चक्षुषः प्रतिग़ातभयाद् ज़तिति शीतोदकमनन्तरोक्तव्याध्यादिस्तम्भनं न प्रविशेत्| तस्मात् स्वेदातियोगे शीतोदकं प्रविशेन्न तु ज़टिति| स्वेदसम्यग्योगे तु मुहूर्तमात्रेणापगतस्वेदता पक्लमः सन् सुख़ोष्णेन वारिणा यथान्यायं परिषिक्तः स्नातः यथोचितमाहारमश्नीयात्| उष्णाम्बुनाधः कायस्येत्यादिस्नानन्यायः| इति जेन्ताकस्वेद उक्तः|| १४||
Adhikarana tApAdInAM doShavesheShe prayoganirdeshaH (15) · Śloka 15
तेषां विशेषतस्तापोष्मस्वेदौ कफे प्रयोजयेत्|
उप- नाहमनिले किञ्चित्पित्तसंसृष्टेऽन्यतरस्मिन् द्रवमिति||१५||
तेषां चानन्तरोक्तानां स्वेदानां मध्ये तापस्वेद उष्मस्वेदश्च कफेऽधिके प्रयोज्यौ| उपनाहनामा स्वेदोऽनिले वायावधिके योज्यः| अन्यतरस्मिन् प्राकृते कफेऽनिले वा किञ्चित् स्तोकेन पित्तेन संसृष्टे द्रवस्स्वेदो योज्यः| इत्याग्नेयाः स्वेदाः| एतेष्वग्निना योगः|| १५||
Adhikarana anagnisvedaH (16) · Śloka 16
अनाग्नेयं पुनर्मेदःकफावृते वायौ|
निवातसदनगुरु- प्रावरणबहुमद्यपानव्यायामक्षुदातपनियुद्धाध्वभारभर- णामर्षभयैः|
उपनाहञ्च पित्तान्वये पूर्वोक्तेनैव विधिना- ऽग्निरहितमिति||१६||
अनाग्नेयोऽग्नियोगं विना शक्त्यैव स्वेदयति| तं च मेदसा कफेन वावृते वायौ प्रयोजयेत्| स चानाग्नेयो निवातसदनादिभिर्भवति| निवातसदनं निषिद्धवायुप्रवेशं वेश्म| नियुद्धं बाहुयुद्धमसिधनुष्काण्डादिना| तथाविध एव वायौ पित्तान्वये पित्तमिश्रेऽनन्तरोक्तमुपनाहमग्निसंस्काररहितं योजयेत्|| १६||
Adhikarana svedavidhiH (17) · Śloka 17
भवति चात्र- निवातेऽन्तर्बहिःस्निग्धो जीर्णान्नः स्वेदमाचरेत्|
व्याधिव्याधितदेशर्त्तुवशान्मध्यवरावरम्|
कफार्तो रूक्षणं रूक्षो रूक्षस्निग्धं कफानिले|
आमाशयगते वायौ कफे पक्वाशयाशिश्रिते|
रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः|
अल्पं वङ्क्षणयोः स्वल्पं दृङ्मुष्कहृदये न वा|
पद्मोत्पलादिभिः सक्तुपिण्ड्या वाऽऽच्छाद्य चक्षुषी|
शीतैर्मुक्तावलीपद्मकुमुदोत्पलभाजनैः|
मुहुः करैश्च तोयार्द्रैः स्विद्यतो हृदयं स्पृशेत्||१७||
भवति चात्रेति तन्त्ररीतिः| निवाते देशे स्वेदमाचरेत्| किम्भूतः अन्तःस्नेहपानेन बहिश्चाभ्यङ्गादिना स्निग्धः| तथा जीर्णान्नः| यस्य ह्यस्तनमन्नं जीर्णम्| किम्भूतं स्वेदमाचरेदित्याह-व्याधीत्यादिना| तेनैतदुक्तं भवति-व्याध्यपेक्षया, व्याधितापेक्षया, देशापेक्षया, ॠत्वपेक्षया च| यथाविध एव योग्यो मध्यो वा| वर उत्कृष्टो वा अवरोऽल्पो वा स्वेदस्तमाचरेदिति सम्बन्धः| तथा यः पुरुषः कफेनार्तः स रूक्षः सन् स्वेदमाचरेत्| न त्वन्तर्बहिःस्निग्धः| किम्भूतं स्वेदमाह-रूक्षणं कफार्ते स्वेदादौ स्नेहो न योज्यः| नापि स्निग्धस्वेदः| तथा कफानिले वातश्लेष्मणि रूक्षस्निग्धं स्वेदमाचरेद्यः केनचिदंशेन रूक्षः केनचित् स्निग्धस्तमिति| अथवा पर्यायेण रूक्षस्निग्धम्| तथा आमाशयगते वायौ कफे च पक्वाशयगते यथासङ्ख़्येन रूक्षपूर्वं स्निग्धपूर्वं च स्वेदमाचरेदिति सम्बध्यते| तेनैदुक्तं भवति-आमाशयगते वायावादौ रूक्षस्वेद आचरणीयः| पश्चात् स्निग्धः| तथा कफे पक्वाशयगते आदौ स्निग्धस्वेदः पश्चाद्रूक्ष इति| कुत एवं नियम इत्याह-स्थानानुरोधतः वायुर्ह्यामाशय आगन्तुः| तच्च स्थानं श्लेष्मणः| अतस्तदनुरोधात् तत्रादौ रूक्षणमेव योज्यम्| एतद्विपरीतं कफे योज्यम्| अल्पं वङ्क्षणयोः स्वेदमाचरेदिति सम्बन्धः| दृष्टौ नेत्रे मुष्कहृदययोश्च स्वल्पमत्यन्तेनाल्पं स्वेदमाचरेत्| नैव वा सर्वसर्विकया हृदादिषु स्वेदमाचरेत्| तथा पद्मोत्पलादिभिः स्वभावशीतैः सक्तुपिण्ड्या वा चक्षुषी आच्छाद्य स्वेदमाचरेदिति सम्बन्धः| तथा सर्वस्य स्विद्यतो मुक्तावल्यादिभिः शीतसंस्कारेण शीततरैर्हृदयं संस्पृशेत|| १७||
Adhikarana samyaksvinnalakShaNaM tatra kRutya~jca (18) · Śloka 18
शीतशूलक्षये स्विन्नो जातेऽङ्गानां च मार्दवे|
स्याच्छनैर्मृदितः स्नातस्ततः स्नेहविधिं भजेत्||१८||
स्वेदस्य सम्यग्योगातियोगलक्षणं चिकिर्षुरिदमाह-शीतशूलेत्यादि| शीते शूले च क्षीयमाणे मार्दवे चाङ्गानां जाते पुरुषः सम्यक् स्विन्नः स्यादिति सम्यग्योगः| एवंविधे लक्षणेऽधिगतेऽनन्तरं पुरुषो मृदितः स्नातः सन् उष्णोदकोपचारीत्यादिकं स्नेहविधिं भजेत्|| १८||
Adhikarana svedAtiyogalakShaNantatropacArashca (19) · Śloka 19
पित्तास्रकोपतृण्मूर्च्छास्वराङ्गसदनभ्रमाः|
सन्धिपीडाज्वरः श्यावरक्तमण्डलदर्शनम्|
स्वेदातियोगाच्छर्दिश्च तत्र स्तम्भनमौषधम्|
विषक्षाराग्न्यतीसारच्छर्दिमोहातुरेषु च||१९||
स्वेदस्याऽतियोगात्तु पित्तास्रकोपादयो भवन्ति| सदनशब्दः स्वराङ्गाभ्यां सम्बध्यते| श्यावानि रक्तानि च मण्डलान्यग्रत आतुरः पश्यति| तत्र स्वेदातियोगरोगोद्भवे वक्ष्यमाणं स्तम्भनमौषधं भवति| न केवलं स्वेदातियोगे स्तम्भनमौषधं यावद्विषाद्यातुरेऽपि स्तम्भनमौषधम्| आतुरग्रहणमेतद्रोगप्रसक्त्युपलक्षणार्थम्| तथा चामातिसारे स्तम्भनस्यापथ्यत्वं वक्ष्यति|
Adhikarana svedana-stamBana-sAmAnyalakShaNam (20) · Śloka 20
स्वेदनं गुरु तीक्ष्णोष्णं प्रायः स्तम्भनमन्यथा|
द्रवस्थिरसरस्निग्धरूक्षसूक्ष्मं च भेषजम्|
स्वेदनं स्तम्भनं श्लक्ष्णरूक्षसूक्ष्मसरद्रवम्|
प्रायस्तिक्तं कषायं च मधुरं च समासतः||२०||
स्वेदनमित्यादिना स्वेदनस्तम्भनयोः सामान्येन लक्षणं करोति| यद् गुरु तीक्ष्णमुष्णं च तत्सर्वं स्वेदनं भवति| अतोऽन्यथैतद्विपर्ययेण लग़ु मन्दं शीतं च सर्वं स्तम्भनं भवति| तथा द्रवातियुक्तं भेषजं स्वेदनम्| श्लक्ष्णत्वादियुक्तं स्तम्भनं सररूक्षसूक्ष्मद्रवाणां संस्कारयोगादिवशेनोभयरूपत्वम्| तथा यत्किञ्चिन्मधुरं तिक्तं कषायं च तत् स्तम्भनम्| प्रायोग्रहणं क्वचित् व्यभिचारप्रदर्शर्नार्थमिति समासतः सङ्क्षेपतः स्तम्भनलक्षणम्|
Adhikarana samyakstamBitAtistamBitalakShaNAni (21) · Śloka 21
स्तम्भितः स्याद्बले लब्धे यथोक्तामयसङ्क्षयात्|
स्तम्भत्वक्स्नायुसङ्कोचकम्पहृद्वाग्धनुग्रहैः|
पादौष्ठत्वक्करैः श्यावैरतिस्तम्भितमादिशेत्||२१||
अनन्तरं प्रासङ्गिकस्य स्तम्भनस्य सम्यग्योगातियोगलक्षणमुच्यते-स्तम्भित इत्यादि| बले लब्धे स्तम्भ्यानां चामयानां परिक्षये स्तम्भनसम्यग्योगो विज्ञेयः| अङ्गस्तम्भत्वक्सङ्कोचादिभिः स्तम्भनातियोगो विज्ञेयः|| २१||
Adhikarana asvedyAsteShAmevAtyayike mRudusvedavidhishca (22) · Śloka 22
न स्वेदयेदतिस्थूलरूक्षदुर्बलमूर्च्छितान्|
स्तम्भनीयक्षतक्षीणक्षाममद्यविकारिणः|
तिमिरोदरवीसर्पकुष्ठशोषाढ्यरोगिणः|
पीतदुग्धदधिस्नेहमधून् कृतविरेचनान्|
भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान्|
क्षुत्तृष्णाकामलापाण्डुमेहिनः पित्तपीडितन्|
गर्भिणी पुष्पितां सूतां मृदु वात्ययिके गदे||२२||
न स्वेदयेदित्यादिना स्वेदप्रतिषेध उच्यते| यः स्तम्भनीयत्वेनोक्तः स न स्वेद्यः| मद्यविकारो मदात्ययोक्तो ध्वंसकविक्षयादिः| आढ्यरोगो वातशोणितम्| पीता दुग्धादयो यैस्तत्कालमजीर्णे दुग्धादौ स्वेदो वर्जनीयः| कृतविरेचनस्याबललाभात् स्वेदो न योज्यः| तथा भ्रष्टगुदान् दग्धगुदांश्च क्षारादिना न स्वेदयेत्| अतिस्थूलादयः सूतान्ताः न स्वेद्या इति यद्यप्युक्तं तथाप्यात्ययिके विषूचिकादौ स्वेदार्हे गदे अतिस्थूलादीन् मृदु स्वेदयेत्|| २२||
Adhikarana svedyaH (23) · Śloka 23
श्वासकासप्रतिश्यायहिध्माध्मानविबन्धिषु|
स्वरभेदानिलव्याधिपक्षाग़ातापतानके|
अ~ह्ग्गमर्दकटीपाऱ्श्वपृष्ठकुक्षिहनुग्रहे|
महत्त्वे मुष्कयोः ख़ल्यामायामे वातकण्टके|
मूत्रकृच्छ्रार्बुदग्रन्थिशुक्राग़ाताढ्यमारुते|
वेपथुश्वयथुस्वापस्तम्भजृम्भाङ्गगौरवे|
कर्णमन्याशिरः कोष्ठजङ्ग़ापादोरुरुक्षु च|
स्वेदं यथायथां कुर्यात्तदौषधविभागतः||२३||
श्वासकासादयस्त्ववश्यं स्वेद्याः| एषां श्वासकासादीनां यथायथं स्वेदं कुर्यात्| कथं आह-तदौषधविभागतः| तेनैतदुक्तं भवति-यदा श्वासे स्वेद उपयुज्यते तदा श्वासोक्तैरेवौषधैः स्वेद उपयोज्यः| एवं कासादीनामपि स्वैः स्वैरौषधैर्वाच्यम्| ग्रहशब्दस्य कट्यादिभिः सम्बन्धः| शुक्राग़ातः शुक्ररोधः| रुक्शब्दस्य कर्णादिभिः सम्बन्धः|| २३||
Adhikarana svedanottaravidhiH (24) · Śloka 24
स्विन्नोऽन्नं पथ्यमश्नीयाद् दोषरोगानुरोधतः|
तदहः स्विन्नसर्वाङ्गो व्यायामं सुतरां त्यजेत्||२४||
एतेषु च स्वेद्येषु व्याधिषु स्विन्नः सन् पथ्यमन्नमश्नीयादित्यर्थः| तथा यश्च जेन्ताकादिना सर्वाङ्गस्विन्नः सन् तदहः स्वेदोपयोगदिवसमेकं सुतरां व्यायामं वर्जयेत्| अन्येष्वप्यहस्सु आबललाभाद् व्यायामत्यागप्रदर्शनार्थं सुतरां ग्रहणम्|
Adhikarana samyaksvinnalakShaNaM (25) · Śloka 25
अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्तश्रद्धां स्रोतसां निर्मलत्वम्|
कुर्यात् स्वेदो जाड्यतन्द्रापहारं स्तब्धान् सन्धींश्चेष्टयत्याशु चास्य||२५||
अग्नेरित्यादिना स्वेदप्रभावकथनम्| सर्वः स्वेदोऽग्निदीप्त्यादिकं कुर्यात्तथा जाड्यापहारं तन्द्रापहारं च स्वेदः कुर्यादिति सम्बन्धः| तथा स्तब्धान् वातादिना कूर्परादीन् स्वेद आश्वेव चेष्टयति क्रियासु व्यापारयतीत्यर्थः|| २५||
Adhikarana snehottarasvedasya Palam (26-27) · Śloka 27
स्नेहक्लिन्नाः कोष्ठगा धातुगा वा|
स्रोतोलीना ये च शाख़ास्थिसांस्थाः|
दोषाः स्वेदैस्ते द्रव्Zइकृत्य कोष्ठं नीताः सम्यक् शुद्धिभिर्निर्ह्नियन्ते||२६||
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने स्वेदविधिर्नाम षड्विंशोऽध्यायः||२७||
स्नेहेत्यादिनाऽध्यायमुपसंहरन्नुत्तराध्यायस्योपोद्ग़ातं करोत्यस्मिन् प्रसङ्गे स्वेदः किमर्थमुक्त इति चाह-स्नेहक्लिन्ना इत्यादि| ये दोषा वातादयः कोष्ठे महास्रोतसि स्थिता धातुषु वा रक्तादिषु गताः स्वेभ्यः स्थानेभ्यस्तथा ये स्रोतः संलीनास्तथा ये च शाखास्थिषु बाह्वादिनलिकास्थिषु स्थितास्ते सर्वे अनन्तरोक्तप्रकारावहितेन स्नेहक्लिन्नाः स्रुतियोग्यत्वमापादिताः सन्तो यथोक्तेन स्वेदेन द्रवीकृत्य शाख़ादिभ्यः कोष्ठं नीताः ततः कोष्ठाद् वक्ष्यमाणादिभिः शुद्धिभिर्निर्ह्नियन्ते| शाखास्थिग्रहणं तत्स्थेषु दोषेष्वत्यन्तस्वेदयोग्यताप्रतिपत्त्यर्थम्| अथवा धातुगा ये वृद्ध्या कोष्ठाद् धातुषु गताः| शाख़ास्था ये धातुष्वेव स्थिताः कोपं याताः| अत्राप्यस्थिग्रहणं प्राधान्यार्थम्| तस्मादनेन स्वेदस्य दोषाणां द्रवीकृत्य कोष्ठानयनं प्रयोजनमुक्तम्|| २६|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां सूत्रस्थाने षड्विंशोऽध्यायः