Adhikarana athAtaH svedavidhirnAma ShaDviMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातः स्वेदविधिर्नामाध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana athAtaH svedavidhirnAma ShaDviMsho~adhyAyaH pratij~jA (1) · Śloka 1
अथातः स्वेदविधिर्नामाध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana Agneyasvedasya cAturvidhyam (2) · Śloka 2
चतुर्विधोऽग्निस्वेदो भवति तापोपनाहद्रवोष्म भेदेन||२||
🔊 Audio coming soon
Adhikarana tApasvedaH (3) · Śloka 3
तत्र तापस्वेदः पाणिकांस्यफालवालुकावस्त्रग़टिकादिभिः साक्षादग्निना च प्रयोक्तव्यः||३||
🔊 Audio coming soon
Adhikarana upanAhasvedaH (4) · Śloka 4
उपनाहस्वेदस्तु सर्वगन्धधान्यसर्षपकिण्ववचादेवदारुरा- स्नैरण्डमूलमधुकशताह्वासुराकिट्टादिवातहरद्रव्यचूर्णैर्य- वगोधूमशकलैरानूपासृक्पित्तशिरः पादामिषवेशवारैश्च| तथा श्लेष्मसंसृष्टे वायौ सुरसादिभिः| पित्तसंसृष्टे च पद्मकादिभिः| पृथक् सहितैर्वा क्षीरशुक्तधान्याम्लल- वणमस्तुप्रगाढैः सुस्निग्धैः सुख़ोष्णैः साल्वलाभिधानै- स्तैर्बहुशः प्रदिह्योष्णवीर्यापूतिमृदुरोमचर्मभिस्तद भावे ग़न- वातहरपत्राविककौशेयैरुपनद्धमङ्गमहःस्थितं विदाहपरि- हारार्थं निशि मुञ्चेत्| दिवा निशि बद्धम्| दोषकाल- बलवशेन वा||४||
🔊 Audio coming soon
Adhikarana dvividhaH dravasvedaH (5) · Śloka 5
द्रवस्वेदस्तु द्विविधः| परिषेकोऽवगाश्च| तत्र शिग्रु- वरणाम्रातकमूलकसर्षपसुरसार्जकवासावंशाश्मन्तका- शोकशिरीषार्ककरञ्जैरण्डमालतीपत्र भङ्गपूतीकदशमू- लादिवातहरैर्द्रव्यैर्मस्तुसलिलसुराक्षीरशुक्तादिभिर्क्व- थितैः पूर्वोक्तैश्च यथादोषं पृथक्सहितैर्वा कुम्भीर्वर्ष- लिका प्रणालीर्वा पूरयित्वा वातहरसिद्धस्नेहाभ्यक्तमन- भ्यक्तं वोपविष्टं किलिञ्जे वा शयानमेकाङ्गे सर्वाङ्गे वा वस्त्रावच्छन्ने परिषेचयेत् तैरेवाद्भि पूर्णे महति कटाहे कुण्डे द्रोण्यां वाऽवगाहयेत्||५||
🔊 Audio coming soon
Adhikarana UShmasvedaH aShTavidhaH (6) · Śloka 6
ऊष्मस्वेदः पुनरष्टधा भिद्यते-पिण्डः संस्तरो नाडी ग़नाश्म कुम्भी कूपः कुटी जेन्ताकश्च||६||
🔊 Audio coming soon
Adhikarana piNDasvedaH (7) · Śloka 7
तत्र मृत्कपालपाषाणलोष्टलोहपिण्डानग्निवर्णान् सन्दंशेन गृहीत्वाम्भस्यम्ले वा निम्मज्जयेत्| तैरार्द्राविकवस्त्रेण वेष्टितैः श्लेष्ममेदोभूयिष्ठं सरुजमङ्गं ग्रन्थिमद्वा स्वेदयेत्| पांसुसिकतागवादिपुरीषधान्यबुसपुलाकपललैर्वा- ऽम्लोत्क्वथितैः पूर्ववद्वेष्टितैः गवादिशकृतार्द्रेण पिण्डी- कृतेनोपनाहद्रव्योत्कारिकाकृसरमांसपिण्डैर्वा वातरोगे- ष्विति पिण्डस्वेदः| स एव सङ्कराख़्यः||७||
🔊 Audio coming soon
Adhikarana saMstarasvedaH (8) · Śloka 8
यथार्हस्वेदद्रव्याणि पिहितमुख़ायां कुम्भ्यां सम्यगुपस्वेद्य निवातशरणशयनस्थे किलिञ्जे प्रस्तीर्याविककौशेय- वातहरपत्रान्यतमोत्तरप्रच्छदे रौरवाजिनप्रावारादिष्वव- च्छन्नं स्वेदयेदिति संस्तरस्वेदः||८||
🔊 Audio coming soon
Adhikarana nADIsvedaH (9) · Śloka 9
पूर्ववदेवोपस्वेद्योख़ामुख़ेऽन्यामुख़ां नाडीं मूलच्छिद्रप्र- माणापाऱ्श्वच्छिद्रामुपसन्धायावलिप्य च पार्श्वच्छिद्रस्थया नाड्या शरेषिकावंशदलकिलिञ्जकरञ्जपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदीर्ग़याऽध्यर्द्धव्यामदीर्ग़या वा स्वायामचतुर्भागाष्टभागपरिणाहमूलाग्रस्रोतसा सर्वतो वातहरपत्रसंवृतछिद्रया द्विस्त्रिर्वा विनमितया सुख़ोप- विष्टस्य स्वभ्यक्तप्रावृतेऽङ्गे बाष्पमुपहरेत्| बाष्पो ह्यनृ- जुगामी विहतचण्डवेगस्त्वचमिविदहन् सुख़ं स्वेदयतीति नाडीस्वेदः||९||
🔊 Audio coming soon
Adhikarana ghanAshmasvedaH (10) · Śloka 10
पुरुषायाममात्रमधिकं वा घनं समं च शिलातलं भूप्रदेशं वा वातहरदारुदीप्तेनाग्निना सर्वतस्तापयित्वाऽग्निमपो- ह्योष्णोदकाम्लादिभिरभ्युक्ष्य यथोक्तप्रच्छदे संस्तरवत्स्वे- दयेदिति घनाश्मस्वेदः||१०||
🔊 Audio coming soon
Adhikarana kumBIsvedaH (11) · Śloka 2
पूर्ववत्स्वेदद्रव्याणि कुम्भ्यामुक्त्वाथ्याश्लिष्योपविष्टस्त- द्वदूष्मणं गृह्णीयात्| भूमौ वा तां निख़ाय तदूर्ध्वमासनं शयनं वा नातिग़नप्रच्छदं परितः प्रलम्बमानकुथाकम्ब- लगोणिकं निधाय तत्रस्थस्योष्माणं गृह्णतः कुम्भ्यामग्नि- वर्णानयोगुडानुपलांश्च शनिर्निमिज्जयेदिति कुम्भस्वेदः||२||
🔊 Audio coming soon
Adhikarana kUpasvedaH (12) · Śloka 12
शयनस्याधोविस्तारद्विगुणख़ाते कूपे वातहरदारुकरीषा- न्यतरपूर्णदग्धे विगतधूमे स्वास्तीर्णशयनस्थं स्वेदयेदिति कूपस्वेदः||१२||
🔊 Audio coming soon
Adhikarana kuTIsvedaH (13) · Śloka 13
कुटीं नात्युच्चविस्तारां वृत्तामच्छिद्रामुपनाहकल्कग़न- प्रदिग्धकुड्यां सर्वतो विधूमप्रदीप्तख़दिराङ्गारपूर्णहसन्ति- कासमूहपरिवृतां विधाय तन्मध्ये च शय्यां तत्रस्थं स्वेदयेदिति कुटीस्वेदः||१३||
🔊 Audio coming soon
Adhikarana jentAkasvedaH (14) · Śloka 14
अथ जेन्ताकं चिकीर्षुर्भूमिं परीक्षेत| पूर्वस्यामुत्तरस्यां वा दिशि गुणवति प्रशस्तभूमिभागे| देशे कृष्णमृत्तिके वा सुवर्णवर्णमृत्तिके परिधापुष्करिण्यादीनां जलाशया- नामन्यतमस्य कूले| दक्षिणे पश्चिमे वा सुतीर्थे सम- सुविभक्तभूमिभागे| सप्ताष्टौ वाऽरत्नीः परिक्रम्योदकात् प्राङ्मुख़मुदङ्मुख़ं वाऽभिमुख़तीर्थं कूटागारं कारयेत्| उत्सेधविस्तारतः परमरत्नयः षोडशसमन्तात्सुवृत्तं मृत्क- र्मसम्पन्नमनेकवातायनम्| अस्य कूटागारस्यन्तः सम- न्ततो भित्तिमरत्निविस्तारोच्छ्रायां पिण्डिकां कारये- दाकVवाटात्| मध्ये चास्य कूटागारस्य किष्कुमुक्तं द्वि- पुरुषप्रमाणं मृन्मयं कन्दुसंस्थानं बहुसूक्ष्मचिछ्द्रमङ्गार- कोष्ठकस्तम्भं सापिधानं कारयेत्| तं च ख़ादिराणां अश्वकर्णानां वा काष्ठानां पूरयित्वा दीपयेत्| स यदा जानीयात्साधुदग्धानि काष्ठानि विगतधूमान्यवतप्तं सर्वमग्निना तदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति| तत्रैनं वातहराभ्यङ्गाभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयेत्| अनुशिष्यात् सौम्य, प्रविश कल्याणायारोग्याय च| प्रविश्य चैनां पिण्डिकामारुह्य पार्श्वापरपार्श्वाभ्यां यथा- सुख़ं शयीथाः| न च त्वरया स्वेदमूर्च्छापरितेनापि पिण्डिकैषा विमोक्तव्या प्राणोच्छ्रवासात्| भ्रश्यमानो ह्यतः पिण्डिकावकाशाद् द्वारमनधिगच्छन् स्वेदमूर्च्छा- परीततया सद्यः प्राणान् जह्याः| तस्मात् पिण्डिका- मेनां न कथञ्चन मुञ्चेथाः| त्वं यदा जानीयाः विगता- भिष्यन्दमात्मानं सम्यक् प्रस्रुतस्वेदपिच्छं सर्वस्रोतो- विमुक्तं लग़ुभुतमपगतविबन्धस्तम्भसुप्तिवेदनागौरव- मिति| ततः पिण्डिकानुसारेण द्वारं प्रपद्येथाः| निष्क्रम्य च चक्षुषोः परिपालनार्थमतिस्विन्नोऽपि न सहसा शीतो- दकमनुप्रविशेथाः| सम्यक् स्विन्नस्त्वपगतसन्तापक्लमो मुहूर्तात्सुख़ोष्णेन वारिणा यथान्यायं परिषिक्तोऽश्नीया- दिति जेन्ताकस्वेदः||१४||
🔊 Audio coming soon
Adhikarana tApAdInAM doShavesheShe prayoganirdeshaH (15) · Śloka 15
तेषां विशेषतस्तापोष्मस्वेदौ कफे प्रयोजयेत्| उप- नाहमनिले किञ्चित्पित्तसंसृष्टेऽन्यतरस्मिन् द्रवमिति||१५||
🔊 Audio coming soon
Adhikarana anagnisvedaH (16) · Śloka 16
अनाग्नेयं पुनर्मेदःकफावृते वायौ| निवातसदनगुरु- प्रावरणबहुमद्यपानव्यायामक्षुदातपनियुद्धाध्वभारभर- णामर्षभयैः| उपनाहञ्च पित्तान्वये पूर्वोक्तेनैव विधिना- ऽग्निरहितमिति||१६||
🔊 Audio coming soon
Adhikarana svedavidhiH (17) · Śloka 17
भवति चात्र- निवातेऽन्तर्बहिःस्निग्धो जीर्णान्नः स्वेदमाचरेत्| व्याधिव्याधितदेशर्त्तुवशान्मध्यवरावरम्| कफार्तो रूक्षणं रूक्षो रूक्षस्निग्धं कफानिले| आमाशयगते वायौ कफे पक्वाशयाशिश्रिते| रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः| अल्पं वङ्क्षणयोः स्वल्पं दृङ्मुष्कहृदये न वा| पद्मोत्पलादिभिः सक्तुपिण्ड्या वाऽऽच्छाद्य चक्षुषी| शीतैर्मुक्तावलीपद्मकुमुदोत्पलभाजनैः| मुहुः करैश्च तोयार्द्रैः स्विद्यतो हृदयं स्पृशेत्||१७||
🔊 Audio coming soon
Adhikarana samyaksvinnalakShaNaM tatra kRutya~jca (18) · Śloka 18
शीतशूलक्षये स्विन्नो जातेऽङ्गानां च मार्दवे| स्याच्छनैर्मृदितः स्नातस्ततः स्नेहविधिं भजेत्||१८||
🔊 Audio coming soon
Adhikarana svedAtiyogalakShaNantatropacArashca (19) · Śloka 19
पित्तास्रकोपतृण्मूर्च्छास्वराङ्गसदनभ्रमाः| सन्धिपीडाज्वरः श्यावरक्तमण्डलदर्शनम्| स्वेदातियोगाच्छर्दिश्च तत्र स्तम्भनमौषधम्| विषक्षाराग्न्यतीसारच्छर्दिमोहातुरेषु च||१९||
🔊 Audio coming soon
Adhikarana svedana-stamBana-sAmAnyalakShaNam (20) · Śloka 20
स्वेदनं गुरु तीक्ष्णोष्णं प्रायः स्तम्भनमन्यथा| द्रवस्थिरसरस्निग्धरूक्षसूक्ष्मं च भेषजम्| स्वेदनं स्तम्भनं श्लक्ष्णरूक्षसूक्ष्मसरद्रवम्| प्रायस्तिक्तं कषायं च मधुरं च समासतः||२०||
🔊 Audio coming soon
Adhikarana samyakstamBitAtistamBitalakShaNAni (21) · Śloka 21
स्तम्भितः स्याद्बले लब्धे यथोक्तामयसङ्क्षयात्| स्तम्भत्वक्स्नायुसङ्कोचकम्पहृद्वाग्धनुग्रहैः| पादौष्ठत्वक्करैः श्यावैरतिस्तम्भितमादिशेत्||२१||
🔊 Audio coming soon
Adhikarana asvedyAsteShAmevAtyayike mRudusvedavidhishca (22) · Śloka 22
न स्वेदयेदतिस्थूलरूक्षदुर्बलमूर्च्छितान्| स्तम्भनीयक्षतक्षीणक्षाममद्यविकारिणः| तिमिरोदरवीसर्पकुष्ठशोषाढ्यरोगिणः| पीतदुग्धदधिस्नेहमधून् कृतविरेचनान्| भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान्| क्षुत्तृष्णाकामलापाण्डुमेहिनः पित्तपीडितन्| गर्भिणी पुष्पितां सूतां मृदु वात्ययिके गदे||२२||
🔊 Audio coming soon
Adhikarana svedyaH (23) · Śloka 23
श्वासकासप्रतिश्यायहिध्माध्मानविबन्धिषु| स्वरभेदानिलव्याधिपक्षाग़ातापतानके| अ~ह्ग्गमर्दकटीपाऱ्श्वपृष्ठकुक्षिहनुग्रहे| महत्त्वे मुष्कयोः ख़ल्यामायामे वातकण्टके| मूत्रकृच्छ्रार्बुदग्रन्थिशुक्राग़ाताढ्यमारुते| वेपथुश्वयथुस्वापस्तम्भजृम्भाङ्गगौरवे| कर्णमन्याशिरः कोष्ठजङ्ग़ापादोरुरुक्षु च| स्वेदं यथायथां कुर्यात्तदौषधविभागतः||२३||
🔊 Audio coming soon
Adhikarana svedanottaravidhiH (24) · Śloka 24
स्विन्नोऽन्नं पथ्यमश्नीयाद् दोषरोगानुरोधतः| तदहः स्विन्नसर्वाङ्गो व्यायामं सुतरां त्यजेत्||२४||
🔊 Audio coming soon
Adhikarana samyaksvinnalakShaNaM (25) · Śloka 25
अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्तश्रद्धां स्रोतसां निर्मलत्वम्| कुर्यात् स्वेदो जाड्यतन्द्रापहारं स्तब्धान् सन्धींश्चेष्टयत्याशु चास्य||२५||
🔊 Audio coming soon
Adhikarana snehottarasvedasya Palam (26-27) · Śloka 27
स्नेहक्लिन्नाः कोष्ठगा धातुगा वा| स्रोतोलीना ये च शाख़ास्थिसांस्थाः| दोषाः स्वेदैस्ते द्रव्Zइकृत्य कोष्ठं नीताः सम्यक् शुद्धिभिर्निर्ह्नियन्ते||२६|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने स्वेदविधिर्नाम षड्विंशोऽध्यायः||२७||
🔊 Audio coming soon